आत्मिकं जगत् अस्ति यत्र प्रार्थनया ईश्वरस्य वचनेन च युद्धं कर्तव्यम्। अस्मिन् आत्मिके जगति महान्ति युद्धानि सन्ति। ईश्वरस्य अलौकिकं कार्यं अत्रैव भवति। न केवलं दुष्टशक्तीनां विरुद्धं युध्यते अपि तु अत्रैव चमत्काराणां प्राप्तिः, जीवनविजयं च भवति। यतः अस्माकं युद्धं मानवानां विरुद्धं नास्ति, अपि तु अधिपतीनां, प्रभुशक्तीनां, अन्धकारस्य अधिपतीनां, खगोलीयदुष्टात्मशक्तीनां विरुद्धम् अस्ति। (इफिसीय ६:१२) अस्मिन् पवित्रे वचने ईश्वरः आत्मिकजगतः उल्लेखं करोति यत्र केवलं तस्य उपस्थित्या युद्धं कर्तुं शक्यते। यद्यपि वयं लोके वसामः तथापि लोकस्य युद्धरीत्या न युध्येम। अस्माकं आयुधानि लौकिकानि न सन्ति अपि तु दिव्यानि सन्ति येन दुर्गाणि नाशयितुं शक्नुमः। (२ कुरिन्थीय १०:३-४)
अन्यस्मै दुःसाध्यसाधनशक्तिरन्यस्मै चेश्वरीयादेशः, अन्यस्मै चातिमानुषिकस्यादेशस्य विचारसामर्थ्यम्, अन्यस्मै परभाषाभाषणशक्तिरन्यस्मै च भाषार्थभाषणसामर्यं दीयते।
केचित् केचित् समितावीश्वरेण प्रथमतः प्रेरिता द्वितीयत ईश्वरीयादेशवक्तारस्तृतीयत उपदेष्टारो नियुक्ताः, ततः परं केभ्योऽपि चित्रकार्य्यसाधनसामर्थ्यम् अनामयकरणशक्तिरुपकृतौ लोकशासने वा नैपुण्यं नानाभाषाभाषणसामर्थ्यं वा तेन व्यतारि।
यूयञ्च ख्रीष्टस्य शरीरं, युष्माकम् एकैकश्च तस्यैकैकम् अङ्गं। केचित् केचित् समितावीश्वरेण प्रथमतः प्रेरिता द्वितीयत ईश्वरीयादेशवक्तारस्तृतीयत उपदेष्टारो नियुक्ताः, ततः परं केभ्योऽपि चित्रकार्य्यसाधनसामर्थ्यम् अनामयकरणशक्तिरुपकृतौ लोकशासने वा नैपुण्यं नानाभाषाभाषणसामर्थ्यं वा तेन व्यतारि। सर्व्वे किं प्रेरिताः? सर्व्वे किम् ईश्वरीयादेशवक्तारः? सर्व्वे किम् उपदेष्टारः? सर्व्वे किं चित्रकार्य्यसाधकाः? इति हेतोरहं युष्मभ्यं निवेदयामि, ईश्वरस्यात्मना भाषमाणः कोऽपि यीशुं शप्त इति न व्याहरति, पुनश्च पवित्रेणात्मना विनीतं विनान्यः कोऽपि यीशुं प्रभुरिति व्याहर्त्तुं न शक्नोति। सर्व्वे किम् अनामयकरणशक्तियुक्ताः? सर्व्वे किं परभाषावादिनः? सर्व्वे वा किं परभाषार्थप्रकाशकाः? यूयं श्रेष्ठदायान् लब्धुं यतध्वं। अनेन यूयं मया सर्व्वोत्तममार्गं दर्शयितव्याः।
सर्व्वे किम् अनामयकरणशक्तियुक्ताः? सर्व्वे किं परभाषावादिनः? सर्व्वे वा किं परभाषार्थप्रकाशकाः?
मर्त्यस्वर्गीयाणां भाषा भाषमाणोऽहं यदि प्रेमहीनो भवेयं तर्हि वादकतालस्वरूपो निनादकारिभेरीस्वरूपश्च भवामि।
तस्मात् सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त आत्मा यथा वाचितवान् तदनुसारेणान्यदेशीयानां भाषा उक्तवन्तः।
यूयं प्रेमाचरणे प्रयतध्वम् आत्मिकान् दायानपि विशेषत ईश्वरीयादेशकथनसामर्थ्यं प्राप्तुं चेष्टध्वं। जगति कतिप्रकारा उक्तयो विद्यन्ते? तासामेकापि निरर्थिका नहि; किन्तूक्तेरर्थो यदि मया न बुध्यते तर्ह्यहं वक्त्रा म्लेच्छ इव मंस्ये वक्तापि मया म्लेच्छ इव मंस्यते। तस्माद् आत्मिकदायलिप्सवो यूयं समिते र्निष्ठार्थं प्राप्तबहुवरा भवितुं यतध्वं, अतएव परभाषावादी यद् अर्थकरोऽपि भवेत् तत् प्रार्थयतां। यद्यहं परभाषया प्रर्थनां कुर्य्यां तर्हि मदीय आत्मा प्रार्थयते, किन्तु मम बुद्धि र्निष्फला तिष्ठति। इत्यनेन किं करणीयं? अहम् आत्मना प्रार्थयिष्ये बुद्ध्यापि प्रार्थयिष्ये; अपरं आत्मना गास्यामि बुद्ध्यापि गास्यामि। त्वं यदात्मना धन्यवादं करोषि तदा यद् वदसि तद् यदि शिष्येनेवोपस्थितेन जनेन न बुद्ध्यते तर्हि तव धन्यवादस्यान्ते तथास्त्विति तेन वक्तं कथं शक्यते? त्वं सम्यग् ईश्वरं धन्यं वदसीति सत्यं तथापि तत्र परस्य निष्ठा न भवति। युष्माकं सर्व्वेभ्योऽहं परभाषाभाषणे समर्थोऽस्मीति कारणाद् ईश्वरं धन्यं वदामि; तथापि समितौ परोपदेशार्थं मया कथितानि पञ्च वाक्यानि वरं न च लक्षं परभाषीयानि वाक्यानि। यो जनः परभाषां भाषते स मानुषान् न सम्भाषते किन्त्वीश्वरमेव यतः केनापि किमपि न बुध्यते स चात्मना निगूढवाक्यानि कथयति; हे भ्रातरः,यूयं बुद्ध्या बालकाइव मा भूत परन्तु दुष्टतया शिशवइव भूत्वा बुद्ध्या सिद्धा भवत। शास्त्र इदं लिखितमास्ते, यथा, इत्यवोचत् परेशोऽहम् आभाषिष्य इमान् जनान्। भाषाभिः परकीयाभि र्वक्त्रैश्च परदेशिभिः। तथा मया कृतेऽपीमे न ग्रहीष्यन्ति मद्वचः॥ अतएव तत् परभाषाभाषणं अविश्चासिनः प्रति चिह्नरूपं भवति न च विश्वासिनः प्रति; किन्त्वीश्वरीयादेशकथनं नाविश्वासिनः प्रति तद् विश्वासिनः प्रत्येव। समितिभुक्तेषु सर्व्वेषु एकस्मिन् स्थाने मिलित्वा परभाषां भाषमाणेषु यदि ज्ञानाकाङ्क्षिणोऽविश्वासिनो वा तत्रागच्छेयुस्तर्हि युष्मान् उन्मत्तान् किं न वदिष्यन्ति? किन्तु सर्व्वेष्वीश्वरीयादेशं प्रकाशयत्सु यद्यविश्वासी ज्ञानाकाङ्क्षी वा कश्चित् तत्रागच्छति तर्हि सर्व्वैरेव तस्य पापज्ञानं परीक्षा च जायते, ततस्तस्यान्तःकरणस्य गुप्तकल्पनासु व्यक्तीभूतासु सोऽधोमुखः पतन् ईश्वरमाराध्य युष्मन्मध्य ईश्वरो विद्यते इति सत्यं कथामेतां कथयिष्यति। हे भ्रातरः, सम्मिलितानां युष्माकम् एकेन गीतम् अन्येनोपदेशोऽन्येन परभाषान्येन ऐश्वरिकदर्शनम् अन्येनार्थबोधकं वाक्यं लभ्यते किमेतत्? सर्व्वमेव परनिष्ठार्थं युष्माभिः क्रियतां। यदि कश्चिद् भाषान्तरं विवक्षति तर्ह्येकस्मिन् दिने द्विजनेन त्रिजनेन वा परभााषा कथ्यतां तदधिकैर्न कथ्यतां तैरपि पर्य्यायानुसारात् कथ्यतां, एकेन च तदर्थो बोध्यतां। किन्त्वर्थाभिधायकः कोऽपि यदि न विद्यते तर्हि स समितौ वाचंयमः स्थित्वेश्वरायात्मने च कथां कथयतु। अपरं द्वौ त्रयो वेश्वरीयादेशवक्तारः स्वं स्वमादेशं कथयन्तु तदन्ये च तं विचारयन्तु। किन्तु यो जन ईश्वरीयादेशं कथयति स परेषां निष्ठायै हितोपदेशाय सान्त्वनायै च भाषते। किन्तु तत्रापरेण केनचित् जनेनेश्वरीयादेशे लब्धे प्रथमेन कथनात् निवर्त्तितव्यं। सर्व्वे यत् शिक्षां सान्त्वनाञ्च लभन्ते तदर्थं यूयं सर्व्वे पर्य्यायेणेश्वरीयादेशं कथयितुं शक्नुथ। ईश्वरीयादेशवक्तृणां मनांसि तेषाम् अधीनानि भवन्ति। यत ईश्वरः कुशासनजनको नहि सुशासनजनक एवेति पवित्रलोकानां सर्व्वसमितिषु प्रकाशते। अपरञ्च युष्माकं वनिताः समितिषु तूष्णीम्भूतास्तिष्ठन्तु यतः शास्त्रलिखितेन विधिना ताः कथाप्रचारणात् निवारितास्ताभि र्निघ्राभि र्भवितव्यं। अतस्ता यदि किमपि जिज्ञासन्ते तर्हि गेहेषु पतीन् पृच्छन्तु यतः समितिमध्ये योषितां कथाकथनं निन्दनीयं। ऐश्वरं वचः किं युष्मत्तो निरगमत? केवलं युष्मान् वा तत् किम् उपागतं? यः कश्चिद् आत्मानम् ईश्वरीयादेशवक्तारम् आत्मनाविष्टं वा मन्यते स युष्मान् प्रति मया यद् यत् लिख्यते तत्प्रभुनाज्ञापितम् ईत्युररी करोतु। किन्तु यः कश्चित् अज्ञो भवति सोऽज्ञ एव तिष्ठतु। अतएव हे भ्रातरः, यूयम् ईश्वरीयादेशकथनसामर्थ्यं लब्धुं यतध्वं परभाषाभाषणमपि युष्माभि र्न निवार्य्यतां। परभाषावाद्यात्मन एव निष्ठां जनयति किन्त्वीश्वरीयादेशवादी समिते र्निष्ठां जनयति। सर्व्वकर्म्माणि च विध्यनुसारतः सुपरिपाट्या क्रियन्तां। युष्माकं सर्व्वेषां परभाषाभाषणम् इच्छाम्यहं किन्त्वीश्वरीयादेशकथनम् अधिकमपीच्छामि। यतः समिते र्निष्ठायै येन स्ववाक्यानाम् अर्थो न क्रियते तस्मात् परभाषावादित ईश्वरीयादेशवादी श्रेयान्।
युष्माकं सर्व्वेषां परभाषाभाषणम् इच्छाम्यहं किन्त्वीश्वरीयादेशकथनम् अधिकमपीच्छामि। यतः समिते र्निष्ठायै येन स्ववाक्यानाम् अर्थो न क्रियते तस्मात् परभाषावादित ईश्वरीयादेशवादी श्रेयान्।
यूयं प्रेमाचरणे प्रयतध्वम् आत्मिकान् दायानपि विशेषत ईश्वरीयादेशकथनसामर्थ्यं प्राप्तुं चेष्टध्वं। जगति कतिप्रकारा उक्तयो विद्यन्ते? तासामेकापि निरर्थिका नहि; किन्तूक्तेरर्थो यदि मया न बुध्यते तर्ह्यहं वक्त्रा म्लेच्छ इव मंस्ये वक्तापि मया म्लेच्छ इव मंस्यते। तस्माद् आत्मिकदायलिप्सवो यूयं समिते र्निष्ठार्थं प्राप्तबहुवरा भवितुं यतध्वं, अतएव परभाषावादी यद् अर्थकरोऽपि भवेत् तत् प्रार्थयतां। यद्यहं परभाषया प्रर्थनां कुर्य्यां तर्हि मदीय आत्मा प्रार्थयते, किन्तु मम बुद्धि र्निष्फला तिष्ठति। इत्यनेन किं करणीयं? अहम् आत्मना प्रार्थयिष्ये बुद्ध्यापि प्रार्थयिष्ये; अपरं आत्मना गास्यामि बुद्ध्यापि गास्यामि। त्वं यदात्मना धन्यवादं करोषि तदा यद् वदसि तद् यदि शिष्येनेवोपस्थितेन जनेन न बुद्ध्यते तर्हि तव धन्यवादस्यान्ते तथास्त्विति तेन वक्तं कथं शक्यते? त्वं सम्यग् ईश्वरं धन्यं वदसीति सत्यं तथापि तत्र परस्य निष्ठा न भवति। युष्माकं सर्व्वेभ्योऽहं परभाषाभाषणे समर्थोऽस्मीति कारणाद् ईश्वरं धन्यं वदामि; तथापि समितौ परोपदेशार्थं मया कथितानि पञ्च वाक्यानि वरं न च लक्षं परभाषीयानि वाक्यानि। यो जनः परभाषां भाषते स मानुषान् न सम्भाषते किन्त्वीश्वरमेव यतः केनापि किमपि न बुध्यते स चात्मना निगूढवाक्यानि कथयति;
हे भ्रातरः, सम्मिलितानां युष्माकम् एकेन गीतम् अन्येनोपदेशोऽन्येन परभाषान्येन ऐश्वरिकदर्शनम् अन्येनार्थबोधकं वाक्यं लभ्यते किमेतत्? सर्व्वमेव परनिष्ठार्थं युष्माभिः क्रियतां।
अतएव परभाषावादी यद् अर्थकरोऽपि भवेत् तत् प्रार्थयतां। यद्यहं परभाषया प्रर्थनां कुर्य्यां तर्हि मदीय आत्मा प्रार्थयते, किन्तु मम बुद्धि र्निष्फला तिष्ठति।
यदि कश्चिद् भाषान्तरं विवक्षति तर्ह्येकस्मिन् दिने द्विजनेन त्रिजनेन वा परभााषा कथ्यतां तदधिकैर्न कथ्यतां तैरपि पर्य्यायानुसारात् कथ्यतां, एकेन च तदर्थो बोध्यतां। किन्त्वर्थाभिधायकः कोऽपि यदि न विद्यते तर्हि स समितौ वाचंयमः स्थित्वेश्वरायात्मने च कथां कथयतु।
इत्यनेन किं करणीयं? अहम् आत्मना प्रार्थयिष्ये बुद्ध्यापि प्रार्थयिष्ये; अपरं आत्मना गास्यामि बुद्ध्यापि गास्यामि।
अतएव हे भ्रातरः, यूयम् ईश्वरीयादेशकथनसामर्थ्यं लब्धुं यतध्वं परभाषाभाषणमपि युष्माभि र्न निवार्य्यतां।
त्वं यदात्मना धन्यवादं करोषि तदा यद् वदसि तद् यदि शिष्येनेवोपस्थितेन जनेन न बुद्ध्यते तर्हि तव धन्यवादस्यान्ते तथास्त्विति तेन वक्तं कथं शक्यते? त्वं सम्यग् ईश्वरं धन्यं वदसीति सत्यं तथापि तत्र परस्य निष्ठा न भवति।
युष्माकं सर्व्वेभ्योऽहं परभाषाभाषणे समर्थोऽस्मीति कारणाद् ईश्वरं धन्यं वदामि; तथापि समितौ परोपदेशार्थं मया कथितानि पञ्च वाक्यानि वरं न च लक्षं परभाषीयानि वाक्यानि।
किञ्च ये प्रत्येष्यन्ति तैरीदृग् आश्चर्य्यं कर्म्म प्रकाशयिष्यते ते मन्नाम्ना भूतान् त्याजयिष्यन्ति भाषा अन्याश्च वदिष्यन्ति।
अतएव तत् परभाषाभाषणं अविश्चासिनः प्रति चिह्नरूपं भवति न च विश्वासिनः प्रति; किन्त्वीश्वरीयादेशकथनं नाविश्वासिनः प्रति तद् विश्वासिनः प्रत्येव।
किन्तूक्तेरर्थो यदि मया न बुध्यते तर्ह्यहं वक्त्रा म्लेच्छ इव मंस्ये वक्तापि मया म्लेच्छ इव मंस्यते।
समितिभुक्तेषु सर्व्वेषु एकस्मिन् स्थाने मिलित्वा परभाषां भाषमाणेषु यदि ज्ञानाकाङ्क्षिणोऽविश्वासिनो वा तत्रागच्छेयुस्तर्हि युष्मान् उन्मत्तान् किं न वदिष्यन्ति? किन्तु सर्व्वेष्वीश्वरीयादेशं प्रकाशयत्सु यद्यविश्वासी ज्ञानाकाङ्क्षी वा कश्चित् तत्रागच्छति तर्हि सर्व्वैरेव तस्य पापज्ञानं परीक्षा च जायते, ततस्तस्यान्तःकरणस्य गुप्तकल्पनासु व्यक्तीभूतासु सोऽधोमुखः पतन् ईश्वरमाराध्य युष्मन्मध्य ईश्वरो विद्यते इति सत्यं कथामेतां कथयिष्यति।
हे भ्रातरः, सम्मिलितानां युष्माकम् एकेन गीतम् अन्येनोपदेशोऽन्येन परभाषान्येन ऐश्वरिकदर्शनम् अन्येनार्थबोधकं वाक्यं लभ्यते किमेतत्? सर्व्वमेव परनिष्ठार्थं युष्माभिः क्रियतां। यदि कश्चिद् भाषान्तरं विवक्षति तर्ह्येकस्मिन् दिने द्विजनेन त्रिजनेन वा परभााषा कथ्यतां तदधिकैर्न कथ्यतां तैरपि पर्य्यायानुसारात् कथ्यतां, एकेन च तदर्थो बोध्यतां। किन्त्वर्थाभिधायकः कोऽपि यदि न विद्यते तर्हि स समितौ वाचंयमः स्थित्वेश्वरायात्मने च कथां कथयतु।
अपरं द्वौ त्रयो वेश्वरीयादेशवक्तारः स्वं स्वमादेशं कथयन्तु तदन्ये च तं विचारयन्तु। किन्तु यो जन ईश्वरीयादेशं कथयति स परेषां निष्ठायै हितोपदेशाय सान्त्वनायै च भाषते। किन्तु तत्रापरेण केनचित् जनेनेश्वरीयादेशे लब्धे प्रथमेन कथनात् निवर्त्तितव्यं। सर्व्वे यत् शिक्षां सान्त्वनाञ्च लभन्ते तदर्थं यूयं सर्व्वे पर्य्यायेणेश्वरीयादेशं कथयितुं शक्नुथ। ईश्वरीयादेशवक्तृणां मनांसि तेषाम् अधीनानि भवन्ति। यत ईश्वरः कुशासनजनको नहि सुशासनजनक एवेति पवित्रलोकानां सर्व्वसमितिषु प्रकाशते।
अतएव हे भ्रातरः, यूयम् ईश्वरीयादेशकथनसामर्थ्यं लब्धुं यतध्वं परभाषाभाषणमपि युष्माभि र्न निवार्य्यतां। परभाषावाद्यात्मन एव निष्ठां जनयति किन्त्वीश्वरीयादेशवादी समिते र्निष्ठां जनयति। सर्व्वकर्म्माणि च विध्यनुसारतः सुपरिपाट्या क्रियन्तां।
तस्मात् सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त आत्मा यथा वाचितवान् तदनुसारेणान्यदेशीयानां भाषा उक्तवन्तः। एतदन्याभि र्बहुकथाभिः प्रमाणं दत्वाकथयत् एतेभ्यो विपथगामिभ्यो वर्त्तमानलोकेभ्यः स्वान् रक्षत। ततः परं ये सानन्दास्तां कथाम् अगृह्लन् ते मज्जिता अभवन्। तस्मिन् दिवसे प्रायेण त्रीणि सहस्राणि लोकास्तेषां सपक्षाः सन्तः प्रेरितानाम् उपदेशे सङ्गतौ पूपभञ्जने प्रार्थनासु च मनःसंयोगं कृत्वातिष्ठन्। प्रेरितै र्नानाप्रकारलक्षणेषु महाश्चर्य्यकर्ममसु च दर्शितेषु सर्व्वलोकानां भयमुपस्थितं। विश्वासकारिणः सर्व्व च सह तिष्ठनतः। स्वेषां सर्व्वाः सम्पत्तीः साधारण्येन स्थापयित्वाभुञ्जत। फलतो गृहाणि द्रव्याणि च सर्व्वाणि विक्रीय सर्व्वेषां स्वस्वप्रयोजनानुसारेण विभज्य सर्व्वेभ्योऽददन्। सर्व्व एकचित्तीभूय दिने दिने मन्दिरे सन्तिष्ठमाना गृहे गृहे च पूपानभञ्जन्त ईश्वरस्य धन्यवादं कुर्व्वन्तो लोकैः समादृताः परमानन्देन सरलान्तःकरणेन भोजनं पानञ्चकुर्व्वन्। परमेश्वरो दिने दिने परित्राणभाजनै र्मण्डलीम् अवर्द्धयत्। तस्मिन् समये पृथिवीस्थसर्व्वदेशेभ्यो यिहूदीयमतावलम्बिनो भक्तलोका यिरूशालमि प्रावसन्; तस्याः कथायाः किंवदन्त्या जातत्वात् सर्व्वे लोका मिलित्वा निजनिजभाषया शिष्याणां कथाकथनं श्रुत्वा समुद्विग्ना अभवन्।
ते नानाजातीयभाषाभिः कथां कथयन्त ईश्वरं प्रशंसन्ति, इति दृष्ट्वा श्रुत्वा च विस्मयम् आपद्यन्त।
ततः पौलेन तेषां गात्रेषु करेऽर्पिते तेषामुपरि पवित्र आत्मावरूढवान्, तस्मात् ते नानादेशीया भाषा भविष्यत्कथाश्च कथितवन्तः।
अस्माद् ईश्वरानुग्रहेण विशेषं विशेषं दानम् अस्मासु प्राप्तेषु सत्सु कोपि यदि भविष्यद्वाक्यं वदति तर्हि प्रत्ययस्य परिमाणानुसारतः स तद् वदतु; यद्वा यदि कश्चित् सेवनकारी भवति तर्हि स तत्सेवनं करोतु; अथवा यदि कश्चिद् अध्यापयिता भवति तर्हि सोऽध्यापयतु; तथा य उपदेष्टा भवति स उपदिशतु यश्च दाता स सरलतया ददातु यस्त्वधिपतिः स यत्नेनाधिपतित्वं करोतु यश्च दयालुः स हृष्टमनसा दयताम्।
अपरमीश्वरः स्वात्मना तदस्माकं साक्षात् प्राकाशयत्; यत आत्मा सर्व्वमेवानुसन्धत्ते तेन चेश्वरस्य मर्म्मतत्त्वमपि बुध्यते। मनुजस्यान्तःस्थमात्मानं विना केन मनुजेन तस्य मनुजस्य तत्त्वं बुध्यते? तद्वदीश्वरस्यात्मानं विना केनापीश्वरस्य तत्त्वं न बुध्यते। वयञ्चेहलोकस्यात्मानं लब्धवन्तस्तन्नहि किन्त्वीश्वरस्यैवात्मानं लब्धवन्तः, ततो हेतोरीश्वरेण स्वप्रसादाद् अस्मभ्यं यद् यद् दत्तं तत्सर्व्वम् अस्माभि र्ज्ञातुं शक्यते। तच्चास्माभि र्मानुषिकज्ञानस्य वाक्यानि शिक्षित्वा कथ्यत इति नहि किन्त्वात्मतो वाक्यानि शिक्षित्वात्मिकै र्वाक्यैरात्मिकं भावं प्रकाशयद्भिः कथ्यते।
हे भ्रातरः, अहमात्मिकैरिव युष्माभिः समं सम्भाषितुं नाशक्नवं किन्तु शारीरिकाचारिभिः ख्रीष्टधर्म्मे शिशुतुल्यैश्च जनैरिव युष्माभिः सह समभाषे। ईश्वरस्य प्रसादात् मया यत् पदं लब्धं तस्मात् ज्ञानिना गृहकारिणेव मया भित्तिमूलं स्थापितं तदुपरि चान्येन निचीयते। किन्तु येन यन्निचीयते तत् तेन विविच्यतां। यतो यीशुख्रीष्टरूपं यद् भित्तिमूलं स्थापितं तदन्यत् किमपि भित्तिमूलं स्थापयितुं केनापि न शक्यते। एतद्भित्तिमूलस्योपरि यदि केचित् स्वर्णरूप्यमणिकाष्ठतृणनलान् निचिन्वन्ति, तर्ह्येकैकस्य कर्म्म प्रकाशिष्यते यतः स दिवसस्तत् प्रकाशयिष्यति। यतो हतोस्तन दिवसेन वह्निमयेनोदेतव्यं तत एकैकस्य कर्म्म कीदृशमेतस्य परीक्षा बह्निना भविष्यति। यस्य निचयनरूपं कर्म्म स्थास्नु भविष्यति स वेतनं लप्स्यते। यस्य च कर्म्म धक्ष्यते तस्य क्षति र्भविष्यति किन्तु वह्ने र्निर्गतजन इव स स्वयं परित्राणं प्राप्स्यति। यूयम् ईश्वरस्य मन्दिरं युष्मन्मध्ये चेश्वरस्यात्मा निवसतीति किं न जानीथ? ईश्वरस्य मन्दिरं येन विनाश्यते सोऽपीश्वरेण विनाशयिष्यते यत ईश्वरस्य मन्दिरं पवित्रमेव यूयं तु तन्मन्दिरम् आध्वे। कोपि स्वं न वञ्चयतां। युष्माकं कश्चन चेदिहलोकस्य ज्ञानेन ज्ञानवानहमिति बुध्यते तर्हि स यत् ज्ञानी भवेत् तदर्थं मूढो भवतु। यस्मादिहलोकस्य ज्ञानम् ईश्वरस्य साक्षात् मूढत्वमेव। एतस्मिन् लिखितमप्यास्ते, तीक्ष्णा या ज्ञानिनां बुद्धिस्तया तान् धरतीश्वरः। युष्मान् कठिनभक्ष्यं न भोजयन् दुग्धम् अपाययं यतो यूयं भक्ष्यं ग्रहीतुं तदा नाशक्नुत इदानीमपि न शक्नुथ, यतो हेतोरधुनापि शारीरिकाचारिण आध्वे।
लोका अस्मान् ख्रीष्टस्य परिचारकान् ईश्वरस्य निगूठवाक्यधनस्याध्यक्षांश्च मन्यन्तां।
यूयं प्रेमाचरणे प्रयतध्वम् आत्मिकान् दायानपि विशेषत ईश्वरीयादेशकथनसामर्थ्यं प्राप्तुं चेष्टध्वं।
सर्व्वथाद्भुतक्रियाशक्तिलक्षणैः प्रेरितस्य चिह्नानि युष्माकं मध्ये सधैर्य्यं मया प्रकाशितानि।
किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।
स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनोऽपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्। यावद् वयं सर्व्वे विश्वासस्येश्वरपुत्रविषयकस्य तत्त्वज्ञानस्य चैक्यं सम्पूर्णं पुरुषर्थञ्चार्थतः ख्रीष्टस्य सम्पूर्णपरिमाणस्य समं परिमाणं न प्राप्नुमस्तावत्
यूयं सावधाना भूत्वा ख्रीष्टस्य सुसंवादस्योपयुक्तम् आचारं कुरुध्वं यतोऽहं युष्मान् उपागत्य साक्षात् कुर्व्वन् किं वा दूरे तिष्ठन् युष्माकं यां वार्त्तां श्रोतुम् इच्छामि सेयं यूयम् एकात्मानस्तिष्ठथ, एकमनसा सुसंवादसम्बन्धीयविश्वासस्य पक्षे यतध्वे, विपक्षैश्च केनापि प्रकारेण न व्याकुलीक्रियध्व इति।
ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।
पवित्रम् आत्मानं न निर्व्वापयत। यतो रात्रौ यादृक् तस्करस्तादृक् प्रभो र्दिनम् उपस्थास्यतीति यूयं स्वयमेव सम्यग् जानीथ। ईश्वरीयादेशं नावजानीत। सर्व्वाणि परीक्ष्य यद् भद्रं तदेव धारयत।
अपरं लक्षणैरद्भुतकर्म्मभि र्विविधशक्तिप्रकाशेन निजेच्छातः पवित्रस्यात्मनो विभागेन च यद् ईश्वरेण प्रमाणीकृतम् अभूत्।
यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।
हे प्रियतमाः, यूयं सर्व्वेष्वात्मसु न विश्वसित किन्तु ते ईश्वरात् जाता न वेत्यात्मनः परीक्षध्वं यतो बहवो मृषाभविष्यद्वादिनो जगन्मध्यम् आगतवन्तः।
येन यो वरो लब्धस्तेनैव स परम् उपकरोतृ, इत्थं यूयम् ईश्वरस्य बहुविधप्रसादस्योत्तमा भाण्डागाराधिपा भवत।
तत आत्मापि स्वयम् अस्माकं दुर्ब्बलतायाः सहायत्वं करोति; यतः किं प्रार्थितव्यं तद् बोद्धुं वयं न शक्नुमः, किन्त्वस्पष्टैरार्त्तरावैरात्मा स्वयम् अस्मन्निमित्तं निवेदयति। अपरम् ईश्वराभिमतरूपेण पवित्रलोकानां कृते निवेदयति य आत्मा तस्याभिप्रायोऽन्तर्य्यामिना ज्ञायते।
हे भ्रातरः,यूयं बुद्ध्या बालकाइव मा भूत परन्तु दुष्टतया शिशवइव भूत्वा बुद्ध्या सिद्धा भवत।
केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति।
यश्च तस्याज्ञाः पालयति स तस्मिन् तिष्ठति तस्मिन् सोऽपि तिष्ठति; स चास्मान् यम् आत्मानं दत्तवान् तस्मात् सो ऽस्मासु तिष्ठतीति जानीमः।
अपरम् ईश्वरस्य पुत्र आगतवान् वयञ्च यया तस्य सत्यमयस्य ज्ञानं प्राप्नुयामस्तादृशीं धियम् अस्मभ्यं दत्तवान् इति जानीमस्तस्मिन् सत्यमये ऽर्थतस्तस्य पुत्रे यीशुख्रीष्टे तिष्ठामश्च; स एव सत्यमय ईश्वरो ऽनन्तजीवनस्वरूपश्चास्ति।
इत्थं प्रार्थनया यत्र स्थाने ते सभायाम् आसन् तत् स्थानं प्राकम्पत; ततः सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त ईश्वरस्य कथाम् अक्षोभेण प्राचारयन्।
इत्थं शोमिरोण्देशीयलोका ईश्वरस्य कथाम् अगृह्लन् इति वार्त्तां यिरूशालम्नगरस्थप्रेरिताः प्राप्य पितरं योहनञ्च तेषां निकटे प्रेषितवन्तः। ततस्तौ तत् स्थानम् उपस्थाय लोका यथा पवित्रम् आत्मानं प्राप्नुवन्ति तदर्थं प्रार्थयेतां। यतस्ते पुरा केवलप्रभुयीशो र्नाम्ना मज्जितमात्रा अभवन्, न तु तेषां मध्ये कमपि प्रति पवित्रस्यात्मन आविर्भावो जातः। किन्तु प्रेरिताभ्यां तेषां गात्रेषु करेष्वर्पितेषु सत्सु ते पवित्रम् आत्मानम् प्राप्नुवन्।
अन्तर्य्यामीश्वरो यथास्मभ्यं तथा भिन्नदेशीयेभ्यः पवित्रमात्मानं प्रदाय विश्वासेन तेषाम् अन्तःकरणानि पवित्राणि कृत्वा तेषाम् अस्माकञ्च मध्ये किमपि विशेषं न स्थापयित्वा तानधि स्वयं प्रमाणं दत्तवान् इति यूयं जानीथ।