अद्य त्वां स्मारयितुम् इच्छामि यत् ईश्वरः त्वां प्रत्येकं दुष्करपरिस्थितिं प्रति सामनाय समर्थं करोति। बहुवारं वयं मन्थेमः यत् समस्याः अस्माकं जीवने आगच्छन्ति, वयं च ताः प्रति सामनाय न सज्जाः स्मः। परन्तु भवान् भ्रान्तः। ईश्वरः सर्वदा अस्मान् सज्जान् करोति। तस्य वचने उक्तं यत् ईश्वरः अस्मभ्यं भीरोः भावनां न दत्तवान्, अपि तु शक्तिं, प्रेम, स्वनियन्त्रणं च। अतः धैर्यं गृहाण, ईश्वरः त्वया सह अस्ति, प्रत्येकस्मिन् युद्धे त्वदर्थं युध्यमानः। तानि उपकरणानि उपयुजस्व यानि अस्माकं ईश्वरः स्ववचनेन पवित्रात्मना च दत्तवान्। धीरः भव, दृढानि निश्चितानि च पदानि स्थापय। "ये प्रभौ आशां कुर्वन्ति ते धैर्यं गृह्णन्तु, तेषां हृदयानि दृढानि भवन्तु।" (भजनसंहिता ३१:२४) अतः उत्साहितः भव, ईश्वरः कदापि न विफलः भवति। ईश्वरः तव बलम्, तव मोचकः, तव सहायकः, तव रक्षकः, तव परमं आश्रयस्थानं च। स्वर्गस्थपितरि विश्वासं कुरु, सर्वं कुशलं भविष्यति। "ईश्वरः मे बलं ददाति, ईश्वरः मे मार्गं सरलं करोति।" (२ शमूएल २२:३३)
यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।
प्रेम्नि भीति र्न वर्त्तते किन्तु सिद्धं प्रेम भीतिं निराकरोति यतो भीतिः सयातनास्ति भीतो मानवः प्रेम्नि सिद्धो न जातः।
यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत। तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।
यूयं पुनरपि भयजनकं दास्यभावं न प्राप्ताः किन्तु येन भावेनेश्वरं पितः पितरिति प्रोच्य सम्बोधयथ तादृशं दत्तकपुत्रत्वभावम् प्राप्नुत।
अहं युष्माकं निकटे शान्तिं स्थापयित्वा यामि, निजां शान्तिं युष्मभ्यं ददामि, जगतो लोका यथा ददाति तथाहं न ददामि; युष्माकम् अन्तःकरणानि दुःखितानि भीतानि च न भवन्तु।
ये कायं हन्तुं शक्नुवन्ति नात्मानं, तेभ्यो मा भैष्ट; यः कायात्मानौ निरये नाशयितुं, शक्नोति, ततो बिभीत।
अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"
श्वः कृते मा चिन्तयत, श्वएव स्वयं स्वमुद्दिश्य चिन्तयिष्यति; अद्यतनी या चिन्ता साद्यकृते प्रचुरतरा।
हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि। अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे। एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्। यतो मम युगम् अनायासं मम भारश्च लघुः।
यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।
अतएव कृपां ग्रहीतुं प्रयोजनीयोपकारार्थम् अनुग्रहं प्राप्तुञ्च वयम् उत्साहेनानुग्रहसिंहासनस्य समीपं यामः।
किन्तु प्रभु र्विश्वास्यः स एव युष्मान् स्थिरीकरिष्यति दुष्टस्य कराद् उद्धरिष्यति च।
यथा मया युष्माकं शान्ति र्जायते तदर्थम् एताः कथा युष्मभ्यम् अचकथं; अस्मिन् जगति युष्माकं क्लेशो घटिष्यते किन्त्वक्षोभा भवत यतो मया जगज्जितं।
हे बालकाः, यूयम् ईश्वरात् जातास्तान् जितवन्तश्च यतः संसाराधिष्ठानकारिणो ऽपि युष्मदधिष्ठानकारी महान्।
अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।
यदि च धर्म्मार्थं क्लिश्यध्वं तर्हि धन्या भविष्यथ। तेषाम् आशङ्कया यूयं न बिभीत न विङ्क्त वा।
तत् केवलं नहि किन्तु क्लेशभोगेऽप्यानन्दामो यतः क्लेशााद् धैर्य्यं जायत इति वयं जानीमः, धैर्य्याच्च परीक्षितत्वं जायते, परीक्षितत्वात् प्रत्याशा जायते, प्रत्याशातो व्रीडितत्वं न जायते, यस्माद् अस्मभ्यं दत्तेन पवित्रेणात्मनास्माकम् अन्तःकरणानीश्वरस्य प्रेमवारिणा सिक्तानि।
अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।
यतो यः कश्चिद् ईश्वरात् जातः स संसारं जयति किञ्चास्माकं यो विश्वासः स एवास्माकं संसारजयिजयः। यीशुरीश्वरस्य पुत्र इति यो विश्वसिति तं विना कोऽपरः संसारं जयति?
किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।
प्राप्तवन्तस्तमस्माकं प्रभुं यीशुं ख्रीष्टमधि स कालावस्थायाः पूर्व्वं तं मनोरथं कृतवान्।
यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"
येन च दुष्टात्मनोऽग्निबाणान् सर्व्वान् निर्व्वापयितुं शक्ष्यथ तादृशं सर्व्वाच्छादकं फलकं विश्वासं धारयत।
तदर्थं मम वक्तृता मदीयप्रचारश्च मानुषिकज्ञानस्य मधुरवाक्यसम्बलितौ नास्तां किन्त्वात्मनः शक्तेश्च प्रमाणयुक्तावास्तां।
सर्व्वदानन्दत। निरन्तरं प्रार्थनां कुरुध्वं। सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।
एतादृशभयङ्करात् मृत्यो र्यो ऽस्मान् अत्रायतेदानीमपि त्रायते स इतः परमप्यस्मान् त्रास्यते ऽस्माकम् एतादृशी प्रत्याशा विद्यते।
अतः कारणात् मयि तिष्ठत तेनाहमपि युष्मासु तिष्ठामि, यतो हेतो र्द्राक्षालतायाम् असंलग्ना शाखा यथा फलवती भवितुं न शक्नोति तथा यूयमपि मय्यतिष्ठन्तः फलवन्तो भवितुं न शक्नुथ। अहं द्राक्षालतास्वरूपो यूयञ्च शाखास्वरूपोः; यो जनो मयि तिष्ठति यत्र चाहं तिष्ठामि, स प्रचूरफलैः फलवान् भवति, किन्तु मां विना यूयं किमपि कर्त्तुं न शक्नुथ।
अपरञ्च वयम् ईश्वरस्य सन्ताना एतस्मिन् पवित्र आत्मा स्वयम् अस्माकम् आत्माभिः सार्द्धं प्रमाणं ददाति। अतएव वयं यदि सन्तानास्तर्ह्यधिकारिणः, अर्थाद् ईश्वरस्य स्वत्त्वाधिकारिणः ख्रीष्टेन सहाधिकारिणश्च भवामः; अपरं तेन सार्द्धं यदि दुःखभागिनो भवामस्तर्हि तस्य विभवस्यापि भागिनो भविष्यामः।
विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं।
यूयं संसारे संसारस्थविषयेषु च मा प्रीयध्वं यः संसारे प्रीयते तस्यान्तरे पितुः प्रेम न तिष्ठति। यतः संसारे यद्यत् स्थितम् अर्थतः शारीरिकभावस्याभिलाषो दर्शनेन्द्रियस्याभिलाषो जीवनस्य गर्व्वश्च सर्व्वमेतत् पितृतो न जायते किन्तु संसारदेव। संसारस्तदीयाभिलाषश्च व्यत्येति किन्तु य ईश्वरस्येष्टं करोति सो ऽनन्तकालं यावत् तिष्ठति।
अतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति ज्ञात्वा प्रभोः कार्य्ये सदा तत्परा भवत।
वयं पदे पदे पीड्यामहे किन्तु नावसीदामः, वयं व्याकुलाः सन्तोऽपि निरुपाया न भवामः; वयं प्रद्राव्यमाना अपि न क्लाम्यामः, निपातिता अपि न विनश्यामः।
अपरम् अहं युष्मभ्यं तथ्यं कथयामि, किं भक्षिष्यामः? किं पास्यामः? इति प्राणधारणाय मा चिन्तयत; किं परिधास्यामः? इति कायरक्षणाय न चिन्तयत; भक्ष्यात् प्राणा वसनाञ्च वपूंषि किं श्रेष्ठाणि न हि? विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति। यूयं तेभ्यः किं श्रेष्ठा न भवथ? युष्माकं कश्चित् मनुजः चिन्तयन् निजायुषः क्षणमपि वर्द्धयितुं शक्नोति?
अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।
ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।
यथा चेश्वरस्य महिमयुक्तया शक्त्या सानन्देन पूर्णां सहिष्णुतां तितिक्षाञ्चाचरितुं शक्ष्यथ तादृशेन पूर्णबलेन यद् बलवन्तो भवेत, यश्च पिता तेजोवासिनां पवित्रलोकानाम् अधिकारस्यांशित्वायास्मान् योग्यान् कृतवान् तं यद् धन्यं वदेत वरम् एनं याचामहे।
क्षणिकदुःखभोगात् परम् अस्मभ्यं ख्रीष्टेन यीशुना स्वकीयानन्तगौरवदानार्थं योऽस्मान् आहूतवान् स सर्व्वानुग्राहीश्वरः स्वयं युष्मान् सिद्धान् स्थिरान् सबलान् निश्चलांश्च करोतु।
जीवनार्थम् ईश्वरभक्त्यर्थञ्च यद्यद् आवश्यकं तत् सर्व्वं गौरवसद्गुणाभ्याम् अस्मदाह्वानकारिणस्तत्त्वज्ञानद्वारा तस्येश्वरीयशक्तिरस्मभ्यं दत्तवती।
याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति। यस्माद् येन याच्यते, तेन लभ्यते; येन मृग्यते तेनोद्देशः प्राप्यते; येन च द्वारम् आहन्यते, तत्कृते द्वारं मोच्यते।
अपरञ्च वयं यत् सहिष्णुतासान्त्वनयो र्जनकेन शास्त्रेण प्रत्याशां लभेमहि तन्निमित्तं पूर्व्वकाले लिखितानि सर्व्ववचनान्यस्माकम् उपदेशार्थमेव लिलिखिरे।
अधिकन्तु हे भ्रातरः, यूयं प्रभुना तस्य विक्रमयुक्तशक्त्या च बलवन्तो भवत। यूयं यत् शयतानश्छलानि निवारयितुं शक्नुथ तदर्थम् ईश्वरीयसुसज्जां परिधद्ध्वं।
ईश्वरश्च धन्यो भवतु यतः सोऽस्माकं प्रभुना यीशुख्रीष्टेनास्मान् जययुक्तान् विधापयति।
अतो हेतोरेतावत्साक्षिमेघै र्वेष्टिताः सन्तो वयमपि सर्व्वभारम् आशुबाधकं पापञ्च निक्षिप्यास्माकं गमनाय निरूपिते मार्गे धैर्य्येण धावाम। ते त्वल्पदिनानि यावत् स्वमनोऽमतानुसारेण शास्तिं कृतवन्तः किन्त्वेषोऽस्माकं हिताय तस्य पवित्रताया अंशित्वाय चास्मान् शास्ति। शास्तिश्च वर्त्तमानसमये केनापि नानन्दजनिका किन्तु शोकजनिकैव मन्यते तथापि ये तया विनीयन्ते तेभ्यः सा पश्चात् शान्तियुक्तं धर्म्मफलं ददाति। अतएव यूयं शिथिलान् हस्तान् दुर्ब्बलानि जानूनि च सबलानि कुरुध्वं। यथा च दुर्ब्बलस्य सन्धिस्थानं न भज्येत स्वस्थं तिष्ठेत् तथा स्वचरणार्थं सरलं मार्गं निर्म्मात। अपरञ्च सर्व्वैः सार्थम् एेक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं। यथा कश्चिद् ईश्वरस्यानुग्रहात् न पतेत्, यथा च तिक्तताया मूलं प्ररुह्य बाधाजनकं न भवेत् तेन च बहवोऽपवित्रा न भवेयुः, यथा च कश्चित् लम्पटो वा एककृत्व आहारार्थं स्वीयज्येष्ठाधिकारविक्रेता य एषौस्तद्वद् अधर्म्माचारी न भवेत् तथा सावधाना भवत। यतः स एषौः पश्चाद् आशीर्व्वादाधिकारी भवितुम् इच्छन्नपि नानुगृहीत इति यूयं जानीथ, स चाश्रुपातेन मत्यन्तरं प्रार्थयमानोऽपि तदुपायं न लेभे। अपरञ्च स्पृश्यः पर्व्वतः प्रज्वलितो वह्निः कृष्णावर्णो मेघो ऽन्धकारो झञ्भ्श तूरीवाद्यं वाक्यानां शब्दश्च नैतेषां सन्निधौ यूयम् आगताः। तं शब्दं श्रुत्वा श्रोतारस्तादृशं सम्भाषणं यत् पुन र्न जायते तत् प्रार्थितवन्तः। यश्चास्माकं विश्वासस्याग्रेसरः सिद्धिकर्त्ता चास्ति तं यीशुं वीक्षामहै यतः स स्वसम्मुखस्थितानन्दस्य प्राप्त्यर्थम् अपमानं तुच्छीकृत्य क्रुशस्य यातनां सोढवान् ईश्वरीयसिंहासनस्य दक्षिणपार्श्वे समुपविष्टवांश्च।
अतएव महापुरस्कारयुक्तं युष्माकम् उत्साहं न परित्यजत। यतो यूयं येनेश्वरस्येच्छां पालयित्वा प्रतिज्ञायाः फलं लभध्वं तदर्थं युष्माभि र्धैर्य्यावलम्बनं कर्त्तव्यं।
अपरमस्माकं प्रभु र्यीशुख्रीष्टः स्वकीयैः सर्व्वैः पवित्रलोकैः सार्द्धं यदागमिष्यति तदा यूयं यथास्माकं तातस्येश्वरस्य सम्मुखे पवित्रतया निर्दोषा भविष्यथ तथा युष्माकं मनांसि स्थिरीक्रियन्तां।