प्रिये, स्वर्गस्थाः दूताः ईश्वरेण निर्मिताः शक्तिशालिनः अधिकारिणश्च तस्य आज्ञापालनार्थम्। किन्तु धर्मग्रन्थे विद्रोहिणां दूतानां वर्णनमपि अस्ति, ये ईश्वरविरुद्धं विद्रोहं कृत्वा स्वर्गलोकात् निष्कासिताः।
एतेषां पतनं ईश्वरविरुद्धस्य विद्रोहस्य रूपेण वर्णितम्। एते पतितदूताः, राक्षसाः वा दुष्टात्मानः वा इति प्रसिद्धाः, आध्यात्मिकजगतः कृष्णपक्षं प्रदर्शयन्ति। ईश्वरविरुद्धेन विद्रोहेण स्वायत्तताकांक्षया च ते स्वस्य आद्यात् पवित्रतापूर्णात् सिद्धस्वरूपात् च्युताः।
विद्रोहेण ते ईश्वरस्य शत्रवः अभूवन् मानवानां जीवने नकारात्मकं प्रभावं स्थापयितुं प्रयत्नशीलाः च। धर्मग्रन्थदृष्ट्या, पतितदूताः अस्मान् आज्ञाकारितायाः नम्रतायाश्च महत्त्वं बोधयन्ति। तेषां पतनं स्मारयति यत् सर्वाधिकशक्तिशालिनः अपि सृष्टिजनाः ईश्वरेच्छाभङ्गेन भ्रष्टाः भवितुं शक्नुवन्ति।
अपि च, ते अस्मान् प्रलोभनानां दुष्टप्रभावानां च विषये सावधानान् जागरूकान् च भवितुं प्रेरयन्ति, ये अस्मान् धर्ममार्गात् विचलितुं शक्नुवन्ति। लूका १०.१८ "अहं तु दृष्टवानस्मि यथा विद्युत् इव सः स्वर्गाद् अपतत् इति सः तान् अवदत्।" इति धर्मग्रन्थे उक्तम्।
ततः परं स्वर्गे संग्राम उपापिष्ठत् मीखायेलस्तस्य दूताश्च तेन नागेन सहायुध्यन् तथा स नागस्तस्य दूताश्च संग्रामम् अकुर्व्वन्, किन्तु प्रभवितुं नाशक्नुवन्
यतः स्वर्गे तेषां स्थानं पुन र्नाविद्यत।
अपरं स महानागो ऽर्थतो दियावलः (अपवादकः) शयतानश्च (विपक्षः) इति नाम्ना विख्यातो यः पुरातनः सर्पः कृत्स्नं नरलोकं भ्रामयति स पृथिव्यां निपातितस्तेन सार्द्धं तस्य दूता अपि तत्र निपातिताः।
तदानीं प्रथमनियुक्ता जना आगत्यानुमितवन्तो वयमधिकं प्रप्स्यामः, किन्तु तैरपि मुद्राचतुर्थांशोऽलाभि।
तेषां भ्रमयिता च शयतानो वह्निगन्धकयो र्ह्रदे ऽर्थतः पशु र्मिथ्याभविष्यद्वादी च यत्र तिष्ठतस्तत्रैव निक्षिप्तः, तत्रानन्तकालं यावत् ते दिवानिशं यातनां भोक्ष्यन्ते।
किञ्च तेन राजत्वकर्त्तृत्वपदानि निस्तेजांसि कृत्वा पराजितान् रिपूनिव प्रगल्भतया सर्व्वेषां दृष्टिगोचरे ह्रेपितवान्।
ये च स्वर्गदूताः स्वीयकर्तृत्वपदे न स्थित्वा स्ववासस्थानं परित्यक्तवन्तस्तान् स महादिनस्य विचारार्थम् अन्धकारमये ऽधःस्थाने सदास्थायिभि र्बन्धनैरबध्नात्।
पश्चात् स वामस्थितान् जनान् वदिष्यति, रे शापग्रस्ताः सर्व्वे, शैताने तस्य दूतेभ्यश्च योऽनन्तवह्निरासादित आस्ते, यूयं मदन्तिकात् तमग्निं गच्छत।
यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते,
यतः केवलं रक्तमांसाभ्याम् इति नहि किन्तु कर्तृत्वपराक्रमयुक्तैस्तिमिरराज्यस्येहलोकस्याधिपतिभिः स्वर्गोद्भवै र्दुष्टात्मभिरेव सार्द्धम् अस्माभि र्युद्धं क्रियते।
यूयं शैतान् पितुः सन्ताना एतस्माद् युष्माकं पितुरभिलाषं पूरयथ स आ प्रथमात् नरघाती तदन्तः सत्यत्वस्य लेशोपि नास्ति कारणादतः स सत्यतायां नातिष्ठत् स यदा मृषा कथयति तदा निजस्वभावानुसारेणैव कथयति यतो स मृषाभाषी मृषोत्पादकश्च।
यः पापाचारं करोति स शयतानात् जातो यतः शयतान आदितः पापाचारी शयतानस्य कर्म्मणां लोपार्थमेवेश्वरस्य पुत्रः प्राकाशत।
तच्चाश्चर्य्यं नहि; यतः स्वयं शयतानपि तेजस्विदूतस्य वेशं धारयति,
ततस्तस्य परिचारका अपि धर्म्मपरिचारकाणां वेशं धारयन्तीत्यद्भुतं नहि; किन्तु तेषां कर्म्माणि यादृशानि फलान्यपि तादृशानि भविष्यन्ति।
हे प्रियतमाः, यूयं सर्व्वेष्वात्मसु न विश्वसित किन्तु ते ईश्वरात् जाता न वेत्यात्मनः परीक्षध्वं यतो बहवो मृषाभविष्यद्वादिनो जगन्मध्यम् आगतवन्तः।
वयं यद् ईश्वरे प्रीतवन्त इत्यत्र नहि किन्तु स यदस्मासु प्रीतवान् अस्मत्पापानां प्रायश्चिर्त्तार्थं स्वपुत्रं प्रेषितवांश्चेत्यत्र प्रेम सन्तिष्ठते।
हे प्रियतमाः, अस्मासु यदीश्वरेणैतादृशं प्रेम कृतं तर्हि परस्परं प्रेम कर्त्तुम् अस्माकमप्युचितं।
ईश्वरः कदाच केनापि न दृष्टः यद्यस्माभिः परस्परं प्रेम क्रियते तर्हीश्वरो ऽस्मन्मध्ये तिष्ठति तस्य प्रेम चास्मासु सेत्स्यते।
अस्मभ्यं तेन स्वकीयात्मनोंऽशो दत्त इत्यनेन वयं यत् तस्मिन् तिष्ठामः स च यद् अस्मासु तिष्ठतीति जानीमः।
पिता जगत्रातारं पुत्रं प्रेषितवान् एतद् वयं दृष्ट्वा प्रमाणयामः।
यीशुरीश्वरस्य पुत्र एतद् येनाङ्गीक्रियते तस्मिन् ईश्वरस्तिष्ठति स चेश्वरे तिष्ठति।
अस्मास्वीश्वरस्य यत् प्रेम वर्त्तते तद् वयं ज्ञातवन्तस्तस्मिन् विश्वासितवन्तश्च। ईश्वरः प्रेमस्वरूपः प्रेम्नी यस्तिष्ठति स ईश्वरे तिष्ठति तस्मिंश्चेश्वरस्तिष्ठति।
स यादृशो ऽस्ति वयमप्येतस्मिन् जगति तादृशा भवाम एतस्माद् विचारदिने ऽस्माभि र्या प्रतिभा लभ्यते सास्मत्सम्बन्धीयस्य प्रेम्नः सिद्धिः।
प्रेम्नि भीति र्न वर्त्तते किन्तु सिद्धं प्रेम भीतिं निराकरोति यतो भीतिः सयातनास्ति भीतो मानवः प्रेम्नि सिद्धो न जातः।
अस्मासु स प्रथमं प्रीतवान् इति कारणाद् वयं तस्मिन् प्रीयामहे।
ईश्वरीयो य आत्मा स युष्माभिरनेन परिचीयतां, यीशुः ख्रीष्टो नरावतारो भूत्वागत एतद् येन केनचिद् आत्मना स्वीक्रियते स ईश्वरीयः।
ईश्वरे ऽहं प्रीय इत्युक्त्वा यः कश्चित् स्वभ्रातरं द्वेष्टि सो ऽनृतवादी। स यं दृष्टवान् तस्मिन् स्वभ्रातरि यदि न प्रीयते तर्हि यम् ईश्वरं न दृष्टवान् कथं तस्मिन् प्रेम कर्त्तुं शक्नुयात्?
अत ईश्वरे यः प्रीयते स स्वीयभ्रातर्य्यपि प्रीयताम् इयम् आज्ञा तस्माद् अस्माभि र्लब्धा।
किन्तु यीशुः ख्रीष्टो नरावतारो भूत्वागत एतद् येन केनचिद् आत्मना नाङ्गीक्रियते स ईश्वरीयो नहि किन्तु ख्रीष्टारेरात्मा, तेन चागन्तव्यमिति युष्माभिः श्रुतं, स चेदानीमपि जगति वर्त्तते।
ततः परं सप्तमदूतेन तूर्य्यां वादितायां गगनात् पृथिव्यां निपतित एकस्तारको मया दृष्टः, तस्मै रसातलकूपस्य कुञ्जिकादायि।
वृश्चिकानामिव तेषां लाङ्गूलानि सन्ति, तेषु लाङ्गूलेषु कण्टकानि विद्यन्ते, अपरं पञ्च मासान् यावत् मानवानां हिंसनाय ते सामर्थ्यप्राप्ताः।
तेषां राजा च रसातलस्य दूतस्तस्य नाम इब्रीयभाषया अबद्दोन् यूनानीयभाषया च अपल्लुयोन् अर्थतो विनाशक इति।
प्रथमः सन्तापो गतवान् पश्य इतः परमपि द्वाभ्यां सन्तापाभ्याम् उपस्थातव्यं।
ततः परं षष्ठदूतेन तूर्य्यां वादितायाम् ईश्वरस्यान्तिके स्थितायाः सुवर्णवेद्याश्चतुश्चूडातः कस्यचिद् रवो मयाश्रावि।
स तूरीधारिणं षष्ठदूतम् अवदत्, फराताख्ये महानदे ये चत्वारो दूता बद्धाः सन्ति तान् मोचय।
ततस्तद्दण्डस्य तद्दिनस्य तन्मासस्य तद्वत्सरस्य च कृते निरूपितास्ते चत्वारो दूता मानवानां तृतीयांशस्य बधार्थं मोचिताः।
अपरम् अश्वारोहिसैन्यानां संख्या मयाश्रावि, ते विंशतिकोटय आसन्।
मया ये ऽश्वा अश्वारोहिणश्च दृष्टास्त एतादृशाः, तेषां वह्निस्वरूपाणि नीलप्रस्तरस्वरूपाणि गन्धकस्वरूपाणि च वर्म्माण्यासन्, वाजिनाञ्च सिंहमूर्द्धसदृशा मूर्द्धानः, तेषां मुखेभ्यो वह्निधूमगन्धका निर्गच्छन्ति।
एतैस्त्रिभि र्दण्डैरर्थतस्तेषां मुखेभ्यो निर्गच्छद्भि र्वह्निधूमगन्धकै र्मानुषाणां तुतीयांशो ऽघानि।
तेषां वाजिनां बलं मुखेषु लाङ्गूलेषु च स्थितं, यतस्तेषां लाङ्गूलानि सर्पाकाराणि मस्तकविशिष्टानि च तैरेव ते हिंसन्ति।
तेन रसातलकूपे मुक्ते महाग्निकुण्डस्य धूम इव धूमस्तस्मात् कूपाद् उद्गतः। तस्मात् कूपधूमात् सूर्य्याकाशौ तिमिरावृतौ।
अपरम् अवशिष्टा ये मानवा तै र्दण्डै र्न हतास्ते यथा दृष्टिश्रवणगमनशक्तिहीनान् स्वर्णरौप्यपित्तलप्रस्तरकाष्ठमयान् विग्रहान् भूतांश्च न पूजयिष्यन्ति तथा स्वहस्तानां क्रियाभ्यः स्वमनांसि न परावर्त्तितवन्तः
स्वबधकुहकव्यभिचारचौर्य्योभ्यो ऽपि मनांसि न परावर्त्तितवन्तः।
तस्माद् धूमात् पतङ्गेषु पृथिव्यां निर्गतेषु नरलोकस्थवृश्चिकवत् बलं तेभ्योऽदायि।
अपरं मनुजाद् बहिर्गतो ऽपवित्रभूतः शुष्कस्थानेन गत्वा विश्रामं गवेषयति, किन्तु तदलभमानः स वक्ति, यस्मा; निकेतनाद् आगमं, तदेव वेश्म पकावृत्य यामि।
पश्चात् स तत् स्थानम् उपस्थाय तत् शून्यं मार्ज्जितं शोभितञ्च विलोक्य व्रजन् स्वतोपि दुष्टतरान् अन्यसप्तभूतान् सङ्गिनः करोति।
ततस्ते तत् स्थानं प्रविश्य निवसन्ति, तेन तस्य मनुजस्य शेषदशा पूर्व्वदशातोतीवाशुभा भवति, एतेषां दुष्टवंश्यानामपि तथैव घटिष्यते।
यूयं यत् शयतानश्छलानि निवारयितुं शक्नुथ तदर्थम् ईश्वरीयसुसज्जां परिधद्ध्वं।
यतः केवलं रक्तमांसाभ्याम् इति नहि किन्तु कर्तृत्वपराक्रमयुक्तैस्तिमिरराज्यस्येहलोकस्याधिपतिभिः स्वर्गोद्भवै र्दुष्टात्मभिरेव सार्द्धम् अस्माभि र्युद्धं क्रियते।
अतो हेतो र्यूयं यया संकुेले दिनेऽवस्थातुं सर्व्वाणि पराजित्य दृढाः स्थातुञ्च शक्ष्यथ ताम् ईश्वरीयसुसज्जां गृह्लीत।
यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु
वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।
ततः परं यीशुः प्रतारकेण परीक्षितो भवितुम् आत्मना प्रान्तरम् आकृष्टः
तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"
ततः प्रतारकेण स पर्य्यत्याजि, तदा स्वर्गीयदूतैरागत्य स सिषेवे।
ये परित्राणस्याधिकारिणो भविष्यन्ति तेषां परिचर्य्यार्थं प्रेष्यमाणाः सेवनकारिण आत्मानः किं ते सर्व्वे दूता नहि?
अनन्तरं यीशुस्तं पप्रच्छ तव किन्नाम? स उवाच, मम नाम बाहिनो यतो बहवो भूतास्तमाशिश्रियुः।
अथ भूता विनयेन जगदुः, गभीरं गर्त्तं गन्तुं माज्ञापयास्मान्।
तेषां राजा च रसातलस्य दूतस्तस्य नाम इब्रीयभाषया अबद्दोन् यूनानीयभाषया च अपल्लुयोन् अर्थतो विनाशक इति।
दूता अप्यस्माभि र्विचारयिष्यन्त इति किं न जानीथ? अत ऐहिकविषयाः किम् अस्माभि र्न विचारयितव्या भवेयुः?
स बलवता स्वरेण वाचमिमाम् अघोषयत् पतिता पतिता महाबाबिल्, सा भूतानां वसतिः सर्व्वेषाम् अशुच्यात्मनां कारा सर्व्वेषाम् अशुचीनां घृण्यानाञ्च पक्षिणां पिञ्जरश्चाभवत्।
ततः स पशु र्धृतो यश्च मिथ्याभविष्यद्वक्ता तस्यान्तिके चित्रकर्म्माणि कुर्व्वन् तैरेव पश्वङ्कधारिणस्तत्प्रतिमापूजकांश्च भ्रमितवान् सो ऽपि तेन सार्द्धं धृतः। तौ च वह्निगन्धकज्वलितह्रदे जीवन्तौ निक्षिप्तौ।
अपरं स गर्व्वितो भूत्वा यत् शयतान इव दण्डयोग्यो न भवेत् तदर्थं तेन नवशिष्येण न भवितव्यं।
तन्नहि किन्तु भिन्नजातिभि र्ये बलयो दीयन्ते त ईश्वराय तन्नहि भूतेभ्यएव दीयन्ते तस्माद् यूयं यद् भूतानां सहभागिनो भवथेत्यहं नाभिलषामि।
प्रभोः कंसेन भूतानामपि कंसेन पानं युष्माभिरसाध्यं; यूयं प्रभो र्भोज्यस्य भूतानामपि भोज्यस्य सहभागिनो भवितुं न शक्नुथ।
किन्तु स वदनं परावर्त्य पितरं जगाद, हे विघ्नकारिन्, मत्सम्मुखाद् दूरीभव, त्वं मां बाधसे, ईश्वरीयकार्य्यात् मानुषीयकार्य्यं तुभ्यं रोचते।
इतः परं युष्माभिः सह मम बहव आलापा न भविष्यन्ति यतः कारणाद् एतस्य जगतः पतिरागच्छति किन्तु मया सह तस्य कोपि सम्बन्धो नास्ति।
यत ईश्वरस्य प्रतिमूर्त्ति र्यः ख्रीष्टस्तस्य तेजसः सुसंवादस्य प्रभा यत् तान् न दीपयेत् तदर्थम् इह लोकस्य देवोऽविश्वासिनां ज्ञाननयनम् अन्धीकृतवान् एतस्योदाहरणं ते भवन्ति।
अधिकन्तु शान्तिदायक ईश्वरः शैतानम् अविलम्बं युष्माकं पदानाम् अधो मर्द्दिष्यति। अस्माकं प्रभु र्यीशुख्रीष्टो युष्मासु प्रसादं क्रियात्। इति।
अधिपतित्वपदं शासनपदं पराक्रमो राजत्वञ्चेतिनामानि यावन्ति पदानीह लोके परलोके च विद्यन्ते तेषां सर्व्वेषाम् ऊर्द्ध्वे स्वर्गे निजदक्षिणपार्श्वे तम् उपवेशितवान्,
यतः सर्व्वमेव तेन ससृजे सिंहासनराजत्वपराक्रमादीनि स्वर्गमर्त्त्यस्थितानि दृश्यादृश्यानि वस्तूनि सर्व्वाणि तेनैव तस्मै च ससृजिरे।
अपरम् उत्कृष्टदर्शनप्राप्तितो यदहम् आत्माभिमानी न भवामि तदर्थं शरीरवेधकम् एकं शूलं मह्यम् अदायि तत् मदीयात्माभिमाननिवारणार्थं मम ताडयिता शयतानो दूतः।
तदानीं तद्भजनगेहस्थितोऽमेध्यभूतग्रस्त एको जन उच्चैः कथयामास,
हे नासरतीययीशोऽस्मान् त्यज, त्वया सहास्माकं कः सम्बन्धः? किमस्मान् विनाशयितुमायासि? त्वमीश्वरस्य पवित्रो जन एतदहं जानामि।
तदा यीशुस्तं तर्जयित्वावदत् मौनी भव इतो बहिर्भव; ततः सोमेध्यभूतस्तं मध्यस्थाने पातयित्वा किञ्चिदप्यहिंसित्वा तस्माद् बहिर्गतवान्।
ततः सर्व्वे लोकाश्चमत्कृत्य परस्परं वक्तुमारेभिरे कोयं चमत्कारः। एष प्रभावेण पराक्रमेण चामेध्यभूतान् आज्ञापयति तेनैव ते बहिर्गच्छन्ति।
यस्या गणनया तदधिपतीनां बहुधनोपार्जनं जातं तादृशी गणकभूतग्रस्ता काचन दासी प्रार्थनास्थानगमनकाल आगत्यास्मान् साक्षात् कृतवती।
सास्माकं पौलस्य च पश्चाद् एत्य प्रोच्चैः कथामिमां कथितवती, मनुष्या एते सर्व्वोपरिस्थस्येश्वरस्य सेवकाः सन्तोऽस्मान् प्रति परित्राणस्य मार्गं प्रकाशयन्ति।
सा कन्या बहुदिनानि तादृशम् अकरोत् तस्मात् पौलो दुःखितः सन् मुखं परावर्त्य तं भूतमवदद्, अहं यीशुख्रीष्टस्य नाम्ना त्वामाज्ञापयामि त्वमस्या बहिर्गच्छ; तेनैव तत्क्षणात् स भूतस्तस्या बहिर्गतः।
अथ तू सिन्धुपारं गत्वा गिदेरीयप्रदेश उपतस्थुः।
ततोस्मान् देशान्न प्रेषयेति ते तं प्रार्थयन्त।
तदानीं पर्व्वतं निकषा बृहन् वराहव्रजश्चरन्नासीत्।
तस्माद् भूता विनयेन जगदुः, अमुं वराहव्रजम् आश्रयितुम् अस्मान् प्रहिणु।
यीशुनानुज्ञातास्तेऽपवित्रभूता बहिर्निर्याय वराहव्रजं प्राविशन् ततः सर्व्वे वराहा वस्तुतस्तु प्रायोद्विसहस्रसंङ्ख्यकाः कटकेन महाजवाद् धावन्तः सिन्धौ प्राणान् जहुः।
तस्माद् वराहपालकाः पलायमानाः पुरे ग्रामे च तद्वार्त्तं कथयाञ्चक्रुः। तदा लोका घटितं तत्कार्य्यं द्रष्टुं बहिर्जग्मुः
यीशोः सन्निधिं गत्वा तं भूतग्रस्तम् अर्थाद् बाहिनीभूतग्रस्तं नरं सवस्त्रं सचेतनं समुपविष्टञ्च दृृष्ट्वा बिभ्युः।
ततो दृष्टतत्कार्य्यलोकास्तस्य भूतग्रस्तनरस्य वराहव्रजस्यापि तां धटनां वर्णयामासुः।
ततस्ते स्वसीमातो बहिर्गन्तुं यीशुं विनेतुमारेभिरे।
अथ तस्य नौकारोहणकाले स भूतमुक्तो ना यीशुना सह स्थातुं प्रार्थयते;
किन्तु स तमननुमत्य कथितवान् त्वं निजात्मीयानां समीपं गृहञ्च गच्छ प्रभुस्त्वयि कृपां कृत्वा यानि कर्म्माणि कृतवान् तानि तान् ज्ञापय।
नौकातो निर्गतमात्राद् अपवित्रभूतग्रस्त एकः श्मशानादेत्य तं साक्षाच् चकार।
अतः स प्रस्थाय यीशुना कृतं तत्सर्व्वाश्चर्य्यं कर्म्म दिकापलिदेशे प्रचारयितुं प्रारब्धवान् ततः सर्व्वे लोका आश्चर्य्यं मेनिरे।
तावुचैः कथयामासतुः, हे ईश्वरस्य सूनो यीशो, त्वया साकम् आवयोः कः सम्बन्धः? निरूपितकालात् प्रागेव किमावाभ्यां यातनां दातुम् अत्रागतोसि?
किन्तु फिरूशिनस्तत् श्रुत्वा गदितवन्तः, बाल्सिबूब्नाम्नो भूतराजस्य साहाय्यं विना नायं भूतान् त्याजयति।
ततः परमहं सागरीयसिकतायां तिष्ठन् सागराद् उद्गच्छन्तम् एकं पशुं दृष्टवान् तस्य दश शृङ्गाणि सप्त शिरांसि च दश शृङ्गेषु दश किरीटानि शिरःसु चेश्वरनिन्दासूचकानि नामानि विद्यन्ते।
त्वया दृष्टो ऽसौ पशुरासीत् नेदानीं वर्त्तते किन्तु रसातलात् तेनोदेतव्यं विनाशश्च गन्तव्यः। ततो येषां नामानि जगतः सृष्टिकालम् आरभ्य जीवनपुस्तके लिखितानि न विद्यन्ते ते पृथिवीनिवासिनो भूतम् अवर्त्तमानमुपस्थास्यन्तञ्च तं पशुं दृष्ट्वाश्चर्य्यं मंस्यन्ते।
यतो भाक्तख्रीष्टा भाक्तभविष्यद्वादिनश्च उपस्थाय यानि महन्ति लक्ष्माणि चित्रकर्म्माणि च प्रकाशयिष्यन्ति, तै र्यदि सम्भवेत् तर्हि मनोनीतमानवा अपि भ्रामिष्यन्ते।
शयतानस्य शक्तिप्रकाशनाद् विनाश्यमानानां मध्ये सर्व्वविधाः पराक्रमा भ्रमिका आश्चर्य्यक्रिया लक्षणान्यधर्म्मजाता सर्व्वविधप्रतारणा च तस्योपस्थितेः फलं भविष्यति;
ततः परम् अन्तो भविष्यति तदानीं स सर्व्वं शासनम् अधिपतित्वं पराक्रमञ्च लुप्त्वा स्वपितरीश्वरे राजत्वं समर्पयिष्यति।
यतः ख्रीष्टस्य रिपवः सर्व्वे यावत् तेन स्वपादयोरधो न निपातयिष्यन्ते तावत् तेनैव राजत्वं कर्त्तव्यं।
यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु
यत ईश्वरस्य नानारूपं ज्ञानं यत् साम्प्रतं समित्या स्वर्गे प्राधान्यपराक्रमयुक्तानां दूतानां निकटे प्रकाश्यते तदर्थं स यीशुना ख्रीष्टेन सर्व्वाणि सृष्टवान्।
वन्ययवसानि पापात्मनः सन्तानाः। येन रिपुणा तान्युप्तानि स शयतानः, कर्त्तनसमयश्च जगतः शेषः, कर्त्तकाः स्वर्गीयदूताः।
स स्वलाङ्गूलेन गगनस्थनक्षत्राणां तृतीयांशम् अवमृज्य पृथिव्यां न्यपातयत्। स एव नागो नवजातं सन्तानं ग्रसितुम् उद्यतस्तस्याः प्रसविष्यमाणाया योषितो ऽन्तिके ऽतिष्ठत्।
अपरञ्च यिरूशालम आगता ये येऽध्यापकास्ते जगदुरयं पुरुषो भूतपत्याबिष्टस्तेन भूतपतिना भूतान् त्याजयति।
ततस्तानाहूय यीशु र्दृष्टान्तैः कथां कथितवान् शैतान् कथं शैतानं त्याजयितुं शक्नोति?
किञ्चन राज्यं यदि स्वविरोधेन पृथग् भवति तर्हि तद् राज्यं स्थिरं स्थातुं न शक्नोति।
तथा कस्यापि परिवारो यदि परस्परं विरोधी भवति तर्हि सोपि परिवारः स्थिरं स्थातुं न शक्नोति।
तद्वत् शैतान् यदि स्वविपक्षतया उत्तिष्ठन् भिन्नो भवति तर्हि सोपि स्थिरं स्थातुं न शक्नोति किन्तूच्छिन्नो भवति।
अपरञ्च प्रबलं जनं प्रथमं न बद्धा कोपि तस्य गृहं प्रविश्य द्रव्याणि लुण्ठयितुं न शक्नोति, तं बद्व्वैव तस्य गृहस्य द्रव्याणि लुण्ठयितुं शक्नोति।
तदा स तेषां मनःकल्पनां ज्ञात्वा कथयामास, कस्यचिद् राज्यस्य लोका यदि परस्परं विरुन्धन्ति तर्हि तद् राज्यम् नश्यति; केचिद् गृहस्था यदि परस्परं विरुन्धन्ति तर्हि तेपि नश्यन्ति।
तथैव शैतानपि स्वलोकान् यदि विरुणद्धि तदा तस्य राज्यं कथं स्थास्यति? बालसिबूबाहं भूतान् त्याजयामि यूयमिति वदथ।
तस्मात् परीक्षकेण युष्मासु परीक्षितेष्वस्माकं परिश्रमो विफलो भविष्यतीति भयं सोढुं यदाहं नाशक्नुवं तदा युष्माकं विश्वासस्य तत्त्वावधारणाय तम् अप्रेषयं।
स नरः शरीरनाशार्थमस्माभिः शयतानो हस्ते समर्पयितव्यस्ततोऽस्माकं प्रभो र्यीशो र्दिवसे तस्यात्मा रक्षां गन्तुं शक्ष्यति।
यतो मृतिजनकं पापं पुण्यजनकं निदेशाचरणञ्चैतयोर्द्वयो र्यस्मिन् आज्ञापालनार्थं भृत्यानिव स्वान् समर्पयथ, तस्यैव भृत्या भवथ, एतत् किं यूयं न जानीथ?
किन्तु सर्पेण स्वखलतया यद्वद् हवा वञ्चयाञ्चके तद्वत् ख्रीष्टं प्रति सतीत्वाद् युष्माकं भ्रंशः सम्भविष्यतीति बिभेमि।
केनापि प्रकारेण कोऽपि युष्मान् न वञ्चयतु यतस्तस्माद् दिनात् पूर्व्वं धर्म्मलोपेनोपस्यातव्यं,
यश्च जनो विपक्षतां कुर्व्वन् सर्व्वस्माद् देवात् पूजनीयवस्तुश्चोन्नंस्यते स्वम् ईश्वरमिव दर्शयन् ईश्वरवद् ईश्वरस्य मन्दिर उपवेक्ष्यति च तेन विनाशपात्रेण पापपुरुषेणोदेतव्यं।
हे बालकाः, शेषकालोऽयं, अपरं ख्रीष्टारिणोपस्थाव्यमिति युष्माभि र्यथा श्रुतं तथा बहवः ख्रीष्टारय उपस्थितास्तस्मादयं शेषकालोऽस्तीति वयं जानीमः।
यतो बहवः प्रवञ्चका जगत् प्रविश्य यीशुख्रीष्टो नरावतारो भूत्वागत एतत् नाङ्गीकुर्व्वन्ति स एव प्रवञ्चकः ख्रीष्टारिश्चास्ति।
ततः परं स्वर्गाद् अवरोहन् एको दूतो मया दृष्टस्तस्य करे रमातलस्य कुञ्जिका महाशृङ्खलञ्चैकं तिष्ठतः।
तेषां भ्रमयिता च शयतानो वह्निगन्धकयो र्ह्रदे ऽर्थतः पशु र्मिथ्याभविष्यद्वादी च यत्र तिष्ठतस्तत्रैव निक्षिप्तः, तत्रानन्तकालं यावत् ते दिवानिशं यातनां भोक्ष्यन्ते।
ततः शुक्लम् एकं महासिंहासनं मया दृष्टं तदुपविष्टो ऽपि दृष्टस्तस्य वदनान्तिकाद् भूनभोमण्डले पलायेतां पुनस्ताभ्यां स्थानं न लब्धं।
अपरं क्षुद्रा महान्तश्च सर्व्वे मृता मया दृष्टाः, ते सिंहासनस्यान्तिके ऽतिष्ठन् ग्रन्थाश्च व्यस्तीर्य्यन्त जीवनपुस्तकाख्यम् अपरम् एकं पुस्तकमपि विस्तीर्णं। तत्र ग्रन्थेषु यद्यत् लिखितं तस्मात् मृतानाम् एकैकस्य स्वक्रियानुयायी विचारः कृतः।
तदानीं समुद्रेण स्वान्तरस्था मृतजनाः समर्पिताः, मृत्युपरलोकाभ्यामपि स्वान्तरस्था मृतजनाः सर्मिपताः, तेषाञ्चैकैकस्य स्वक्रियानुयायी विचारः कृतः।
अपरं मृत्युपरलोकौ वह्निह्रदे निक्षिप्तौ, एष एव द्वितीयो मृत्युः।
यस्य कस्यचित् नाम जीवनपुस्तके लिखितं नाविद्यत स एव तस्मिन् वह्निह्रदे न्यक्षिप्यत।
अपरं नागो ऽर्थतः यो वृद्धः सर्पो ऽपवादकः शयतानश्चास्ति तमेव धृत्वा वर्षसहस्रं यावद् बद्धवान्।
अपरं रसातले तं निक्षिप्य तदुपरि द्वारं रुद्ध्वा मुद्राङ्कितवान् यस्मात् तद् वर्षसहस्रं यावत् सम्पूर्णं न भवेत् तावद् भिन्नजातीयास्तेन पुन र्न भ्रमितव्याः। ततः परम् अल्पकालार्थं तस्य मोचनेन भवितव्यं।
अनन्तरं नागस्य वदनात् पशो र्वदनात् मिथ्याभविष्यद्वादिनश्च वदनात् निर्गच्छन्तस्त्रयो ऽशुचय आत्मानो मया दृष्टास्ते मण्डूकाकाराः।
त आश्चर्य्यकर्म्मकारिणो भूतानाम् आत्मानः सन्ति सर्व्वशक्तिमत ईश्वरस्य महादिने येन युद्धेन भवितव्यं तत्कृते कृत्स्रजगतो राज्ञाः संग्रहीतुं तेषां सन्निधिं निर्गच्छन्ति।
ततः परं तेनाश्वारूढजनेन तदीयसैन्यैश्च सार्द्धं युद्धं कर्त्तुं स पशुः पृथिव्या राजानस्तेषां सैन्यानि च समागच्छन्तीति मया दृष्टं।
विचाराज्ञाश्च तस्यैव सत्या न्याय्या भवन्ति च। या स्ववेश्याक्रियाभिश्च व्यकरोत् कृत्स्नमेदिनीं। तां स दण्डितवान् वेश्यां तस्याश्च करतस्तथा। शोणितस्य स्वदासानां संशोधं स गृहीतवान्॥
ततः स पशु र्धृतो यश्च मिथ्याभविष्यद्वक्ता तस्यान्तिके चित्रकर्म्माणि कुर्व्वन् तैरेव पश्वङ्कधारिणस्तत्प्रतिमापूजकांश्च भ्रमितवान् सो ऽपि तेन सार्द्धं धृतः। तौ च वह्निगन्धकज्वलितह्रदे जीवन्तौ निक्षिप्तौ।
स तूरीधारिणं षष्ठदूतम् अवदत्, फराताख्ये महानदे ये चत्वारो दूता बद्धाः सन्ति तान् मोचय।
ततस्तद्दण्डस्य तद्दिनस्य तन्मासस्य तद्वत्सरस्य च कृते निरूपितास्ते चत्वारो दूता मानवानां तृतीयांशस्य बधार्थं मोचिताः।
तेषाम् अपत्यानां रुधिरपललविशिष्टत्वात् सोऽपि तद्वत् तद्विशिष्टोऽभूत् तस्याभिप्रायोऽयं यत् स मृत्युबलाधिकारिणं शयतानं मृत्युना बलहीनं कुर्य्यात्
अपरं मम तातं विना मानुषः स्वर्गस्थो दूतो वा कोपि तद्दिनं तद्दण्डञ्च न ज्ञापयति।
अपरं नोहे विद्यमाने यादृशमभवत् तादृशं मनुजसुतस्यागमनकालेपि भविष्यति।
फलतो जलाप्लावनात् पूर्व्वं यद्दिनं यावत् नोहः पोतं नारोहत्, तावत्कालं यथा मनुष्या भोजने पाने विवहने विवाहने च प्रवृत्ता आसन्;
अपरम् आप्लावितोयमागत्य यावत् सकलमनुजान् प्लावयित्वा नानयत्, तावत् ते यथा न विदामासुः, तथा मनुजसुतागमनेपि भविष्यति।
किन्तु क्षपायां चौर इव प्रभो र्दिनम् आगमिष्यति तस्मिन् महाशब्देन गगनमण्डलं लोप्स्यते मूलवस्तूनि च तापेन गलिष्यन्ते पृथिवी तन्मध्यस्थितानि कर्म्माणि च धक्ष्यन्ते।
एतस्तिन् समये द्वादशशिष्येषु गणित ईष्करियोतीयरूढिमान् यो यिहूदास्तस्यान्तःकरणं शैतानाश्रितत्वात्
पिता तस्य हस्ते सर्व्वं समर्पितवान् स्वयम् ईश्वरस्य समीपाद् आगच्छद् ईश्वरस्य समीपं यास्यति च, सर्व्वाण्येतानि ज्ञात्वा रजन्यां भोजने सम्पूर्णे सति,
पापात्मतो जातो यः काबिल् स्वभ्रातरं हतवान् तत्सदृशैरस्माभि र्न भवितव्यं। स कस्मात् कारणात् तं हतवान्? तस्य कर्म्माणि दुष्टानि तद्भ्रातुश्च कर्म्माणि धर्म्माण्यासन् इति कारणात्।
अपरं पूर्व्वकाले यथा लोकानां मध्ये मिथ्याभविष्यद्वादिन उपातिष्ठन् तथा युष्माकं मध्येऽपि मिथ्याशिक्षका उपस्थास्यन्ति, ते स्वेषां क्रेतारं प्रभुम् अनङ्गीकृत्य सत्वरं विनाशं स्वेषु वर्त्तयन्ति विनाशकवैधर्म्म्यं गुप्तं युष्मन्मध्यम् आनेष्यन्ति।
इहलोकस्याधिपतीनां केनापि तत् ज्ञानं न लब्धं, लब्धे सति ते प्रभावविशिष्टं प्रभुं क्रुशे नाहनिष्यन्।
सर्व्वसमये सर्व्वयाचनेन सर्व्वप्रार्थनेन चात्मना प्रार्थनां कुरुध्वं तदर्थं दृढाकाङ्क्षया जाग्रतः सर्व्वेषां पवित्रलोकानां कृते सदा प्रार्थनां कुरुध्वं।
अनन्तरं मया सिंहासनानि दृष्टानि तत्र ये जना उपाविशन् तेभ्यो विचारभारो ऽदीयत; अनन्तरं यीशोः साक्ष्यस्य कारणाद् ईश्वरवाक्यस्य कारणाच्च येषां शिरश्छेदनं कृतं पशोस्तदीयप्रतिमाया वा पूजा यै र्न कृता भाले करे वा कलङ्को ऽपि न धृतस्तेषाम् आत्मानो ऽपि मया दृष्टाः, ते प्राप्तजीवनास्तद्वर्षसहस्रं यावत् ख्रीष्टेन सार्द्धं राजत्वमकुर्व्वन्।
किन्त्ववशिष्टा मृतजनास्तस्य वर्षसहस्रस्य समाप्तेः पूर्व्वं जीवनं न प्रापन्।
एषा प्रथमोत्थितिः। यः कश्चित् प्रथमाया उत्थितेरंशी स धन्यः पवित्रश्च। तेषु द्वितीयमृत्योः को ऽप्यधिकारो नास्ति त ईश्वरस्य ख्रीष्टस्य च याजका भविष्यन्ति वर्षसहस्रं यावत् तेन सह राजत्वं करिष्यन्ति च।
किन्तु प्रधानदिव्यदूतो मीखायेलो यदा मूससो देहे शयतानेन विवदमानः समभाषत तदा तिस्मन् निन्दारूपं दण्डं समर्पयितुं साहसं न कृत्वाकथयत् प्रभुस्त्वां भर्त्सयतां।