भगवद्वचनं तु आश्वासकं, खण्डनार्थं, संशोधनार्थं, निर्माणार्थं, मार्गदर्शनार्थं, शान्त्यर्थं, उत्साहवर्धनार्थं, अस्माकं जीवने ईश्वरस्य उद्देश्यप्रकाशनाय च उपयुक्तम्। अत एव भगवद्वचनपाठनाय उत्तमसमयस्य आरक्षणं परमावश्यकम्।
तस्य ध्यानेन भगवन्तं जानासि, कठिनसमयेषु दृढः तिष्ठसि। पवित्रशास्त्रपाठेन परीक्षासु भक्तिः वर्धते, यतः तत्र महापुरुषाणां जीवनगाथाः प्रेरणादायकाः सन्ति। तत्र अनन्ताः कथाः, अनगणिताः अनुभूतयः लिखिताः सन्ति याः त्वां पोषयिष्यन्ति। त्वां प्रोत्साहयामि यत् एनं जीवनपोषकं ग्रन्थं पठ। अयं ग्रन्थः तव जीवनं बहुधा अनुगृहीष्यति।
बाइबले ईश्वरस्य आज्ञापालनार्थं, तस्य इच्छानुसारं जीवनयापनार्थं च मार्गदर्शनं प्राप्स्यसि। द्वितीयतिमोथी 3.16-17 इति वचनम् अस्ति यत्, "सर्वं शास्त्रं ईश्वरप्रेरितं, उपदेशाय, खण्डनाय, संशोधनाय, धर्मशिक्षणाय च उपयोगि, येन ईश्वरभक्तः सर्वेषु सत्कर्मसु निपुणः भवेत्।"
पितुः वाणीं श्रोतुम् एकः स्पष्टः उपायः तस्य वचनपाठनम् एव। सर्वदा तत् पठ, हृदये धारय, येन तव आत्मा, मनः, विचारश्च तेन आहारण पोषिताः भवेयुः यः तव अन्तर्मनुष्यं तृप्तं करोति। एतत् अज्ञानतिमिरनाशकं, बुद्धिवर्धकं ज्योतिः मा अवगणय। अस्य संसारस्य नाशवत्सु वस्तुषु जीवनं मा यापय, ईश्वरमुखनिःसृतवचने जीवनं यापय, तदा कठिनसमयेषु दृढः तिष्ठसि।
ईश्वरस्य वादोऽमरः प्रभावविशिष्टश्च सर्व्वस्माद् द्विधारखङ्गादपि तीक्ष्णः, अपरं प्राणात्मनो र्ग्रन्थिमज्जयोश्च परिभेदाय विच्छेदकारी मनसश्च सङ्कल्पानाम् अभिप्रेतानाञ्च विचारकः।
अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।
ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।
अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।
यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"
यः कश्चित् ममैताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा ज्ञानिना सह मयोपमीयते।
ईश्वरस्य महिमा यद् अस्माभिः प्रकाशेत तदर्थम् ईश्वरेण यद् यत् प्रतिज्ञातं तत्सर्व्वं ख्रीष्टेन स्वीकृतं सत्यीभूतञ्च।
ततः स प्रत्यब्रवीत्, इत्थं लिखितमास्ते, "मनुजः केवलपूपेन न जीविष्यति, किन्त्वीश्वरस्य वदनाद् यानि यानि वचांसि निःसरन्ति तैरेव जीविष्यति।"
यः कश्चिन्मयि विश्वसिति धर्म्मग्रन्थस्य वचनानुसारेण तस्याभ्यन्तरतोऽमृततोयस्य स्रोतांसि निर्गमिष्यन्ति।
यतः शास्त्रे लिखितमास्ते, यथा, पश्य पाषाण एको ऽस्ति सीयोनि स्थापितो मया। मुख्यकोणस्य योग्यः स वृतश्चातीव मूल्यवान्। यो जनो विश्वसेत् तस्मिन् स लज्जां न गमिष्यति।
अतो हेतो र्यूयं सर्व्वाम् अशुचिक्रियां दुष्टताबाहुल्यञ्च निक्षिप्य युष्मन्मनसां परित्राणे समर्थं रोपितं वाक्यं नम्रभावेन गृह्लीत।
युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।
हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि। अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे। एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्। यतो मम युगम् अनायासं मम भारश्च लघुः।
यदि यूयं मयि तिष्ठथ मम कथा च युष्मासु तिष्ठति तर्हि यद् वाञ्छित्वा याचिष्यध्वे युष्माकं तदेव सफलं भविष्यति।
ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।
अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।
सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।
अपरं युष्मान् अहं तथ्यं वदामि यावत् व्योममेदिन्यो र्ध्वंसो न भविष्यति, तावत् सर्व्वस्मिन् सफले न जाते व्यवस्थाया एका मात्रा बिन्दुरेकोपि वा न लोप्स्यते।
तस्यान्तिके ऽस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो ऽस्माकं वाक्यं शृणोति। स चास्माकं यत् किञ्चन याचनं शृणोतीति यदि जानीमस्तर्हि तस्माद् याचिता वरा अस्माभिः प्राप्यन्ते तदपि जानीमः।
युष्माकम् उपरि पापस्याधिपत्यं पुन र्न भविष्यति, यस्माद् यूयं व्यवस्थाया अनायत्ता अनुग्रहस्य चायत्ता अभवत।
यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।
मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।
यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत। तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।
अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।
किन्तु करुणानिधिरीश्वरो येन महाप्रेम्नास्मान् दयितवान् तस्य स्वप्रेम्नो बाहुल्याद् अपराधै र्मृतानप्यस्मान् ख्रीष्टेन सह जीवितवान् यतोऽनुग्रहाद् यूयं परित्राणं प्राप्ताः।
ईश्वरश्च धन्यो भवतु यतः सोऽस्माकं प्रभुना यीशुख्रीष्टेनास्मान् जययुक्तान् विधापयति।
अतएव कृपां ग्रहीतुं प्रयोजनीयोपकारार्थम् अनुग्रहं प्राप्तुञ्च वयम् उत्साहेनानुग्रहसिंहासनस्य समीपं यामः।
यदि स्वपापानि स्वीकुर्म्महे तर्हि स विश्वास्यो याथार्थिकश्चास्ति तस्माद् अस्माकं पापानि क्षमिष्यते सर्व्वस्माद् अधर्म्माच्चास्मान् शुद्धयिष्यति।
याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति। यस्माद् येन याच्यते, तेन लभ्यते; येन मृग्यते तेनोद्देशः प्राप्यते; येन च द्वारम् आहन्यते, तत्कृते द्वारं मोच्यते।
केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति।
विश्वासेन सपुण्यीकृता वयम् ईश्वरेण सार्द्धं प्रभुणास्माकं यीशुख्रीष्टेन मेलनं प्राप्ताः। फलतो वयं यदा रिपव आस्म तदेश्वरस्य पुत्रस्य मरणेन तेन सार्द्धं यद्यस्माकं मेलनं जातं तर्हि मेलनप्राप्ताः सन्तोऽवश्यं तस्य जीवनेन रक्षां लप्स्यामहे। तत् केवलं नहि किन्तु येन मेलनम् अलभामहि तेनास्माकं प्रभुणा यीशुख्रीष्टेन साम्प्रतम् ईश्वरे समानन्दामश्च। तथा सति, एकेन मानुषेण पापं पापेन च मरणं जगतीं प्राविशत् अपरं सर्व्वेषां पापित्वात् सर्व्वे मानुषा मृते र्निघ्ना अभवत्। यतो व्यवस्थादानसमयं यावत् जगति पापम् आसीत् किन्तु यत्र व्यवस्था न विद्यते तत्र पापस्यापि गणना न विद्यते। तथाप्यादमा यादृशं पापं कृतं तादृशं पापं यै र्नाकारि आदमम् आरभ्य मूसां यावत् तेषामप्युपरि मृत्यू राजत्वम् अकरोत् स आदम् भाव्यादमो निदर्शनमेवास्ते। किन्तु पापकर्म्मणो यादृशो भावस्तादृग् दानकर्म्मणो भावो न भवति यत एकस्य जनस्यापराधेन यदि बहूनां मरणम् अघटत तथापीश्वरानुग्रहस्तदनुग्रहमूलकं दानञ्चैकेन जनेनार्थाद् यीशुना ख्रीष्टेन बहुषु बाहुल्यातिबाहुल्येन फलति। अपरम् एकस्य जनस्य पापकर्म्म यादृक् फलयुक्तं दानकर्म्म तादृक् न भवति यतो विचारकर्म्मैकं पापम् आरभ्य दण्डजनकं बभूव, किन्तु दानकर्म्म बहुपापान्यारभ्य पुण्यजनकं बभूव। यत एकस्य जनस्य पापकर्म्मतस्तेनैकेन यदि मरणस्य राजत्वं जातं तर्हि ये जना अनुग्रहस्य बाहुल्यं पुण्यदानञ्च प्राप्नुवन्ति त एकेन जनेन, अर्थात् यीशुख्रीष्टेन, जीवने राजत्वम् अवश्यं करिष्यन्ति। एकोऽपराधो यद्वत् सर्व्वमानवानां दण्डगामी मार्गो ऽभवत् तद्वद् एकं पुण्यदानं सर्व्वमानवानां जीवनयुक्तपुण्यगामी मार्ग एव। अपरम् एकस्य जनस्याज्ञालङ्घनाद् यथा बहवो ऽपराधिनो जातास्तद्वद् एकस्याज्ञाचरणाद् बहवः सपुण्यीकृता भवन्ति। अपरं वयं यस्मिन् अनुग्रहाश्रये तिष्ठामस्तन्मध्यं विश्वासमार्गेण तेनैवानीता वयम् ईश्वरीयविभवप्राप्तिप्रत्याशया समानन्दामः।
जीवनार्थम् ईश्वरभक्त्यर्थञ्च यद्यद् आवश्यकं तत् सर्व्वं गौरवसद्गुणाभ्याम् अस्मदाह्वानकारिणस्तत्त्वज्ञानद्वारा तस्येश्वरीयशक्तिरस्मभ्यं दत्तवती।
सा प्रत्याशास्माकं मनोनौकाया अचलो लङ्गरो भूत्वा विच्छेदकवस्त्रस्याभ्यन्तरं प्रविष्टा।
यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।
ऽक्षयनिष्कलङ्काम्लानसम्पत्तिप्राप्त्यर्थम् अस्मान् पुन र्जनयामास। सा सम्पत्तिः स्वर्गे ऽस्माकं कृते सञ्चिता तिष्ठति, यूयञ्चेश्वरस्य शक्तितः शेषकाले प्रकाश्यपरित्राणार्थं विश्वासेन रक्ष्यध्वे।
ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।
पूर्णयत्नेन लक्ष्यं प्रति धावन् ख्रीष्टयीशुनोर्द्ध्वात् माम् आह्वयत ईश्वरात् जेतृपणं प्राप्तुं चेष्टे।
द्वौ चटकौ किमेकताम्रमुद्रया न विक्रीयेते? तथापि युष्मत्तातानुमतिं विना तेषामेकोपि भुवि न पतति। तस्य सहजो योहन्; फिलिप् बर्थलमय् थोमाः करसंग्राही मथिः, आल्फेयपुत्रो याकूब्, युष्मच्छिरसां सर्व्वकचा गणितांः सन्ति। अतो मा बिभीत, यूयं बहुचटकेभ्यो बहुमूल्याः।
यतः, यः कश्चित् परमेशस्य नाम्ना हि प्रार्थयिष्यते। स एव मनुजो नूनं परित्रातो भविष्यति।
अत उपयुक्तसमयात् पूर्व्वम् अर्थतः प्रभोरागमनात् पूर्व्वं युष्माभि र्विचारो न क्रियतां। प्रभुरागत्य तिमिरेण प्रच्छन्नानि सर्व्वाणि दीपयिष्यति मनसां मन्त्रणाश्च प्रकाशयिष्यति तस्मिन् समय ईश्वराद् एकैकस्य प्रशंसा भविष्यति।
यूयं जगति दीप्तिरूपाः, भूधरोपरि स्थितं नगरं गुप्तं भवितुं नहि शक्ष्यति। अपरं मनुजाः प्रदीपान् प्रज्वाल्य द्रोणाधो न स्थापयन्ति, किन्तु दीपाधारोपर्य्येव स्थापयन्ति, तेन ते दीपा गेहस्थितान् सकलान् प्रकाशयन्ति। येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।
अतो हे भ्रातरः, यीशो रुधिरेण पवित्रस्थानप्रवेशायास्माकम् उत्साहो भवति, यद्यशक्ष्यत् तर्हि तेषां बलीनां दानं किं न न्यवर्त्तिष्यत? यतः सेवाकारिष्वेककृत्वः पवित्रीभूतेषु तेषां कोऽपि पापबोधः पुन र्नाभविष्यत्। यतः सोऽस्मदर्थं तिरस्करिण्यार्थतः स्वशरीरेण नवीनं जीवनयुक्तञ्चैकं पन्थानं निर्म्मितवान्, अपरञ्चेश्वरीयपरिवारस्याध्यक्ष एको महायाजकोऽस्माकमस्ति। अतो हेतोरस्माभिः सरलान्तःकरणै र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज्ञा निश्चला धारयितव्या।
अपरम् अविश्वासाद् ईश्वरस्य प्रतिज्ञावचने कमपि संशयं न चकार; किन्त्वीश्वरेण यत् प्रतिश्रुतं तत् साधयितुं शक्यत इति निश्चितं विज्ञाय दृढविश्वासः सन् ईश्वरस्य महिमानं प्रकाशयाञ्चकार।
विश्वासरूपम् उत्तमयुद्धं कुरु, अनन्तजीवनम् आलम्बस्व यतस्तदर्थं त्वम् आहूतो ऽभवः, बहुसाक्षिणां समक्षञ्चोत्तमां प्रतिज्ञां स्वीकृतवान्।
तत् सर्व्वं शास्त्रम् ईश्वरस्यात्मना दत्तं शिक्षायै दोषबोधाय शोधनाय धर्म्मविनयाय च फलयूक्तं भवति तेन चेश्वरस्य लोको निपुणः सर्व्वस्मै सत्कर्म्मणे सुसज्जश्च भवति।
एतस्य भविष्यद्वक्तृग्रन्थस्य वाक्यानां पाठकः श्रोतारश्च तन्मध्ये लिखिताज्ञाग्राहिणश्च धन्या यतः स कालः सन्निकटः।