प्रिय, ईश्वरस्य दासोऽहम्। यत् मम नास्ति, किन्तु प्रभोः अस्ति, तस्य रक्षणं पालनं च मम धर्मः। भौतिकलोके यः दासः, सः स्वस्य जीवनं स्वकीयम् इति मन्यते। किन्तु वयं परमेश्वरस्य दासाः, अस्माकं जीवनम् अपि तस्यैव।
पवित्रात्मा प्रेरितः, पौलुसः अपि रोमिलोकानां पत्रे (१४.१२) लिखितवान् यत् प्रत्येकः जनः स्वजीवनस्य कृते ईश्वराय उत्तरदायी भविष्यति। अतः सचेतनतया आचरितव्यम्। यतः कालेन ईश्वरस्य सम्मुखे न केवलं जीवनस्य अपि तु सर्वेषां कर्मणाम् अपि लेखा दातव्या।
बुद्धिः, प्रज्ञा, दानं, प्रतिभा, ज्ञानं च – सर्वाणि एतानि ईश्वरदत्तानि। एतेषाम् उपयोगेन परमपिता प्रेम प्रदर्शनीयम्, तस्य राज्यार्थं फलानि उत्पादयितव्यानि च।
दृश्यम् अदृश्यं वा, सिंहासनं, प्रभुता, अधिकारः, सामर्थ्यं वा – सर्वम् ईश्वरेण, ईश्वरद्वारा, ईश्वराय च सृष्टम्। कोलोसिलोकानां पत्रे (१.१६) एतत् स्पष्टम् उक्तम्। अतः किमपि वस्तु अस्माकं नास्ति, सर्वम् ईश्वरस्यैव।
अपरं स एतादृशः कस्यचित् पुंसस्तुल्यः, यो दूरदेशं प्रति यात्राकाले निजदासान् आहूय तेषां स्वस्वसामर्थ्यानुरूपम् एकस्मिन् मुद्राणां पञ्च पोटलिकाः अन्यस्मिंश्च द्वे पोटलिके अपरस्मिंश्च पोटलिकैकाम् इत्थं प्रतिजनं समर्प्य स्वयं प्रवासं गतवान्। अनन्तरं यो दासः पञ्च पोटलिकाः लब्धवान्, स गत्वा वाणिज्यं विधाय ता द्विगुणीचकार। यश्च दासो द्वे पोटलिके अलभत, सोपि ता मुद्रा द्विगुणीचकार। किन्तु यो दास एकां पोटलिकां लब्धवान्, स गत्वा भूमिं खनित्वा तन्मध्ये निजप्रभोस्ता मुद्रा गोपयाञ्चकार। तदनन्तरं बहुतिथे काले गते तेषां दासानां प्रभुरागत्य तैर्दासैः समं गणयाञ्चकार। तासां कन्यानां मध्ये पञ्च सुधियः पञ्च दुर्धिय आसन्। तदानीं यः पञ्च पोटलिकाः प्राप्तवान् स ता द्विगुणीकृतमुद्रा आनीय जगाद; हे प्रभो, भवता मयि पञ्च पोटलिकाः समर्पिताः, पश्यतु, ता मया द्विगुणीकृताः। तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव। ततो येन द्वे पोटलिके लब्धे सोप्यागत्य जगाद, हे प्रभो, भवता मयि द्वे पोटलिके समर्पिते, पश्यतु ते मया द्विगुणीकृते। तेन तस्य प्रभुस्तमवोचत्, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुद्रविणाधिपं करोमि, त्वं निजप्रभोः सुखस्य भागी भव। अनन्तरं य एकां पोटलिकां लब्धवान्, स एत्य कथितवान्, हे प्रभो, त्वां कठिननरं ज्ञातवान्, त्वया यत्र नोप्तं, तत्रैव कृत्यते, यत्र च न कीर्णं, तत्रैव संगृह्यते। अतोहं सशङ्कः सन् गत्वा तव मुद्रा भूमध्ये संगोप्य स्थापितवान्, पश्य, तव यत् तदेव गृहाण। तदा तस्य प्रभुः प्रत्यवदत् रे दुष्टालस दास, यत्राहं न वपामि, तत्र छिनद्मि, यत्र च न किरामि, तत्रेव संगृह्लामीति चेदजानास्तर्हि वणिक्षु मम वित्तार्पणं तवोचितमासीत्, येनाहमागत्य वृद्व्या साकं मूलमुद्राः प्राप्स्यम्। अतोस्मात् तां पोटलिकाम् आदाय यस्य दश पोटलिकाः सन्ति तस्मिन्नर्पयत। येन वर्द्व्यते तस्मिन्नैवार्पिष्यते, तस्यैव च बाहुल्यं भविष्यति, किन्तु येन न वर्द्व्यते, तस्यान्तिके यत् किञ्चन तिष्ठति, तदपि पुनर्नेष्यते। या दुर्धियस्ताः प्रदीपान् सङ्गे गृहीत्वा तैलं न जगृहुः, अपरं यूयं तमकर्म्मण्यं दासं नीत्वा यत्र स्थाने क्रन्दनं दन्तघर्षणञ्च विद्येते, तस्मिन् बहिर्भूततमसि निक्षिपत।
यः कश्चित् क्षुद्रे कार्य्ये विश्वास्यो भवति स महति कार्य्येपि विश्वास्यो भवति, किन्तु यः कश्चित् क्षुद्रे कार्य्येऽविश्वास्यो भवति स महति कार्य्येप्यविश्वास्यो भवति। अतएव अयथार्थेन धनेन यदि यूयमविश्वास्या जातास्तर्हि सत्यं धनं युष्माकं करेषु कः समर्पयिष्यति? यदि च परधनेन यूयम् अविश्वास्या भवथ तर्हि युष्माकं स्वकीयधनं युष्मभ्यं को दास्यति?
येन यो वरो लब्धस्तेनैव स परम् उपकरोतृ, इत्थं यूयम् ईश्वरस्य बहुविधप्रसादस्योत्तमा भाण्डागाराधिपा भवत।
यच्च कुरुध्वे तत् मानुषमनुद्दिश्य प्रभुम् उद्दिश्य प्रफुल्लमनसा कुरुध्वं, यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ।
अपरमपि व्याहरामि केनचित् क्षुद्रभावेन बीजेषूप्तेषु स्वल्पानि शस्यानि कर्त्तिष्यन्ते, किञ्च केनचिद् बहुदभवेन बीजेषूप्तेषु बहूनि शस्यानि कर्त्तिष्यन्ते। एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते।
अपरं यत्र स्थाने कीटाः कलङ्काश्च क्षयं नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं शक्नुवन्ति, तादृश्यां मेदिन्यां स्वार्थं धनं मा संचिनुत। त्वं यदा ददासि तदा कपटिनो जना यथा मनुजेभ्यः प्रशंसां प्राप्तुं भजनभवने राजमार्गे च तूरीं वादयन्ति, तथा मा कुरिु, अहं तुभ्यं यथार्थं कथयामि, ते स्वकायं फलम् अलभन्त। किन्तु यत्र स्थाने कीटाः कलङ्काश्च क्षयं न नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं न शक्नुवन्ति, तादृशे स्वर्गे धनं सञ्चिनुत। यस्मात् यत्र स्थाने युष्मांक धनं तत्रैव खाने युष्माकं मनांसि।
अतो वदामि यूयमप्ययथार्थेन धनेन मित्राणि लभध्वं ततो युष्मासु पदभ्रष्टेष्वपि तानि चिरकालम् आश्रयं दास्यन्ति।
किन्तु यो जनोऽज्ञात्वा प्रहारार्हं कर्म्म करोति सोल्पप्रहारान् प्राप्स्यति। यतो यस्मै बाहुल्येन दत्तं तस्मादेव बाहुल्येन ग्रहीष्यते, मानुषा यस्य निकटे बहु समर्पयन्ति तस्माद् बहु याचन्ते।
यः कश्चित् क्षुद्रे कार्य्ये विश्वास्यो भवति स महति कार्य्येपि विश्वास्यो भवति, किन्तु यः कश्चित् क्षुद्रे कार्य्येऽविश्वास्यो भवति स महति कार्य्येप्यविश्वास्यो भवति।
युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।
इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता योऽमर ईश्वरस्तस्मिन् विश्वसन्तु सदाचारं कुर्व्वन्तु सत्कर्म्मधनेन धनिनो सुकला दातारश्च भवन्तु, यथा च सत्यं जीवनं पाप्नुयुस्तथा पारत्रिकाम् उत्तमसम्पदं सञ्चिन्वन्त्वेति त्वयादिश्यन्तां।
यस्मात् शरीरावस्थायाम् एकैकेन कृतानां कर्म्मणां शुभाशुभफलप्राप्तये सर्व्वैस्माभिः ख्रीष्टस्य विचारासनसम्मुख उपस्थातव्यं।
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।
येन वर्द्व्यते तस्मिन्नैवार्पिष्यते, तस्यैव च बाहुल्यं भविष्यति, किन्तु येन न वर्द्व्यते, तस्यान्तिके यत् किञ्चन तिष्ठति, तदपि पुनर्नेष्यते।
युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते। स्वशरीरार्थं येन बीजम् उप्यते तेन शरीराद् विनाशरूपं शस्यं लप्स्यते किन्त्वात्मनः कृते येन बीजम् उप्यते तेनात्मतोऽनन्तजीवितरूपं शस्यं लप्स्यते।
अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।
अपरञ्च परोपकारो दानञ्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते।
प्रभो र्योग्यं सर्व्वथा सन्तोषजनकञ्चाचारं कुर्य्यातार्थत ईश्वरज्ञाने वर्द्धमानाः सर्व्वसत्कर्म्मरूपं फलं फलेत,
प्राचीनगणहस्तार्पणसहितेन भविष्यद्वाक्येन यद्दानं तुभ्यं विश्राणितं तवान्तःस्थे तस्मिन् दाने शिथिलमना मा भव।
अपरञ्च यीशुः शिष्येभ्योन्यामेकां कथां कथयामास कस्यचिद् धनवतो मनुष्यस्य गृहकार्य्याधीशे सम्पत्तेरपव्ययेऽपवादिते सति यः कश्चित् क्षुद्रे कार्य्ये विश्वास्यो भवति स महति कार्य्येपि विश्वास्यो भवति, किन्तु यः कश्चित् क्षुद्रे कार्य्येऽविश्वास्यो भवति स महति कार्य्येप्यविश्वास्यो भवति। अतएव अयथार्थेन धनेन यदि यूयमविश्वास्या जातास्तर्हि सत्यं धनं युष्माकं करेषु कः समर्पयिष्यति? यदि च परधनेन यूयम् अविश्वास्या भवथ तर्हि युष्माकं स्वकीयधनं युष्मभ्यं को दास्यति? कोपि दास उभौ प्रभू सेवितुं न शक्नोति, यत एकस्मिन् प्रीयमाणोऽन्यस्मिन्नप्रीयते यद्वा एकं जनं समादृत्य तदन्यं तुच्छीकरोति तद्वद् यूयमपि धनेश्वरौ सेवितुं न शक्नुथ। तदैताः सर्व्वाः कथाः श्रुत्वा लोभिफिरूशिनस्तमुपजहसुः। ततः स उवाच, यूयं मनुष्याणां निकटे स्वान् निर्दोषान् दर्शयथ किन्तु युष्माकम् अन्तःकरणानीश्वरो जानाति, यत् मनुष्याणाम् अति प्रशंस्यं तद् ईश्वरस्य घृण्यं। योहन आगमनपर्य्यनतं युष्माकं समीपे व्यवस्थाभविष्यद्वादिनां लेखनानि चासन् ततः प्रभृति ईश्वरराज्यस्य सुसंवादः प्रचरति, एकैको लोकस्तन्मध्यं यत्नेन प्रविशति च। वरं नभसः पृथिव्याश्च लोपो भविष्यति तथापि व्यवस्थाया एकबिन्दोरपि लोपो न भविष्यति। यः कश्चित् स्वीयां भार्य्यां विहाय स्त्रियमन्यां विवहति स परदारान् गच्छति, यश्च ता त्यक्तां नारीं विवहति सोपि परदारान गच्छति। एको धनी मनुष्यः शुक्लानि सूक्ष्माणि वस्त्राणि पर्य्यदधात् प्रतिदिनं परितोषरूपेणाभुंक्तापिवच्च। तस्य प्रभुस्तम् आहूय जगाद, त्वयि यामिमां कथां शृणोमि सा कीदृशी? त्वं गृहकार्य्याधीशकर्म्मणो गणनां दर्शय गृहकार्य्याधीशपदे त्वं न स्थास्यसि।
किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।
युष्माकं यानि वपूंसि तानि युष्मदन्तःस्थितस्येश्वराल्लब्धस्य पवित्रस्यात्मनो मन्दिराणि यूयञ्च स्वेषां स्वामिनो नाध्वे किमेतद् युष्माभि र्न ज्ञायते? जगतोऽपि विचारणं पवित्रलोकैः कारिष्यत एतद् यूयं किं न जानीथ? अतो जगद् यदि युष्माभि र्विचारयितव्यं तर्हि क्षुद्रतमविचारेषु यूयं किमसमर्थाः? यूयं मूल्येन क्रीता अतो वपुर्मनोभ्याम् ईश्वरो युष्माभिः पूज्यतां यत ईश्वर एव तयोः स्वामी।
अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।
अतः सावधाना भवत, अज्ञाना इव माचरत किन्तु ज्ञानिन इव सतर्कम् आचरत। समयं बहुमूल्यं गणयध्वं यतः काला अभद्राः।
ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।
युष्माकं मध्यवर्त्ती य ईश्वरस्य मेषवृन्दो यूयं तं पालयत तस्य वीक्षणं कुरुत च, आवश्यकत्वेन नहि किन्तु स्वेच्छातो न व कुलोभेन किन्त्विच्छुकमनसा।
अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं। अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।
यस्मिन् इच्छुकता विद्यते तेन यन्न धार्य्यते तस्मात् सोऽनुगृह्यत इति नहि किन्तु यद् धार्य्यते तस्मादेव।
यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।
अनन्तरं स लोकानवदत् लोभे सावधानाः सतर्काश्च तिष्ठत, यतो बहुसम्पत्तिप्राप्त्या मनुष्यस्यायु र्न भवति।
चोरः पुनश्चैर्य्यं न करोतु किन्तु दीनाय दाने सामर्थ्यं यज्जायते तदर्थं स्वकराभ्यां सद्वृत्त्या परिश्रमं करोतु।
योऽमर ईश्वरस्तस्मिन् विश्वसन्तु सदाचारं कुर्व्वन्तु सत्कर्म्मधनेन धनिनो सुकला दातारश्च भवन्तु,
तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।
अस्मात् करग्राहिणे करं दत्त, तथा शुल्कग्राहिणे शुल्कं दत्त, अपरं यस्माद् भेतव्यं तस्माद् बिभीत, यश्च समादरणीयस्तं समाद्रियध्वम्; इत्थं यस्य यत् प्राप्यं तत् तस्मै दत्त।
वयं युष्माकं विश्वासस्य नियन्तारो न भवामः किन्तु युष्माकम् आनन्दस्य सहाया भवामः, यस्माद् विश्वासे युष्माकं स्थिति र्भवति।
यदि यूयं ख्रीष्टेन सार्द्धम् उत्थापिता अभवत तर्हि यस्मिन् स्थाने ख्रीष्ट ईश्वरस्य दक्षिणपार्श्वे उपविष्ट आस्ते तस्योर्द्ध्वस्थानस्य विषयान् चेष्टध्वं। स्वस्रष्टुः प्रतिमूर्त्या तत्त्वज्ञानाय नूतनीकृतं नवीनपुरुषं परिहितवन्तश्च। तेन च यिहूदिभिन्नजातीययोश्छिन्नत्वगच्छिन्नत्वचो र्म्लेच्छस्कुथीययो र्दासमुक्तयोश्च कोऽपि विशेषो नास्ति किन्तु सर्व्वेषु सर्व्वः ख्रीष्ट एवास्ते। अतएव यूयम् ईश्वरस्य मनोभिलषिताः पवित्राः प्रियाश्च लोका इव स्नेहयुक्ताम् अनुकम्पां हितैषितां नम्रतां तितिक्षां सहिष्णुताञ्च परिधद्ध्वं। यूयम् एकैकस्याचरणं सहध्वं येन च यस्य किमप्यपराध्यते तस्य तं दोषं स क्षमतां, ख्रीष्टो युष्माकं दोषान् यद्वद् क्षमितवान् यूयमपि तद्वत् कुरुध्वं। विशेषतः सिद्धिजनकेन प्रेमबन्धनेन बद्धा भवत। यस्याः प्राप्तये यूयम् एकस्मिन् शरीरे समाहूता अभवत सेश्वरीया शान्ति र्युष्माकं मनांस्यधितिष्ठतु यूयञ्च कृतज्ञा भवत। ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च। वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च। हे योषितः, यूयं स्वामिनां वश्या भवत यतस्तदेव प्रभवे रोचते। हे स्वामिनः, यूयं भार्य्यासु प्रीयध्वं ताः प्रति परुषालापं मा कुरुध्वं। पार्थिवविषयेषु न यतमाना ऊर्द्ध्वस्थविषयेषु यतध्वं।
पश्यत, वृकयूथमध्ये मेषः यथाविस्तथा युष्मान प्रहिणोमि, तस्माद् यूयम् अहिरिव सतर्काः कपोताइवाहिंसका भवत।
यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"
अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः।
एतज्जगत्प्रवेशनकालेऽस्माभिः किमपि नानायि तत्तयजनकालेऽपि किमपि नेतुं न शक्ष्यत इति निश्चितं। अतएव खाद्यान्याच्छादनानि च प्राप्यास्माभिः सन्तुष्टै र्भवितव्यं।
कोपि मनुजो द्वौ प्रभू सेवितुं न शक्नोति, यस्माद् एकं संमन्य तदन्यं न सम्मन्यते, यद्वा एकत्र मनो निधाय तदन्यम् अवमन्यते; तथा यूयमपीश्वरं लक्ष्मीञ्चेत्युभे सेवितुं न शक्नुथ।
पूर्णयत्नेन लक्ष्यं प्रति धावन् ख्रीष्टयीशुनोर्द्ध्वात् माम् आह्वयत ईश्वरात् जेतृपणं प्राप्तुं चेष्टे।
आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?
एकस्मिन् मुद्राणां पञ्च पोटलिकाः अन्यस्मिंश्च द्वे पोटलिके अपरस्मिंश्च पोटलिकैकाम् इत्थं प्रतिजनं समर्प्य स्वयं प्रवासं गतवान्।
यो वाक्यं कथयति स ईश्वरस्य वाक्यमिव कथयतु यश्च परम् उपकरोति स ईश्वरदत्तसामर्थ्यादिवोपकरोतु। सर्व्वविषये यीशुख्रीष्टेनेश्वरस्य गौरवं प्रकाश्यतां तस्यैव गौरवं पराक्रमश्च सर्व्वदा भूयात्। आमेन।
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या। अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्। तथा कार्य्ये निरालस्या मनसि च सोद्योगाः सन्तः प्रभुं सेवध्वम्। अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं। पवित्राणां दीनतां दूरीकुरुध्वम् अतिथिसेवायाम् अनुरज्यध्वम्। ये जना युष्मान् ताडयन्ति तान् आशिषं वदत शापम् अदत्त्वा दद्ध्वमाशिषम्। ये जना आनन्दन्ति तैः सार्द्धम् आनन्दत ये च रुदन्ति तैः सह रुदित। अपरञ्च युष्माकं मनसां परस्परम् एकोभावो भवतु; अपरम् उच्चपदम् अनाकाङ्क्ष्य नीचलोकैः सहापि मार्दवम् आचरत; स्वान् ज्ञानिनो न मन्यध्वं। परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत। यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत। हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं। अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।
हे भ्रातरः, यूयं स्वातन्त्र्यार्थम् आहूता आध्वे किन्तु तत्स्वातन्त्र्यद्वारेण शारीरिकभावो युष्मान् न प्रविशतु। यूयं प्रेम्ना परस्परं परिचर्य्यां कुरुध्वं।
अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन् तस्मात् मम यादृशं युद्धं युष्माभिरदर्शि साम्प्रतं श्रूयते च तादृशं युद्धं युष्माकम् अपि भवति। यति वारान् युष्माकं स्मरामि तति वारान् आ प्रथमाद् अद्य यावद् युष्माकं सुसंवादभागित्वकारणाद् ईश्वरं धन्यं वदामि।
सर्व्वञ्चैतद् ईश्वरस्य कर्म्म यतो यीशुख्रीष्टेन स एवास्मान् स्वेन सार्द्धं संहितवान् सन्धानसम्बन्धीयां परिचर्य्याम् अस्मासु समर्पितवांश्च।
येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।
सांसारिकजीविकाप्राप्तो यो जनः स्वभ्रातरं दीनं दृष्ट्वा तस्मात् स्वीयदयां रुणद्धि तस्यान्तर ईश्वरस्य प्रेम कथं तिष्ठेत्?
अपरमपि व्याहरामि केनचित् क्षुद्रभावेन बीजेषूप्तेषु स्वल्पानि शस्यानि कर्त्तिष्यन्ते, किञ्च केनचिद् बहुदभवेन बीजेषूप्तेषु बहूनि शस्यानि कर्त्तिष्यन्ते। एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते। अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।