धैर्यं खलु पवित्रात्मनो फलम्, अतिमहत्त्वपूर्णं च गुणम् यत् त्वयि विद्यमानं भवेत्। धीरः खलु विपत्तीः सहते दृढतया विना विलापम्। यः ईश्वरे धैर्यवान् सः न कदापि हानिं प्राप्स्यति, न लज्जितो भविष्यति, प्रभुं च प्रसादयति यदा तस्मिन् आश्रितो भवति।
स्वबुद्धौ विश्वासात् पूर्वं सर्वशक्तिमतः मार्गदर्शनं प्रतीक्षस्व, यः त्वां सम्यक्पथे नेष्यति, आत्मनः कल्याणाय स्थानानि च दर्शयिष्यति। दुष्टानां समृद्धिं दृष्ट्वा मा खिद्यस्व, ते हि शान्तिं सुरक्षां च विना जीवन्ति। विश्वासः ते अस्तु यत् येशोः शक्त्या तव आकाङ्क्षाः पूर्णाः भविष्यन्ति, एवं त्वं शान्त्या जीवितुं शक्ष्यसि।
धैर्यम् अस्ति शान्त्या जीवितुम्, शाश्वते विश्वासं कृत्वा, न तु श्वःभयभीतम्। यदि त्वं स्वम् अधीरं मन्यसे, सर्वं च नियन्त्रयितुम् इच्छसि, तर्हि क्षणं विमृश। एतत् व्यवहारं महान्तं तनावम् उत्पादयितुं शक्नोति, जीवनं चापि सङ्कटापन्नं कर्तुम्।
यदि धैर्यवान् भवितुं कष्टं तव, तर्हि पवित्रात्मानं प्रार्थयस्व यत् सः तव हृदयं धैर्येण पूरयेत्, तस्य प्रेम च त्वां व्याप्स्यति, तव भयशङ्का-निराशाश्च दूरीभविष्यन्ति। एवं त्वं ईश्वरे तस्य च अनुग्रहशक्त्यां विश्रान्तिं प्राप्स्यसि।
साधु कर्म कुर्वन् मा क्लिद्यस्व, यतः समये प्राप्ते फलं प्राप्स्यसि यदि न निराशः भवसि। (गलातियों ६:९)
किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।
अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।
यद् अप्रत्यक्षं तस्य प्रत्याशां यदि वयं कुर्व्वीमहि तर्हि धैर्य्यम् अवलम्ब्य प्रतीक्षामहे।
सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।
अतएव यूयम् ईश्वरस्य मनोभिलषिताः पवित्राः प्रियाश्च लोका इव स्नेहयुक्ताम् अनुकम्पां हितैषितां नम्रतां तितिक्षां सहिष्णुताञ्च परिधद्ध्वं।
पापं कृत्वा युष्माकं चपेटाघातसहनेन का प्रशंसा? किन्तु सदाचारं कृत्वा युष्माकं यद् दुःखसहनं तदेवेश्वरस्य प्रियं।
हे भ्रातरः, यूयं प्रभोरागमनं यावद् धैर्य्यमालम्बध्वं। पश्यत कृषिवलो भूमे र्बहुमूल्यं फलं प्रतीक्षमाणो यावत् प्रथमम् अन्तिमञ्च वृष्टिजलं न प्राप्नोति तावद् धैर्य्यम् आलम्बते।
यूयमपि धैर्य्यमालम्ब्य स्वान्तःकरणानि स्थिरीकुरुत, यतः प्रभोरुपस्थितिः समीपवर्त्तिन्यभवत्।
त्वं मम सहिष्णुतासूचकं वाक्यं रक्षितवानसि तत्कारणात् पृथिवीनिवासिनां परीक्षार्थं कृत्स्नं जगद् येनागामिपरीक्षादिनेनाक्रमिष्यते तस्माद् अहमपि त्वां रक्षिष्यामि।
त्वं वाक्यं घोषय कालेऽकाले चोत्सुको भव पूर्णया सहिष्णुतया शिक्षया च लोकान् प्रबोधय भर्त्सय विनयस्व च।
अतो बन्दिरहं प्रभो र्नाम्ना युष्मान् विनये यूयं येनाह्वानेनाहूतास्तदुपयुक्तरूपेण यश्चावतीर्णवान् स एव स्वर्गाणाम् उपर्य्युपर्य्यारूढवान् यतः सर्व्वाणि तेन पूरयितव्यानि। स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनोऽपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्। यावद् वयं सर्व्वे विश्वासस्येश्वरपुत्रविषयकस्य तत्त्वज्ञानस्य चैक्यं सम्पूर्णं पुरुषर्थञ्चार्थतः ख्रीष्टस्य सम्पूर्णपरिमाणस्य समं परिमाणं न प्राप्नुमस्तावत् स परिचर्य्याकर्म्मसाधनाय ख्रीष्टस्य शरीरस्य निष्ठायै च पवित्रलोकानां सिद्धतायास्तादृशम् उपायं निश्चितवान्। अतएव मानुषाणां चातुरीतो भ्रमकधूर्त्ततायाश्छलाच्च जातेन सर्व्वेण शिक्षावायुना वयं यद् बालका इव दोलायमाना न भ्राम्याम इत्यस्माभि र्यतितव्यं, प्रेम्ना सत्यताम् आचरद्भिः सर्व्वविषये ख्रीष्टम् उद्दिश्य वर्द्धितव्यञ्च, यतः स मूर्द्धा, तस्माच्चैकैकस्याङ्गस्य स्वस्वपरिमाणानुसारेण साहाय्यकरणाद् उपकारकैः सर्व्वैः सन्धिभिः कृत्स्नस्य शरीरस्य संयोगे सम्मिलने च जाते प्रेम्ना निष्ठां लभमानं कृत्स्नं शरीरं वृद्धिं प्राप्नोति। युष्मान् अहं प्रभुनेदं ब्रवीम्यादिशामि च, अन्ये भिन्नजातीया इव यूयं पून र्माचरत। यतस्ते स्वमनोमायाम् आचरन्त्यान्तरिकाज्ञानात् मानसिककाठिन्याच्च तिमिरावृतबुद्धय ईश्वरीयजीवनस्य बगीर्भूताश्च भवन्ति, स्वान् चैतन्यशून्यान् कृत्वा च लोभेन सर्व्वविधाशौचाचरणाय लम्पटतायां स्वान् समर्पितवन्तः। सर्व्वथा नम्रतां मृदुतां तितिक्षां परस्परं प्रम्ना सहिष्णुताञ्चाचरत।
तेन स दासस्तस्य पादयोः पतन् प्रणम्य कथितवान् , हे प्रभो भवता घैर्य्ये कृते मया सर्व्वं परिशोधिष्यते। तदानीं दासस्य प्रभुः सकरुणः सन् सकलर्णं क्षमित्वा तं तत्याज।
सहिष्णुतासान्त्वनयोराकरो य ईश्वरः स एवं करोतु यत् प्रभु र्यीशुख्रीष्ट इव युष्माकम् एकजनोऽन्यजनेन सार्द्धं मनस ऐक्यम् आचरेत्; यूयञ्च सर्व्व एकचित्ता भूत्वा मुखैकेनेवास्मत्प्रभुयीशुख्रीष्टस्य पितुरीश्वरस्य गुणान् कीर्त्तयेत।
ये मानवा ईश्वरस्याज्ञा यीशौ विश्वासञ्च पालयन्ति तेषां पवित्रलोकानां सहिष्णुतयात्र प्रकाशितव्यं।
अतो हेतोरेतावत्साक्षिमेघै र्वेष्टिताः सन्तो वयमपि सर्व्वभारम् आशुबाधकं पापञ्च निक्षिप्यास्माकं गमनाय निरूपिते मार्गे धैर्य्येण धावाम। ते त्वल्पदिनानि यावत् स्वमनोऽमतानुसारेण शास्तिं कृतवन्तः किन्त्वेषोऽस्माकं हिताय तस्य पवित्रताया अंशित्वाय चास्मान् शास्ति। शास्तिश्च वर्त्तमानसमये केनापि नानन्दजनिका किन्तु शोकजनिकैव मन्यते तथापि ये तया विनीयन्ते तेभ्यः सा पश्चात् शान्तियुक्तं धर्म्मफलं ददाति। अतएव यूयं शिथिलान् हस्तान् दुर्ब्बलानि जानूनि च सबलानि कुरुध्वं। यथा च दुर्ब्बलस्य सन्धिस्थानं न भज्येत स्वस्थं तिष्ठेत् तथा स्वचरणार्थं सरलं मार्गं निर्म्मात। अपरञ्च सर्व्वैः सार्थम् एेक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं। यथा कश्चिद् ईश्वरस्यानुग्रहात् न पतेत्, यथा च तिक्तताया मूलं प्ररुह्य बाधाजनकं न भवेत् तेन च बहवोऽपवित्रा न भवेयुः, यथा च कश्चित् लम्पटो वा एककृत्व आहारार्थं स्वीयज्येष्ठाधिकारविक्रेता य एषौस्तद्वद् अधर्म्माचारी न भवेत् तथा सावधाना भवत। यतः स एषौः पश्चाद् आशीर्व्वादाधिकारी भवितुम् इच्छन्नपि नानुगृहीत इति यूयं जानीथ, स चाश्रुपातेन मत्यन्तरं प्रार्थयमानोऽपि तदुपायं न लेभे। अपरञ्च स्पृश्यः पर्व्वतः प्रज्वलितो वह्निः कृष्णावर्णो मेघो ऽन्धकारो झञ्भ्श तूरीवाद्यं वाक्यानां शब्दश्च नैतेषां सन्निधौ यूयम् आगताः। तं शब्दं श्रुत्वा श्रोतारस्तादृशं सम्भाषणं यत् पुन र्न जायते तत् प्रार्थितवन्तः। यश्चास्माकं विश्वासस्याग्रेसरः सिद्धिकर्त्ता चास्ति तं यीशुं वीक्षामहै यतः स स्वसम्मुखस्थितानन्दस्य प्राप्त्यर्थम् अपमानं तुच्छीकृत्य क्रुशस्य यातनां सोढवान् ईश्वरीयसिंहासनस्य दक्षिणपार्श्वे समुपविष्टवांश्च।
हे भ्रातरः, यूयं प्रभोरागमनं यावद् धैर्य्यमालम्बध्वं। पश्यत कृषिवलो भूमे र्बहुमूल्यं फलं प्रतीक्षमाणो यावत् प्रथमम् अन्तिमञ्च वृष्टिजलं न प्राप्नोति तावद् धैर्य्यम् आलम्बते। यूयमपि धैर्य्यमालम्ब्य स्वान्तःकरणानि स्थिरीकुरुत, यतः प्रभोरुपस्थितिः समीपवर्त्तिन्यभवत्।
अतः शिथिला न भवत किन्तु ये विश्वासेन सहिष्णुतया च प्रतिज्ञानां फलाधिकारिणो जातास्तेषाम् अनुगामिनो भवत।
यतो यूयं येनेश्वरस्येच्छां पालयित्वा प्रतिज्ञायाः फलं लभध्वं तदर्थं युष्माभि र्धैर्य्यावलम्बनं कर्त्तव्यं।
यथा चेश्वरस्य महिमयुक्तया शक्त्या सानन्देन पूर्णां सहिष्णुतां तितिक्षाञ्चाचरितुं शक्ष्यथ तादृशेन पूर्णबलेन यद् बलवन्तो भवेत, यश्च पिता तेजोवासिनां पवित्रलोकानाम् अधिकारस्यांशित्वायास्मान् योग्यान् कृतवान् तं यद् धन्यं वदेत वरम् एनं याचामहे।
यतः प्रभो र्दासेन युद्धम् अकर्त्तव्यं किन्तु सर्व्वान् प्रति शान्तेन शिक्षादानेच्छुकेन सहिष्णुना च भवितव्यं, विपक्षाश्च तेन नम्रत्वेन चेतितव्याः।
सहिष्णुतासान्त्वनयोराकरो य ईश्वरः स एवं करोतु यत् प्रभु र्यीशुख्रीष्ट इव युष्माकम् एकजनोऽन्यजनेन सार्द्धं मनस ऐक्यम् आचरेत्;
यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत। तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।
यथा चेश्वरस्य महिमयुक्तया शक्त्या सानन्देन पूर्णां सहिष्णुतां तितिक्षाञ्चाचरितुं शक्ष्यथ तादृशेन पूर्णबलेन यद् बलवन्तो भवेत,
तत् केवलं नहि किन्तु क्लेशभोगेऽप्यानन्दामो यतः क्लेशााद् धैर्य्यं जायत इति वयं जानीमः, धैर्य्याच्च परीक्षितत्वं जायते, परीक्षितत्वात् प्रत्याशा जायते,
हे प्रियतमाः, युष्माकं परीक्षार्थं यस्तापो युष्मासु वर्त्तते तम् असम्भवघटितं मत्वा नाश्चर्य्यं जानीत, किन्तु ख्रीष्टेन क्लेशानां सहभागित्वाद् आनन्दत तेन तस्य प्रतापप्रकाशेऽप्याननन्देन प्रफुल्ला भविष्यथ।
अतो हेतोरेतावत्साक्षिमेघै र्वेष्टिताः सन्तो वयमपि सर्व्वभारम् आशुबाधकं पापञ्च निक्षिप्यास्माकं गमनाय निरूपिते मार्गे धैर्य्येण धावाम।
हे भ्रातरः, युष्मान् विनयामहे यूयम् अविहिताचारिणो लोकान् भर्त्सयध्वं, क्षुद्रमनसः सान्त्वयत, दुर्ब्बलान् उपकुरुत, सर्व्वान् प्रति सहिष्णवो भवत च।
वस्तुतस्तु ये जना धैर्य्यं धृत्वा सत्कर्म्म कुर्व्वन्तो महिमा सत्कारोऽमरत्वञ्चैतानि मृगयन्ते तेभ्योऽनन्तायु र्दास्यति।
अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।
मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।
यो जनः परीक्षां सहते स एव धन्यः, यतः परीक्षितत्वं प्राप्य स प्रभुना स्वप्रेमकारिभ्यः प्रतिज्ञातं जीवनमुकुटं लप्स्यते।
युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।
यदि च धर्म्मार्थं क्लिश्यध्वं तर्हि धन्या भविष्यथ। तेषाम् आशङ्कया यूयं न बिभीत न विङ्क्त वा।
तत् सर्व्वं तितिक्षते सर्व्वत्र विश्वसिति सर्व्वत्र भद्रं प्रतीक्षते सर्व्वं सहते च।
मन्नमहेतोः सर्व्वे जना युष्मान् ऋृतीयिष्यन्ते, किन्तु यः शेषं यावद् धैर्य्यं घृत्वा स्थास्यति, स त्रायिष्यते।
पश्यत धैर्य्यशीला अस्माभि र्धन्या उच्यन्ते। आयूबो धैर्य्यं युष्माभिरश्रावि प्रभोः परिणामश्चादर्शि यतः प्रभु र्बहुकृपः सकरुणश्चास्ति।
अपरञ्च पूर्व्वं यूयं पापस्य भृत्या आस्तेति सत्यं किन्तु यस्यां शिक्षारूपायां मूषायां निक्षिप्ता अभवत तस्या आकृतिं मनोभि र्लब्धवन्त इति कारणाद् ईश्वरस्य धन्यवादो भवतु। इत्थं यूयं पापसेवातो मुक्ताः सन्तो धर्म्मस्य भृत्या जाताः।
यश्चास्माकं विश्वासस्याग्रेसरः सिद्धिकर्त्ता चास्ति तं यीशुं वीक्षामहै यतः स स्वसम्मुखस्थितानन्दस्य प्राप्त्यर्थम् अपमानं तुच्छीकृत्य क्रुशस्य यातनां सोढवान् ईश्वरीयसिंहासनस्य दक्षिणपार्श्वे समुपविष्टवांश्च।
पश्यत वयम् ईश्वरस्य सन्ताना इति नाम्नाख्यामहे, एतेन पितास्मभ्यं कीदृक् महाप्रेम प्रदत्तवान्, किन्तु संसारस्तं नाजानात् तत्कारणादस्मान् अपि न जानाति।
वयं यदि क्लिश्यामहे तर्हि युष्माकं सान्त्वनापरित्राणयोः कृते क्लिश्यामहे यतोऽस्माभि र्यादृशानि दुःखानि सह्यन्ते युष्माकं तादृशदुःखानां सहनेन तौ साधयिष्येते इत्यस्मिन् युष्मानधि मम दृढा प्रत्याशा भवति।
अपरं युष्माकम् एकैको जनो यत् प्रत्याशापूरणार्थं शेषं यावत् तमेव यत्नं प्रकाशयेदित्यहम् इच्छामि। अतः शिथिला न भवत किन्तु ये विश्वासेन सहिष्णुतया च प्रतिज्ञानां फलाधिकारिणो जातास्तेषाम् अनुगामिनो भवत।
किन्त्वेतदर्थं युष्माभि र्बद्धमूलैः सुस्थिरैश्च भवितव्यम्, आकाशमण्डलस्याधःस्थितानां सर्व्वलोकानां मध्ये च घुष्यमाणो यः सुसंवादो युष्माभिरश्रावि तज्जातायां प्रत्याशायां युष्माभिरचलै र्भवितव्यं।
हे मम भ्रातरः, यूयं यदा बहुविधपरीक्षाषु निपतत तदा तत् पूर्णानन्दस्य कारणं मन्यध्वं। यतो मानवस्य क्रोध ईश्वरीयधर्म्मं न साधयति। अतो हेतो र्यूयं सर्व्वाम् अशुचिक्रियां दुष्टताबाहुल्यञ्च निक्षिप्य युष्मन्मनसां परित्राणे समर्थं रोपितं वाक्यं नम्रभावेन गृह्लीत। अपरञ्च यूयं केवलम् आत्मवञ्चयितारो वाक्यस्य श्रोतारो न भवत किन्तु वाक्यस्य कर्म्मकारिणो भवत। यतो यः कश्चिद् वाक्यस्य कर्म्मकारी न भूत्वा केवलं तस्य श्रोता भवति स दर्पणे स्वीयशारीरिकवदनं निरीक्षमाणस्य मनुजस्य सदृशः। आत्माकारे दृष्टे स प्रस्थाय कीदृश आसीत् तत् तत्क्षणाद् विस्मरति। किन्तु यः कश्चित् नत्वा मुक्तेः सिद्धां व्यवस्थाम् आलोक्य तिष्ठति स विस्मृतियुक्तः श्रोता न भूत्वा कर्म्मकर्त्तैव सन् स्वकार्य्ये धन्यो भविष्यति। अनायत्तरसनः सन् यः कश्चित् स्वमनो वञ्चयित्वा स्वं भक्तं मन्यते तस्य भक्ति र्मुधा भवति। क्लेशकाले पितृहीनानां विधवानाञ्च यद् अवेक्षणं संसाराच्च निष्कलङ्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः। यतो युष्माकं विश्वासस्य परीक्षितत्वेन धैर्य्यं सम्पाद्यत इति जानीथ। तच्च धैर्य्यं सिद्धफलं भवतु तेन यूयं सिद्धाः सम्पूर्णाश्च भविष्यथ कस्यापि गुणस्याभावश्च युष्माकं न भविष्यति।
केचिद् यथा विलम्बं मन्यन्ते तथा प्रभुः स्वप्रतिज्ञायां विलम्बते तन्नहि किन्तु कोऽपि यन्न विनश्येत् सर्व्वं एव मनःपरावर्त्तनं गच्छेयुरित्यभिलषन् सो ऽस्मान् प्रति दीर्घसहिष्णुतां विदधाति।