कतिपयानि पद्यानि दुर्बोध्यानि सन्ति, परं बहुधा तु सुगमैव बाइबिलं अवगन्तुं शक्यते। कालक्रमेण मया अन्वभूतं यत् द्वे अपि कथने समीचीने स्तः बाइबिलं सुगमं, परं यदा किञ्चित् दुर्बोधं तदा तस्यार्थनिर्णयः खलु कठिनः। धन्यवादः यत् नवतिनवप्रतिशतं भागः स्पष्ट एव, तच्च पालनीयम् अस्माभिः।
बाइबिलस्य स्पष्टता स्वयं प्रमाणयति यत् ईश्वरस्य वचनं सुस्पष्टं सरलञ्च, येन सर्वे जनाः तत् अवगन्तुं समर्थाः। तथापि वयं भक्ताः कदाचित् कानिचित् पद्यानि दुर्बोध्यानि, अस्पष्टानि च प्राप्नुमः। अद्यत्वे बहूनि भाष्याणि, सन्दर्भग्रन्थाः च सन्ति ये अस्मान् मार्गदर्शनं कुर्वन्ति, तथापि धर्मशास्त्रिणः अपि कानिचित् पद्यानां दुर्बोधतां स्वीकुर्वन्ति।
ईश्वरानुग्रहेण, अन्तर्जाले चोपलब्धानाम् अध्ययनानां साहाय्येन वयं तानि दुर्बोध्यानि पद्यानि अवगन्तुं शक्ष्यामः। ईश्वरः नः प्रज्ञां दास्यति अवबोधनाय। विश्वासः अस्माकं बलम् अस्ति।
कियत्कालात्परं स दरिद्रः प्राणान् जहौ; ततः स्वर्गीयदूतास्तं नीत्वा इब्राहीमः क्रोड उपवेशयामासुः।
हे पितर् इब्राहीम् अनुगृह्य अङ्गुल्यग्रभागं जले मज्जयित्वा मम जिह्वां शीतलां कर्त्तुम् इलियासरं प्रेरय, यतो वह्निशिखातोहं व्यथितोस्मि।
प्राणी मनुष्य ईश्वरीयात्मनः शिक्षां न गृह्लाति यत आत्मिकविचारेण सा विचार्य्येति हेतोः स तां प्रलापमिव मन्यते बोद्धुञ्च न शक्नोति।
इहलोकस्याधिपतीनां केनापि तत् ज्ञानं न लब्धं, लब्धे सति ते प्रभावविशिष्टं प्रभुं क्रुशे नाहनिष्यन्।
तस्य हस्तेनेश्वरस्तान् उद्धरिष्यति तस्य भ्रातृगण इति ज्ञास्यति स इत्यनुमानं चकार, किन्तु ते न बुबुधिरे।
तस्मात् तव दक्षिणं नेत्रं यदि त्वां बाधते, तर्हि तन्नेत्रम् उत्पाट्य दूरे निक्षिप, यस्मात् तव सर्व्ववपुषो नरके निक्षेपात् तवैकाङ्गस्य नाशो वरं। अभिमानहीना जना धन्याः, यतस्ते स्वर्गीयराज्यम् अधिकरिष्यन्ति। यद्वा तव दक्षिणः करो यदि त्वां बाधते, तर्हि तं करं छित्त्वा दूरे निक्षिप, यतः सर्व्ववपुषो नरके निक्षेपात् एकाङ्गस्य नाशो वरं।
पितृमातृश्चश्रूभिः साकं सुतसुताबधू र्विरोधयितुञ्चागतेास्मि। ततः स्वस्वपरिवारएव नृशत्रु र्भविता। यः पितरि मातरि वा मत्तोधिकं प्रीयते, स न मदर्हः;
तस्मात् तव करश्चरणो वा यदि त्वां बाधते, तर्हि तं छित्त्वा निक्षिप, द्विकरस्य द्विपदस्य वा तवानप्तवह्नौ निक्षेपात्, खञ्जस्य वा छिन्नहस्तस्य तव जीवने प्रवेशो वरं। अपरं तव नेत्रं यदि त्वां बाधते, तर्हि तदप्युत्पाव्य निक्षिप, द्विनेत्रस्य नरकाग्नौ निक्षेपात् काणस्य तव जीवने प्रवेशो वरं।
तृतीययामे "एली एली लामा शिवक्तनी", अर्थात् मदीश्वर मदीश्वर कुतो मामत्याक्षीः? यीशुरुच्चैरिति जगाद।
तदा स तानुदितवान् ईश्वरराज्यस्य निगूढवाक्यं बोद्धुं युष्माकमधिकारोऽस्ति; किन्तु ये वहिर्भूताः "ते पश्यन्तः पश्यन्ति किन्तु न जानन्ति, शृण्वन्तः शृण्वन्ति किन्तु न बुध्यन्ते, चेत्तै र्मनःसु कदापि परिवर्त्तितेषु तेषां पापान्यमोचयिष्यन्त," अतोहेतोस्तान् प्रति दृष्टान्तैरेव तानि मया कथितानि।
यः कश्चिन् मम समीपम् आगत्य स्वस्य माता पिता पत्नी सन्ताना भ्रातरो भगिम्यो निजप्राणाश्च, एतेभ्यः सर्व्वेभ्यो मय्यधिकं प्रेम न करोति, स मम शिष्यो भवितुं न शक्ष्यति।
अपरं प्रभुरुवाच, हे शिमोन् पश्य तितउना धान्यानीव युष्मान् शैतान् चालयितुम् ऐच्छत्, किन्तु तव विश्वासस्य लोपो यथा न भवति एतत् त्वदर्थं प्रार्थितं मया, त्वन्मनसि परिवर्त्तिते च भ्रातृणां मनांसि स्थिरीकुरु।
तदा यीशुस्तान् आवोचद् युष्मानहं यथार्थतरं वदामि मनुष्यपुत्रस्यामिषे युष्माभि र्न भुक्त्ते तस्य रुधिरे च न पीते जीवनेन सार्द्धं युष्माकं सम्बन्धो नास्ति। यो ममामिषं स्वादति मम सुधिरञ्च पिवति सोनन्तायुः प्राप्नोति ततः शेषेऽह्नि तमहम् उत्थापयिष्यामि। यतो मदीयमामिषं परमं भक्ष्यं तथा मदीयं शोणितं परमं पेयं। यो जनो मदीयं पललं स्वादति मदीयं रुधिरञ्च पिवति स मयि वसति तस्मिन्नहञ्च वसामि। मत्प्रेरयित्रा जीवता तातेन यथाहं जीवामि तद्वद् यः कश्चिन् मामत्ति सोपि मया जीविष्यति। यद्भक्ष्यं स्वर्गादागच्छत् तदिदं यन्मान्नां स्वादित्वा युष्माकं पितरोऽम्रियन्त तादृशम् इदं भक्ष्यं न भवति इदं भक्ष्यं यो भक्षति स नित्यं जीविष्यति।
तदा अनानियनामक एको जनो यस्य भार्य्याया नाम सफीरा स स्वाधिकारं विक्रीय ततः सापि तस्य चरणसन्निधौ पतित्वा प्राणान् अत्याक्षीत्। पश्चात् ते युवानोऽभ्यन्तरम् आगत्य तामपि मृतां दृष्ट्वा बहि र्नीत्वा तस्याः पत्युः पार्श्वे श्मशाने स्थापितवन्तः। तस्मात् मण्डल्याः सर्व्वे लोका अन्यलोकाश्च तां वार्त्तां श्रुत्वा साध्वसं गताः।
यत ईश्वरो ज्ञानवतस्त्रपयितुं मूर्खलोकान् रोचितवान् बलानि च त्रपयितुम् ईश्वरो दुर्ब्बलान् रोचितवान्। तथा वर्त्तमानलोकान् संस्थितिभ्रष्टान् कर्त्तुम् ईश्वरो जगतोऽपकृष्टान् हेयान् अवर्त्तमानांश्चाभिरोचितवान्। तत ईश्वरस्य साक्षात् केनाप्यात्मश्लाघा न कर्त्तव्या।
येन चानर्हत्वेन भुज्यते पीयते च प्रभोः कायम् अविमृशता तेन दण्डप्राप्तये भुज्यते पीयते च।
यतः केवलं रक्तमांसाभ्याम् इति नहि किन्तु कर्तृत्वपराक्रमयुक्तैस्तिमिरराज्यस्येहलोकस्याधिपतिभिः स्वर्गोद्भवै र्दुष्टात्मभिरेव सार्द्धम् अस्माभि र्युद्धं क्रियते।
यतो येन युष्माभिः ख्रीष्टे केवलविश्वासः क्रियते तन्नहि किन्तु तस्य कृते क्लेशोऽपि सह्यते तादृशो वरः ख्रीष्टस्यानुरोधाद् युष्माभिः प्रापि,
अपरञ्च नम्रता स्वर्गदूतानां सेवा चैतादृशम् इष्टकर्म्माचरन् यः कश्चित् परोक्षविषयान् प्रविशति स्वकीयशारीरिकभावेन च मुधा गर्व्वितः सन् सन्धिभिः शिराभिश्चोपकृतं संयुक्तञ्च कृत्स्नं शरीरं यस्मात् मूर्द्धत ईश्वरीयवृद्धिं प्राप्नोति तं मूर्द्धानं न धारयति तेन मानवेन युष्मत्तः फलापहरणं नानुजानीत।
तथापि नारीगणो यदि विश्वासे प्रेम्नि पवित्रतायां संयतमनसि च तिष्ठति तर्ह्यपत्यप्रसववर्त्मना परित्राणं प्राप्स्यति।
तत् सर्व्वं शास्त्रम् ईश्वरस्यात्मना दत्तं शिक्षायै दोषबोधाय शोधनाय धर्म्मविनयाय च फलयूक्तं भवति
य एककृत्वो दीप्तिमया भूत्वा स्वर्गीयवररसम् आस्वदितवन्तः पवित्रस्यात्मनोऽंशिनो जाता ईश्वरस्य सुवाक्यं भाविकालस्य शक्तिञ्चास्वदितवन्तश्च ते भ्रष्ट्वा यदि स्वमनोभिरीश्वरस्य पुत्रं पुनः क्रुशे घ्नन्ति लज्जास्पदं कुर्व्वते च तर्हि मनःपरावर्त्तनाय पुनस्तान् नवीनीकर्त्तुं कोऽपि न शक्नोति।
तत्सम्बन्धे च स यात्रां विधाय काराबद्धानाम् आत्मनां समीपे वाक्यं घोषितवान्। ते विनावाक्यं योषिताम् आचारेणार्थतस्तेषां प्रत्यक्षेण युष्माकं सभयसतीत्वाचारेणाक्रष्टुं शक्ष्यन्ते। पुरा नोहस्य समये यावत् पोतो निरमीयत तावद् ईश्वरस्य दीर्घसहिष्णुता यदा व्यलम्बत तदा तेऽनाज्ञाग्राहिणोऽभवन्। तेन पोतोनाल्पेऽर्थाद् अष्टावेव प्राणिनस्तोयम् उत्तीर्णाः।
कश्चिद् यदि स्वभ्रातरम् अमृत्युजनकं पापं कुर्व्वन्तं पश्यति तर्हि स प्रार्थनां करोतु तेनेश्वरस्तस्मै जीवनं दास्यति, अर्थतो मृत्युजनकं पापं येन नाकारितस्मै। किन्तु मृत्युजनकम् एकं पापम् आस्ते तदधि तेन प्रार्थना क्रियतामित्यहं न वदामि।
तव क्रिया मम गोचराः त्वं शीतो नासि तप्तो ऽपि नासीति जानामि। तव शीतत्वं तप्तत्वं वा वरं भवेत्, शीतो न भूत्वा तप्तो ऽपि न भूत्वा त्वमेवम्भूतः कदूष्णो ऽसि तत्कारणाद् अहं स्वमुखात् त्वाम् उद्वमिष्यामि।
ततो जगतः सृष्टिकालात् छेदितस्य मेषवत्सस्य जीवनपुस्तके यावतां नामानि लिखितानि न विद्यन्ते ते पृथिवीनिवासिनः सर्व्वे तं पशुं प्रणंस्यन्ति।
एको धनी मनुष्यः शुक्लानि सूक्ष्माणि वस्त्राणि पर्य्यदधात् प्रतिदिनं परितोषरूपेणाभुंक्तापिवच्च। तस्य प्रभुस्तम् आहूय जगाद, त्वयि यामिमां कथां शृणोमि सा कीदृशी? त्वं गृहकार्य्याधीशकर्म्मणो गणनां दर्शय गृहकार्य्याधीशपदे त्वं न स्थास्यसि। सर्व्वाङ्गे क्षतयुक्त इलियासरनामा कश्चिद् दरिद्रस्तस्य धनवतो भोजनपात्रात् पतितम् उच्छिष्टं भोक्तुं वाञ्छन् तस्य द्वारे पतित्वातिष्ठत्; अथ श्वान आगत्य तस्य क्षतान्यलिहन्। कियत्कालात्परं स दरिद्रः प्राणान् जहौ; ततः स्वर्गीयदूतास्तं नीत्वा इब्राहीमः क्रोड उपवेशयामासुः। पश्चात् स धनवानपि ममार, तं श्मशाने स्थापयामासुश्च; किन्तु परलोके स वेदनाकुलः सन् ऊर्द्ध्वां निरीक्ष्य बहुदूराद् इब्राहीमं तत्क्रोड इलियासरञ्च विलोक्य रुवन्नुवाच; हे पितर् इब्राहीम् अनुगृह्य अङ्गुल्यग्रभागं जले मज्जयित्वा मम जिह्वां शीतलां कर्त्तुम् इलियासरं प्रेरय, यतो वह्निशिखातोहं व्यथितोस्मि। तदा इब्राहीम् बभाषे, हे पुत्र त्वं जीवन् सम्पदं प्राप्तवान् इलियासरस्तु विपदं प्राप्तवान् एतत् स्मर, किन्तु सम्प्रति तस्य सुखं तव च दुःखं भवति। अपरमपि युष्माकम् अस्माकञ्च स्थानयो र्मध्ये महद्विच्छेदोऽस्ति तत एतत्स्थानस्य लोकास्तत् स्थानं यातुं यद्वा तत्स्थानस्य लोका एतत् स्थानमायातुं न शक्नुवन्ति। तदा स उक्तवान्, हे पितस्तर्हि त्वां निवेदयामि मम पितु र्गेहे ये मम पञ्च भ्रातरः सन्ति ते यथैतद् यातनास्थानं नायास्यन्ति तथा मन्त्रणां दातुं तेषां समीपम् इलियासरं प्रेरय। तत इब्राहीम् उवाच, मूसाभविष्यद्वादिनाञ्च पुस्तकानि तेषां निकटे सन्ति ते तद्वचनानि मन्यन्तां। तदा स गृहकार्य्याधीशो मनसा चिन्तयामास, प्रभु र्यदि मां गृहकार्य्याधीशपदाद् भ्रंशयति तर्हि किं करिष्येऽहं? मृदं खनितुं मम शक्ति र्नास्ति भिक्षितुञ्च लज्जिष्येऽहं। तदा स निवेदयामास, हे पितर् इब्राहीम् न तथा, किन्तु यदि मृतलोकानां कश्चित् तेषां समीपं याति तर्हि ते मनांसि व्याघोटयिष्यन्ति। तत इब्राहीम् जगाद, ते यदि मूसाभविष्यद्वादिनाञ्च वचनानि न मन्यन्ते तर्हि मृतलोकानां कस्मिंश्चिद् उत्थितेपि ते तस्य मन्त्रणां न मंस्यन्ते।
ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति। ईश्वरो जगतो लोकान् दण्डयितुं स्वपुत्रं न प्रेष्य तान् परित्रातुं प्रेषितवान्। अतएव यः कश्चित् तस्मिन् विश्वसिति स दण्डार्हो न भवति किन्तु यः कश्चित् तस्मिन् न विश्वसिति स इदानीमेव दण्डार्हो भवति,यतः स ईश्वरस्याद्वितीयपुत्रस्य नामनि प्रत्ययं न करोति।
स भूमण्डले निवासार्थम् एकस्मात् शोणितात् सर्व्वान् मनुष्यान् सृष्ट्वा तेषां पूर्व्वनिरूपितसमयं वसतिसीमाञ्च निरचिनोत्;
तदर्थं रिब्कानामिकया योषिता जनैकस्माद् अर्थाद् अस्माकम् इस्हाकः पूर्व्वपुरुषाद् गर्भे धृते तस्याः सन्तानयोः प्रसवात् पूर्व्वं किञ्च तयोः शुभाशुभकर्म्मणः करणात् पूर्व्वं तां प्रतीदं वाक्यम् उक्तं, ज्येष्ठः कनिष्ठं सेविष्यते, यथा लिखितम् आस्ते, तथाप्येषावि न प्रीत्वा याकूबि प्रीतवान् अहं।
अहो ईश्वरस्य ज्ञानबुद्धिरूपयो र्धनयोः कीदृक् प्राचुर्य्यं। तस्य राजशासनस्य तत्त्वं कीदृग् अप्राप्यं। तस्य मार्गाश्च कीदृग् अनुपलक्ष्याः। परमेश्वरस्य सङ्कल्पं को ज्ञातवान्? तस्य मन्त्री वा कोऽभवत्? को वा तस्योपकारी भृत्वा तत्कृते तेन प्रत्युपकर्त्तव्यः? यतो वस्तुमात्रमेव तस्मात् तेन तस्मै चाभवत् तदीयो महिमा सर्व्वदा प्रकाशितो भवतु। इति।
तद्वल्लिखितमास्ते, नेत्रेण क्कापि नो दृष्टं कर्णेनापि च न श्रुतं। मनोमध्ये तु कस्यापि न प्रविष्टं कदापि यत्। ईश्वरे प्रीयमाणानां कृते तत् तेन सञ्चितं।
अपरं परेतलोकानां विनिमयेन ये मज्ज्यन्ते तैः किं लप्स्यते? येषां परेतलोकानाम् उत्थितिः केनापि प्रकारेण न भविष्यति तेषां विनिमयेन कुतो मज्जनमपि तैरङ्गीक्रियते?
अतो युष्मन्मध्ये यिहूदियूनानिनो र्दासस्वतन्त्रयो र्योषापुरुषयोश्च कोऽपि विशेषो नास्ति; सर्व्वे यूयं ख्रीष्टे यीशावेक एव।
वयं यत् तस्य समक्षं प्रेम्ना पवित्रा निष्कलङ्काश्च भवामस्तदर्थं स जगतः सृष्टे पूर्व्वं तेनास्मान् अभिरोचितवान्, निजाभिलषितानुरोधाच्च
किञ्चाधुनाप्यहं मत्प्रभोः ख्रीष्टस्य यीशो र्ज्ञानस्योत्कृष्टतां बुद्ध्वा तत् सर्व्वं क्षतिं मन्ये। यतो हेतोरहं यत् ख्रीष्टं लभेय व्यवस्थातो जातं स्वकीयपुण्यञ्च न धारयन् किन्तु ख्रीष्टे विश्वसनात् लभ्यं यत् पुण्यम् ईश्वरेण विश्वासं दृष्ट्वा दीयते तदेव धारयन् यत् ख्रीष्टे विद्येय तदर्थं तस्यानुरोधात् सर्व्वेषां क्षतिं स्वीकृत्य तानि सर्व्वाण्यवकरानिव मन्ये।
यत ईश्वरस्य कृत्स्नं पूर्णत्वं तमेवावासयितुं अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मान् प्रति प्रसादं शान्तिञ्च क्रियास्तां। क्रुशे पातितेन तस्य रक्तेन सन्धिं विधाय तेनैव स्वर्गमर्त्त्यस्थितानि सर्व्वाणि स्वेन सह सन्धापयितुञ्चेश्वरेणाभिलेषे।
शान्ति र्निर्व्विन्घत्वञ्च विद्यत इति यदा मानवा वदिष्यन्ति तदा प्रसववेदना यद्वद् गर्ब्भिनीम् उपतिष्ठति तद्वद् अकस्माद् विनाशस्तान् उपस्थास्यति तैरुद्धारो न लप्स्यते।
अपरं यस्य महत्त्वं सर्व्वस्वीकृतम् ईश्वरभक्तेस्तत् निगूढवाक्यमिदम् ईश्वरो मानवदेहे प्रकाशित आत्मना सपुण्यीकृतो दूतैः सन्दृष्टः सर्व्वजातीयानां निकटे घोषितो जगतो विश्वासपात्रीभूतस्तेजःप्राप्तये स्वर्गं नीतश्चेति।
अपरं त्वम् ईश्वरस्य साक्षात् स्वं परीक्षितम् अनिन्दनीयकर्म्मकारिणञ्च सत्यमतस्य वाक्यानां सद्विभजने निपुणञ्च दर्शयितुं यतस्व।
यतस्ते बहवो ऽवाध्या अनर्थकवाक्यवादिनः प्रवञ्चकाश्च सन्ति विशेषतश्छिन्नत्वचां मध्ये केचित् तादृशा लोकाः सन्ति। तेषाञ्च वाग्रोध आवश्यको यतस्ते कुत्सितलाभस्याशयानुचितानि वाक्यानि शिक्षयन्तो निखिलपरिवाराणां सुमतिं नाशयन्ति।
यतो यः कश्चित् कृत्स्नां व्यवस्थां पालयति स यद्येकस्मिन् विधौ स्खलति तर्हि सर्व्वेषाम् अपराधी भवति।
किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।
वयं निष्पापा इति यदि वदामस्तर्हि स्वयमेव स्वान् वञ्चयामः सत्यमतञ्चास्माकम् अन्तरे न विद्यते।
यो जनो जयति स शुभ्रपरिच्छदं परिधापयिष्यन्ते, अहञ्च जीवनग्रन्थात् तस्य नाम नान्तर्धापयिष्यामि किन्तु मत्पितुः साक्षात् तस्य दूतानां साक्षाच्च तस्य नाम स्वीकरिष्यामि।
ततः शुक्लम् एकं महासिंहासनं मया दृष्टं तदुपविष्टो ऽपि दृष्टस्तस्य वदनान्तिकाद् भूनभोमण्डले पलायेतां पुनस्ताभ्यां स्थानं न लब्धं। अपरं क्षुद्रा महान्तश्च सर्व्वे मृता मया दृष्टाः, ते सिंहासनस्यान्तिके ऽतिष्ठन् ग्रन्थाश्च व्यस्तीर्य्यन्त जीवनपुस्तकाख्यम् अपरम् एकं पुस्तकमपि विस्तीर्णं। तत्र ग्रन्थेषु यद्यत् लिखितं तस्मात् मृतानाम् एकैकस्य स्वक्रियानुयायी विचारः कृतः। तदानीं समुद्रेण स्वान्तरस्था मृतजनाः समर्पिताः, मृत्युपरलोकाभ्यामपि स्वान्तरस्था मृतजनाः सर्मिपताः, तेषाञ्चैकैकस्य स्वक्रियानुयायी विचारः कृतः। अपरं मृत्युपरलोकौ वह्निह्रदे निक्षिप्तौ, एष एव द्वितीयो मृत्युः। यस्य कस्यचित् नाम जीवनपुस्तके लिखितं नाविद्यत स एव तस्मिन् वह्निह्रदे न्यक्षिप्यत।
तेषां नेत्रेभ्यश्चाश्रूणि सर्व्वाणीश्वरेण प्रमार्क्ष्यन्ते मृत्युरपि पुन र्न भविष्यति शोकविलापक्लेशा अपि पुन र्न भविष्यन्ति, यतः प्रथमानि सर्व्वाणि व्यतीतिनि।
यः कश्चिद् एतद्ग्रन्थस्थभविष्यद्वाक्यानि शृणोति तस्मा अहं साक्ष्यमिदं ददामि, कश्चिद् यद्यपरं किमप्येतेषु योजयति तर्हीश्वरोग्रन्थेऽस्मिन् लिखितान् दण्डान् तस्मिन्नेव योजयिष्यति। यदि च कश्चिद् एतद्ग्रन्थस्थभविष्यद्वाक्येभ्यः किमप्यपहरति तर्हीश्वरो ग्रन्थे ऽस्मिन् लिखितात् जीवनवृक्षात् पवित्रनगराच्च तस्यांशमपहरिष्यति।