प्रत्येकं विशेषं दिनं ईश्वरस्य महिमानं प्रकाशयति। आनन्देन उत्सवेन च एते दिनानि पूर्णानि भवन्ति। यदा शान्त्या आनन्देन च जीवनं यापयसि तदा ईश्वरः प्रसन्नो भवति। एतेषु दिवसेषु भगवन्तं स्तुहि, विस्मर मा स्म यत् ईश्वर एव विशेषानाम् क्षणानां दाता अस्ति।
मम शोकं नृत्ये परिवर्तितवान् असि। शोकवस्त्रं निष्कास्य उत्सववस्त्रेण मां वेष्टितवान् असि। येन अहं भवतः स्तुतिं गानं च करवाणि, मौनं न तिष्ठामि। हे प्रभो, मम ईश्वर, सदा तव कृतज्ञोऽहं भविष्यामि! (भजनसंग्रहः ३०:११-१२)
पवित्रग्रन्थे बहूनि विशेषानां दिनानां पद्यानि सन्ति। केषाञ्चित् उदाहरणानि अत्र दत्तानि।
अपरञ्च निस्तारोत्सवात् परं पञ्चाशत्तमे दिने समुपस्थिते सति ते सर्व्वे एकाचित्तीभूय स्थान एकस्मिन् मिलिता आसन्।
तस्माद् यिहूदीयाः सन्तुष्टा अभवन् इति विज्ञाय स पितरमपि धर्त्तुं गतवान्। तदा किण्वशून्यपूपोत्सवसमय उपातिष्टत्; अत उत्सवे गते सति लोकानां समक्षं तं बहिरानेय्यामीति मनसि स्थिरीकृत्य स तं धारयित्वा रक्ष्णार्थम् येषाम् एकैकसंघे चत्वारो जनाः सन्ति तेषां चतुर्णां रक्षकसंघानां समीपे तं समर्प्य कारायां स्थापितवान्।
अनन्तरं यिहूदीयानां निस्तारोत्सवे निकटवर्त्तिनि सति तदुत्सवात् पूर्व्वं स्वान् शुचीन् कर्त्तुं बहवो जना ग्रामेभ्यो यिरूशालम् नगरम् आगच्छन्,
किण्वशून्यपूपोत्सवदिने च गते सति वयं फिलिपीनगरात् तोयपथेन गत्वा पञ्चभि र्दिनैस्त्रोयानगरम् उपस्थाय तत्र सप्तदिनान्यवातिष्ठाम।
अनन्तरम् उत्सवस्य चरमेऽहनि अर्थात् प्रधानदिने यीशुरुत्तिष्ठन् उच्चैःकारम् आह्वयन् उदितवान् यदि कश्चित् तृषार्त्तो भवति तर्हि ममान्तिकम् आगत्य पिवतु।
इत्थं बहुतिथः कालो यापित उपवासदिनञ्चातीतं, तत्कारणात् नौवर्त्मनि भयङ्करे सति पौलो विनयेन कथितवान्,
अतएव यूयम् उत्सवेऽस्मिन् यात नाहम् इदानीम् अस्मिन्नुत्सवे यामि यतो मम समय इदानीं न सम्पूर्णः।
अनन्तरं किण्वशून्यपूपोत्सवस्य प्रथमेऽहनि निस्तारोत्मवार्थं मेषमारणासमये शिष्यास्तं पप्रच्छः कुत्र गत्वा वयं निस्तारोत्सवस्य भोज्यमासादयिष्यामः? किमिच्छति भवान्?
अथ किण्वशून्यपूपोत्मवदिने, अर्थात् यस्मिन् दिने निस्तारोत्सवस्य मेषो हन्तव्यस्तस्मिन् दिने
अनन्तरं किण्वशून्यपूपपर्व्वणः प्रथमेह्नि शिष्या यीशुम् उपगत्य पप्रच्छुः भवत्कृते कुत्र वयं निस्तारमहभोज्यम् आयोजयिष्यामः? भवतः केच्छा?