भोः स्नेहिन्, ईश्वरस्य कालः सर्वोत्तमः इति अवगन्तव्यम् अङ्गीकर्तव्यञ्च। यत् भवता ईश्वरात् याचितं तत् सर्वं तस्य समये एव भविष्यति। बहुवारं वयं जीवनस्य मार्गे चिन्ताभिः भारैश्च ग्रस्ताः शीघ्रं फलं प्राप्तुम् इच्छामः। परन्तु ईश्वरः स्ववचने स्पष्टं वदति यत् सर्वस्य कृते नियतकालः अस्ति। अतः विश्रामं गृहाण, स्वर्गस्थपितुः हस्तयोः आश्रयं प्राप्नुहि। यदा कदा कुत्र यत् प्राप्तव्यं तत् तस्मिन्नेव समये स्थाने च प्राप्यते। अस्माकं कालः ईश्वरस्य कालात् भिन्नः इति बोधनीयम्। ईश्वरस्य कालः "कैरस्" इति शब्देन उच्यते, यः समुचितं कालं, अनुकूलं कालं, नियतं कालं च सूचयति। कैरस् स्वर्गलोके निर्धारितं कालं सूचयति यः अस्मान् आशिषा सम्पन्नं कर्तुं लोके प्रकटितः भवति। ईश्वरः कदापि विलम्बेन न आगच्छति। ईश्वरे विश्वासं कुरु, यस्य प्रतीक्षां भवान् करोति तत् अवश्यं भविष्यति। ईश्वरे विश्रान्तिं प्राप्य भवान् स्वविश्वासं तस्य वचने श्रद्धां च प्रकटयति।
युष्माकं मध्ये समरा रणश्च कुत उत्पद्यन्ते? युष्मदङ्गशिबिराश्रिताभ्यः सुखेच्छाभ्यः किं नोत्पद्यन्तेे? प्रभोः समक्षं नम्रा भवत तस्मात् स युष्मान् उच्चीकरिष्यति। हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचारञ्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि। अद्वितीयो व्यवस्थापको विचारयिता च स एवास्ते यो रक्षितुं नाशयितुञ्च पारयति। किन्तु कस्त्वं यत् परस्य विचारं करोषि? अद्य श्वो वा वयम् अमुकनगरं गत्वा तत्र वर्षमेकं यापयन्तो वाणिज्यं करिष्यामः लाभं प्राप्स्यामश्चेति कथां भाषमाणा यूयम् इदानीं शृणुत। श्वः किं घटिष्यते तद् यूयं न जानीथ यतो जीवनं वो भवेत् कीदृक् तत्तु बाष्पस्वरूपकं, क्षणमात्रं भवेद् दृश्यं लुप्यते च ततः परं। तदनुक्त्वा युष्माकम् इदं कथनीयं प्रभोरिच्छातो वयं यदि जीवामस्तर्ह्येतत् कर्म्म तत् कर्म्म वा करिष्याम इति। किन्त्विदानीं यूयं गर्व्ववाक्यैः श्लाघनं कुरुध्वे तादृशं सर्व्वं श्लाघनं कुत्सितमेव। अतो यः कश्चित् सत्कर्म्म कर्त्तं विदित्वा तन्न करोति तस्य पापं जायते। यूयं वाञ्छथ किन्तु नाप्नुथ, यूयं नरहत्याम् ईर्ष्याञ्च कुरुथ किन्तु कृतार्था भवितुं न शक्नुथ, यूयं युध्यथ रणं कुरुथ च किन्त्वप्राप्तास्तिष्ठथ, यतो हेतोः प्रार्थनां न कुरुथ।
युष्मन्मध्ये मात्सर्य्यविवादभेदा भवन्ति ततः किं शारीरिकाचारिणो नाध्वे मानुषिकमार्गेण च न चरथ?
यूयञ्च संग्रामस्य रणस्य चाडम्बरं श्रोष्यथ, अवधद्व्वं तेन चञ्चला मा भवत, एतान्यवश्यं घटिष्यन्ते, किन्तु तदा युगान्तो नहि। अपरं देशस्य विपक्षो देशो राज्यस्य विपक्षो राज्यं भविष्यति, स्थाने स्थाने च दुर्भिक्षं महामारी भूकम्पश्च भविष्यन्ति,
विश्वासरूपम् उत्तमयुद्धं कुरु, अनन्तजीवनम् आलम्बस्व यतस्तदर्थं त्वम् आहूतो ऽभवः, बहुसाक्षिणां समक्षञ्चोत्तमां प्रतिज्ञां स्वीकृतवान्।
यतः केवलं रक्तमांसाभ्याम् इति नहि किन्तु कर्तृत्वपराक्रमयुक्तैस्तिमिरराज्यस्येहलोकस्याधिपतिभिः स्वर्गोद्भवै र्दुष्टात्मभिरेव सार्द्धम् अस्माभि र्युद्धं क्रियते।
यतः शरीरे चरन्तोऽपि वयं शारीरिकं युद्धं न कुर्म्मः। अस्माकं युद्धास्त्राणि च न शारीरिकानि किन्त्वीश्वरेण दुर्गभञ्जनाय प्रबलानि भवन्ति,
अधिकं किं कथयिष्यामि? गिदियोनो बारकः शिम्शोनो यिप्तहो दायूद् शिमूयेलो भविष्यद्वादिनश्चैतेषां वृत्तान्तकथनाय मम समयाभावो भविष्यति। विश्वासात् ते राज्यानि वशीकृतवन्तो धर्म्मकर्म्माणि साधितवन्तः प्रतिज्ञानां फलं लब्धवन्तः सिंहानां मुखानि रुद्धवन्तो वह्नेर्दाहं निर्व्वापितवन्तः खङ्गधाराद् रक्षां प्राप्तवन्तो दौर्ब्बल्ये सबलीकृता युद्धे पराक्रमिणो जाताः परेषां सैन्यानि दवयितवन्तश्च।
यूयञ्च संग्रामस्य रणस्य चाडम्बरं श्रोष्यथ, अवधद्व्वं तेन चञ्चला मा भवत, एतान्यवश्यं घटिष्यन्ते, किन्तु तदा युगान्तो नहि।
ततो यीशुस्तं जगाद, खड्गं स्वस्थानेे निधेहि यतो ये ये जना असिं धारयन्ति, तएवासिना विनश्यन्ति।
युद्धस्योपप्लवस्य च वार्त्तां श्रुत्वा मा शङ्कध्वं, यतः प्रथमम् एता घटना अवश्यं भविष्यन्ति किन्तु नापाते युगान्तो भविष्यति।
यथा मया युष्माकं शान्ति र्जायते तदर्थम् एताः कथा युष्मभ्यम् अचकथं; अस्मिन् जगति युष्माकं क्लेशो घटिष्यते किन्त्वक्षोभा भवत यतो मया जगज्जितं।
किन्तु वो मोलकाख्यस्य देवस्य दूष्यमेव च। युष्माकं रिम्फनाख्याया देवतायाश्च तारका। एतयोरुभयो र्मूर्ती युष्माभिः परिपूजिते। अतो युष्मांस्तु बाबेलः पारं नेष्यामि निश्चितं।
तदा किण्वशून्यपूपोत्सवसमय उपातिष्टत्; अत उत्सवे गते सति लोकानां समक्षं तं बहिरानेय्यामीति मनसि स्थिरीकृत्य स तं धारयित्वा रक्ष्णार्थम् येषाम् एकैकसंघे चत्वारो जनाः सन्ति तेषां चतुर्णां रक्षकसंघानां समीपे तं समर्प्य कारायां स्थापितवान्।
यतस्तव सदाचरणाय स ईश्वरस्य भृत्योऽस्ति। किन्तु यदि कुकर्म्माचरसि तर्हि त्वं शङ्कस्व यतः स निरर्थकं खङ्गं न धारयति; कुकर्म्माचारिणं समुचितं दण्डयितुम् स ईश्वरस्य दण्डदभृत्य एव।
एतादृशभयङ्करात् मृत्यो र्यो ऽस्मान् अत्रायतेदानीमपि त्रायते स इतः परमप्यस्मान् त्रास्यते ऽस्माकम् एतादृशी प्रत्याशा विद्यते।
वयं पदे पदे पीड्यामहे किन्तु नावसीदामः, वयं व्याकुलाः सन्तोऽपि निरुपाया न भवामः; वयं प्रद्राव्यमाना अपि न क्लाम्यामः, निपातिता अपि न विनश्यामः।
यतः शारीरिकाभिलाष आत्मनो विपरीतः, आत्मिकाभिलाषश्च शरीरस्य विपरीतः, अनयोरुभयोः परस्परं विरोधो विद्यते तेन युष्माभि र्यद् अभिलष्यते तन्न कर्त्तव्यं।
यूयं सावधाना भूत्वा ख्रीष्टस्य सुसंवादस्योपयुक्तम् आचारं कुरुध्वं यतोऽहं युष्मान् उपागत्य साक्षात् कुर्व्वन् किं वा दूरे तिष्ठन् युष्माकं यां वार्त्तां श्रोतुम् इच्छामि सेयं यूयम् एकात्मानस्तिष्ठथ, एकमनसा सुसंवादसम्बन्धीयविश्वासस्य पक्षे यतध्वे, विपक्षैश्च केनापि प्रकारेण न व्याकुलीक्रियध्व इति।
यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।
किन्तु वयं दिवसस्य वंशा भवामः; अतो ऽस्माभि र्वक्षसि प्रत्ययप्रेमरूपं कवचं शिरसि च परित्राणाशारूपं शिरस्त्रं परिधाय सचेतनै र्भवितव्यं।
तस्माद् युष्माभि र्यावन्त उपद्रवक्लेशाः सह्यन्ते तेषु यद् धेैर्य्यं यश्च विश्वासः प्रकाश्यते तत्कारणाद् वयम् ईश्वरीयसमितिषु युष्माभिः श्लाघामहे।
हे पुत्र तीमथिय त्वयि यानि भविष्यद्वाक्यानि पुरा कथितानि तदनुसाराद् अहम् एनमादेशं त्वयि समर्पयामि, तस्याभिप्रायोऽयं यत्त्वं तै र्वाक्यैरुत्तमयुद्धं करोषि
वह्नेर्दाहं निर्व्वापितवन्तः खङ्गधाराद् रक्षां प्राप्तवन्तो दौर्ब्बल्ये सबलीकृता युद्धे पराक्रमिणो जाताः परेषां सैन्यानि दवयितवन्तश्च।
युष्माकं मध्ये समरा रणश्च कुत उत्पद्यन्ते? युष्मदङ्गशिबिराश्रिताभ्यः सुखेच्छाभ्यः किं नोत्पद्यन्तेे?
ततः परं स्वर्गे संग्राम उपापिष्ठत् मीखायेलस्तस्य दूताश्च तेन नागेन सहायुध्यन् तथा स नागस्तस्य दूताश्च संग्रामम् अकुर्व्वन्, किन्तु प्रभवितुं नाशक्नुवन्
अनन्तरं मया मुक्तः स्वर्गो दृष्टः, एकः श्वेतवर्णो ऽश्वो ऽपि दृष्टस्तदारूढो जनो विश्वास्यः सत्यमयश्चेति नाम्ना ख्यातः स याथार्थ्येन विचारं युद्धञ्च करोति।
तदानीं यीशुस्तेषाम् इति मानसं विज्ञाय तान् अवदत् किञ्चन राज्यं यदि स्वविपक्षाद् भिद्यते, तर्हि तत् उच्छिद्यते; यच्च किञ्चन नगरं वा गृहं स्वविपक्षाद् विभिद्यते, तत् स्थातुं न शक्नोति।
अपरं देशस्य विपक्षो देशो राज्यस्य विपक्षो राज्यं भविष्यति, स्थाने स्थाने च दुर्भिक्षं महामारी भूकम्पश्च भविष्यन्ति,
देशस्य विपक्षतया देशो राज्यस्य विपक्षतया च राज्यमुत्थास्यति, तथा स्थाने स्थाने भूमिकम्पो दुर्भिक्षं महाक्लेशाश्च समुपस्थास्यन्ति, सर्व्व एते दुःखस्यारम्भाः।
अपरञ्च भिन्नभूपतिना सह युद्धं कर्त्तुम् उद्यम्य दशसहस्राणि सैन्यानि गृहीत्वा विंशतिसहस्रेः सैन्यैः सहितस्य समीपवासिनः सम्मुखं यातुं शक्ष्यामि न वेति प्रथमं उपविश्य न विचारयति एतादृशो भूमिपतिः कः?
तदा सोवदत् किन्त्विदानीं मुद्रासम्पुटं खाद्यपात्रं वा यस्यास्ति तेन तद्ग्रहीतव्यं, यस्य च कृपाणोे नास्ति तेन स्ववस्त्रं विक्रीय स क्रेतव्यः।
अहं युष्माकं निकटे शान्तिं स्थापयित्वा यामि, निजां शान्तिं युष्मभ्यं ददामि, जगतो लोका यथा ददाति तथाहं न ददामि; युष्माकम् अन्तःकरणानि दुःखितानि भीतानि च न भवन्तु।
किन्तु युष्मासु पवित्रस्यात्मन आविर्भावे सति यूयं शक्तिं प्राप्य यिरूशालमि समस्तयिहूदाशोमिरोणदेशयोः पृथिव्याः सीमां यावद् यावन्तो देशास्तेषु यर्व्वेषु च मयि साक्ष्यं दास्यथ।
ईश्वरश्च धन्यो भवतु यतः सोऽस्माकं प्रभुना यीशुख्रीष्टेनास्मान् जययुक्तान् विधापयति।
य ईश्वरः सर्व्वदा ख्रीष्टेनास्मान् जयिनः करोति सर्व्वत्र चास्माभिस्तदीयज्ञानस्य गन्धं प्रकाशयति स धन्यः।
यतः स एवास्माकं सन्धिः स द्वयम् एकीकृतवान् शत्रुतारूपिणीं मध्यवर्त्तिनीं प्रभेदकभित्तिं भग्नवान् दण्डाज्ञायुक्तं विधिशास्त्रं स्वशरीरेण लुप्तवांश्च।
किन्त्वस्माकं जनपदः स्वर्गे विद्यते तस्माच्चागमिष्यन्तं त्रातारं प्रभुं यीशुख्रीष्टं वयं प्रतीक्षामहे।
यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते, अतो विश्वासे सुस्थिरास्तिष्ठन्तस्तेन सार्द्धं युध्यत, युष्माकं जगन्निवासिभ्रातृष्वपि तादृशाः क्लेशा वर्त्तन्त इति जानीत।
अपरमहं यथा जितवान् मम पित्रा च सह तस्य सिंहासन उपविष्टश्चास्मि, तथा यो जनो जयति तमहं मया सार्द्धं मत्सिंहासन उपवेशयिष्यामि।
मेषवत्सस्य रक्तेन स्वसाक्ष्यवचनेन च। ते तु निर्जितवन्तस्तं न च स्नेहम् अकुर्व्वत। प्राणोष्वपि स्वकीयेषु मरणस्यैव सङ्कटे।
तेषां भ्रमयिता च शयतानो वह्निगन्धकयो र्ह्रदे ऽर्थतः पशु र्मिथ्याभविष्यद्वादी च यत्र तिष्ठतस्तत्रैव निक्षिप्तः, तत्रानन्तकालं यावत् ते दिवानिशं यातनां भोक्ष्यन्ते।
अनन्तरं सेनागण एत्य पप्रच्छ किमस्माभि र्वा कर्त्तव्यम्? ततः सोभिदधे कस्य कामपि हानिं मा कार्ष्ट तथा मृषापवादं मा कुरुत निजवेतनेन च सन्तुष्य तिष्ठत।
अपरञ्च भिन्नभूपतिना सह युद्धं कर्त्तुम् उद्यम्य दशसहस्राणि सैन्यानि गृहीत्वा विंशतिसहस्रेः सैन्यैः सहितस्य समीपवासिनः सम्मुखं यातुं शक्ष्यामि न वेति प्रथमं उपविश्य न विचारयति एतादृशो भूमिपतिः कः? यदि न शक्नोति तर्हि रिपावतिदूरे तिष्ठति सति निजदूतं प्रेष्य सन्धिं कर्त्तुं प्रार्थयेत।
मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।
अपरं तद् धनम् अस्माभि र्मृण्मयेषु भाजनेषु धार्य्यते यतः साद्भुता शक्ति र्नास्माकं किन्त्वीश्वरस्यैवेति ज्ञातव्यं। वयं पदे पदे पीड्यामहे किन्तु नावसीदामः, वयं व्याकुलाः सन्तोऽपि निरुपाया न भवामः; वयं प्रद्राव्यमाना अपि न क्लाम्यामः, निपातिता अपि न विनश्यामः।
सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।
यतो यूयं मृतवन्तो युष्माकं जीवितञ्च ख्रीष्टेन सार्द्धम् ईश्वरे गुप्तम् अस्ति। अस्माकं जीवनस्वरूपः ख्रीष्टो यदा प्रकाशिष्यते तदा तेन सार्द्धं यूयमपि विभवेन प्रकाशिष्यध्वे।
अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"
यो जनः परीक्षां सहते स एव धन्यः, यतः परीक्षितत्वं प्राप्य स प्रभुना स्वप्रेमकारिभ्यः प्रतिज्ञातं जीवनमुकुटं लप्स्यते।
यदि च धर्म्मार्थं क्लिश्यध्वं तर्हि धन्या भविष्यथ। तेषाम् आशङ्कया यूयं न बिभीत न विङ्क्त वा।
क्षणिकदुःखभोगात् परम् अस्मभ्यं ख्रीष्टेन यीशुना स्वकीयानन्तगौरवदानार्थं योऽस्मान् आहूतवान् स सर्व्वानुग्राहीश्वरः स्वयं युष्मान् सिद्धान् स्थिरान् सबलान् निश्चलांश्च करोतु।
यो जनो जयति स शुभ्रपरिच्छदं परिधापयिष्यन्ते, अहञ्च जीवनग्रन्थात् तस्य नाम नान्तर्धापयिष्यामि किन्तु मत्पितुः साक्षात् तस्य दूतानां साक्षाच्च तस्य नाम स्वीकरिष्यामि।
यतः सिंहासनाधिष्ठानकारी मेषशावकस्तान् चारयिष्यति, अमृततोयानां प्रस्रवणानां सन्निधिं तान् गमयिष्यति च, ईश्वरोऽपि तेषां नयनभ्यः सर्व्वमश्रु प्रमार्क्ष्यति।
तेषां नेत्रेभ्यश्चाश्रूणि सर्व्वाणीश्वरेण प्रमार्क्ष्यन्ते मृत्युरपि पुन र्न भविष्यति शोकविलापक्लेशा अपि पुन र्न भविष्यन्ति, यतः प्रथमानि सर्व्वाणि व्यतीतिनि।
अपरं किमपि शापग्रस्तं पुन र्न भविष्यति तस्या मध्य ईश्वरस्य मेषशावकस्य च सिंहासनं स्थास्यति तस्य दासाश्च तं सेविष्यन्ते।