प्रिय, दानं नाम दातृत्वम्। ईश्वरस्य दृष्टौ दानम् अतीव प्रियम्। यदा भवान् ईश्वराय दानं करोति, तदा स्मर्तव्यं यत् तत् सर्वोत्तमं भवेत्, हृदयेन च शुद्धभावेन दीयताम्। आनन्देन, प्रसन्नतया च दातव्यम्, यतो ईश्वरः अस्मभ्यम् बहु अधिकं दत्तवान्। यद्यपि वयं न अर्हामः, तथापि सः अस्मान् बहुधा अनुगृहीतवान्। यदि भवान् केवलम् अवशिष्टं ददाति, तर्हि जीवनम् अपि भवता सह तादृशमेव भविष्यति। स्वस्मै इव दातव्यम्, न तु बलात् न वा प्रत्यर्पणम् आशित्वा। दानं गर्वेण न कर्तव्यम्, न च प्रशंसायाः अपेक्षया। वामहस्तेन यत् क्रियते तत् दक्षिणहस्तेन ज्ञातव्यं न भवति। प्रसन्नहृदयेन ददतः प्रीतिः अस्माकं प्रभोः। सः अस्माकं हृदयं जानाति। यथा हृदि निश्चितं तथा ददातु कोऽपि, न दुःखेन, न वा बलात्, यतो हर्षेण ददतं प्रभुः प्रीणाति। (२ कुरुन्थीय ९:७) दानं नाम ईश्वरेण प्रदत्तस्य अंशस्य भक्त्याः प्रतीकत्वेन अर्पणम्। यदा ईश्वरः ददाति, तदा सः प्रचुरतया, उदारतया च ददाति। अतः यदा भवान् हृदयेन दानं करोति, तदा ईश्वरस्य प्रचुरतायाः द्वारम् उद्घाटयति। यावत् अधिकं ददाति, तावत् अधिकं प्राप्नोति।
अथ भोजनान्ते तादृशं पात्रं गृहीत्वावदत्, युष्मत्कृते पातितं यन्मम रक्तं तेन निर्णीतनवनियमरूपं पानपात्रमिदं।
किन्त्विदानीम् असौ तस्मात् श्रेष्ठं सेवकपदं प्राप्तवान् यतः स श्रेष्ठप्रतिज्ञाभिः स्थापितस्य श्रेष्ठनियमस्य मध्यस्थोऽभवत्। स प्रथमो नियमो यदि निर्द्दोषोऽभविष्यत तर्हि द्वितीयस्य नियमस्य किमपि प्रयोजनं नाभविष्यत्।
स नूतननियमस्य मध्यस्थोऽभवत् तस्याभिप्रायोऽयं यत् प्रथमनियमलङ्घनरूपपापेभ्यो मृत्युना मुक्तौ जातायाम् आहूतलोका अनन्तकालीयसम्पदः प्रतिज्ञाफलं लभेरन्।
"यतो हेतोस्तद्दिनात् परम् अहं तैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामीति प्रथमत उक्त्वा परमेश्वरेणेदं कथितं, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां मनःसु च तान् लेखिष्यामि च, अपरञ्च तेषां पापान्यपराधांश्च पुनः कदापि न स्मारिष्यामि।"
अहं व्यवस्थां भविष्यद्वाक्यञ्च लोप्तुम् आगतवान्, इत्थं मानुभवत, ते द्वे लोप्तुं नागतवान्, किन्तु सफले कर्त्तुम् आगतोस्मि। अपरं युष्मान् अहं तथ्यं वदामि यावत् व्योममेदिन्यो र्ध्वंसो न भविष्यति, तावत् सर्व्वस्मिन् सफले न जाते व्यवस्थाया एका मात्रा बिन्दुरेकोपि वा न लोप्स्यते।
इब्राहीम् जगतोऽधिकारी भविष्यति यैषा प्रतिज्ञा तं तस्य वंशञ्च प्रति पूर्व्वम् अक्रियत सा व्यवस्थामूलिका नहि किन्तु विश्वासजन्यपुण्यमूलिका।
हे भ्रातृगण मानुषाणां रीत्यनुसारेणाहं कथयामि केनचित् मानवेन यो नियमो निरचायि तस्य विकृति र्वृद्धि र्वा केनापि न क्रियते। परन्त्विब्राहीमे तस्य सन्तानाय च प्रतिज्ञाः प्रति शुश्रुविरे तत्र सन्तानशब्दं बहुवचनान्तम् अभूत्वा तव सन्तानायेत्येकवचनान्तं बभूव स च सन्तानः ख्रीष्ट एव।
किञ्च यूयं यदि ख्रीष्टस्य भवथ तर्हि सुतराम् इब्राहीमः सन्तानाः प्रतिज्ञया सम्पदधिकारिणश्चाध्वे।
ईश्वरेण स्वीकीयलोका अपसारिता अहं किम् ईदृशं वाक्यं ब्रवीमि? तन्न भवतु यतोऽहमपि बिन्यामीनगोत्रीय इब्राहीमवंशीय इस्रायेलीयलोकोऽस्मि। भविष्यन्ति तथान्धास्ते नेत्रैः पश्यन्ति नो यथा। वेपथुः कटिदेशस्य तेषां नित्यं भविष्यति॥ पतनार्थं ते स्खलितवन्त इति वाचं किमहं वदामि? तन्न भवतु किन्तु तान् उद्योगिनः कर्त्तुं तेषां पतनाद् इतरदेशीयलोकैः परित्राणं प्राप्तं। तेषां पतनं यदि जगतो लोकानां लाभजनकम् अभवत् तेषां ह्रासोऽपि यदि भिन्नदेशिनां लाभजनकोऽभवत् तर्हि तेषां वृद्धिः कति लाभजनिका भविष्यति? अतो हे अन्यदेशिनो युष्मान् सम्बोध्य कथयामि निजानां ज्ञातिबन्धूनां मनःसूद्योगं जनयन् तेषां मध्ये कियतां लोकानां यथा परित्राणं साधयामि तन्निमित्तम् अन्यदेशिनां निकटे प्रेरितः सन् अहं स्वपदस्य महिमानं प्रकाशयामि। तेषां निग्रहेण यदीश्वरेण सह जगतो जनानां मेलनं जातं तर्हि तेषाम् अनुगृहीतत्वं मृतदेहे यथा जीवनलाभस्तद्वत् किं न भविष्यति? अपरं प्रथमजातं फलं यदि पवित्रं भवति तर्हि सर्व्वमेव फलं पवित्रं भविष्यति; तथा मूलं यदि पवित्रं भवति तर्हि शाखा अपि तथैव भविष्यन्ति। कियतीनां शाखानां छेदने कृते त्वं वन्यजितवृक्षस्य शाखा भूत्वा यदि तच्छाखानां स्थाने रोपिता सति जितवृक्षीयमूलस्य रसं भुंक्षे, तर्हि तासां भिन्नशाखानां विरुद्धं मां गर्व्वीः; यदि गर्व्वसि तर्हि त्वं मूलं यन्न धारयसि किन्तु मूलं त्वां धारयतीति संस्मर। अपरञ्च यदि वदसि मां रोपयितुं ताः शाखा विभन्ना अभवन्; ईश्वरेण पूर्व्वं ये प्रदृष्टास्ते स्वकीयलोका अपसारिता इति नहि। अपरम् एलियोपाख्याने शास्त्रे यल्लिखितम् आस्ते तद् यूयं किं न जानीथ?
"परमेश इदं शेपे न च तस्मान्निवर्त्स्यते। त्वं मल्कीषेदकः श्रेण्यां याजकोऽसि सदातनः।"
इब्राहीमः सन्तानो दायूद् तस्य सन्तानो यीशुख्रीष्टस्तस्य पूर्व्वपुरुषवंशश्रेणी। तस्य सुतो मिनशिः, तस्य सुत आमोन् तस्य सुतो योशियः। बाबिल्नगरे प्रवसनात् पूर्व्वं स योशियो यिखनियं तस्य भ्रातृंश्च जनयामास। ततो बाबिलि प्रवसनकाले यिखनियः शल्तीयेलं जनयामास, तस्य सुतः सिरुब्बाविल्। तस्य सुतो ऽबोहुद् तस्य सुत इलीयाकीम् तस्य सुतोऽसोर्। असोरः सुतः सादोक् तस्य सुत आखीम् तस्य सुत इलीहूद्। तस्य सुत इलियासर् तस्य सुतो मत्तन्। तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य गर्भे यीशुरजनि, तमेव ख्रीष्टम् (अर्थाद् अभिषिक्तं) वदन्ति। इत्थम् इब्राहीमो दायूदं यावत् साकल्येन चतुर्दशपुरुषाः; आ दायूदः कालाद् बाबिलि प्रवसनकालं यावत् चतुर्दशपुरुषा भवन्ति। बाबिलि प्रवासनकालात् ख्रीष्टस्य कालं यावत् चतुर्दशपुरुषा भवन्ति।
तमेव सफलं कर्त्तं तथा शत्रुगणस्य च। ऋृतीयाकारिणश्चैव करेभ्यो रक्षणाय नः। सृष्टेः प्रथमतः स्वीयैः पवित्रै र्भाविवादिभिः।
यूयमपि तेषां भविष्यद्वादिनां सन्तानाः, "तव वंशोद्भवपुंसा सर्व्वदेशीया लोका आशिषं प्राप्ता भविष्यन्ति", इब्राहीमे कथामेतां कथयित्वा ईश्वरोस्माकं पूर्व्वपुरुषैः सार्द्धं यं नियमं स्थिरीकृतवान् तस्य नियमस्याधिकारिणोपि यूयं भवथ।
यतस्त इस्रायेलस्य वंशा अपि च दत्तकपुत्रत्वं तेजो नियमो व्यवस्थादानं मन्दिरे भजनं प्रतिज्ञाः पितृपुरुषगणश्चैतेषु सर्व्वेषु तेषाम् अधिकारोऽस्ति। तत् केवलं नहि किन्तु सर्व्वाध्यक्षः सर्व्वदा सच्चिदानन्द ईश्वरो यः ख्रीष्टः सोऽपि शारीरिकसम्बन्धेन तेषां वंशसम्भवः।
ईश्वरस्य महिमा यद् अस्माभिः प्रकाशेत तदर्थम् ईश्वरेण यद् यत् प्रतिज्ञातं तत्सर्व्वं ख्रीष्टेन स्वीकृतं सत्यीभूतञ्च।
यावन्तो लोका व्यवस्थायाः कर्म्मण्याश्रयन्ति ते सर्व्वे शापाधीना भवन्ति यतो लिखितमास्ते, यथा, "यः कश्चिद् एतस्य व्यवस्थाग्रन्थस्य सर्व्ववाक्यानि निश्चिद्रं न पालयति स शप्त इति।" ईश्वरस्य साक्षात् कोऽपि व्यवस्थया सपुण्यो न भवति तद व्यक्तं यतः "पुण्यवान् मानवो विश्वासेन जीविष्यतीति" शास्त्रीयं वचः। व्यवस्था तु विश्वाससम्बन्धिनी न भवति किन्त्वेतानि यः पालयिष्यति स एव तै र्जीविष्यतीतिनियमसम्बन्धिनी। ख्रीष्टोऽस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतोऽस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सोऽभिशप्त इति।" तस्माद् ख्रीष्टेन यीशुनेव्राहीम आशी र्भिन्नजातीयलोकेषु वर्त्तते तेन वयं प्रतिज्ञातम् आत्मानं विश्वासेन लब्धुं शक्नुमः।
इत्यनेन पवित्र आत्मा यत् ज्ञापयति तदिदं तत् प्रथमं दूष्यं यावत् तिष्ठति तावत् महापवित्रस्थानगामी पन्था अप्रकाशितस्तिष्ठति। तच्च दूष्यं वर्त्तमानसमयस्य दृष्टान्तः, यतो हेतोः साम्प्रतं संशोधनकालं यावद् यन्निरूपितं तदनुसारात् सेवाकारिणो मानसिकसिद्धिकरणेऽसमर्थाभिः
इस्रायेलः प्रभु र्यस्तु स धन्यः परमेश्वरः। अनुगृह्य निजाल्लोकान् स एव परिमोचयेत्। विपक्षजनहस्तेभ्यो यथा मोच्यामहे वयं। यावज्जीवञ्च धर्म्मेण सारल्येन च निर्भयाः।
यतो युष्माकं युष्मत्सन्तानानाञ्च दूरस्थसर्व्वलोकानाञ्च निमित्तम् अर्थाद् अस्माकं प्रभुः परमेश्वरो यावतो लाकान् आह्वास्यति तेषां सर्व्वेषां निमित्तम् अयमङ्गीकार आस्ते।
इत्यत्र यिहूदिनि तदन्यलोके च कोपि विशेषो नास्ति यस्माद् यः सर्व्वेषाम् अद्वितीयः प्रभुः स निजयाचकान सर्व्वान् प्रति वदान्यो भवति। यतः, यः कश्चित् परमेशस्य नाम्ना हि प्रार्थयिष्यते। स एव मनुजो नूनं परित्रातो भविष्यति।
किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।
अतएव सा प्रतिज्ञा यद् अनुग्रहस्य फलं भवेत् तदर्थं विश्वासमूलिका यतस्तथात्वे तद्वंशसमुदायं प्रति अर्थतो ये व्यवस्थया तद्वंशसम्भवाः केवलं तान् प्रति नहि किन्तु य इब्राहीमीयविश्वासेन तत्सम्भवास्तानपि प्रति सा प्रतिज्ञा स्थास्नुर्भवति।
हे भ्रातृगण मानुषाणां रीत्यनुसारेणाहं कथयामि केनचित् मानवेन यो नियमो निरचायि तस्य विकृति र्वृद्धि र्वा केनापि न क्रियते।
अनन्तरं समये सम्पूर्णतां गतवति व्यवस्थाधीनानां मोचनार्थम् अस्माकं पुत्रत्वप्राप्त्यर्थञ्चेश्वरः स्त्रिया जातं व्यवस्थाया अधिनीभूतञ्च स्वपुत्रं प्रेषितवान्।
अहं व्यवस्थां भविष्यद्वाक्यञ्च लोप्तुम् आगतवान्, इत्थं मानुभवत, ते द्वे लोप्तुं नागतवान्, किन्तु सफले कर्त्तुम् आगतोस्मि।
"यतो हेतोस्तद्दिनात् परम् अहं तैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामीति प्रथमत उक्त्वा परमेश्वरेणेदं कथितं, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां मनःसु च तान् लेखिष्यामि च,
पश्चात् ते सर्व्वे परित्रास्यन्ते; एतादृशं लिखितमप्यास्ते, आगमिष्यति सीयोनाद् एको यस्त्राणदायकः। अधर्म्मं याकुबो वंशात् स तु दूरीकरिष्यति। तथा दूरीकरिष्यामि तेषां पापान्यहं यदा। तदा तैरेव सार्द्धं मे नियमोऽयं भविष्यति।
यूयं निरर्थकात् पैतृकाचारात् क्षयणीयै रूप्यसुवर्णादिभि र्मुक्तिं न प्राप्य निष्कलङ्कनिर्म्मलमेषशावकस्येव ख्रीष्टस्य बहुमूल्येन रुधिरेण मुक्तिं प्राप्तवन्त इति जानीथ।
अतो यूयं यात्वा वचनस्यास्यार्थं शिक्षध्वम्, दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि।यतोऽहं धार्म्मिकान् आह्वातुं नागतोऽस्मि किन्तु मनः परिवर्त्तयितुं पापिन आह्वातुम् आगतोऽस्मि।
विश्वासेन सपुण्यीकृता वयम् ईश्वरेण सार्द्धं प्रभुणास्माकं यीशुख्रीष्टेन मेलनं प्राप्ताः। फलतो वयं यदा रिपव आस्म तदेश्वरस्य पुत्रस्य मरणेन तेन सार्द्धं यद्यस्माकं मेलनं जातं तर्हि मेलनप्राप्ताः सन्तोऽवश्यं तस्य जीवनेन रक्षां लप्स्यामहे। तत् केवलं नहि किन्तु येन मेलनम् अलभामहि तेनास्माकं प्रभुणा यीशुख्रीष्टेन साम्प्रतम् ईश्वरे समानन्दामश्च। तथा सति, एकेन मानुषेण पापं पापेन च मरणं जगतीं प्राविशत् अपरं सर्व्वेषां पापित्वात् सर्व्वे मानुषा मृते र्निघ्ना अभवत्। यतो व्यवस्थादानसमयं यावत् जगति पापम् आसीत् किन्तु यत्र व्यवस्था न विद्यते तत्र पापस्यापि गणना न विद्यते। तथाप्यादमा यादृशं पापं कृतं तादृशं पापं यै र्नाकारि आदमम् आरभ्य मूसां यावत् तेषामप्युपरि मृत्यू राजत्वम् अकरोत् स आदम् भाव्यादमो निदर्शनमेवास्ते। किन्तु पापकर्म्मणो यादृशो भावस्तादृग् दानकर्म्मणो भावो न भवति यत एकस्य जनस्यापराधेन यदि बहूनां मरणम् अघटत तथापीश्वरानुग्रहस्तदनुग्रहमूलकं दानञ्चैकेन जनेनार्थाद् यीशुना ख्रीष्टेन बहुषु बाहुल्यातिबाहुल्येन फलति। अपरम् एकस्य जनस्य पापकर्म्म यादृक् फलयुक्तं दानकर्म्म तादृक् न भवति यतो विचारकर्म्मैकं पापम् आरभ्य दण्डजनकं बभूव, किन्तु दानकर्म्म बहुपापान्यारभ्य पुण्यजनकं बभूव। यत एकस्य जनस्य पापकर्म्मतस्तेनैकेन यदि मरणस्य राजत्वं जातं तर्हि ये जना अनुग्रहस्य बाहुल्यं पुण्यदानञ्च प्राप्नुवन्ति त एकेन जनेन, अर्थात् यीशुख्रीष्टेन, जीवने राजत्वम् अवश्यं करिष्यन्ति। एकोऽपराधो यद्वत् सर्व्वमानवानां दण्डगामी मार्गो ऽभवत् तद्वद् एकं पुण्यदानं सर्व्वमानवानां जीवनयुक्तपुण्यगामी मार्ग एव। अपरम् एकस्य जनस्याज्ञालङ्घनाद् यथा बहवो ऽपराधिनो जातास्तद्वद् एकस्याज्ञाचरणाद् बहवः सपुण्यीकृता भवन्ति। अपरं वयं यस्मिन् अनुग्रहाश्रये तिष्ठामस्तन्मध्यं विश्वासमार्गेण तेनैवानीता वयम् ईश्वरीयविभवप्राप्तिप्रत्याशया समानन्दामः।
सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।
याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति। यस्माद् येन याच्यते, तेन लभ्यते; येन मृग्यते तेनोद्देशः प्राप्यते; येन च द्वारम् आहन्यते, तत्कृते द्वारं मोच्यते।
यतः ख्रीष्टस्य सुसंवादो मम लज्जास्पदं नहि स ईश्वरस्य शक्तिस्वरूपः सन् आ यिहूदीयेभ्यो ऽन्यजातीयान् यावत् सर्व्वजातीयानां मध्ये यः कश्चिद् तत्र विश्वसिति तस्यैव त्राणं जनयति। यतः प्रत्ययस्य समपरिमाणम् ईश्वरदत्तं पुण्यं तत्सुसंवादे प्रकाशते। तदधि धर्म्मपुस्तकेपि लिखितमिदं "पुण्यवान् जनो विश्वासेन जीविष्यति"।
अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।
अनन्तनियमस्य रुधिरेण विशिष्टो महान् मेषपालको येन मृतगणमध्यात् पुनरानायि स शान्तिदायक ईश्वरो निजाभिमतसाधनाय सर्व्वस्मिन् सत्कर्म्मणि युष्मान् सिद्धान् करोतु, तस्य दृष्टौ च यद्यत् तुष्टिजनकं तदेव युष्माकं मध्ये यीशुना ख्रीष्टेन साधयतु। तस्मै महिमा सर्व्वदा भूयात्। आमेन्।
ईश्वरस्य वाक्यं विफलं जातम् इति नहि यत्कारणाद् इस्रायेलो वंशे ये जातास्ते सर्व्वे वस्तुत इस्रायेलीया न भवन्ति।
किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।