हे भ्रातरः, युष्मान् प्रति व्याहरामि, ईश्वरस्य राज्ये रक्तमांसयोरधिकारो भवितुं न शक्नोति, अक्षयत्वे च क्षयस्याधिकारो न भविष्यति।
स्वर्गीयराज्यम् एतादृशस्य नृपतेः समं, यो निज पुत्रं विवाहयन् सर्व्वान् निमन्त्रितान् आनेतुं दासेयान् प्रहितवान्,
मार्गपार्श्वे बीजान्युप्तानि तस्यार्थ एषः, यदा कश्चित् राज्यस्य कथां निशम्य न बुध्यते, तदा पापात्मागत्य तदीयमनस उप्तां कथां हरन् नयति।
अपरञ्च यीशु र्द्वादशभिः शिष्यैः सार्द्धं नानानगरेषु नानाग्रामेषु च गच्छन् इश्वरीयराजत्वस्य सुसंवादं प्रचारयितुं प्रारेभे।
अतएवेश्वरस्य राज्यार्थं सचेष्टा भवत तथा कृते सर्व्वाण्येतानि द्रव्याणि युष्मभ्यं प्रदायिष्यन्ते।
अनन्तरं मया सिंहासनानि दृष्टानि तत्र ये जना उपाविशन् तेभ्यो विचारभारो ऽदीयत; अनन्तरं यीशोः साक्ष्यस्य कारणाद् ईश्वरवाक्यस्य कारणाच्च येषां शिरश्छेदनं कृतं पशोस्तदीयप्रतिमाया वा पूजा यै र्न कृता भाले करे वा कलङ्को ऽपि न धृतस्तेषाम् आत्मानो ऽपि मया दृष्टाः, ते प्राप्तजीवनास्तद्वर्षसहस्रं यावत् ख्रीष्टेन सार्द्धं राजत्वमकुर्व्वन्।
अनन्तरं नवीनम् आकाशमण्डलं नवीना पृथिवी च मया दृष्टे यतः प्रथमम् आकाशमण्डलं प्रथमा पृथिवी च लोपं गते समुद्रो ऽपि ततः परं न विद्यते। ततः स आत्माविष्टं माम् अत्युच्चं महापर्व्वतमेंक नीत्वेश्वरस्य सन्निधितः स्वर्गाद् अवरोहन्तीं यिरूशालमाख्यां पवित्रां नगरीं दर्शितवान्। सा ईश्वरीयप्रतापविशिष्टा तस्यास्तेजो महार्घरत्नवद् अर्थतः सूर्य्यकान्तमणितेजस्तुल्यं। तस्याः प्राचीरं बृहद् उच्चञ्च तत्र द्वादश गोपुराणि सन्ति तद्गोपुरोपरि द्वादश स्वर्गदूता विद्यन्ते तत्र च द्वादश नामान्यर्थत इस्रायेलीयानां द्वादशवंशानां नामानि लिखितानि। पूर्व्वदिशि त्रीणि गोपुराणि उत्तरदिशि त्रीणि गोपुराणि दक्षिणदिषि त्रीणि गोपुराणि पश्चीमदिशि च त्रीणि गोपुराणि सन्ति। नगर्य्याः प्राचीरस्य द्वादश मूलानि सन्ति तत्र मेषाशावाकस्य द्वादशप्रेरितानां द्वादश नामानि लिखितानि। अनरं नगर्य्यास्तदीयगोपुराणां तत्प्राचीरस्य च मापनार्थं मया सम्भाषमाणस्य दूतस्य करे स्वर्णमय एकः परिमाणदण्ड आसीत्। नगर्य्या आकृतिश्चतुरस्रा तस्या दैर्घ्यप्रस्थे समे। ततः परं स तेग परिमाणदण्डेन तां नगरीं परिमितवान् तस्याः परिमाणं द्वादशसहस्रनल्वाः। तस्या दैर्घ्यं प्रस्थम् उच्चत्वञ्च समानानि। अपरं स तस्याः प्राचीरं परिमितवान् तस्य मानवास्यार्थतो दूतस्य परिमाणानुसारतस्तत् चतुश्चत्वारिंशदधिकाशतहस्तपरिमितं । तस्य प्राचीरस्य निर्म्मितिः सूर्य्यकान्तमणिभि र्नगरी च निर्म्मलकाचतुल्येन शुद्धसुवर्णेन निर्म्मिता। नगर्य्याः प्राचीरस्य मूलानि च सर्व्वविधमहार्घमणिभि र्भूषितानि। तेषां प्रथमं भित्तिमूलं सूर्य्यकान्तस्य, द्वितीयं नीलस्य, तृतीयं ताम्रमणेः, चतुर्थं मरकतस्य, अपरं स्वर्गाद् अवरोहन्ती पवित्रा नगरी, अर्थतो नवीना यिरूशालमपुरी मया दृष्टा, सा वराय विभूषिता कन्येव सुसज्जितासीत्।
ततः परं स्वर्गे उच्चै र्भाषमाणो रवो ऽयं मयाश्रावि, त्राणं शक्तिश्च राजत्वमधुनैवेश्वरस्य नः। तथा तेनाभिषिक्तस्य त्रातुः पराक्रमो ऽभवत्ं॥ यतो निपातितो ऽस्माकं भ्रातृणां सो ऽभियोजकः। येनेश्वरस्य नः साक्षात् ते ऽदूष्यन्त दिवानिशं॥
तदा यीशुः स्वशिष्यान् अवदत्, धनिनां स्वर्गराज्यप्रवेशो महादुष्कर इति युष्मानहं तथ्यं वदामि। पुनरपि युष्मानहं वदामि, धनिनां स्वर्गराज्यप्रवेशात् सूचीछिद्रेण महाङ्गगमनं सुकरं।
तदानीं स कथितवान्, निजभाण्डागारात् नवीनपुरातनानि वस्तूनि निर्गमयति यो गृहस्थः स इव स्वर्गराज्यमधि शिक्षिताः स्वर्व उपदेष्टारः।
अपरञ्च आ योहनोऽद्य यावत् स्वर्गराज्यं बलादाक्रान्तं भवति आक्रमिनश्च जना बलेन तदधिकुर्व्वन्ति।
पश्चात् स शिष्यान् प्रति दृष्टिं कुत्वा जगाद, हे दरिद्रा यूयं धन्या यत ईश्वरीये राज्ये वोऽधिकारोस्ति।
एतत्कारणात् पित्रा यथा मदर्थं राज्यमेकं निरूपितं तथाहमपि युष्मदर्थं राज्यं निरूपयामि। एतस्तिन् समये द्वादशशिष्येषु गणित ईष्करियोतीयरूढिमान् यो यिहूदास्तस्यान्तःकरणं शैतानाश्रितत्वात् तस्मान् मम राज्ये भोजनासने च भोजनपाने करिष्यध्वे सिंहासनेषूपविश्य चेस्रायेलीयानां द्वादशवंशानां विचारं करिष्यध्वे।
युष्मानहं यथार्थं वच्मि, यः कश्चित् शिशुवद् भूत्वा राज्यमीश्वरस्य न गृह्लीयात् स कदापि तद्राज्यं प्रवेष्टुं न शक्नोति।
चत्वारिंशद्दिनानि यावत् तेभ्यः प्रेरितेभ्यो दर्शनं दत्त्वेश्वरीयराज्यस्य वर्णनम अकरोत्।
किन्त्वीश्वरस्य राज्यस्य यीशुख्रीष्टस्य नाम्नश्चाख्यानप्रचारिणः फिलिपस्य कथायां विश्वस्य तेषां स्त्रीपुरुषोभयलोका मज्जिता अभवन्।
अर्थात् मनुजसुतः स्वांयदूतान् प्रेषयिष्यति, तेन ते च तस्य राज्यात् सर्व्वान् विघ्नकारिणोऽधार्म्मिकलोकांश्च संगृह्य
तदानीं धार्म्मिकलोकाः स्वेषां पितू राज्ये भास्करइव तेजस्विनो भविष्यन्ति। श्रोतुं यस्य श्रुती आसाते, म शृणुयात्।
अपरमहं यथा जितवान् मम पित्रा च सह तस्य सिंहासन उपविष्टश्चास्मि, तथा यो जनो जयति तमहं मया सार्द्धं मत्सिंहासन उपवेशयिष्यामि।
पश्चाल् लोकास्तद् विदित्वा तस्य पश्चाद् ययुः; ततः स तान् नयन् ईश्वरीयराज्यस्य प्रसङ्गमुक्तवान्, येषां चिकित्सया प्रयोजनम् आसीत् तान् स्वस्थान् चकार च।
ततः परम् अन्तो भविष्यति तदानीं स सर्व्वं शासनम् अधिपतित्वं पराक्रमञ्च लुप्त्वा स्वपितरीश्वरे राजत्वं समर्पयिष्यति।
पश्याहं तूर्णम् आगच्छामि, एकैकस्मै स्वक्रियानुयायिफलदानार्थं मद्दातव्यफलं मम समवर्त्ति।
ततो यीशुः कथितवान्, युष्मानहं तथ्यं वदामि, यूयं मम पश्चाद्वर्त्तिनो जाता इति कारणात् नवीनसृष्टिकाले यदा मनुजसुतः स्वीयैश्चर्य्यसिंहासन उपवेक्ष्यति, तदा यूयमपि द्वादशसिंहासनेषूपविश्य इस्रायेलीयद्वादशवंशानां विचारं करिष्यथ।
तदानीं रात्रिः पुन र्न भविष्यति यतः प्रभुः परमेश्वरस्तान् दीपयिष्यति ते चानन्तकालं यावद् राजत्वं करिष्यन्ते।
अहं युष्मान् यथार्थं वदामि, यो जनः शिशोः सदृशो भूत्वा ईश्वरराज्यं न गृह्लाति स केनापि प्रकारेण तत् प्रवेष्टुं न शक्नोति।
अथ स यीशुं जगाद हे प्रभे भवान् स्वराज्यप्रवेशकाले मां स्मरतु। तदा यीशुः कथितवान् त्वां यथार्थं वदामि त्वमद्यैव मया सार्द्धं परलोकस्य सुखस्थानं प्राप्स्यसि।
तदा यीशुरुत्तरं दत्तवान् तवाहं यथार्थतरं व्याहरामि पुनर्जन्मनि न सति कोपि मानव ईश्वरस्य राज्यं द्रष्टुं न शक्नोति।
अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।
किन्तु यीशुरुवाच, शिशवो मदन्तिकम् आगच्छन्तु, तान् मा वारयत, एतादृशां शिशूनामेव स्वर्गराज्यं।
अतएव निश्चलराज्यप्राप्तैरस्माभिः सोऽनुग्रह आलम्बितव्यो येन वयं सादरं सभयञ्च तुष्टिजनकरूपेणेश्वरं सेवितुं शक्नुयाम।
हे मम प्रियभ्रातरः, शृणुत, संसारे ये दरिद्रास्तान् ईश्वरो विश्वासेन धनिनः स्वप्रेमकारिभ्यश्च प्रतिश्रुतस्य राज्यस्याधिकारिणः कर्त्तुं किं न वरीतवान्? किन्तु दरिद्रो युष्माभिरवज्ञायते।
तन्नगरस्थान् रोगिणः स्वस्थान् करिष्यथ, ईश्वरीयं राज्यं युष्माकम् अन्तिकम् आगमत् कथामेताञ्च प्रचारयिष्यथ।
किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।
अनन्तरं सोपरामेकां दृष्टान्तकथामुत्थाप्य तेभ्यः कथितवान् कश्चिन्मनुजः सर्षपबीजमेकं नीत्वा स्वक्षेत्र उवाप। सर्षपबीजं सर्व्वस्माद् बीजात् क्षुद्रमपि सदङ्कुरितं सर्व्वस्मात् शाकात् बृहद् भवति; स तादृशस्तरु र्भवति, यस्य शाखासु नभसः खगा आगत्य निवसन्ति; स्वर्गीयराज्यं तादृशस्य सर्षपैकस्य समम्।
अथ कदेश्वरस्य राजत्वं भविष्यतीति फिरूशिभिः पृष्टे स प्रत्युवाच, ईश्वरस्य राजत्वम् ऐश्वर्य्यदर्शनेन न भविष्यति। अत एतस्मिन् पश्य तस्मिन् वा पश्य, इति वाक्यं लोका वक्तुं न शक्ष्यन्ति, ईश्वरस्य राजत्वं युष्माकम् अन्तरेवास्ते।
यतः सोऽस्मान् तिमिरस्य कर्त्तृत्वाद् उद्धृत्य स्वकीयस्य प्रियपुत्रस्य राज्ये स्थापितवान्।
ततः परं राजा दक्षिणस्थितान् मानवान् वदिष्यति, आगच्छत मत्तातस्यानुग्रहभाजनानि, युष्मत्कृत आ जगदारम्भत् यद् राज्यम् आसादितं तदधिकुरुत।
ये जना मां प्रभुं वदन्ति, ते सर्व्वे स्वर्गराज्यं प्रवेक्ष्यन्ति तन्न, किन्तु यो मानवो मम स्वर्गस्थस्य पितुरिष्टं कर्म्म करोति स एव प्रवेक्ष्यति।
अपरञ्च क्षेत्रमध्ये निधिं पश्यन् यो गोपयति, ततः परं सानन्दो गत्वा स्वीयसर्व्वस्वं विक्रीय त्तक्षेत्रं क्रीणाति, स इव स्वर्गराज्यं।
भक्ष्यं पेयञ्चेश्वरराज्यस्य सारो नहि, किन्तु पुण्यं शान्तिश्च पवित्रेणात्मना जात आनन्दश्च।
कालः सम्पूर्ण ईश्वरराज्यञ्च समीपमागतं; अतोहेतो र्यूयं मनांसि व्यावर्त्तयध्वं सुसंवादे च विश्वासित।
यीशुरवादीद् यथार्थतरम् अहं कथयामि मनुजे तोयात्मभ्यां पुन र्न जाते स ईश्वरस्य राज्यं प्रवेष्टुं न शक्नोति।
युष्मानहं सत्यं ब्रवीमि, यूयं मनोविनिमयेन क्षुद्रबालवत् न सन्तः स्वर्गराज्यं प्रवेष्टुं न शक्नुथ।
अनन्तरं सप्तदूतेन तूर्य्यां वादितायां स्वर्ग उच्चैः स्वरैर्वागियं कीर्त्तिता, राजत्वं जगतो यद्यद् राज्यं तदधुनाभवत्। अस्मत्प्रभोस्तदीयाभिषिक्तस्य तारकस्य च। तेन चानन्तकालीयं राजत्वं प्रकरिष्यते॥
यो ऽस्मासु प्रीतवान् स्वरुधिरेणास्मान् स्वपापेभ्यः प्रक्षालितवान् तस्य पितुरीश्वरस्य याजकान् कृत्वास्मान् राजवर्गे नियुक्तवांश्च तस्मिन् महिमा पराक्रमश्चानन्तकालं यावद् वर्त्ततां। आमेन्।
निर्विघ्नम् अतिशयनिःक्षोभम् ईश्वरीयराजत्वस्य कथां प्रचारयन् प्रभौ यीशौ ख्रीष्टे कथाः समुपादिशत्। इति॥
स्वर्गराज्यम् एतादृशा केनचिद् गृहस्येन समं, योऽतिप्रभाते निजद्राक्षाक्षेत्रे कृषकान् नियोक्तुं गतवान्।
अपरं सर्व्वस्माद् दुष्कर्म्मतः प्रभु र्माम् उद्धरिष्यति निजस्वर्गीयराज्यं नेतुं मां तारयिष्यति च। तस्य धन्यवादः सदाकालं भूयात्। आमेन्।
अनन्तरं तां कथां निशम्य भोजनोपविष्टः कश्चित् कथयामास, यो जन ईश्वरस्य राज्ये भोक्तुं लप्स्यते सएव धन्यः।
तदानीं यीशुस्तं प्रोक्तवान्, यो जनो लाङ्गले करमर्पयित्वा पश्चात् पश्यति स ईश्वरीयराज्यं नार्हति।
ततः परं यीशुस्तेषां भजनभवन उपदिशन् राज्यस्य सुसंवादं प्रचारयन् लोकानां यस्य य आमयो या च पीडासीत्, तान् शमयन् शमयंश्च सर्व्वाणि नगराणि ग्रामांश्च बभ्राम।
अथ स तानवादीत् युष्मभ्यमहं यथार्थं कथयामि, ईश्वरराज्यं पराक्रमेणोपस्थितं न दृष्ट्वा मृत्युं नास्वादिष्यन्ते, अत्र दण्डायमानानां मध्येपि तादृशा लोकाः सन्ति।
योहन आगमनपर्य्यनतं युष्माकं समीपे व्यवस्थाभविष्यद्वादिनां लेखनानि चासन् ततः प्रभृति ईश्वरराज्यस्य सुसंवादः प्रचरति, एकैको लोकस्तन्मध्यं यत्नेन प्रविशति च।
ततः स उवाच, युष्मानहं यथार्थं वदामि, ईश्वरराज्यार्थं गृहं पितरौ भ्रातृगणं जायां सन्तानांश्च त्यक्तवा अथ तत्पुरवासिनी काचिद्विधवा तत्समीपमेत्य विवादिना सह मम विवादं परिष्कुर्व्विति निवेदयामास। इह काले ततोऽधिकं परकाले ऽनन्तायुश्च न प्राप्स्यति लोक ईदृशः कोपि नास्ति।
अनन्तरं स कथितवान् एको लोकः क्षेत्रे बीजान्युप्त्वा जागरणनिद्राभ्यां दिवानिशं गमयति, परन्तु तद्वीजं तस्याज्ञातरूपेणाङ्कुरयति वर्द्धते च; यतोहेतोः प्रथमतः पत्राणि ततः परं कणिशानि तत्पश्चात् कणिशपूर्णानि शस्यानि भूमिः स्वयमुत्पादयति; किन्तु फलेषु पक्केषु शस्यच्छेदनकालं ज्ञात्वा स तत्क्षणं शस्यानि छिनत्ति, अनेन तुल्यमीश्वरराज्यं।
किन्तु पुत्रमुद्दिश्य तेनोक्तं, यथा, "हे ईश्वर सदा स्थायि तव सिंहासनं भवेत्। याथार्थ्यस्य भवेद्दण्डो राजदण्डस्त्वदीयकः।
तस्मात् स कथयामास, प्रार्थनकाले यूयम् इत्थं कथयध्वं, हे अस्माकं स्वर्गस्थपितस्तव नाम पूज्यं भवतु; तव राजत्वं भवतु; स्वर्गे यथा तथा पृथिव्यामपि तवेच्छया सर्व्वं भवतु।
यतो ऽनेन प्रकारेणास्माकं प्रभोस्त्रातृ र्यीशुख्रीष्टस्यानन्तराज्यस्य प्रवेशेन यूयं सुकलेन योजयिष्यध्वे।
पुनरपि स उपमाकथामेकां तेभ्यः कथयाञ्चकार; काचन योषित् यत् किण्वमादाय द्रोणत्रयमितगोधूमचूर्णानां मध्ये सर्व्वेषां मिश्रीभवनपर्य्यन्तं समाच्छाद्य निधत्तवती, तत्किण्वमिव स्वर्गराज्यं।
अपरञ्च ईश्वरीयराज्यस्य सुसंवादं प्रकाशयितुम् रोगिणामारोग्यं कर्त्तुञ्च प्रेरणकाले तान् जगाद।
य ईश्वरः स्वीयराज्याय विभवाय च युष्मान् आहूतवान् तदुपयुक्ताचरणाय युष्मान् प्रवर्त्तितवन्तश्चेति यूयं जानीथ।
या दश कन्याः प्रदीपान् गृह्लत्यो वरं साक्षात् कर्त्तुं बहिरिताः, ताभिस्तदा स्वर्गीयराज्यस्य सादृश्यं भविष्यति।
अतएव वयं यदि सन्तानास्तर्ह्यधिकारिणः, अर्थाद् ईश्वरस्य स्वत्त्वाधिकारिणः ख्रीष्टेन सहाधिकारिणश्च भवामः; अपरं तेन सार्द्धं यदि दुःखभागिनो भवामस्तर्हि तस्य विभवस्यापि भागिनो भविष्यामः।
यीशुः प्रत्यवदत् मम राज्यम् एतज्जगत्सम्बन्धीयं न भवति यदि मम राज्यं जगत्सम्बन्धीयम् अभविष्यत् तर्हि यिहूदीयानां हस्तेषु यथा समर्पितो नाभवं तदर्थं मम सेवका अयोत्स्यन् किन्तु मम राज्यम् ऐहिकं न।
अपरं सर्व्वदेशीयलोकान् प्रतिमाक्षी भवितुं राजस्य शुभसमाचारः सर्व्वजगति प्रचारिष्यते, एतादृशि सति युगान्त उपस्थास्यति।
ततः स प्रत्यवदत्, स्वर्गराज्यस्य निगूढां कथां वेदितुं युष्मभ्यं सामर्थ्यमदायि, किन्तु तेभ्यो नादायि।