बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

118 विश्वासस्य विषये बाइबिलस्य श्लोकाः

प्राणाः! श्रद्धा इति दानम् अस्ति, कालस्य न दृश्यस्य वा आधारा न, अपि तु ईश्वरवाक्यविश्वासस्य। रोमकपत्रे १०.१७ उक्तम्, "श्रवणात् श्रद्धा जायते, श्रवणं च ईश्वरवाक्यात्।" तस्मात् श्रद्धाप्राप्तेः श्रेष्ठतमः उपायः ईश्वरवाक्यश्रवणम् एव।

केवलं बाह्यकर्णैः न श्रवणीयम्, अपि तु अन्तःकरणेन अपि, पवित्रात्मायाः स्वान्तःस्फूर्तिरूपेण वाण्याः प्रति सचेत भव। जगत् सर्वदा नकारात्मकानि वचनानि उद्घोष्यति, अशक्यानि दृश्यानि दर्शयित्वा त्वां निरुत्साहं कर्तुं प्रयतते। किन्तु ईश्वरवाक्येन्द्रियाणि स्थिरीकृत्य मनः चेतश्च दृढं भवति।

धर्मग्रन्थं पठ इति मे परामर्शः। तस्मिन् ग्रन्थे लिखितमेव तव स्थिरतायाः साहाय्यं करोति यदा नेत्राणि अपेक्षितं न पश्यन्ति, तथापि हृदयं तस्य घटनायां विश्वसिति। ईश्वरेण तव हृदये श्रद्धायाः अंशः स्थापितः। प्रतिदिनं प्रयत्नं कुरु यथा सा न क्षीयते, अपि तु प्रतिप्रभातं वर्धते।

एवं विपरीतवायुवेगेऽपि न नंक्ष्यसि, अपि तु स्वस्य ईश्वरस्य चमत्काराः वर्णयितुं जीवसि। उत्साहं कुरु, अन्तरङ्गे दृढः भव। यदि ईश्वरेण उक्तं तर्हि स एव तत् साधयिष्यति।


रोमियों 10:17

अतएव श्रवणाद् विश्वास ऐश्वरवाक्यप्रचारात् श्रवणञ्च भवति।

गलातियों 2:20

ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।

इफिसियों 2:8-9

यूयम् अनुग्रहाद् विश्वासेन परित्राणं प्राप्ताः, तच्च युष्मन्मूलकं नहि किन्त्वीश्वरस्यैव दानं,

तत् कर्म्मणां फलम् अपि नहि, अतः केनापि न श्लाघितव्यं।

इब्रानियों 11:6

किन्तु विश्वासं विना कोऽपीश्वराय रोचितुं न शक्नोति यत ईश्वरोऽस्ति स्वान्वेषिलोकेभ्यः पुरस्कारं ददाति चेतिकथायाम् ईश्वरशरणागतै र्विश्वसितव्यं।

मत्ती 9:2

ततः कतिपया जना एकं पक्षाघातिनं स्वट्टोपरि शाययित्वा तत्समीपम् आनयन्; ततो यीशुस्तेषां प्रतीतिं विज्ञाय तं पक्षाघातिनं जगाद, हे पुत्र, सुस्थिरो भव, तव कलुषस्य मर्षणं जातम्।

फिलिप्पियों 4:13

मम शक्तिदायकेन ख्रीष्टेन सर्व्वमेव मया शक्यं भवति।

मत्ती 15:28

ततो यीशुः प्रत्यवदत्, हे योषित्, तव विश्वासो महान् तस्मात् तव मनोभिलषितं सिद्य्यतु, तेन तस्याः कन्या तस्मिन्नेव दण्डे निरामयाभवत्।

मत्ती 9:23

अपरं यीशुस्तस्याध्यक्षस्य गेहं गत्वा वादकप्रभृतीन् बहून् लोकान् शब्दायमानान् विलोक्य तान् अवदत्,

1 पतरस 1:8-9

यूयं तं ख्रीष्टम् अदृष्ट्वापि तस्मिन् प्रीयध्वे साम्प्रतं तं न पश्यन्तोऽपि तस्मिन् विश्वसन्तो ऽनिर्व्वचनीयेन प्रभावयुक्तेन चानन्देन प्रफुल्ला भवथ,

स्वविश्वासस्य परिणामरूपम् आत्मनां परित्राणं लभध्वे च।

याकूब 1:3-4

यतो युष्माकं विश्वासस्य परीक्षितत्वेन धैर्य्यं सम्पाद्यत इति जानीथ।

तच्च धैर्य्यं सिद्धफलं भवतु तेन यूयं सिद्धाः सम्पूर्णाश्च भविष्यथ कस्यापि गुणस्याभावश्च युष्माकं न भविष्यति।

याकूब 2:17

तद्वत् प्रत्ययो यदि कर्म्मभि र्युक्तो न भवेत् तर्ह्येकाकित्वात् मृत एवास्ते।

याकूब 2:18

किञ्च कश्चिद् इदं वदिष्यति तव प्रत्ययो विद्यते मम च कर्म्माणि विद्यन्ते, त्वं कर्म्महीनं स्वप्रत्ययं मां दर्शय तर्ह्यहमपि मत्कर्म्मभ्यः स्वप्रत्ययं त्वां दर्शयिष्यामि।

याकूब 5:15

तस्माद् विश्वासजातप्रार्थनया स रोगी रक्षां यास्यति प्रभुश्च तम् उत्थापयिष्यति यदि च कृतपापो भवेत् तर्हि स तं क्षमिष्यते।

1 कुरिन्थियों 16:13

यूयं जागृत विश्वासे सुस्थिरा भवत पौरुषं प्रकाशयत बलवन्तो भवत।

1 पतरस 1:7

यतो वह्निना यस्य परीक्षा भवति तस्मात् नश्वरसुवर्णादपि बहुमूल्यं युष्माकं विश्वासरूपं यत् परीक्षितं स्वर्णं तेन यीशुख्रीष्टस्यागमनसमये प्रशंसायाः समादरस्य गौरवस्य च योग्यता प्राप्तव्या।

1 पतरस 1:21

यतस्तेनैव मृतगणात् तस्योत्थापयितरि तस्मै गौरवदातरि चेश्वरे विश्वसिथ तस्माद् ईश्वरे युष्माकं विश्वासः प्रत्याशा चास्ते।

योहन 20:29

यीशुरकथयत्, हे थोमा मां निरीक्ष्य विश्वसिषि ये न दृष्ट्वा विश्वसन्ति तएव धन्याः।

इब्रानियों 10:23

यतो यस्ताम् अङ्गीकृतवान् स विश्वसनीयः।

मत्ती 21:22

तथा विश्वस्य प्रार्थ्य युष्माभि र्यद् याचिष्यते, तदेव प्राप्स्यते।

योहन 14:13-14

यथा पुत्रेण पितु र्महिमा प्रकाशते तदर्थं मम नाम प्रोच्य यत् प्रार्थयिष्यध्वे तत् सफलं करिष्यामि।

यदि मम नाम्ना यत् किञ्चिद् याचध्वे तर्हि तदहं साधयिष्यामि।

कुलुस्सियों 2:6-7

अतो यूयं प्रभुं यीशुख्रीष्टं यादृग् गृहीतवन्तस्तादृक् तम् अनुचरत।

तस्मिन् बद्धमूलाः स्थापिताश्च भवत या च शिक्षा युष्माभि र्लब्धा तदनुसाराद् विश्वासे सुस्थिराः सन्तस्तेनैव नित्यं धन्यवादं कुरुत।

मार्क 11:24

अतो हेतोरहं युष्मान् वच्मि, प्रार्थनाकाले यद्यदाकांक्षिष्यध्वे तत्तदवश्यं प्राप्स्यथ, इत्थं विश्वसित, ततः प्राप्स्यथ।

1 योहन 5:4

यतो यः कश्चिद् ईश्वरात् जातः स संसारं जयति किञ्चास्माकं यो विश्वासः स एवास्माकं संसारजयिजयः।

गलातियों 5:22-23

किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा

परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।

मत्ती 21:21

ततो यीशुस्तानुवाच, युष्मानहं सत्यं वदामि, यदि यूयमसन्दिग्धाः प्रतीथ, तर्हि यूयमपि केवलोडुम्वरपादपं प्रतीत्थं कर्त्तुं शक्ष्यथ, तन्न, त्वं चलित्वा सागरे पतेति वाक्यं युष्माभिरस्मिन शैले प्रोक्तेपि तदैव तद् घटिष्यते।

रोमियों 12:3

कश्चिदपि जनो योग्यत्वादधिकं स्वं न मन्यतां किन्तु ईश्वरो यस्मै प्रत्ययस्य यत्परिमाणम् अददात् स तदनुसारतो योग्यरूपं स्वं मनुताम्, ईश्वराद् अनुग्रहं प्राप्तः सन् युष्माकम् एकैकं जनम् इत्याज्ञापयामि।

इब्रानियों 11:16

किन्तु ते सर्व्वोत्कृष्टम् अर्थतः स्वर्गीयं देशम् आकाङ्क्षन्ति तस्माद् ईश्वरस्तानधि न लज्जमानस्तेषाम् ईश्वर इति नाम गृहीतवान् यतः स तेषां कृते नगरमेकं संस्थापितवान्।

1 तीमुथियुस 6:12

विश्वासरूपम् उत्तमयुद्धं कुरु, अनन्तजीवनम् आलम्बस्व यतस्तदर्थं त्वम् आहूतो ऽभवः, बहुसाक्षिणां समक्षञ्चोत्तमां प्रतिज्ञां स्वीकृतवान्।

2 कुरिन्थियों 5:7

यतो वयं दृष्टिमार्गे न चरामः किन्तु विश्वासमार्गे।

योहन 11:40

तदा यीशुरवादीत्, यदि विश्वसिषि तर्हीश्वरस्य महिमप्रकाशं द्रक्ष्यसि कथामिमां किं तुभ्यं नाकथयं?

मत्ती 9:29

तदानीं स तयो र्लोचनानि स्पृशन् बभाषे, युवयोः प्रतीत्यनुसाराद् युवयो र्मङ्गलं भूयात्। तेन तत्क्षणात् तयो र्नेत्राणि प्रसन्नान्यभवन्,

2 तीमुथियु 4:7-8

अहम् उत्तमयुद्धं कृतवान् गन्तव्यमार्गस्यान्तं यावद् धावितवान् विश्वासञ्च रक्षितवान्।

शेषं पुण्यमुकुटं मदर्थं रक्षितं विद्यते तच्च तस्मिन् महादिने यथार्थविचारकेण प्रभुना मह्यं दायिष्यते केवलं मह्यम् इति नहि किन्तु यावन्तो लोकास्तस्यागमनम् आकाङ्क्षन्ते तेभ्यः सर्व्वेभ्यो ऽपि दायिष्यते।

रोमियों 14:23

किन्तु यः कश्चित् संशय्य भुङ्क्तेऽर्थात् न प्रतीत्य भुङ्क्ते, स एवावश्यं दण्डार्हो भविष्यति, यतो यत् प्रत्ययजं नहि तदेव पापमयं भवति।

योहन 11:25-26

तदा यीशुः कथितवान् अहमेव उत्थापयिता जीवयिता च यः कश्चन मयि विश्वसिति स मृत्वापि जीविष्यति;

यः कश्चन च जीवन् मयि विश्वसिति स कदापि न मरिष्यति, अस्यां कथायां किं विश्वसिषि?

2 तीमुथियु 1:7

यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।

इब्रानियों 3:12-14

हे भ्रातरः सावधाना भवत, अमरेश्वरात् निवर्त्तको योऽविश्वासस्तद्युक्तं दुष्टान्तःकरणं युष्माकं कस्यापि न भवतु।

किन्तु यावद् अद्यनामा समयो विद्यते तावद् युष्मन्मध्ये कोऽपि पापस्य वञ्चनया यत् कठोरीकृतो न भवेत् तदर्थं प्रतिदिनं परस्परम् उपदिशत।

यतो वयं ख्रीष्टस्यांशिनो जाताः किन्तु प्रथमविश्वासस्य दृढत्वम् अस्माभिः शेषं यावद् अमोघं धारयितव्यं।

1 पतरस 5:9

अतो विश्वासे सुस्थिरास्तिष्ठन्तस्तेन सार्द्धं युध्यत, युष्माकं जगन्निवासिभ्रातृष्वपि तादृशाः क्लेशा वर्त्तन्त इति जानीत।

रोमियों 8:31-32

इत्यत्र वयं किं ब्रूमः? ईश्वरो यद्यस्माकं सपक्षो भवति तर्हि को विपक्षोऽस्माकं?

आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?

मत्ती 11:28-30

हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि।

अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।

एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्।

यतो मम युगम् अनायासं मम भारश्च लघुः।

2 कुरिन्थियों 1:24

वयं युष्माकं विश्वासस्य नियन्तारो न भवामः किन्तु युष्माकम् आनन्दस्य सहाया भवामः, यस्माद् विश्वासे युष्माकं स्थिति र्भवति।

गलातियों 3:11

ईश्वरस्य साक्षात् कोऽपि व्यवस्थया सपुण्यो न भवति तद व्यक्तं यतः "पुण्यवान् मानवो विश्वासेन जीविष्यतीति" शास्त्रीयं वचः।

फिलिप्पियों 1:6

युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।

इफिसियों 6:16

येन च दुष्टात्मनोऽग्निबाणान् सर्व्वान् निर्व्वापयितुं शक्ष्यथ तादृशं सर्व्वाच्छादकं फलकं विश्वासं धारयत।

इब्रानियों 11:39-40

एतैः सर्व्वै र्विश्वासात् प्रमाणं प्रापि किन्तु प्रतिज्ञायाः फलं न प्रापि।

विश्वासेन हाबिल् ईश्वरमुद्दिश्य काबिलः श्रेष्ठं बलिदानं कृतवान् तस्माच्चेश्वरेण तस्य दानान्यधि प्रमाणे दत्ते स धार्म्मिक इत्यस्य प्रमाणं लब्धवान् तेन विश्वासेन च स मृतः सन् अद्यापि भाषते।

यतस्ते यथास्मान् विना सिद्धा न भवेयुस्तथैवेश्वरेणास्माकं कृते श्रेष्ठतरं किमपि निर्दिदिशे।

रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

योहन 14:1

मनोदुःखिनो मा भूत; ईश्वरे विश्वसित मयि च विश्वसित।

इब्रानियों 4:2

यतो ऽस्माकं समीपे यद्वत् तद्वत् तेषां समीपेऽपि सुसंवादः प्रचारितो ऽभवत् किन्तु तैः श्रुतं वाक्यं तान् प्रति निष्फलम् अभवत्, यतस्ते श्रोतारो विश्वासेन सार्द्धं तन्नामिश्रयन्।

1 कुरिन्थियों 2:5

तदर्थं मम वक्तृता मदीयप्रचारश्च मानुषिकज्ञानस्य मधुरवाक्यसम्बलितौ नास्तां किन्त्वात्मनः शक्तेश्च प्रमाणयुक्तावास्तां।

1 थिस्सलुनीकियों 5:24

यो युष्मान् आह्वयति स विश्वसनीयोऽतः स तत् साधयिष्यति।

2 कुरिन्थियों 5:1

अपरम् अस्माकम् एतस्मिन् पार्थिवे दूष्यरूपे वेश्मनि जीर्णे सतीश्वरेण निर्म्मितम् अकरकृतम् अस्माकम् अनन्तकालस्थायि वेश्मैकं स्वर्गे विद्यत इति वयं जानीमः।

कुलुस्सियों 1:23

किन्त्वेतदर्थं युष्माभि र्बद्धमूलैः सुस्थिरैश्च भवितव्यम्, आकाशमण्डलस्याधःस्थितानां सर्व्वलोकानां मध्ये च घुष्यमाणो यः सुसंवादो युष्माभिरश्रावि तज्जातायां प्रत्याशायां युष्माभिरचलै र्भवितव्यं।

मत्ती 8:10

तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः।

रोमियों 4:20-21

अपरम् अविश्वासाद् ईश्वरस्य प्रतिज्ञावचने कमपि संशयं न चकार;

किन्त्वीश्वरेण यत् प्रतिश्रुतं तत् साधयितुं शक्यत इति निश्चितं विज्ञाय दृढविश्वासः सन् ईश्वरस्य महिमानं प्रकाशयाञ्चकार।

1 योहन 3:22

यच्च प्रार्थयामहे तत् तस्मात् प्राप्नुमः, यतो वयं तस्याज्ञाः पालयामस्तस्य साक्षात् तुष्टिजनकम् आचारं कुर्म्मश्च।

इब्रानियों 6:19

सा प्रत्याशास्माकं मनोनौकाया अचलो लङ्गरो भूत्वा विच्छेदकवस्त्रस्याभ्यन्तरं प्रविष्टा।

गलातियों 5:6

ख्रीष्टे यीशौ त्वक्छेदात्वक्छेदयोः किमपि गुणं नास्ति किन्तु प्रेम्ना सफलो विश्वास एव गुणयुक्तः।

रोमियों 4:16

अतएव सा प्रतिज्ञा यद् अनुग्रहस्य फलं भवेत् तदर्थं विश्वासमूलिका यतस्तथात्वे तद्वंशसमुदायं प्रति अर्थतो ये व्यवस्थया तद्वंशसम्भवाः केवलं तान् प्रति नहि किन्तु य इब्राहीमीयविश्वासेन तत्सम्भवास्तानपि प्रति सा प्रतिज्ञा स्थास्नुर्भवति।

फिलिप्पियों 4:6-7

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।

तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

1 पतरस 1:5

यूयञ्चेश्वरस्य शक्तितः शेषकाले प्रकाश्यपरित्राणार्थं विश्वासेन रक्ष्यध्वे।

रोमियों 8:37

अपरं योऽस्मासु प्रीयते तेनैतासु विपत्सु वयं सम्यग् विजयामहे।

इब्रानियों 10:38

"पुण्यवान् जनो विश्वासेन जीविष्यति किन्तु यदि निवर्त्तते तर्हि मम मनस्तस्मिन् न तोषं यास्यति।"

मत्ती 9:22

ततो यीशुर्वदनं परावर्त्त्य तां जगाद, हे कन्ये, त्वं सुस्थिरा भव, तव विश्वासस्त्वां स्वस्थामकार्षीत्। एतद्वाक्ये गदितएव सा योषित् स्वस्थाभूत्।

1 योहन 5:14-15

तस्यान्तिके ऽस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो ऽस्माकं वाक्यं शृणोति।

स चास्माकं यत् किञ्चन याचनं शृणोतीति यदि जानीमस्तर्हि तस्माद् याचिता वरा अस्माभिः प्राप्यन्ते तदपि जानीमः।

रोमियों 10:9

वस्तुतः प्रभुं यीशुं यदि वदनेन स्वीकरोषि, तथेश्वरस्तं श्मशानाद् उदस्थापयद् इति यद्यन्तःकरणेन विश्वसिषि तर्हि परित्राणं लप्स्यसे।

गलातियों 6:9

सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।

फिलिप्पियों 3:9

यतो हेतोरहं यत् ख्रीष्टं लभेय व्यवस्थातो जातं स्वकीयपुण्यञ्च न धारयन् किन्तु ख्रीष्टे विश्वसनात् लभ्यं यत् पुण्यम् ईश्वरेण विश्वासं दृष्ट्वा दीयते तदेव धारयन् यत् ख्रीष्टे विद्येय तदर्थं तस्यानुरोधात् सर्व्वेषां क्षतिं स्वीकृत्य तानि सर्व्वाण्यवकरानिव मन्ये।

1 पतरस 2:9

किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।

इब्रानियों 11:1-2

विश्वास आशंसितानां निश्चयः, अदृश्यानां विषयाणां दर्शनं भवति।

यस्मात् स ईश्वरेण निर्म्मितं स्थापितञ्च भित्तिमूलयुक्तं नगरं प्रत्यैक्षत।

अपरञ्च विश्वासेन सारा वयोतिक्रान्ता सन्त्यपि गर्भधारणाय शक्तिं प्राप्य पुत्रवत्यभवत्, यतः सा प्रतिज्ञाकारिणं विश्वास्यम् अमन्यत।

ततो हेतो र्मृतकल्पाद् एकस्मात् जनाद् आकाशीयनक्षत्राणीव गणनातीताः समुद्रतीरस्थसिकता इव चासंख्या लोका उत्पेदिरे।

एते सर्व्वे प्रतिज्ञायाः फलान्यप्राप्य केवलं दूरात् तानि निरीक्ष्य वन्दित्वा च, पृथिव्यां वयं विदेशिनः प्रवासिनश्चास्मह इति स्वीकृत्य विश्वासेन प्राणान् तत्यजुः।

ये तु जना इत्थं कथयन्ति तैः पैतृकदेशो ऽस्माभिरन्विष्यत इति प्रकाश्यते।

ते यस्माद् देशात् निर्गतास्तं यद्यस्मरिष्यन् तर्हि परावर्त्तनाय समयम् अलप्स्यन्त।

किन्तु ते सर्व्वोत्कृष्टम् अर्थतः स्वर्गीयं देशम् आकाङ्क्षन्ति तस्माद् ईश्वरस्तानधि न लज्जमानस्तेषाम् ईश्वर इति नाम गृहीतवान् यतः स तेषां कृते नगरमेकं संस्थापितवान्।

अपरम् इब्राहीमः परीक्षायां जातायां स विश्वासेनेस्हाकम् उत्ससर्ज,

वस्तुत इस्हाकि तव वंशो विख्यास्यत इति वाग् यमधि कथिता तम् अद्वितीयं पुत्रं प्रतिज्ञाप्राप्तः स उत्ससर्ज।

यत ईश्वरो मृतानप्युत्थापयितुं शक्नोतीति स मेने तस्मात् स उपमारूपं तं लेभे।

तेन विश्वासेन प्राञ्चो लोकाः प्रामाण्यं प्राप्तवन्तः।

2 पतरस 1:5-7

ततो हेतो र्यूयं सम्पूर्णं यत्नं विधाय विश्वासे सौजन्यं सौजन्ये ज्ञानं

ज्ञान आयतेन्द्रियताम् आयतेन्द्रियतायां धैर्य्यं धैर्य्य ईश्वरभक्तिम्

ईश्वरभक्तौ भ्रातृस्नेहे च प्रेम युङ्क्त।

मत्ती 17:19-20

ततः शिष्या गुप्तं यीशुमुपागत्य बभाषिरे, कुतो वयं तं भूतं त्याजयितुं न शक्ताः?

तेन तदास्यं तेजस्वि, तदाभरणम् आलोकवत् पाण्डरमभवत्।

यीशुना ते प्रोक्ताः, युष्माकमप्रत्ययात्;

रोमियों 8:28

अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।

इब्रानियों 10:19-22

अतो हे भ्रातरः, यीशो रुधिरेण पवित्रस्थानप्रवेशायास्माकम् उत्साहो भवति,

यद्यशक्ष्यत् तर्हि तेषां बलीनां दानं किं न न्यवर्त्तिष्यत? यतः सेवाकारिष्वेककृत्वः पवित्रीभूतेषु तेषां कोऽपि पापबोधः पुन र्नाभविष्यत्।

यतः सोऽस्मदर्थं तिरस्करिण्यार्थतः स्वशरीरेण नवीनं जीवनयुक्तञ्चैकं पन्थानं निर्म्मितवान्,

अपरञ्चेश्वरीयपरिवारस्याध्यक्ष एको महायाजकोऽस्माकमस्ति।

अतो हेतोरस्माभिः सरलान्तःकरणै र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज्ञा निश्चला धारयितव्या।

1 तीमुथियुस 4:1

पवित्र आत्मा स्पष्टम् इदं वाक्यं वदति चरमकाले कतिपयलोका वह्निनाङ्कितत्वात्

रोमियों 12:12

अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।

1 योहन 5:1

यीशुरभिषिक्तस्त्रातेति यः कश्चिद् विश्वासिति स ईश्वरात् जातः; अपरं यः कश्चित् जनयितरि प्रीयते स तस्मात् जाते जने ऽपि प्रीयते।

मत्ती 11:6

यस्याहं न विघ्नीभवामि, सएव धन्यः।

इब्रानियों 13:5-6

यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"

अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"

मत्ती 17:20

यीशुना ते प्रोक्ताः, युष्माकमप्रत्ययात्;

रोमियों 1:17

यतः प्रत्ययस्य समपरिमाणम् ईश्वरदत्तं पुण्यं तत्सुसंवादे प्रकाशते। तदधि धर्म्मपुस्तकेपि लिखितमिदं "पुण्यवान् जनो विश्वासेन जीविष्यति"।

रोमियों 5:1-2

विश्वासेन सपुण्यीकृता वयम् ईश्वरेण सार्द्धं प्रभुणास्माकं यीशुख्रीष्टेन मेलनं प्राप्ताः।

फलतो वयं यदा रिपव आस्म तदेश्वरस्य पुत्रस्य मरणेन तेन सार्द्धं यद्यस्माकं मेलनं जातं तर्हि मेलनप्राप्ताः सन्तोऽवश्यं तस्य जीवनेन रक्षां लप्स्यामहे।

तत् केवलं नहि किन्तु येन मेलनम् अलभामहि तेनास्माकं प्रभुणा यीशुख्रीष्टेन साम्प्रतम् ईश्वरे समानन्दामश्च।

तथा सति, एकेन मानुषेण पापं पापेन च मरणं जगतीं प्राविशत् अपरं सर्व्वेषां पापित्वात् सर्व्वे मानुषा मृते र्निघ्ना अभवत्।

यतो व्यवस्थादानसमयं यावत् जगति पापम् आसीत् किन्तु यत्र व्यवस्था न विद्यते तत्र पापस्यापि गणना न विद्यते।

तथाप्यादमा यादृशं पापं कृतं तादृशं पापं यै र्नाकारि आदमम् आरभ्य मूसां यावत् तेषामप्युपरि मृत्यू राजत्वम् अकरोत् स आदम् भाव्यादमो निदर्शनमेवास्ते।

किन्तु पापकर्म्मणो यादृशो भावस्तादृग् दानकर्म्मणो भावो न भवति यत एकस्य जनस्यापराधेन यदि बहूनां मरणम् अघटत तथापीश्वरानुग्रहस्तदनुग्रहमूलकं दानञ्चैकेन जनेनार्थाद् यीशुना ख्रीष्टेन बहुषु बाहुल्यातिबाहुल्येन फलति।

अपरम् एकस्य जनस्य पापकर्म्म यादृक् फलयुक्तं दानकर्म्म तादृक् न भवति यतो विचारकर्म्मैकं पापम् आरभ्य दण्डजनकं बभूव, किन्तु दानकर्म्म बहुपापान्यारभ्य पुण्यजनकं बभूव।

यत एकस्य जनस्य पापकर्म्मतस्तेनैकेन यदि मरणस्य राजत्वं जातं तर्हि ये जना अनुग्रहस्य बाहुल्यं पुण्यदानञ्च प्राप्नुवन्ति त एकेन जनेन, अर्थात् यीशुख्रीष्टेन, जीवने राजत्वम् अवश्यं करिष्यन्ति।

एकोऽपराधो यद्वत् सर्व्वमानवानां दण्डगामी मार्गो ऽभवत् तद्वद् एकं पुण्यदानं सर्व्वमानवानां जीवनयुक्तपुण्यगामी मार्ग एव।

अपरम् एकस्य जनस्याज्ञालङ्घनाद् यथा बहवो ऽपराधिनो जातास्तद्वद् एकस्याज्ञाचरणाद् बहवः सपुण्यीकृता भवन्ति।

अपरं वयं यस्मिन् अनुग्रहाश्रये तिष्ठामस्तन्मध्यं विश्वासमार्गेण तेनैवानीता वयम् ईश्वरीयविभवप्राप्तिप्रत्याशया समानन्दामः।

गलातियों 2:16

किन्तु व्यवस्थापालनेन मनुष्यः सपुण्यो न भवति केवलं यीशौ ख्रीष्टे यो विश्वासस्तेनैव सपुण्यो भवतीति बुद्ध्वावामपि व्यवस्थापालनं विना केवलं ख्रीष्टे विश्वासेन पुण्यप्राप्तये ख्रीष्टे यीशौ व्यश्वसिव यतो व्यवस्थापालनेन कोऽपि मानवः पुण्यं प्राप्तुं न शक्नोति।

इफिसियों 2:8

यूयम् अनुग्रहाद् विश्वासेन परित्राणं प्राप्ताः, तच्च युष्मन्मूलकं नहि किन्त्वीश्वरस्यैव दानं,

इब्रानियों 11:1

विश्वास आशंसितानां निश्चयः, अदृश्यानां विषयाणां दर्शनं भवति।

1 पतरस 1:6-7

तस्माद् यूयं यद्यप्यानन्देन प्रफुल्ला भवथ तथापि साम्प्रतं प्रयोजनहेतोः कियत्कालपर्य्यन्तं नानाविधपरीक्षाभिः क्लिश्यध्वे।

यतो वह्निना यस्य परीक्षा भवति तस्मात् नश्वरसुवर्णादपि बहुमूल्यं युष्माकं विश्वासरूपं यत् परीक्षितं स्वर्णं तेन यीशुख्रीष्टस्यागमनसमये प्रशंसायाः समादरस्य गौरवस्य च योग्यता प्राप्तव्या।

ईश्वरस्य प्रार्थना

हे परमेश्वर, मम उद्धारक, तुभ्यं सर्वं यशः, सर्वं गौरवं च! अद्य अहं भगवतः पुत्रस्य येशोः माध्यमेन भवतः समीपम् आगच्छामि। भवते कृतज्ञतां ज्ञापयामि यतः भवान् मह्यं नवजीवनं दत्तवान्। भवान् मम मनः नवीकरोति, हृदयं च विशोधयति। प्रतिदिनं भवान् मयि श्रद्धायाः ज्वालां प्रज्वलयति। यदा अहं पथभ्रष्टः, निराश्रयः चासीं, तदा भवति एव मार्गं सत्यं जीवनं च प्राप्नोमि। हे प्रभो, कृपया मा कर्तुं यावत् संशयाः, चिन्ताः, व्याकुलाः च मम श्रद्धां न्यूनीकुर्वन्ति। हे पवित्रात्मन्, कृपया मह्यं धैर्यं ददातु येन अहं भवतः दिव्यसमये भवतः आशीर्वादान् प्रतीक्षमाणः विनम्रतया, सौम्यतया च तिष्ठामि। भवतः वचनम् अस्ति - "श्रद्धा अस्य दृश्यरूपम् अस्ति यत् आशास्महे, प्रमाणं च अस्ति यत् न पश्यामः"। हे परमेश्वर, मह्यं प्रज्ञां ददातु येन अहं ज्ञातुं शक्नोमि यत् मम जीवने यानि घटनानि भवन्ति, तानि मम कल्याणाय एव। कृपया मा कर्तुं यावत् अहं विस्मरामि यत् भवान् सर्वस्य नियन्ता। अहं स्वीकरोमि यत् अहं श्रद्धायां दुर्बलः आसम्, संशयाक्रान्तः च। भवतः विषये अपि अहं शोकं कृतवान्, वचनैः विना अपि। अस्मिन् दुःखमये समये अहं भवतः कृपां, प्रेमं च याचामि। भवतः अनुग्रहः मह्यम् आवश्यकः अस्ति येन अहं भवतः इच्छानुसारं प्रगतिं कर्तुं शक्नोमि। मम पादौ मृगस्य पादौ इव कुरु येन अहं दुर्गमेषु स्थानेषु चातुर्येण गन्तुं शक्नोमि। कृपया मा कर्तुं यावत् अहं भवतः प्राक् कस्यापि वस्तुनः, कस्यापि जनस्य च अर्चनं करोमि। येशोः नाम्नि। आमीन्।