अस्ति ऐहिकीभिन्नः अपारः ऐश्वर्यः, नश्वरः न, कालग्रस्तोऽपि न, अपि तु सर्वस्थितिषु स्थिरः। ईश्वरप्रदत्तः एषः ऐश्वर्यः, सनातनः, न धनराश्याधारितः अपि तु आन्तरिकविकासमूलकः। निश्चयेन ईश्वरः तव सर्वाङ्गीणां सम्पदं कामयते, किन्तु आत्मनः सम्पदा सहैव एतत् सम्भवति। यदा भयं सङ्कटं च जयसि, मानवत्वेन वर्धसे, प्रतिदिनं श्रेष्ठतरः भवसि, तदा सम्पन्नः भवसि।
यहोशू १.८ (यहोशू १.८) नियमपुस्तकमिदं पठनात् मा विरम। रात्रिदिवयोः अस्य चिन्तनं कुरु यथा लिखितसर्वानुसारं कर्म करोषि। एवं तव मार्गः सम्पन्नः भविष्यति, कल्याणं च भविष्यति। बहवः जनाः हृदि ईश्वरं विना सम्पन्नाः भवन्ति, किन्तु ईश्वरवचनाचिन्तनाभावात् ते सुखं नानुभवन्ति। ईश्वराज्ञाभ्यः विधिभ्यश्च ते दूरं गन्तुम् इच्छन्ति। अन्ततः ते केवलं सुसमयं प्राप्नुवन्ति, न तु स्वातन्त्र्यसुखम्। ईश्वरः न इच्छति पुत्राः दुःखं भजेयुः, अतः सम्पदं दातुं पूर्वं सः त्वां संस्करिष्यति येन धनात् न पतसि, यतः "सर्वेषां दोषाणां मूलं धनकामना"। अतः पितुः बिबलनिर्दिष्टसिद्धान्तैः अनुसारं आचर यथा सुखेन जीवसि, मार्गश्च सम्पन्नः भवति। ईश्वरं सर्वोपरि प्रेम कुरु, तं जीवनस्य प्रथमं स्थानं देहि, तेन सः तुष्टः भूत्वा तव सर्वकर्माणि आशिषा पूरिष्यति, मानवानां प्रसादं प्राप्स्यसि, तस्य कृपा च सर्वत्र त्वां सहचारिणी भविष्यति।
दुइतिर्योपदेशः ८.१८ (दुइतिर्योपदेशः ८.१८) ईश्वरं स्मर यतः स एव सम्पदं प्राप्तुं शक्तिं ददाति, पितृभ्यः कृतप्रतिज्ञां पालयितुं, यथा अद्यापि भवति।
अहं तुभ्यं स्वर्गीयराज्यस्य कुञ्जिकां दास्यामि, तेन यत् किञ्चन त्वं पृथिव्यां भंत्स्यसि तत्स्वर्गे भंत्स्यते, यच्च किञ्चन मह्यां मोक्ष्यसि तत् स्वर्गे मोक्ष्यते।
ममागमनकाले यद् अर्थसंग्रहो न भवेत् तन्निमित्तं युष्माकमेकैकेन स्वसम्पदानुसारात् सञ्चयं कृत्वा सप्ताहस्य प्रथमदिवसे स्वसमीपे किञ्चित् निक्षिप्यतां।
अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।
इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता योऽमर ईश्वरस्तस्मिन् विश्वसन्तु सदाचारं कुर्व्वन्तु सत्कर्म्मधनेन धनिनो सुकला दातारश्च भवन्तु, यथा च सत्यं जीवनं पाप्नुयुस्तथा पारत्रिकाम् उत्तमसम्पदं सञ्चिन्वन्त्वेति त्वयादिश्यन्तां।
अतो हेतोरहं युष्मान् वच्मि, प्रार्थनाकाले यद्यदाकांक्षिष्यध्वे तत्तदवश्यं प्राप्स्यथ, इत्थं विश्वसित, ततः प्राप्स्यथ।
ततो लोकनिवहस्तेषां स्थानान्तरयानं ददर्श, अनेके तं परिचित्य नानापुरेभ्यः पदैर्व्रजित्वा जवेन तैषामग्रे यीशोः समीप उपतस्थुः। तदा यीशु र्नावो बहिर्गत्य लोकारण्यानीं दृष्ट्वा तेषु करुणां कृतवान् यतस्तेऽरक्षकमेषा इवासन् तदा स तान नानाप्रसङ्गान् उपदिष्टवान्।
दानानिदत्त तस्माद् यूयं दानानि प्राप्स्यथ, वरञ्च लोकाः परिमाणपात्रं प्रदलय्य सञ्चाल्य प्रोञ्चाल्य परिपूर्य्य युष्माकं क्रोडेषु समर्पयिष्यन्ति; यूयं येन परिमाणेन परिमाथ तेनैव परिमाणेन युष्मत्कृते परिमास्यते।
ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।
ख्रीष्टोऽस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतोऽस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सोऽभिशप्त इति।" तस्माद् ख्रीष्टेन यीशुनेव्राहीम आशी र्भिन्नजातीयलोकेषु वर्त्तते तेन वयं प्रतिज्ञातम् आत्मानं विश्वासेन लब्धुं शक्नुमः।
यूयञ्चास्मत्प्रभो र्यीशुख्रीष्टस्यानुग्रहं जानीथ यतस्तस्य निर्धनत्वेन यूयं यद् धनिनो भवथ तदर्थं स धनी सन्नपि युष्मत्कृते निर्धनोऽभवत्।
युष्माकं परस्परं प्रेम विना ऽन्यत् किमपि देयम् ऋणं न भवतु, यतो यः परस्मिन् प्रेम करोति तेन व्यवस्था सिध्यति।
अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।
येन वर्द्व्यते तस्मिन्नैवार्पिष्यते, तस्यैव च बाहुल्यं भविष्यति, किन्तु येन न वर्द्व्यते, तस्यान्तिके यत् किञ्चन तिष्ठति, तदपि पुनर्नेष्यते।
अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।
युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते।
याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति। यस्माद् येन याच्यते, तेन लभ्यते; येन मृग्यते तेनोद्देशः प्राप्यते; येन च द्वारम् आहन्यते, तत्कृते द्वारं मोच्यते।
अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।
युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।
अपरं यत्र स्थाने कीटाः कलङ्काश्च क्षयं नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं शक्नुवन्ति, तादृश्यां मेदिन्यां स्वार्थं धनं मा संचिनुत। त्वं यदा ददासि तदा कपटिनो जना यथा मनुजेभ्यः प्रशंसां प्राप्तुं भजनभवने राजमार्गे च तूरीं वादयन्ति, तथा मा कुरिु, अहं तुभ्यं यथार्थं कथयामि, ते स्वकायं फलम् अलभन्त। किन्तु यत्र स्थाने कीटाः कलङ्काश्च क्षयं न नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं न शक्नुवन्ति, तादृशे स्वर्गे धनं सञ्चिनुत।
इत्यत्र यिहूदिनि तदन्यलोके च कोपि विशेषो नास्ति यस्माद् यः सर्व्वेषाम् अद्वितीयः प्रभुः स निजयाचकान सर्व्वान् प्रति वदान्यो भवति।
इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता
आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?
किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।
युष्मत्समीपे ममागमनसमये ख्रीष्टस्य सुसंवादस्य पूर्णवरेण सम्बलितः सन् अहम् आगमिष्यामि इति मया ज्ञायते।
विश्वासेन सपुण्यीकृता वयम् ईश्वरेण सार्द्धं प्रभुणास्माकं यीशुख्रीष्टेन मेलनं प्राप्ताः।
बीजं भेजनीयम् अन्नञ्च वप्त्रे येन विश्राण्यते स युष्मभ्यम् अपि बीजं विश्राण्य बहुलीकरिष्यति युष्माकं धर्म्मफलानि वर्द्धयिष्यति च।
अन्यच्च यः कश्चित् मम नामकारणात् गृहं वा भ्रातरं वा भगिनीं वा पितरं वा मातरं वा जायां वा बालकं वा भूमिं परित्यजति, स तेषां शतगुणं लप्स्यते, अनन्तायुमोऽधिकारित्वञ्च प्राप्स्यति।
यतः, यः कश्चित् परमेशस्य नाम्ना हि प्रार्थयिष्यते। स एव मनुजो नूनं परित्रातो भविष्यति।