सर्वशक्तिमान् ईश्वरः अस्ति, भवता सह सदा भवितुं प्रतिज्ञां कृतवान् च। ईश्वरः चमत्कारी, भवतः पालकः च। तस्मिन् केवलं विश्वासं कुरु। भवतः उद्धारकः सः, अतः स्वपुत्रमेकं भवतां पापानां निमित्तं प्राणत्यागाय प्रेषितवान्। ईश्वरे विश्वासमाध्यमेन सर्वाणि कार्याणि सम्भवन्ति। ईश्वरं ज्ञातुं प्रार्थनामाध्यमेन, तस्य वचनमाध्यमेन च तस्मै समीपं गन्तव्यम्। भगवान् भवतः समीपागमनम् आकाङ्क्षति। (२ शमूएल २२:३१) ईश्वरस्य मार्गः सिद्धः, भगवतः वचनं परिशुद्धम्। यः तस्मिन् शरणं गच्छति, तस्य सः रक्षकः अस्ति।
प्रभो र्योग्यं सर्व्वथा सन्तोषजनकञ्चाचारं कुर्य्यातार्थत ईश्वरज्ञाने वर्द्धमानाः सर्व्वसत्कर्म्मरूपं फलं फलेत,
यतो हेतोरहं ख्रीष्टं तस्य पुनरुत्थिते र्गुणं तस्य दुःखानां भागित्वञ्च ज्ञात्वा तस्य मृत्योराकृतिञ्च गृहीत्वा
किन्त्वस्माकं प्रभोस्त्रातु र्यीशुख्रीष्टस्यानुग्रहे ज्ञाने च वर्द्धध्वं। तस्य गौरवम् इदानीं सदाकालञ्च भूयात्। आमेन्।
अस्माकं प्रभो र्यीशुख्रीष्टस्य तातो यः प्रभावाकर ईश्वरः स स्वकीयतत्त्वज्ञानाय युष्मभ्यं ज्ञानजनकम् प्रकाशितवाक्यबोधकञ्चात्मानं देयात्। युष्माकं ज्ञानचक्षूंषि च दीप्तियुक्तानि कृत्वा तस्याह्वानं कीदृश्या प्रत्याशया सम्बलितं पवित्रलोकानां मध्ये तेन दत्तोऽधिकारः कीदृशः प्रभावनिधि र्विश्वासिषु चास्मासु प्रकाशमानस्य
यस्त्वम् अद्वितीयः सत्य ईश्वरस्त्वया प्रेरितश्च यीशुः ख्रीष्ट एतयोरुभयोः परिचये प्राप्तेऽनन्तायु र्भवति।
ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।
अपरम् ईश्वरस्य पुत्र आगतवान् वयञ्च यया तस्य सत्यमयस्य ज्ञानं प्राप्नुयामस्तादृशीं धियम् अस्मभ्यं दत्तवान् इति जानीमस्तस्मिन् सत्यमये ऽर्थतस्तस्य पुत्रे यीशुख्रीष्टे तिष्ठामश्च; स एव सत्यमय ईश्वरो ऽनन्तजीवनस्वरूपश्चास्ति।
स परिचर्य्याकर्म्मसाधनाय ख्रीष्टस्य शरीरस्य निष्ठायै च पवित्रलोकानां सिद्धतायास्तादृशम् उपायं निश्चितवान्।
अपरं त्वम् ईश्वरस्य साक्षात् स्वं परीक्षितम् अनिन्दनीयकर्म्मकारिणञ्च सत्यमतस्य वाक्यानां सद्विभजने निपुणञ्च दर्शयितुं यतस्व।
किन्तु विश्वासं विना कोऽपीश्वराय रोचितुं न शक्नोति यत ईश्वरोऽस्ति स्वान्वेषिलोकेभ्यः पुरस्कारं ददाति चेतिकथायाम् ईश्वरशरणागतै र्विश्वसितव्यं।
अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।
ये यिहूदीया व्यश्वसन् यीशुस्तेभ्योऽकथयत् मम वाक्ये यदि यूयम् आस्थां कुरुथ तर्हि मम शिष्या भूत्वा सत्यत्वं ज्ञास्यथ ततः सत्यतया युष्माकं मोक्षो भविष्यति।
युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।
फलतः पूर्णबुद्धिरूपधनभोगाय प्रेम्ना संयुक्तानां तेषां मनांसि यत् पितुरीश्वरस्य ख्रीष्टस्य च निगूढवाक्यस्य ज्ञानार्थं सान्त्वनां प्राप्नुयुरित्यर्थमहं यते। यदि यूयं ख्रीष्टेन सार्द्धं संसारस्य वर्णमालायै मृता अभवत तर्हि यैै र्द्रव्यै र्भोगेन क्षयं गन्तव्यं तानि मा स्पृश मा भुंक्ष्व मा गृहाणेति मानवैरादिष्टान् शिक्षितांश्च विधीन् आचरन्तो यूयं कुतः संसारे जीवन्त इव भवथ? ते विधयः स्वेच्छाभक्त्या नम्रतया शरीरक्लेशनेन च ज्ञानविधिवत् प्रकाशन्ते तथापि तेऽगण्याः शारीरिकभाववर्द्धकाश्च सन्ति। यतो विद्याज्ञानयोः सर्व्वे निधयः ख्रीष्टे गुप्ताः सन्ति।
अपरमीश्वरः स्वात्मना तदस्माकं साक्षात् प्राकाशयत्; यत आत्मा सर्व्वमेवानुसन्धत्ते तेन चेश्वरस्य मर्म्मतत्त्वमपि बुध्यते। मनुजस्यान्तःस्थमात्मानं विना केन मनुजेन तस्य मनुजस्य तत्त्वं बुध्यते? तद्वदीश्वरस्यात्मानं विना केनापीश्वरस्य तत्त्वं न बुध्यते। वयञ्चेहलोकस्यात्मानं लब्धवन्तस्तन्नहि किन्त्वीश्वरस्यैवात्मानं लब्धवन्तः, ततो हेतोरीश्वरेण स्वप्रसादाद् अस्मभ्यं यद् यद् दत्तं तत्सर्व्वम् अस्माभि र्ज्ञातुं शक्यते।
अहो ईश्वरस्य ज्ञानबुद्धिरूपयो र्धनयोः कीदृक् प्राचुर्य्यं। तस्य राजशासनस्य तत्त्वं कीदृग् अप्राप्यं। तस्य मार्गाश्च कीदृग् अनुपलक्ष्याः।
ख्रीष्टस्तु विश्वासेन युष्माकं हृदयेषु निवसतु। प्रेमणि युष्माकं बद्धमूलत्वं सुस्थिरत्वञ्च भवतु। इत्थं प्रस्थताया दीर्घताया गभीरताया उच्चतायाश्च बोधाय सर्व्वैः पवित्रलोकैः प्राप्यं सामर्थ्यं युष्माभि र्लभ्यतां, ज्ञानातिरिक्तं ख्रीष्टस्य प्रेम ज्ञायताम् ईश्वरस्य सम्पूर्णवृद्धिपर्य्यन्तं युष्माकं वृद्धि र्भवतु च।
जीवनार्थम् ईश्वरभक्त्यर्थञ्च यद्यद् आवश्यकं तत् सर्व्वं गौरवसद्गुणाभ्याम् अस्मदाह्वानकारिणस्तत्त्वज्ञानद्वारा तस्येश्वरीयशक्तिरस्मभ्यं दत्तवती।
वयं यद् दिनम् आरभ्य तां वार्त्तां श्रुतवन्तस्तदारभ्य निरन्तरं युष्माकं कृते प्रार्थनां कुर्म्मः फलतो यूयं यत् पूर्णाभ्याम् आत्मिकज्ञानवुद्धिभ्याम् ईश्वरस्याभितमं सम्पूर्णरूपेणावगच्छेत,
अपरं यूयं तस्माद् यम् अभिषेकं प्राप्तवन्तः स युष्मासु तिष्ठति ततः कोऽपि यद् युष्मान् शिक्षयेत् तद् अनावश्यकं, स चाभिषेको युष्मान् सर्व्वाणि शिक्षयति सत्यश्च भवति न चातथ्यः, अतः स युष्मान् यद्वद् अशिक्षयत् तद्वत् तत्र स्थास्यथ।
ईश्वरस्य वादोऽमरः प्रभावविशिष्टश्च सर्व्वस्माद् द्विधारखङ्गादपि तीक्ष्णः, अपरं प्राणात्मनो र्ग्रन्थिमज्जयोश्च परिभेदाय विच्छेदकारी मनसश्च सङ्कल्पानाम् अभिप्रेतानाञ्च विचारकः।
यो जनो ममाज्ञा गृहीत्वा ता आचरति सएव मयि प्रीयते; यो जनश्च मयि प्रीयते सएव मम पितुः प्रियपात्रं भविष्यति, तथाहमपि तस्मिन् प्रीत्वा तस्मै स्वं प्रकाशयिष्यामि।
अपरञ्च वयं यत् सहिष्णुतासान्त्वनयो र्जनकेन शास्त्रेण प्रत्याशां लभेमहि तन्निमित्तं पूर्व्वकाले लिखितानि सर्व्ववचनान्यस्माकम् उपदेशार्थमेव लिलिखिरे।
स चादृश्यस्येश्वरस्य प्रतिमूर्तिः कृत्स्नायाः सृष्टेरादिकर्त्ता च। यतः सर्व्वमेव तेन ससृजे सिंहासनराजत्वपराक्रमादीनि स्वर्गमर्त्त्यस्थितानि दृश्यादृश्यानि वस्तूनि सर्व्वाणि तेनैव तस्मै च ससृजिरे। स सर्व्वेषाम् आदिः सर्व्वेषां स्थितिकारकश्च।
तत् सर्व्वं शास्त्रम् ईश्वरस्यात्मना दत्तं शिक्षायै दोषबोधाय शोधनाय धर्म्मविनयाय च फलयूक्तं भवति तेन चेश्वरस्य लोको निपुणः सर्व्वस्मै सत्कर्म्मणे सुसज्जश्च भवति।
फलतस्तस्यानन्तशक्तीश्वरत्वादीन्यदृश्यान्यपि सृष्टिकालम् आरभ्य कर्म्मसु प्रकाशमानानि दृश्यन्ते तस्मात् तेषां दोषप्रक्षालनस्य पन्था नास्ति।
हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं।
अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।
तद्वल्लिखितमास्ते, नेत्रेण क्कापि नो दृष्टं कर्णेनापि च न श्रुतं। मनोमध्ये तु कस्यापि न प्रविष्टं कदापि यत्। ईश्वरे प्रीयमाणानां कृते तत् तेन सञ्चितं।
अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।
यत ईश्वरे यत् प्रेम तत् तदीयाज्ञापालनेनास्माभिः प्रकाशयितव्यं, तस्याज्ञाश्च कठोरा न भवन्ति।
ततः सोवदत्, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वशक्तिभिः सर्व्वचित्तैश्च प्रभौ परमेश्वरे प्रेम कुरु, समीपवासिनि स्ववत् प्रेम कुरु च।
अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।
यतो भिन्नजातीयानां मध्ये तत् निगूढवाक्यं कीदृग्गौरवनिधिसम्बलितं तत् पवित्रलोकान् ज्ञापयितुम् ईश्वरोऽभ्यलषत्। युष्मन्मध्यवर्त्ती ख्रीष्ट एव स निधि र्गैरवाशाभूमिश्च।
हे भ्रातरः, युष्माभिः कीदृग् आचरितव्यं ईश्वराय रोचितव्यञ्च तदध्यस्मत्तो या शिक्षा लब्धा तदनुसारात् पुनरतिशयं यत्नः क्रियतामिति वयं प्रभुयीशुना युष्मान् विनीयादिशामः।
किन्त्वस्मासु पापिषु सत्स्वपि निमित्तमस्माकं ख्रीष्टः स्वप्राणान् त्यक्तवान्, तत ईश्वरोस्मान् प्रति निजं परमप्रेमाणं दर्शितवान्।
किन्तु सत्यमय आत्मा यदा समागमिष्यति तदा सर्व्वं सत्यं युष्मान् नेष्यति, स स्वतः किमपि न वदिष्यति किन्तु यच्छ्रोष्यति तदेव कथयित्वा भाविकार्य्यं युष्मान् ज्ञापयिष्यति।
याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति। यस्माद् येन याच्यते, तेन लभ्यते; येन मृग्यते तेनोद्देशः प्राप्यते; येन च द्वारम् आहन्यते, तत्कृते द्वारं मोच्यते।
वयं मृतिजनककर्म्मभ्यो मनःपरावर्त्तनम् ईश्वरे विश्वासो मज्जनशिक्षणं हस्तार्पणं मृतलोकानाम् उत्थानम्
मनोभिः किन्तु मन्यध्वं पवित्रं प्रभुमीश्वरं। अपरञ्च युष्माकम् आन्तरिकप्रत्याशायास्तत्त्वं यः कश्चित् पृच्छति तस्मै शान्तिभीतिभ्याम् उत्तरं दातुं सदा सुसज्जा भवत।
केचिद् यथा विलम्बं मन्यन्ते तथा प्रभुः स्वप्रतिज्ञायां विलम्बते तन्नहि किन्तु कोऽपि यन्न विनश्येत् सर्व्वं एव मनःपरावर्त्तनं गच्छेयुरित्यभिलषन् सो ऽस्मान् प्रति दीर्घसहिष्णुतां विदधाति।
इदानीम् अभ्रमध्येनास्पष्टं दर्शनम् अस्माभि र्लभ्यते किन्तु तदा साक्षात् दर्शनं लप्स्यते। अधुना मम ज्ञानम् अल्पिष्ठं किन्तु तदाहं यथावगम्यस्तथैवावगतो भविष्यामि।
ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।
किन्तु स यथा ज्योतिषि वर्त्तते तथा वयमपि यदि ज्योतिषि चरामस्तर्हि परस्परं सहभागिनो भवामस्तस्य पुत्रस्य यीशुख्रीष्टस्य रुधिरञ्चास्मान् सर्व्वस्मात् पापात् शुद्धयति।
अस्माकं प्रभो र्यीशोः ख्रीष्टस्य तात ईश्वरो धन्यो भवतु; यतः स ख्रीष्टेनास्मभ्यं सर्व्वम् आध्यात्मिकं स्वर्गीयवरं दत्तवान्। वयं यत् तस्य समक्षं प्रेम्ना पवित्रा निष्कलङ्काश्च भवामस्तदर्थं स जगतः सृष्टे पूर्व्वं तेनास्मान् अभिरोचितवान्, निजाभिलषितानुरोधाच्च
अहं द्राक्षालतास्वरूपो यूयञ्च शाखास्वरूपोः; यो जनो मयि तिष्ठति यत्र चाहं तिष्ठामि, स प्रचूरफलैः फलवान् भवति, किन्तु मां विना यूयं किमपि कर्त्तुं न शक्नुथ।
किन्तु सदसद्विचारे येषां चेतांसि व्यवहारेण शिक्षितानि तादृशानां सिद्धलोकानां कठोरद्रव्येषु प्रयोजनमस्ति।
विश्वासेन सपुण्यीकृता वयम् ईश्वरेण सार्द्धं प्रभुणास्माकं यीशुख्रीष्टेन मेलनं प्राप्ताः।
किन्तु यूयं ख्रीष्टं न तादृशं परिचितवन्तः, यतो यूयं तं श्रुतवन्तो या सत्या शिक्षा यीशुतो लभ्या तदनुसारात् तदीयोपदेशं प्राप्तवन्तश्चेति मन्ये।
यत ईश्वरस्य मनो ज्ञात्वा तमुपदेष्टुं कः शक्नोति? किन्तु ख्रीष्टस्य मनोऽस्माभि र्लब्धं।
यो जनस्तेनः स केवलं स्तैन्यबधविनाशान् कर्त्तुमेव समायाति किन्त्वहम् आयु र्दातुम् अर्थात् बाहूल्येन तदेव दातुम् आगच्छम्।
केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति।
अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।
अपरं युष्माकं विश्वासो यत् मानुषिकज्ञानस्य फलं न भवेत् किन्त्वीश्वरीयशक्तेः फलं भवेत्, तदर्थं मम वक्तृता मदीयप्रचारश्च मानुषिकज्ञानस्य मधुरवाक्यसम्बलितौ नास्तां किन्त्वात्मनः शक्तेश्च प्रमाणयुक्तावास्तां।
प्रभो र्यीशुख्रीष्टस्यानुग्रह ईश्वरस्य प्रेम पवित्रस्यात्मनो भागित्वञ्च सर्व्वान् युष्मान् प्रति भूयात्। तथास्तु।
युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।
यदि यूयं मयि तिष्ठथ मम कथा च युष्मासु तिष्ठति तर्हि यद् वाञ्छित्वा याचिष्यध्वे युष्माकं तदेव सफलं भविष्यति।
त्वं वाक्यं घोषय कालेऽकाले चोत्सुको भव पूर्णया सहिष्णुतया शिक्षया च लोकान् प्रबोधय भर्त्सय विनयस्व च।