ईश्वरस्य सान्निध्ये स्थित्वा तस्य दिव्येन तेजसा आवृतः भवितुम् अनुपमः आनन्दः। अन्येन केनापि सुखेन तुलनीयः न एषः। तेन परिपूर्णः भवितुम् इत्युक्ते तस्य सान्निध्ये क्षणमात्रम् अपि पर्याप्तं यत् त्वं रूपान्तरितः भवेः, पूर्ववत् न तिष्ठेः।
ईश्वरस्य तेजः त्वां परिवर्तयति, पुनर्जीवयति, आरोग्यं ददाति, मोचयति, पवित्रात्मना सह गहनं सम्बन्धं स्थापयति। अतः प्रतिदिनं सर्वात्मना, मनसा, हृदयेन तस्य तेजसा परिपूर्णः भवितुम् आकांक्ष। एवं ज्ञात्वा यत् ईश्वरः एव तव सर्वाधिकं महत्त्वपूर्णं धनम्, स एव तव परमा आवश्यकता।
ईश्वरस्य तेजसा साक्षात्कारः इत्युक्ते तव पापानां प्रदर्शनं, पाखण्डस्य उद्घाटनं च भविष्यति। यथा असि तथा तस्य सम्मुखे उपस्थितः भविष्यसि। किन्तु जानीहि, एतत् तेजः त्वां न नाशयिष्यति, न च दण्डयिष्यति। अपि तु विकृतं, असत्यं यत् ते अस्ति तत् दूरीकरिष्यति, सत्यं पश्चात्तापं जनयिष्यति येन पितुः हृदयानुकूलः भूत्वा ख्रीष्टस्य योग्यः भविष्यसि।
स्मर, एतत् तेजः एव त्वां प्रेरयिष्यति। स्वशक्त्या कार्यं कर्तुम्, आत्मप्रचारं कर्तुम् आवश्यकता नास्ति। येशुः त्वां अकल्पितेषु अपि क्षेत्रेषु नेष्यति यतः स तव अन्तः स्वचरित्रं निर्माति, तस्य रहस्यानि प्रकाशयितुं विश्वासं करोति, मानवानां सम्मुखे स्थापयति।
ईश्वरस्य तेजसा एव सर्वाणि कार्याणि सिद्ध्यन्ति येन तव हृदये गर्वः न भवेत्। केवलं येशुं ज्ञात्वा, स्वर्गे तव विषये शुभं श्रुत्वा एव गर्वः कर्तव्यः। द्वितीयकुरिन्थीयानां ३:१८ इति वदति "अतः वयं सर्वे अनाच्छादितमुखेन प्रभोः तेजः दर्पणे इव प्रतिबिम्बितं पश्यामः, तेनैव आत्मना रूपान्तरिताः भवामः तेजसः अधिकाधिकं प्रभावं प्राप्नुमः, यः आत्मा अस्ति।"
फलतस्तस्यानन्तशक्तीश्वरत्वादीन्यदृश्यान्यपि सृष्टिकालम् आरभ्य कर्म्मसु प्रकाशमानानि दृश्यन्ते तस्मात् तेषां दोषप्रक्षालनस्य पन्था नास्ति।
येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।
तदा यीशुरवादीत्, यदि विश्वसिषि तर्हीश्वरस्य महिमप्रकाशं द्रक्ष्यसि कथामिमां किं तुभ्यं नाकथयं?
स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।
हे पित र्जगतो निर्म्माणात् पूर्व्वं मयि स्नेहं कृत्वा यं महिमानं दत्तवान् मम तं महिमानं यथा ते पश्यन्ति तदर्थं याल्लोकान् मह्यं दत्तवान् अहं यत्र तिष्ठामि तेपि यथा तत्र तिष्ठन्ति ममैषा वाञ्छा।
स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।
वयञ्च सर्व्वेऽनाच्छादितेनास्येन प्रभोस्तेजसः प्रतिबिम्बं गृह्लन्त आत्मस्वरूपेण प्रभुना रूपान्तरीकृता वर्द्धमानतेजोयुक्तां तामेव प्रतिमूर्त्तिं प्राप्नुमः।
य ईश्वरो मध्येतिमिरं प्रभां दीपनायादिशत् स यीशुख्रीष्टस्यास्य ईश्वरीयतेजसो ज्ञानप्रभाया उदयार्थम् अस्माकम् अन्तःकरणेषु दीपितवान्।
सर्व्वोर्द्व्वस्थैरीश्वरस्य महिमा सम्प्रकाश्यतां। शान्तिर्भूयात् पृथिव्यास्तु सन्तोषश्च नरान् प्रति॥
अपरं वयं यस्मिन् अनुग्रहाश्रये तिष्ठामस्तन्मध्यं विश्वासमार्गेण तेनैवानीता वयम् ईश्वरीयविभवप्राप्तिप्रत्याशया समानन्दामः।
यो वाक्यं कथयति स ईश्वरस्य वाक्यमिव कथयतु यश्च परम् उपकरोति स ईश्वरदत्तसामर्थ्यादिवोपकरोतु। सर्व्वविषये यीशुख्रीष्टेनेश्वरस्य गौरवं प्रकाश्यतां तस्यैव गौरवं पराक्रमश्च सर्व्वदा भूयात्। आमेन।
अतएव निश्चलराज्यप्राप्तैरस्माभिः सोऽनुग्रह आलम्बितव्यो येन वयं सादरं सभयञ्च तुष्टिजनकरूपेणेश्वरं सेवितुं शक्नुयाम।
यतो भिन्नजातीयानां मध्ये तत् निगूढवाक्यं कीदृग्गौरवनिधिसम्बलितं तत् पवित्रलोकान् ज्ञापयितुम् ईश्वरोऽभ्यलषत्। युष्मन्मध्यवर्त्ती ख्रीष्ट एव स निधि र्गैरवाशाभूमिश्च।
एतत्कथनकाल एक उज्जवलः पयोदस्तेषामुपरि छायां कृतवान्, वारिदाद् एषा नभसीया वाग् बभूव, ममायं प्रियः पुत्रः, अस्मिन् मम महासन्तोष एतस्य वाक्यं यूयं निशामयत।
अतो हे भ्रातरः, यीशो रुधिरेण पवित्रस्थानप्रवेशायास्माकम् उत्साहो भवति, यद्यशक्ष्यत् तर्हि तेषां बलीनां दानं किं न न्यवर्त्तिष्यत? यतः सेवाकारिष्वेककृत्वः पवित्रीभूतेषु तेषां कोऽपि पापबोधः पुन र्नाभविष्यत्। यतः सोऽस्मदर्थं तिरस्करिण्यार्थतः स्वशरीरेण नवीनं जीवनयुक्तञ्चैकं पन्थानं निर्म्मितवान्,
यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।
सहिष्णुतासान्त्वनयोराकरो य ईश्वरः स एवं करोतु यत् प्रभु र्यीशुख्रीष्ट इव युष्माकम् एकजनोऽन्यजनेन सार्द्धं मनस ऐक्यम् आचरेत्; यूयञ्च सर्व्व एकचित्ता भूत्वा मुखैकेनेवास्मत्प्रभुयीशुख्रीष्टस्य पितुरीश्वरस्य गुणान् कीर्त्तयेत।
पुनश्च, यथा, "हे प्रभो पृथिवीमूलम् आदौ संस्थापितं त्वया। तथा त्वदीयहस्तेन कृतं गगनमण्डलं। इमे विनंक्ष्यतस्त्वन्तु नित्यमेवावतिष्ठसे। इदन्तु सकलं विश्वं संजरिष्यति वस्त्रवत्। सङ्कोचितं त्वया तत्तु वस्त्रवत् परिवर्त्स्यते। त्वन्तु नित्यं स एवासी र्निरन्तास्तव वत्सराः॥"
किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।
अस्मान् परीक्षां मानय, किन्तु पापात्मनो रक्ष; राजत्वं गौरवं पराक्रमः एते सर्व्वे सर्व्वदा तव; तथास्तु।
तस्मात् सर्व्वे विस्मय प्राप्ता मनःसु भीताश्च वयमद्यासम्भवकार्य्याण्यदर्शाम इत्युक्त्वा परमेश्वरं धन्यं प्रोदिताः।
तदानीं धार्म्मिकलोकाः स्वेषां पितू राज्ये भास्करइव तेजस्विनो भविष्यन्ति। श्रोतुं यस्य श्रुती आसाते, म शृणुयात्।
किन्त्वस्मासु यो भावीविभवः प्रकाशिष्यते तस्य समीपे वर्त्तमानकालीनं दुःखमहं तृणाय मन्ये।
ईश्वरस्य महिमा यद् अस्माभिः प्रकाशेत तदर्थम् ईश्वरेण यद् यत् प्रतिज्ञातं तत्सर्व्वं ख्रीष्टेन स्वीकृतं सत्यीभूतञ्च।
ततो हेतो र्वयं न क्लाम्यामः किन्तु बाह्यपुरुषो यद्यपि क्षीयते तथाप्यान्तरिकः पुरुषो दिने दिने नूतनायते। क्षणमात्रस्थायि यदेतत् लघिष्ठं दुःखं तद् अतिबाहुल्येनास्माकम् अनन्तकालस्थायि गरिष्ठसुखं साधयति,
अस्माकं जीवनस्वरूपः ख्रीष्टो यदा प्रकाशिष्यते तदा तेन सार्द्धं यूयमपि विभवेन प्रकाशिष्यध्वे।
किन्त्वस्माकं जनपदः स्वर्गे विद्यते तस्माच्चागमिष्यन्तं त्रातारं प्रभुं यीशुख्रीष्टं वयं प्रतीक्षामहे। स च यया शक्त्या सर्व्वाण्येव स्वस्य वशीकर्त्तुं पारयति तयास्माकम् अधमं शरीरं रूपान्तरीकृत्य स्वकीयतेजोमयशरीरस्य समाकारं करिष्यति।
अनन्तरं नवीनम् आकाशमण्डलं नवीना पृथिवी च मया दृष्टे यतः प्रथमम् आकाशमण्डलं प्रथमा पृथिवी च लोपं गते समुद्रो ऽपि ततः परं न विद्यते। ततः स आत्माविष्टं माम् अत्युच्चं महापर्व्वतमेंक नीत्वेश्वरस्य सन्निधितः स्वर्गाद् अवरोहन्तीं यिरूशालमाख्यां पवित्रां नगरीं दर्शितवान्। सा ईश्वरीयप्रतापविशिष्टा तस्यास्तेजो महार्घरत्नवद् अर्थतः सूर्य्यकान्तमणितेजस्तुल्यं। तस्याः प्राचीरं बृहद् उच्चञ्च तत्र द्वादश गोपुराणि सन्ति तद्गोपुरोपरि द्वादश स्वर्गदूता विद्यन्ते तत्र च द्वादश नामान्यर्थत इस्रायेलीयानां द्वादशवंशानां नामानि लिखितानि। पूर्व्वदिशि त्रीणि गोपुराणि उत्तरदिशि त्रीणि गोपुराणि दक्षिणदिषि त्रीणि गोपुराणि पश्चीमदिशि च त्रीणि गोपुराणि सन्ति। नगर्य्याः प्राचीरस्य द्वादश मूलानि सन्ति तत्र मेषाशावाकस्य द्वादशप्रेरितानां द्वादश नामानि लिखितानि। अनरं नगर्य्यास्तदीयगोपुराणां तत्प्राचीरस्य च मापनार्थं मया सम्भाषमाणस्य दूतस्य करे स्वर्णमय एकः परिमाणदण्ड आसीत्। नगर्य्या आकृतिश्चतुरस्रा तस्या दैर्घ्यप्रस्थे समे। ततः परं स तेग परिमाणदण्डेन तां नगरीं परिमितवान् तस्याः परिमाणं द्वादशसहस्रनल्वाः। तस्या दैर्घ्यं प्रस्थम् उच्चत्वञ्च समानानि। अपरं स तस्याः प्राचीरं परिमितवान् तस्य मानवास्यार्थतो दूतस्य परिमाणानुसारतस्तत् चतुश्चत्वारिंशदधिकाशतहस्तपरिमितं । तस्य प्राचीरस्य निर्म्मितिः सूर्य्यकान्तमणिभि र्नगरी च निर्म्मलकाचतुल्येन शुद्धसुवर्णेन निर्म्मिता। नगर्य्याः प्राचीरस्य मूलानि च सर्व्वविधमहार्घमणिभि र्भूषितानि। तेषां प्रथमं भित्तिमूलं सूर्य्यकान्तस्य, द्वितीयं नीलस्य, तृतीयं ताम्रमणेः, चतुर्थं मरकतस्य, अपरं स्वर्गाद् अवरोहन्ती पवित्रा नगरी, अर्थतो नवीना यिरूशालमपुरी मया दृष्टा, सा वराय विभूषिता कन्येव सुसज्जितासीत्। पञ्चमं वैदूर्य्यस्य, षष्ठं शोणरत्नस्य, सप्तमं चन्द्रकान्तस्य,अष्टमं गोमेदस्य, नवमं पद्मरागस्य, दशमं लशूनीयस्य, एकादशं षेरोजस्य, द्वादशं मर्टीष्मणेश्चास्ति। द्वादशगोपुराणि द्वादशमुक्ताभि र्निर्म्मितानि, एकैकं गोपुरम् एकैकया मुक्तया कृतं नगर्य्या महामार्गश्चाच्छकाचवत् निर्म्मलसुवर्णेन निर्म्मितं। तस्या अन्तर एकमपि मन्दिरं मया न दृष्टं सतः सर्व्वशक्तिमान् प्रभुः परमेश्वरो मेषशावकश्च स्वयं तस्य मन्दिरं। तस्यै नगर्य्यै दीप्तिदानार्थं सूर्य्याचन्द्रमसोः प्रयोजनं नास्ति यत ईश्वरस्य प्रतापस्तां दीपयति मेषशावकश्च तस्या ज्योतिरस्ति। परित्राणप्राप्तलोकनिवहाश्च तस्या आलोके गमनागमने कुर्व्वन्ति पृथिव्या राजानश्च स्वकीयं प्रतापं गौरवञ्च तन्मध्यम् आनयन्ति। तस्या द्वाराणि दिवा कदापि न रोत्स्यन्ते निशापि तत्र न भविष्यति। सर्व्वजातीनां गौरवप्रतापौ तन्मध्यम् आनेष्येते। परन्त्वपवित्रं घृण्यकृद् अनृतकृद् वा किमपि तन्मध्यं न प्रवेक्ष्यति मेषशावकस्य जीवनपुस्तके येषां नामानि लिखितानि केवलं त एव प्रवेक्ष्यन्ति। अनन्तरं स्वर्गाद् एष महारवो मया श्रुतः पश्यायं मानवैः सार्द्धम् ईश्वरस्यावासः, स तैः सार्द्धं वत्स्यति ते च तस्य प्रजा भविष्यन्ति, ईश्वरश्च स्वयं तेषाम् ईश्वरो भूत्वा तैः सार्द्धं स्थास्यति। तेषां नेत्रेभ्यश्चाश्रूणि सर्व्वाणीश्वरेण प्रमार्क्ष्यन्ते मृत्युरपि पुन र्न भविष्यति शोकविलापक्लेशा अपि पुन र्न भविष्यन्ति, यतः प्रथमानि सर्व्वाणि व्यतीतिनि।