भोः भवतः व्यसनानि दुर्व्यसनानि च विनाशकराणि। व्यसनं नाम कस्यचित् व्यवहारस्य, द्रव्यस्य, क्रियाकलापस्य जनस्य वा आसक्तिर्यया वयं पीडिताः भवामः। बहवः ख्रीष्टीयजनाः समस्याभिः युध्यन्ते, यतः ते दुर्व्यसनेन व्यसनेन वा बद्धाः सन्ति। एतानि दुर्व्यसनानि कदाचित् अतीतस्य कारणात् सम्भवन्ति, परन्तु ईश्वरे वयं मुक्ताः स्मः। ख्रीष्टेन वयं सर्वस्मात् मुक्ताः कृताः, अस्माकं पापानि च क्षमितानि। यदि भवान् अतीते तिष्ठति, एताः बन्धनाः नकारात्मकानाम् आध्यात्मिकपरम्पराणाम् मूलं धारयितुं शक्नुवन्ति, अन्ततः दृढीभूय प्रकाशं गच्छन्ति कस्यचित् द्वारा उद्घाटनेन, शत्रवे प्रवेशस्य विधिकमधिकारं दत्वा।
भवता तत् त्याक्तव्यं यत् भवन्तं व्यसने बद्धं करोति। पवित्रात्मानं प्रार्थयतु यत् सः भवते बन्धनस्य यत्किञ्चिदपि क्षेत्रं दर्शयेत् यस्मिन् भवता ध्यानं दातव्यम्। ईश्वरस्य क्षमां तस्य आरोग्यं च स्वीकुरतु। ईश्वरः अस्मान् सर्वस्मात् व्यसनात् सर्वस्माच्च यत् अस्माकं जीवनं हिनस्ति, तस्मात् मुक्तुं साहाय्यं करोतु। यूहन्ना ८:३६ (यूहन्ना ८:३६) यदि पुत्रः युष्मान् मोक्षयिष्यति, तर्हि युष्मान् वस्तुतः मुक्ताः भविष्यथ।
मदर्थं सर्व्वं द्रव्यम् अप्रतिषिद्धं किन्तु न सर्व्वं हितजनकं।मदर्थं सर्व्वमप्रतिषिद्धं तथाप्यहं कस्यापि द्रव्यस्य वशीकृतो न भविष्यामि।
केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति।
मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।
यतः संसारे यद्यत् स्थितम् अर्थतः शारीरिकभावस्याभिलाषो दर्शनेन्द्रियस्याभिलाषो जीवनस्य गर्व्वश्च सर्व्वमेतत् पितृतो न जायते किन्तु संसारदेव।
अस्मान् परीक्षां मानय, किन्तु पापात्मनो रक्ष; राजत्वं गौरवं पराक्रमः एते सर्व्वे सर्व्वदा तव; तथास्तु।
अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।
हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि। अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे। एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्। यतो मम युगम् अनायासं मम भारश्च लघुः।
तदानीं यीशुस्तां गदितवान्, हे कन्ये तव प्रतीतिस्त्वाम् अरोगामकरोत् त्वं क्षेमेण व्रज स्वरोगान्मुक्ता च तिष्ठ।
आत्मा तु परमेशस्य मदीयोपरि विद्यते। दरिद्रेषु सुसंवादं वक्तुं मां सोभिषिक्तवान्। भग्नान्तः करणाल्लोकान् सुस्वस्थान् कर्त्तुमेव च। बन्दीकृतेषु लोकेषु मुक्ते र्घोषयितुं वचः। नेत्राणि दातुमन्धेभ्यस्त्रातुं बद्धजनानपि।
ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति। ईश्वरो जगतो लोकान् दण्डयितुं स्वपुत्रं न प्रेष्य तान् परित्रातुं प्रेषितवान्।
ततो यीशुः पुनरपि लोकेभ्य इत्थं कथयितुम् आरभत जगतोहं ज्योतिःस्वरूपो यः कश्चिन् मत्पश्चाद गच्छति स तिमिरे न भ्रमित्वा जीवनरूपां दीप्तिं प्राप्स्यति।
मम वाक्ये यदि यूयम् आस्थां कुरुथ तर्हि मम शिष्या भूत्वा सत्यत्वं ज्ञास्यथ ततः सत्यतया युष्माकं मोक्षो भविष्यति।
यो जनस्तेनः स केवलं स्तैन्यबधविनाशान् कर्त्तुमेव समायाति किन्त्वहम् आयु र्दातुम् अर्थात् बाहूल्येन तदेव दातुम् आगच्छम्।
अहं युष्माकं निकटे शान्तिं स्थापयित्वा यामि, निजां शान्तिं युष्मभ्यं ददामि, जगतो लोका यथा ददाति तथाहं न ददामि; युष्माकम् अन्तःकरणानि दुःखितानि भीतानि च न भवन्तु।
अहं द्राक्षालतास्वरूपो यूयञ्च शाखास्वरूपोः; यो जनो मयि तिष्ठति यत्र चाहं तिष्ठामि, स प्रचूरफलैः फलवान् भवति, किन्तु मां विना यूयं किमपि कर्त्तुं न शक्नुथ।
यथा मया युष्माकं शान्ति र्जायते तदर्थम् एताः कथा युष्मभ्यम् अचकथं; अस्मिन् जगति युष्माकं क्लेशो घटिष्यते किन्त्वक्षोभा भवत यतो मया जगज्जितं।
किन्त्वस्मासु पापिषु सत्स्वपि निमित्तमस्माकं ख्रीष्टः स्वप्राणान् त्यक्तवान्, तत ईश्वरोस्मान् प्रति निजं परमप्रेमाणं दर्शितवान्।
वयं यत् पापस्य दासाः पुन र्न भवामस्तदर्थम् अस्माकं पापरूपशरीरस्य विनाशार्थम् अस्माकं पुरातनपुरुषस्तेन साकं क्रुशेऽहन्यतेति वयं जानीमः।
अपरञ्च कुत्सिताभिलाषाान् पूरयितुं युष्माकं मर्त्यदेहेषु पापम् आधिपत्यं न करोतु। अपरं स्वं स्वम् अङ्गम् अधर्म्मस्यास्त्रं कृत्वा पापसेवायां न समर्पयत, किन्तु श्मशानाद् उत्थितानिव स्वान् ईश्वरे समर्पयत स्वान्यङ्गानि च धर्म्मास्त्रस्वरूपाणीश्वरम् उद्दिश्य समर्पयत।
यतो मृतिजनकं पापं पुण्यजनकं निदेशाचरणञ्चैतयोर्द्वयो र्यस्मिन् आज्ञापालनार्थं भृत्यानिव स्वान् समर्पयथ, तस्यैव भृत्या भवथ, एतत् किं यूयं न जानीथ? अपरञ्च पूर्व्वं यूयं पापस्य भृत्या आस्तेति सत्यं किन्तु यस्यां शिक्षारूपायां मूषायां निक्षिप्ता अभवत तस्या आकृतिं मनोभि र्लब्धवन्त इति कारणाद् ईश्वरस्य धन्यवादो भवतु। इत्थं यूयं पापसेवातो मुक्ताः सन्तो धर्म्मस्य भृत्या जाताः।
ये जनाः ख्रीष्टं यीशुम् आश्रित्य शारीरिकं नाचरन्त आत्मिकमाचरन्ति तेऽधुना दण्डार्हा न भवन्ति। यदि ख्रीष्टो युष्मान् अधितिष्ठति तर्हि पापम् उद्दिश्य शरीरं मृतं किन्तु पुण्यमुद्दिश्यात्मा जीवति। मृतगणाद् यीशु र्येनोत्थापितस्तस्यात्मा यदि युष्मन्मध्ये वसति तर्हि मृतगणात् ख्रीष्टस्य स उत्थापयिता युष्मन्मध्यवासिना स्वकीयात्मना युष्माकं मृतदेहानपि पुन र्जीवयिष्यति। हे भ्रातृगण शरीरस्य वयमधमर्णा न भवामोऽतः शारीरिकाचारोऽस्माभि र्न कर्त्तव्यः। यदि यूयं शरीरिकाचारिणो भवेत तर्हि युष्माभि र्मर्त्तव्यमेव किन्त्वात्मना यदि शरीरकर्म्माणि घातयेत तर्हि जीविष्यथ। यतो यावन्तो लोका ईश्वरस्यात्मनाकृष्यन्ते ते सर्व्व ईश्वरस्य सन्ताना भवन्ति। यूयं पुनरपि भयजनकं दास्यभावं न प्राप्ताः किन्तु येन भावेनेश्वरं पितः पितरिति प्रोच्य सम्बोधयथ तादृशं दत्तकपुत्रत्वभावम् प्राप्नुत। अपरञ्च वयम् ईश्वरस्य सन्ताना एतस्मिन् पवित्र आत्मा स्वयम् अस्माकम् आत्माभिः सार्द्धं प्रमाणं ददाति। अतएव वयं यदि सन्तानास्तर्ह्यधिकारिणः, अर्थाद् ईश्वरस्य स्वत्त्वाधिकारिणः ख्रीष्टेन सहाधिकारिणश्च भवामः; अपरं तेन सार्द्धं यदि दुःखभागिनो भवामस्तर्हि तस्य विभवस्यापि भागिनो भविष्यामः। किन्त्वस्मासु यो भावीविभवः प्रकाशिष्यते तस्य समीपे वर्त्तमानकालीनं दुःखमहं तृणाय मन्ये। यतः प्राणिगण ईश्वरस्य सन्तानानां विभवप्राप्तिम् आकाङ्क्षन् नितान्तम् अपेक्षते। जीवनदायकस्यात्मनो व्यवस्था ख्रीष्टयीशुना पापमरणयो र्व्यवस्थातो माममोचयत्।
मृतगणाद् यीशु र्येनोत्थापितस्तस्यात्मा यदि युष्मन्मध्ये वसति तर्हि मृतगणात् ख्रीष्टस्य स उत्थापयिता युष्मन्मध्यवासिना स्वकीयात्मना युष्माकं मृतदेहानपि पुन र्जीवयिष्यति।
अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या। अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्। तथा कार्य्ये निरालस्या मनसि च सोद्योगाः सन्तः प्रभुं सेवध्वम्। अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं। पवित्राणां दीनतां दूरीकुरुध्वम् अतिथिसेवायाम् अनुरज्यध्वम्। ये जना युष्मान् ताडयन्ति तान् आशिषं वदत शापम् अदत्त्वा दद्ध्वमाशिषम्। ये जना आनन्दन्ति तैः सार्द्धम् आनन्दत ये च रुदन्ति तैः सह रुदित। अपरञ्च युष्माकं मनसां परस्परम् एकोभावो भवतु; अपरम् उच्चपदम् अनाकाङ्क्ष्य नीचलोकैः सहापि मार्दवम् आचरत; स्वान् ज्ञानिनो न मन्यध्वं। परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत। यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत। हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं। अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।
बहुतरा यामिनी गता प्रभातं सन्निधिं प्राप्तं तस्मात् तामसीयाः क्रियाः परित्यज्यास्माभि र्वासरीया सज्जा परिधातव्या। अतो हेतो र्वयं दिवा विहितं सदाचरणम् आचरिष्यामः। रङ्गरसो मत्तत्वं लम्पटत्वं कामुकत्वं विवाद ईर्ष्या चैतानि परित्यक्ष्यामः। यूयं प्रभुयीशुख्रीष्टरूपं परिच्छदं परिधद्ध्वं सुखाभिलाषपूरणाय शारीरिकाचरणं माचरत।
युष्माकं यानि वपूंसि तानि युष्मदन्तःस्थितस्येश्वराल्लब्धस्य पवित्रस्यात्मनो मन्दिराणि यूयञ्च स्वेषां स्वामिनो नाध्वे किमेतद् युष्माभि र्न ज्ञायते? जगतोऽपि विचारणं पवित्रलोकैः कारिष्यत एतद् यूयं किं न जानीथ? अतो जगद् यदि युष्माभि र्विचारयितव्यं तर्हि क्षुद्रतमविचारेषु यूयं किमसमर्थाः? यूयं मूल्येन क्रीता अतो वपुर्मनोभ्याम् ईश्वरो युष्माभिः पूज्यतां यत ईश्वर एव तयोः स्वामी।
ईश्वरस्य मन्दिरेण सह वा देवप्रतिमानां का तुलना? अमरस्येश्वरस्य मन्दिरं यूयमेव। ईश्वरेण तदुक्तं यथा, तेषां मध्येऽहं स्वावासं निधास्यामि तेषां मध्ये च यातायातं कुर्व्वन् तेषाम् ईश्वरो भविष्यामि ते च मल्लोका भविष्यन्ति। अतो हेतोः परमेश्वरः कथयति यूयं तेषां मध्याद् बहिर्भूय पृथग् भवत, किमप्यमेध्यं न स्पृशत; तेनाहं युष्मान् ग्रहीष्यामि, युष्माकं पिता भविष्यामि च, यूयञ्च मम कन्यापुत्रा भविष्यथेति सर्व्वशक्तिमता परमेश्वरेणोक्तं।
यतः शरीरे चरन्तोऽपि वयं शारीरिकं युद्धं न कुर्म्मः। अस्माकं युद्धास्त्राणि च न शारीरिकानि किन्त्वीश्वरेण दुर्गभञ्जनाय प्रबलानि भवन्ति, तैश्च वयं वितर्कान् ईश्वरीयतत्त्वज्ञानस्य प्रतिबन्धिकां सर्व्वां चित्तसमुन्नतिञ्च निपातयामः सर्व्वसङ्कल्पञ्च बन्दिनं कृत्वा ख्रीष्टस्याज्ञाग्राहिणं कुर्म्मः,
ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।
ख्रीष्टोऽस्मभ्यं यत् स्वातन्त्र्यं दत्तवान् यूयं तत्र स्थिरास्तिष्ठत दासत्वयुगेन पुन र्न निबध्यध्वं।
अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम् पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे। इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।
किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।
तस्मात् पूर्व्वकालिकाचारकारी यः पुरातनपुरुषो मायाभिलाषै र्नश्यति तं त्यक्त्वा युष्माभि र्मानसिकभावो नूतनीकर्त्तव्यः, यो नवपुरुष ईश्वरानुरूपेण पुण्येन सत्यतासहितेन धार्म्मिकत्वेन च सृष्टः स एव परिधातव्यश्च।
पूर्व्वं यूयम् अन्धकारस्वरूपा आध्वं किन्त्विदानीं प्रभुना दीप्तिस्वरूपा भवथ तस्माद् दीप्तेः सन्ताना इव समाचरत।
अधिकन्तु हे भ्रातरः, यूयं प्रभुना तस्य विक्रमयुक्तशक्त्या च बलवन्तो भवत। यूयं यत् शयतानश्छलानि निवारयितुं शक्नुथ तदर्थम् ईश्वरीयसुसज्जां परिधद्ध्वं।
युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।
यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत। तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।
हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं।
यतः सोऽस्मान् तिमिरस्य कर्त्तृत्वाद् उद्धृत्य स्वकीयस्य प्रियपुत्रस्य राज्ये स्थापितवान्। तस्मात् पुत्राद् वयं परित्राणम् अर्थतः पापमोचनं प्राप्तवन्तः।
अतो वेश्यागमनम् अशुचिक्रिया रागः कुत्सिताभिलाषो देवपूजातुल्यो लोभश्चैतानि र्पािथवपुरुषस्याङ्गानि युष्माभि र्निहन्यन्तां।
ईश्वरस्यायम् अभिलाषो यद् युष्माकं पवित्रता भवेत्, यूयं व्यभिचाराद् दूरे तिष्ठत। युष्माकम् एकैको जनः स्वकीयं प्राणाधारं पवित्रं मान्यञ्च रक्षतु,
अतो ऽपरे यथा निद्रागताः सन्ति तद्वद् अस्माभि र्न भवितव्यं किन्तु जागरितव्यं सचेतनैश्च भवितव्यं। ये निद्रान्ति ते निशायामेव निद्रान्ति ते च मत्ता भवन्ति ते रजन्यामेव मत्ता भवन्ति। किन्तु वयं दिवसस्य वंशा भवामः; अतो ऽस्माभि र्वक्षसि प्रत्ययप्रेमरूपं कवचं शिरसि च परित्राणाशारूपं शिरस्त्रं परिधाय सचेतनै र्भवितव्यं।
यत् किमपि पापरूपं भवति तस्माद् दूरं तिष्ठत। शान्तिदायक ईश्वरः स्वयं युष्मान् सम्पूर्णत्वेन पवित्रान् करोतु, अपरम् अस्मत्प्रभो र्यीशुख्रीष्टस्यागमनं यावद् युष्माकम् आत्मानः प्राणाः शरीराणि च निखिलानि निर्द्दोषत्वेन रक्ष्यन्तां।
यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।
यौवनावस्थाया अभिलाषास्त्वया परित्यज्यन्तां धर्म्मो विश्वासः प्रेम ये च शुचिमनोभिः प्रभुम् उद्दिश्य प्रार्थनां कुर्व्वते तैः सार्द्धम् ऐक्यभावश्चैतेषु त्वया यत्नो विधीयतां।
स चास्मान् इदं शिक्ष्यति यद् वयम् अधर्म्मं सांसारिकाभिलाषांश्चानङ्गीकृत्य विनीतत्वेन न्यायेनेश्वरभक्त्या चेहलोके आयु र्यापयामः,
यतः स स्वयं परीक्षां गत्वा यं दुःखभोगम् अवगतस्तेन परीक्षाक्रान्तान् उपकर्त्तुं शक्नोति।
अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः। अतएव कृपां ग्रहीतुं प्रयोजनीयोपकारार्थम् अनुग्रहं प्राप्तुञ्च वयम् उत्साहेनानुग्रहसिंहासनस्य समीपं यामः।
अतो हेतोरेतावत्साक्षिमेघै र्वेष्टिताः सन्तो वयमपि सर्व्वभारम् आशुबाधकं पापञ्च निक्षिप्यास्माकं गमनाय निरूपिते मार्गे धैर्य्येण धावाम। ते त्वल्पदिनानि यावत् स्वमनोऽमतानुसारेण शास्तिं कृतवन्तः किन्त्वेषोऽस्माकं हिताय तस्य पवित्रताया अंशित्वाय चास्मान् शास्ति। शास्तिश्च वर्त्तमानसमये केनापि नानन्दजनिका किन्तु शोकजनिकैव मन्यते तथापि ये तया विनीयन्ते तेभ्यः सा पश्चात् शान्तियुक्तं धर्म्मफलं ददाति। अतएव यूयं शिथिलान् हस्तान् दुर्ब्बलानि जानूनि च सबलानि कुरुध्वं। यथा च दुर्ब्बलस्य सन्धिस्थानं न भज्येत स्वस्थं तिष्ठेत् तथा स्वचरणार्थं सरलं मार्गं निर्म्मात। अपरञ्च सर्व्वैः सार्थम् एेक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं। यथा कश्चिद् ईश्वरस्यानुग्रहात् न पतेत्, यथा च तिक्तताया मूलं प्ररुह्य बाधाजनकं न भवेत् तेन च बहवोऽपवित्रा न भवेयुः, यथा च कश्चित् लम्पटो वा एककृत्व आहारार्थं स्वीयज्येष्ठाधिकारविक्रेता य एषौस्तद्वद् अधर्म्माचारी न भवेत् तथा सावधाना भवत। यतः स एषौः पश्चाद् आशीर्व्वादाधिकारी भवितुम् इच्छन्नपि नानुगृहीत इति यूयं जानीथ, स चाश्रुपातेन मत्यन्तरं प्रार्थयमानोऽपि तदुपायं न लेभे। अपरञ्च स्पृश्यः पर्व्वतः प्रज्वलितो वह्निः कृष्णावर्णो मेघो ऽन्धकारो झञ्भ्श तूरीवाद्यं वाक्यानां शब्दश्च नैतेषां सन्निधौ यूयम् आगताः। तं शब्दं श्रुत्वा श्रोतारस्तादृशं सम्भाषणं यत् पुन र्न जायते तत् प्रार्थितवन्तः। यश्चास्माकं विश्वासस्याग्रेसरः सिद्धिकर्त्ता चास्ति तं यीशुं वीक्षामहै यतः स स्वसम्मुखस्थितानन्दस्य प्राप्त्यर्थम् अपमानं तुच्छीकृत्य क्रुशस्य यातनां सोढवान् ईश्वरीयसिंहासनस्य दक्षिणपार्श्वे समुपविष्टवांश्च।
युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।
यो जनः परीक्षां सहते स एव धन्यः, यतः परीक्षितत्वं प्राप्य स प्रभुना स्वप्रेमकारिभ्यः प्रतिज्ञातं जीवनमुकुटं लप्स्यते।
ईश्वरो मां परीक्षत इति परीक्षासमये कोऽपि न वदतु यतः पापायेश्वरस्य परीक्षा न भवति स च कमपि न परीक्षते। किन्तु यः कश्चित् स्वीयमनोवाञ्छयाकृष्यते लोभ्यते च तस्यैव परीक्षा भवति। तस्मात् सा मनोवाञ्छा सगर्भा भूत्वा दुष्कृतिं प्रसूते दुष्कृतिश्च परिणामं गत्वा मृत्युं जनयति।
अतएव यूयं मनःकटिबन्धनं कृत्वा प्रबुद्धाः सन्तो यीशुख्रीष्टस्य प्रकाशसमये युष्मासु वर्त्तिष्यमानस्यानुग्रहस्य सम्पूर्णां प्रत्याशां कुरुत। अपरं पूर्व्वीयाज्ञानतावस्थायाः कुत्सिताभिलाषाणां योग्यम् आचारं न कुर्व्वन्तो युष्मदाह्वानकारी यथा पवित्रो ऽस्ति यूयमप्याज्ञाग्राहिसन्ताना इव सर्व्वस्मिन् आचारे तादृक् पवित्रा भवत। यतो लिखितम् आस्ते, यूयं पवित्रास्तिष्ठत यस्मादहं पवित्रः।
यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते, अतो विश्वासे सुस्थिरास्तिष्ठन्तस्तेन सार्द्धं युध्यत, युष्माकं जगन्निवासिभ्रातृष्वपि तादृशाः क्लेशा वर्त्तन्त इति जानीत।
यदि स्वपापानि स्वीकुर्म्महे तर्हि स विश्वास्यो याथार्थिकश्चास्ति तस्माद् अस्माकं पापानि क्षमिष्यते सर्व्वस्माद् अधर्म्माच्चास्मान् शुद्धयिष्यति।