प्रिय, भवतः गृहम् आलयं वा आगच्छद्भ्यः, जीवने अस्माकं शान्तिं सन्देशं च आनयद्भ्यः, आशिषः कामये। तेषां गमनानन्तरं, तेषां जीवनं परिपूर्णं कुशलं च भवेत् इति कामनां वचनं च दातुम् इच्छामि। ईश्वरस्य वचने बहूनि प्रतिज्ञानानि सन्ति, यानि वयं आगन्तुकान् प्रति प्रदानं कर्तुं शक्नुमः।
यथा तृतीययोहनस्य १:२ वचने उक्तम्, "प्रिय, सर्वविषयेषु भवान् कुशलः भवेत्, आरोग्यवान् च भवेत्, यथा आत्मना भवान् कुशलः अस्ति, तथा कामये।" अत्र भवान् आगन्तुकेभ्यः ईश्वरस्य वचनानि दातुं बहूनि पद्यानि प्राप्स्यति।
ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।
अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।
अनन्तनियमस्य रुधिरेण विशिष्टो महान् मेषपालको येन मृतगणमध्यात् पुनरानायि स शान्तिदायक ईश्वरो निजाभिमतसाधनाय सर्व्वस्मिन् सत्कर्म्मणि युष्मान् सिद्धान् करोतु, तस्य दृष्टौ च यद्यत् तुष्टिजनकं तदेव युष्माकं मध्ये यीशुना ख्रीष्टेन साधयतु। तस्मै महिमा सर्व्वदा भूयात्। आमेन्।
यश्च मानवस्त्वां याचते, तस्मै देहि, यदि कश्चित् तुभ्यं धारयितुम् इच्छति, तर्हि तं प्रति परांमुखो मा भूः।
यश्च कश्चित् एतेषां क्षुद्रनराणाम् यं कञ्चनैकं शिष्य इति विदित्वा कंसैकं शीतलसलिलं तस्मै दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण फलेन न वञ्चिष्यते।
यतो बुभुक्षिताय मह्यं भोज्यम् अदत्त, पिपासिताय पेयमदत्त, विदेशिनं मां स्वस्थानमनयत, वस्त्रहीनं मां वसनं पर्य्यधापयत, पीडीतं मां द्रष्टुमागच्छत, कारास्थञ्च मां वीक्षितुम आगच्छत। तदा धार्म्मिकाः प्रतिवदिष्यन्ति, हे प्रभो, कदा त्वां क्षुधितं वीक्ष्य वयमभोजयाम? वा पिपासितं वीक्ष्य अपाययाम? कदा वा त्वां विदेशिनं विलोक्य स्वस्थानमनयाम? कदा वा त्वां नग्नं वीक्ष्य वसनं पर्य्यधापयाम? कदा वा त्वां पीडितं कारास्थञ्च वीक्ष्य त्वदन्तिकमगच्छाम? किन्तु सुधियः प्रदीपान् पात्रेण तैलञ्च जगृहुः। तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।
तथा "स्वप्रतिवासिनि स्ववत् प्रेम कुरुध्वं," एषा या द्वितीयाज्ञा सा तादृशी; एताभ्यां द्वाभ्याम् आज्ञाभ्याम् अन्या काप्याज्ञा श्रेष्ठा नास्ति।
किन्त्वेकः शोमिरोणीयो गच्छन् तत्स्थानं प्राप्य तं दृष्ट्वादयत। तस्यान्तिकं गत्वा तस्य क्षतेषु तैलं द्राक्षारसञ्च प्रक्षिप्य क्षतानि बद्ध्वा निजवाहनोपरि तमुपवेश्य प्रवासीयगृहम् आनीय तं सिषेवे। परस्मिन् दिवसे निजगमनकाले द्वौ मुद्रापादौ तद्गृहस्वामिने दत्त्वावदत् जनमेनं सेवस्व तत्र योऽधिको व्ययो भविष्यति तमहं पुनरागमनकाले परिशोत्स्यामि।
तदा स निमन्त्रयितारं जनमपि जगाद, मध्याह्ने रात्रौ वा भोज्ये कृते निजबन्धुगणो वा भ्रातृृगणो वा ज्ञातिगणो वा धनिगणो वा समीपवासिगणो वा एतान् न निमन्त्रय, तथा कृते चेत् ते त्वां निमन्त्रयिष्यन्ति, तर्हि परिशोधो भविष्यति। किन्तु यदा भेज्यं करोषि तदा दरिद्रशुष्ककरखञ्जान्धान् निमन्त्रय, तत आशिषं लप्स्यसे, तेषु परिशोधं कर्त्तुमशक्नुवत्सु श्मशानाद्धार्म्मिकानामुत्थानकाले त्वं फलां लप्स्यसे।
यद्यहं प्रभु र्गुरुश्च सन् युष्माकं पादान् प्रक्षालितवान् तर्हि युष्माकमपि परस्परं पादप्रक्षालनम् उचितम्। अहं युष्मान् प्रति यथा व्यवाहरं युष्मान् तथा व्यवहर्त्तुम् एकं पन्थानं दर्शितवान्।
अपरञ्च भिक्षादानादिषु नानक्रियासु नित्यं प्रवृत्ता या याफोनगरनिवासिनी टाबिथानामा शिष्या यां दर्क्कां अर्थाद् हरिणीमयुक्त्वा आह्वयन् सा नारी तस्मिन् समये रुग्ना सती प्राणान् अत्यजत्, ततो लोकास्तां प्रक्षाल्योपरिस्थप्रकोष्ठे शाययित्वास्थापयन्। लोद्नगरं याफोनगरस्य समीपस्थं तस्मात्तत्र पितर आस्ते, इति वार्त्तां श्रुत्वा तूर्णं तस्यागमनार्थं तस्मिन् विनयमुक्त्वा शिष्यगणो द्वौ मनुजौ प्रेषितवान्। तस्मात् पितर उत्थाय ताभ्यां सार्द्धम् आगच्छत्, तत्र तस्मिन् उपस्थित उपरिस्थप्रकोष्ठं समानीते च विधवाः स्वाभिः सह स्थितिकाले दर्क्कया कृतानि यान्युत्तरीयाणि परिधेयानि च तानि सर्व्वाणि तं दर्शयित्वा रुदत्यश्चतसृषु दिक्ष्वतिष्ठन्।
कैसरियानगर इतालियाख्यसैन्यान्तर्गतः कर्णीलियनामा सेनापतिरासीत् एतस्मिन् समये क्षुधार्त्तः सन् किञ्चिद् भोक्तुम् ऐच्छत् किन्तु तेषाम् अन्नासादनसमये स मूर्च्छितः सन्नपतत्। ततो मेघद्वारं मुक्तं चतुर्भिः कोणै र्लम्बितं बृहद्वस्त्रमिव किञ्चन भाजनम् आकाशात् पृथिवीम् अवारोहतीति दृष्टवान्। तन्मध्ये नानप्रकारा ग्राम्यवन्यपशवः खेचरोरोगामिप्रभृतयो जन्तवश्चासन्। अनन्तरं हे पितर उत्थाय हत्वा भुंक्ष्व तम्प्रतीयं गगणीया वाणी जाता। तदा पितरः प्रत्यवदत्, हे प्रभो ईदृशं मा भवतु, अहम् एतत् कालं यावत् निषिद्धम् अशुचि वा द्रव्यं किञ्चिदपि न भुक्तवान्। ततः पुनरपि तादृशी विहयसीया वाणी जाता यद् ईश्वरः शुचि कृतवान् तत् त्वं निषिद्धं न जानीहि। इत्थं त्रिः सति तत् पात्रं पुनराकृष्टं आकाशम् अगच्छत्। ततः परं यद् दर्शनं प्राप्तवान् तस्य को भाव इत्यत्र पितरो मनसा सन्देग्धि, एतस्मिन् समये कर्णीलियस्य ते प्रेषिता मनुष्या द्वारस्य सन्निधावुपस्थाय, शिमोनो गृहमन्विच्छन्तः सम्पृछ्याहूय कथितवन्तः पितरनाम्ना विख्यातो यः शिमोन् स किमत्र प्रवसति? यदा पितरस्तद्दर्शनस्य भावं मनसान्दोलयति तदात्मा तमवदत्, पश्य त्रयो जनास्त्वां मृगयन्ते। स सपरिवारो भक्त ईश्वरपरायणश्चासीत्; लोकेभ्यो बहूनि दानादीनि दत्वा निरन्तरम् ईश्वरे प्रार्थयाञ्चक्रे।
अतः सा योषित् सपरिवारा मज्जिता सती विनयं कृत्वा कथितवती, युष्माकं विचाराद् यदि प्रभौ विश्वासिनी जाताहं तर्हि मम गृहम् आगत्य तिष्ठत। इत्थं सा यत्नेनास्मान् अस्थापयत्।
बलवद्भिरस्माभि र्दुर्ब्बलानां दौर्ब्बल्यं सोढव्यं न च स्वेषाम् इष्टाचार आचरितव्यः। अपरमपि लिखितम् आस्ते, हे अन्यजातयो यूयं समं नन्दत तज्जनैः। पुनश्च लिखितम् आस्ते, हे सर्व्वदेशिनो यूयं धन्यं ब्रूत परेश्वरं। हे तदीयनरा यूयं कुरुध्वं तत्प्रशंसनं॥ अपर यीशायियोऽपि लिलेख, यीशयस्य तु यत् मूलं तत् प्रकाशिष्यते तदा। सर्व्वजातीयनृणाञ्च शासकः समुदेष्यति। तत्रान्यदेशिलोकैश्च प्रत्याशा प्रकरिष्यते॥ अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु। हे भ्रातरो यूयं सद्भावयुक्ताः सर्व्वप्रकारेण ज्ञानेन च सम्पूर्णाः परस्परोपदेशे च तत्परा इत्यहं निश्चितं जानामि, तथाप्यहं यत् प्रगल्भतरो भवन् युष्मान् प्रबोधयामि तस्यैकं कारणमिदं। भिन्नजातीयाः पवित्रेणात्मना पावितनैवेद्यरूपा भूत्वा यद् ग्राह्या भवेयुस्तन्निमित्तमहम् ईश्वरस्य सुसंवादं प्रचारयितुं भिन्नजातीयानां मध्ये यीशुख्रीष्टस्य सेवकत्वं दानं ईश्वरात् लब्धवानस्मि। ईश्वरं प्रति यीशुख्रीष्टेन मम श्लाघाकरणस्य कारणम् आस्ते। भिन्नदेशिन आज्ञाग्राहिणः कर्त्तुं ख्रीष्टो वाक्येन क्रियया च, आश्चर्य्यलक्षणैश्चित्रक्रियाभिः पवित्रस्यात्मनः प्रभावेन च यानि कर्म्माणि मया साधितवान्, केवलं तान्येव विनान्यस्य कस्यचित् कर्म्मणो वर्णनां कर्त्तुं प्रगल्भो न भवामि। तस्मात् आ यिरूशालम इल्लूरिकं यावत् सर्व्वत्र ख्रीष्टस्य सुसंवादं प्राचारयं। अस्माकम् एकैको जनः स्वसमीपवासिनो हितार्थं निष्ठार्थञ्च तस्यैवेष्टाचारम् आचरतु।
शरीरमध्ये यद् भेदो न भवेत् किन्तु सर्व्वाण्यङ्गानि यद् ऐक्यभावेन सर्व्वेषां हितं चिन्तयन्ति तदर्थम् ईश्वरेणाप्रधानम् आदरणीयं कृत्वा शरीरं विरचितं। तस्माद् एकस्याङ्गस्य पीडायां जातायां सर्व्वाण्यङ्गानि तेन सह पीड्यन्ते, एकस्य समादरे जाते च सर्व्वाणि तेन सह संहृष्यन्ति।
एतयोपकारसेवया पवित्रलोकानाम् अर्थाभावस्य प्रतीकारो जायत इति केवलं नहि किन्त्वीश्चरस्य धन्यवादोऽपि बाहुल्येनोत्पाद्यते। यत एतस्माद् उपकारकरणाद् युष्माकं परीक्षितत्वं बुद्ध्वा बहुभिः ख्रीष्टसुसंवादाङ्गीकरणे युष्माकम् आज्ञाग्राहित्वात् तद्भागित्वे च तान् अपरांश्च प्रति युष्माकं दातृत्वाद् ईश्वरस्य धन्यवादः कारिष्यते,
अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः।
यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।
विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं। यतो मम सेवने युष्माकं त्रुटिं पूरयितुं स प्राणान् पणीकृत्य ख्रीष्टस्य कार्य्यार्थं मृतप्रायेऽभवत्। केवलम् आत्महिताय न चेष्टमानाः परहितायापि चेष्टध्वं।
अतएव यूयम् ईश्वरस्य मनोभिलषिताः पवित्राः प्रियाश्च लोका इव स्नेहयुक्ताम् अनुकम्पां हितैषितां नम्रतां तितिक्षां सहिष्णुताञ्च परिधद्ध्वं। यूयम् एकैकस्याचरणं सहध्वं येन च यस्य किमप्यपराध्यते तस्य तं दोषं स क्षमतां, ख्रीष्टो युष्माकं दोषान् यद्वद् क्षमितवान् यूयमपि तद्वत् कुरुध्वं। विशेषतः सिद्धिजनकेन प्रेमबन्धनेन बद्धा भवत।
हे भ्रातरः, युष्मान् विनयामहे यूयम् अविहिताचारिणो लोकान् भर्त्सयध्वं, क्षुद्रमनसः सान्त्वयत, दुर्ब्बलान् उपकुरुत, सर्व्वान् प्रति सहिष्णवो भवत च।
सा यत् शिशुपोषणेनातिथिसेवनेन पवित्रलोकानां चरणप्रक्षालनेन क्लिष्टानाम् उपकारेण सर्व्वविधसत्कर्म्माचरणेन च सत्कर्म्मकरणात् सुख्यातिप्राप्ता भवेत् तदप्यावश्यकं।
अपरम् अस्मदीयलोका यन्निष्फला न भवेयुस्तदर्थं प्रयोजनीयोपकाराया सत्कर्म्माण्यनुष्ठातुं शिक्षन्तां।
अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं। अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।
भ्रातृषु प्रेम तिष्ठतु। अतिथिसेवा युष्माभि र्न विस्मर्य्यतां ये दष्यस्य सेवां कुर्व्वन्ति ते यस्या द्रव्यभोजनस्यानधिकारिणस्तादृशी यज्ञवेदिरस्माकम् आस्ते। यतो येषां पशूनां शोणितं पापनाशाय महायाजकेन महापवित्रस्थानस्याभ्यन्तरं नीयते तेषां शरीराणि शिबिराद् बहि र्दह्यन्ते। तस्माद् यीशुरपि यत् स्वरुधिरेण प्रजाः पवित्रीकुर्य्यात् तदर्थं नगरद्वारस्य बहि र्मृतिं भुक्तवान्। अतो हेतोरस्माभिरपि तस्यापमानं सहमानैः शिबिराद् बहिस्तस्य समीपं गन्तव्यं। यतो ऽत्रास्माकं स्थायि नगरं न विद्यते किन्तु भावि नगरम् अस्माभिरन्विष्यते। अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं। अपरञ्च परोपकारो दानञ्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते। यूयं स्वनायकानाम् आज्ञाग्राहिणो वश्याश्च भवत यतो यैरुपनिधिः प्रतिदातव्यस्तादृशा लोका इव ते युष्मदीयात्मनां रक्षणार्थं जाग्रति, अतस्ते यथा सानन्दास्तत् कुर्य्यु र्न च सार्त्तस्वरा अत्र यतध्वं यतस्तेषाम् आर्त्तस्वरो युष्माकम् इष्टजनको न भवेत्। अपरञ्च यूयम् अस्मन्निमित्तिं प्रार्थनां कुरुत यतो वयम् उत्तममनोविशिष्टाः सर्व्वत्र सदाचारं कर्त्तुम् इच्छुकाश्च भवाम इति निश्चितं जानीमः। विशेषतोऽहं यथा त्वरया युष्मभ्यं पुन र्दीये तदर्थं प्रार्थनायै युष्मान् अधिकं विनये। यतस्तया प्रच्छन्नरूपेण दिव्यदूताः केषाञ्चिद् अतिथयोऽभवन्।
क्लेशकाले पितृहीनानां विधवानाञ्च यद् अवेक्षणं संसाराच्च निष्कलङ्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः।
सांसारिकजीविकाप्राप्तो यो जनः स्वभ्रातरं दीनं दृष्ट्वा तस्मात् स्वीयदयां रुणद्धि तस्यान्तर ईश्वरस्य प्रेम कथं तिष्ठेत्? हे मम प्रियबालकाः, वाक्येन जिह्वया वास्माभिः प्रेम न कर्त्तव्यं किन्तु कार्य्येण सत्यतया चैव।
अन्यञ्च मनुजान् व्याकुलान् अरक्षकमेषानिव च त्यक्तान् निरीक्ष्य तेषु कारुणिकः सन् शिष्यान् अवदत्,
हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि। अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे। एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्। यतो मम युगम् अनायासं मम भारश्च लघुः।
यद्यपि तव भ्राता त्वयि किमप्यपराध्यति, तर्हि गत्वा युवयोर्द्वयोः स्थितयोस्तस्यापराधं तं ज्ञापय। तत्र स यदि तव वाक्यं शृणोति, तर्हि त्वं स्वभ्रातरं प्राप्तवान्, किन्तु यदि न शृणोति, तर्हि द्वाभ्यां त्रिभि र्वा साक्षीभिः सर्व्वं वाक्यं यथा निश्चितं जायते, तदर्थम् एकं द्वौ वा साक्षिणौ गृहीत्वा याहि। तेन स यदि तयो र्वाक्यं न मान्यते, तर्हि समाजं तज्ज्ञापय, किन्तु यदि समाजस्यापि वाक्यं न मान्यते,तर्हि स तव समीपे देवपूजकइव चण्डालइव च भविष्यति।
आत्मा तु परमेशस्य मदीयोपरि विद्यते। दरिद्रेषु सुसंवादं वक्तुं मां सोभिषिक्तवान्। भग्नान्तः करणाल्लोकान् सुस्वस्थान् कर्त्तुमेव च। बन्दीकृतेषु लोकेषु मुक्ते र्घोषयितुं वचः। नेत्राणि दातुमन्धेभ्यस्त्रातुं बद्धजनानपि।
प्रभुस्तां विलोक्य सानुकम्पः कथयामास, मा रोदीः। स समीपमित्वा खट्वां पस्पर्श तस्माद् वाहकाः स्थगितास्तम्युः;
अहं युष्मासु यथा प्रीये यूयमपि परस्परं तथा प्रीयध्वम् एषा ममाज्ञा। मित्राणां कारणात् स्वप्राणदानपर्य्यन्तं यत् प्रेम तस्मान् महाप्रेम कस्यापि नास्ति।
विश्वासकारिणः सर्व्व च सह तिष्ठनतः। स्वेषां सर्व्वाः सम्पत्तीः साधारण्येन स्थापयित्वाभुञ्जत। फलतो गृहाणि द्रव्याणि च सर्व्वाणि विक्रीय सर्व्वेषां स्वस्वप्रयोजनानुसारेण विभज्य सर्व्वेभ्योऽददन्।
अपरञ्च प्रत्ययकारिलोकसमूहा एकमनस एकचित्तीभूय स्थिताः। तेषां केपि निजसम्पत्तिं स्वीयां नाजानन् किन्तु तेषां सर्व्वाः सम्पत्त्यः साधारण्येन स्थिताः। अन्यच्च प्रेरिता महाशक्तिप्रकाशपूर्व्वकं प्रभो र्यीशोरुत्थाने साक्ष्यम् अददुः, तेषु सर्व्वेषु महानुग्रहोऽभवच्च। तेषां मध्ये कस्यापि द्रव्यन्यूनता नाभवद् यतस्तेषां गृहभूम्याद्या याः सम्पत्तय आसन् ता विक्रीय तन्मूल्यमानीय प्रेरितानां चरणेषु तैः स्थापितं; ततः प्रत्येकशः प्रयोजनानुसारेण दत्तमभवत्।
किंक्रीयानगरीयधर्म्मसमाजस्य परिचारिका या फैबीनामिकास्माकं धर्म्मभगिनी तस्याः कृतेऽहं युष्मान् निवेदयामि, अपरं ख्रीष्टेन परीक्षितम् आपिल्लिं मम नमस्कारं वदत, आरिष्टबूलस्य परिजनांश्च मम नमस्कारं ज्ञापयध्वं। अपरं मम ज्ञातिं हेरोदियोनं मम नमस्कारं वदत, तथा नार्किसस्य परिवाराणां मध्ये ये प्रभुमाश्रितास्तान् मम नमस्कारं वदत। अपरं प्रभोः सेवायां परिश्रमकारिण्यौ त्रुफेनात्रुफोषे मम नमस्कारं वदत, तथा प्रभोः सेवायाम् अत्यन्तं परिश्रमकारिणी या प्रिया पर्षिस्तां नमस्कारं ज्ञापयध्वं। अपरं प्रभोरभिरुचितं रूफं मम धर्म्ममाता या तस्य माता तामपि नमस्कारं वदत। अपरम् असुंकृतं फ्लिगोनं हर्म्मं पात्रबं हर्म्मिम् एतेषां सङ्गिभ्रातृगणञ्च नमस्कारं ज्ञापयध्वं। अपरं फिललगो यूलिया नीरियस्तस्य भगिन्यलुम्पा चैतान् एतैः सार्द्धं यावन्तः पवित्रलोका आसते तानपि नमस्कारं ज्ञापयध्वं। यूयं परस्परं पवित्रचुम्बनेन नमस्कुरुध्वं। ख्रीष्टस्य धर्म्मसमाजगणो युष्मान् नमस्कुरुते। हे भ्रातरो युष्मान् विनयेऽहं युष्माभि र्या शिक्षा लब्धा ताम् अतिक्रम्य ये विच्छेदान् विघ्नांश्च कुर्व्वन्ति तान् निश्चिनुत तेषां सङ्गं वर्जयत च। यतस्तादृशा लोका अस्माकं प्रभो र्यीशुख्रीष्टस्य दासा इति नहि किन्तु स्वोदरस्यैव दासाः; अपरं प्रणयवचनै र्मधुरवाक्यैश्च सरललोकानां मनांसि मोहयन्ति। युष्माकम् आज्ञाग्राहित्वं सर्व्वत्र सर्व्वै र्ज्ञातं ततोऽहं युष्मासु सानन्दोऽभवं तथापि यूयं यत् सत्ज्ञानेन ज्ञानिनः कुज्ञानेे चातत्परा भवेतेति ममाभिलाषः। यूयं तां प्रभुमाश्रितां विज्ञाय तस्या आतिथ्यं पवित्रलोकार्हं कुरुध्वं, युष्मत्तस्तस्या य उपकारो भवितुं शक्नोति तं कुरुध्वं, यस्मात् तया बहूनां मम चोपकारः कृतः।
वयञ्च यत् पवित्रलोकेभ्यस्तेषां दानम् उपकारार्थकम् अंशनञ्च गृह्लामस्तद् बहुनुनयेनास्मान् प्रार्थितवन्तः।
एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते।
अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन् तस्मात् मम यादृशं युद्धं युष्माभिरदर्शि साम्प्रतं श्रूयते च तादृशं युद्धं युष्माकम् अपि भवति। यति वारान् युष्माकं स्मरामि तति वारान् आ प्रथमाद् अद्य यावद् युष्माकं सुसंवादभागित्वकारणाद् ईश्वरं धन्यं वदामि।
हे फिलिपीयलोकाः, सुसंवादस्योदयकाले यदाहं माकिदनियादेशात् प्रतिष्ठे तदा केवलान् युष्मान् विनापरया कयापि समित्या सह दानादानयो र्मम कोऽपि सम्बन्धो नासीद् इति यूयमपि जानीथ। यतो युष्माभि र्मम प्रयोजनाय थिषलनीकीनगरमपि मां प्रति पुनः पुनर्दानं प्रेषितं।
वयं सर्व्वेषां युष्माकं कृते ईश्वरं धन्यं वदामः प्रार्थनासमये युष्माकं नामोच्चारयामः, अस्माकं तातस्येश्वरस्य साक्षात् प्रभौ यीशुख्रीष्टे युष्माकं विश्वासेन यत् कार्य्यं प्रेम्ना यः परिश्रमः प्रत्याशया च या तितिक्षा जायते
हे भ्रातरः, युष्माकं कृते सर्व्वदा यथायोग्यम् ईश्वरस्य धन्यवादो ऽस्माभिः कर्त्तव्यः, यतो हेतो र्युष्माकं विश्वास उत्तरोत्तरं वर्द्धते परस्परम् एकैकस्य प्रेम च बहुफलं भवति।
किन्तु यावद् अद्यनामा समयो विद्यते तावद् युष्मन्मध्ये कोऽपि पापस्य वञ्चनया यत् कठोरीकृतो न भवेत् तदर्थं प्रतिदिनं परस्परम् उपदिशत।
यतो युष्माभिः पवित्रलोकानां य उपकारो ऽकारि क्रियते च तेनेश्वरस्य नाम्ने प्रकाशितं प्रेम श्रमञ्च विस्मर्त्तुम् ईश्वरोऽन्यायकारी न भवति।
यूयं प्रेमचुम्बनेन परस्परं नमस्कुरुत। यीशुख्रीष्टाश्रितानां युष्माकं सर्व्वेषां शान्ति र्भूयात्। आमेन्।
तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।
एषां त्रयाणां मध्ये तस्य दस्युहस्तपतितस्य जनस्य समीपवासी कः? त्वया किं बुध्यते? ततः स व्यवस्थापकः कथयामास यस्तस्मिन् दयां चकार। तदा यीशुः कथयामास त्वमपि गत्वा तथाचर।
यूयं परस्परं प्रीयध्वम् अहं युष्मासु यथा प्रीये यूयमपि परस्परम् तथैव प्रीयध्वं, युष्मान् इमां नवीनाम् आज्ञाम् आदिशामि। तेनैव यदि परस्परं प्रीयध्वे तर्हि लक्षणेनानेन यूयं मम शिष्या इति सर्व्वे ज्ञातुं शक्ष्यन्ति।
अपरञ्च भिक्षादानादिषु नानक्रियासु नित्यं प्रवृत्ता या याफोनगरनिवासिनी टाबिथानामा शिष्या यां दर्क्कां अर्थाद् हरिणीमयुक्त्वा आह्वयन् सा नारी
हे भ्रातरः, यूयं स्वातन्त्र्यार्थम् आहूता आध्वे किन्तु तत्स्वातन्त्र्यद्वारेण शारीरिकभावो युष्मान् न प्रविशतु। यूयं प्रेम्ना परस्परं परिचर्य्यां कुरुध्वं।
योऽमर ईश्वरस्तस्मिन् विश्वसन्तु सदाचारं कुर्व्वन्तु सत्कर्म्मधनेन धनिनो सुकला दातारश्च भवन्तु,
यतः स यथास्मान् सर्व्वस्माद् अधर्म्मात् मोचयित्वा निजाधिकारस्वरूपं सत्कर्म्मसूत्सुकम् एकं प्रजावर्गं पावयेत् तदर्थम् अस्माकं कृते आत्मदानं कृतवान्।
अपरञ्च परोपकारो दानञ्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते।
केषुचिद् भ्रातृषु भगिनीषु वा वसनहीनेषु प्रात्यहिकाहारहीनेषु च सत्सु युष्माकं कोऽपि तेभ्यः शरीरार्थं प्रयोजनीयानि द्रव्याणि न दत्वा यदि तान् वदेत्, यूयं सकुशलं गत्वोष्णगात्रा भवत तृप्यत चेति तर्ह्येतेन किं फलं?
येन यो वरो लब्धस्तेनैव स परम् उपकरोतृ, इत्थं यूयम् ईश्वरस्य बहुविधप्रसादस्योत्तमा भाण्डागाराधिपा भवत।
किन्तु स यथा ज्योतिषि वर्त्तते तथा वयमपि यदि ज्योतिषि चरामस्तर्हि परस्परं सहभागिनो भवामस्तस्य पुत्रस्य यीशुख्रीष्टस्य रुधिरञ्चास्मान् सर्व्वस्मात् पापात् शुद्धयति।