Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

107 प्रतिशोधस्य विषये बाइबिलस्य श्लोकाः

107 प्रतिशोधस्य विषये बाइबिलस्य श्लोकाः

शास्त्रेषु सर्वत्र उपदिश्यते यत् प्रतिशोधः न अस्माकं मानवानां कर्तव्यः, अपि तु भगवतः एव अधिकारः। रोमकलेखस्य १२:१९ इति वचने स्पष्टतया उपदिश्यते, "प्रियाः, मा स्वयं प्रतिशोधं कुर्वन्तु, किन्तु ईश्वरस्य कोपाय अवकाशं ददतु, यतः लिखितम् अस्ति - मम प्रतिशोधः, अहं प्रत्यर्पयिष्यामि, इति प्रभुः वदति।"

अनेन ज्ञायते यत् न्यायं स्वहस्ते न गृह्णीयाम, अपि तु भगवतः न्यायदाने विश्वासं कुर्याम यः एकः एव न्यायतः न्यायं कर्तुं समर्थः। यदा वयं आहताः अपमानिताः वा भवामः, तदा मानुषः स्वभावः प्रतिशोधाय प्रेरयति। किन्तु धर्मग्रन्थः अस्मान् भगवति विश्वासं कर्तुं क्षमां च दातुं प्रोत्साहयति, न तु प्रतिशोधं प्राप्तुम्। नीतिवाक्यानि २०:२२ इति वदति, "मा वद - अहं प्रत्यर्पयिष्यामि। भगवन्तं प्रतीक्षस्व, सः त्वां रक्षिष्यति।"

प्रतिशोधेन मानहानिः पूरिता भवति न्यायस्य तुला च समतुलिता भवति इति भासते, किन्तु धर्मग्रन्थः उपदिशति यत् प्रतिशोधः न अस्माकं कर्तव्यः। भगवतः शक्तिं ज्ञानं च विश्वस्य स्वसमये न्यायस्य स्थापनाय प्रतीक्षामहे। प्रतिशोधं त्यक्त्वा धर्मग्रन्थस्य शिक्षाः अनुसृत्य वयं वास्तविकां स्वतन्त्रतां प्राप्नुमः, भगवतः प्रेमस्य अनुग्रहस्य च परिवर्तनकारीं शक्तिं च अनुभवामः।




1 पतरस 3:9

अनिष्टस्य परिशोधेनानिष्टं निन्दाया वा परिशोधेन निन्दां न कुर्व्वन्त आशिषं दत्त यतो यूयम् आशिरधिकारिणो भवितुमाहूता इति जानीथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:44

किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:38-39

अपरं लोचनस्य विनिमयेन लोचनं दन्तस्य विनिमयेन दन्तः पूर्व्वक्तमिदं वचनञ्च युष्माभिरश्रूयत। किन्त्वहं युष्मान् वदामि यूयं हिंसकं नरं मा व्याघातयत। किन्तु केनचित् तव दक्षिणकपोले चपेटाघाते कृते तं प्रति वामं कपोलञ्च व्याघोटय।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:17-18

परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत। यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत।

अध्यायः    |  संस्करणम् प्रतिलिपि
मार्क 11:25

अपरञ्च युष्मासु प्रार्थयितुं समुत्थितेषु यदि कोपि युष्माकम् अपराधी तिष्ठति, तर्हि तं क्षमध्वं, तथा कृते युष्माकं स्वर्गस्थः पितापि युष्माकमागांमि क्षमिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 6:27-28

हे श्रोतारो युष्मभ्यमहं कथयामि, यूयं शत्रुषु प्रीयध्वं ये च युष्मान् द्विषन्ति तेषामपि हितं कुरुत। ये च युष्मान् शपन्ति तेभ्य आशिषं दत्त ये च युष्मान् अवमन्यन्ते तेषां मङ्गलं प्रार्थयध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 10:30

यतः परमेश्वरः कथयति, "दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।" पुनरपि, "तदा विचारयिष्यन्ते परेशेन निजाः प्रजाः।" इदं यः कथितवान् तं वयं जानीमः।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:14

ये जना युष्मान् ताडयन्ति तान् आशिषं वदत शापम् अदत्त्वा दद्ध्वमाशिषम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:19

हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 5:15

अपरं कमपि प्रत्यनिष्टस्य फलम् अनिष्टं केनापि यन्न क्रियेत तदर्थं सावधाना भवत, किन्तु परस्परं सर्व्वान् मानवांश्च प्रति नित्यं हिताचारिणो भवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 13:11

हे भ्रातरः, शेषे वदामि यूयम् आनन्दत सिद्धा भवत परस्परं प्रबोधयत, एकमनसो भवत प्रणयभावम् आचरत। प्रेमशान्त्योराकर ईश्वरो युष्माकं सहायो भूयात्।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 14:10-12

किन्तु त्वं निजं भ्रातरं कुतो दूषयसि? तथा त्वं निजं भ्रातरं कुतस्तुच्छं जानासि? ख्रीष्टस्य विचारसिंहासनस्य सम्मुखे सर्व्वैरस्माभिरुपस्थातव्यं; यादृशं लिखितम् आस्ते, परेशः शपथं कुर्व्वन् वाक्यमेतत् पुरावदत्। सर्व्वो जनः समीपे मे जानुपातं करिष्यति। जिह्वैकैका तथेशस्य निघ्नत्वं स्वीकरिष्यति। अतएव ईश्वरसमीपेऽस्माकम् एकैकजनेन निजा कथा कथयितव्या।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 26:52

ततो यीशुस्तं जगाद, खड्गं स्वस्थानेे निधेहि यतो ये ये जना असिं धारयन्ति, तएवासिना विनश्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 थिस्सलुनीकियों 1:6-8

यतः स्वकीयस्वर्गदूतानां बलैः सहितस्य प्रभो र्यीशोः स्वर्गाद् आगमनकाले युष्माकं क्लेशकेभ्यः क्लेशेन फलदानं सार्द्धमस्माभिश्च क्लिश्यमानेभ्यो युष्मभ्यं शान्तिदानम् ईश्वरेण न्याय्यं भोत्स्यते; तदानीम् ईश्वरानभिज्ञेभ्यो ऽस्मत्प्रभो र्यीशुख्रीष्टस्य सुसंवादाग्राहकेभ्यश्च लोकेभ्यो जाज्वल्यमानेन वह्निना समुचितं फलं यीशुना दास्यते;

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 13:5

अपरं तत् कुत्सितं नाचरति, आत्मचेष्टां न कुरुते सहसा न क्रुध्यति परानिष्टं न चिन्तयति,

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 23:34

तदा यीशुरकथयत्, हे पितरेतान् क्षमस्व यत एते यत् कर्म्म कुर्व्वन्ति तन् न विदुः; पश्चात्ते गुटिकापातं कृत्वा तस्य वस्त्राणि विभज्य जगृहुः।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 13:4

यतस्तव सदाचरणाय स ईश्वरस्य भृत्योऽस्ति। किन्तु यदि कुकर्म्माचरसि तर्हि त्वं शङ्कस्व यतः स निरर्थकं खङ्गं न धारयति; कुकर्म्माचारिणं समुचितं दण्डयितुम् स ईश्वरस्य दण्डदभृत्य एव।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 1:19-20

अतएव हे मम प्रियभ्रातरः, युष्माकम् एकैको जनः श्रवणे त्वरितः कथने धीरः क्रोधेऽपि धीरो भवतु। हे मम भ्रातरः, यूयं यदा बहुविधपरीक्षाषु निपतत तदा तत् पूर्णानन्दस्य कारणं मन्यध्वं। यतो मानवस्य क्रोध ईश्वरीयधर्म्मं न साधयति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 6:14-15

यदि यूयम् अन्येषाम् अपराधान् क्षमध्वे तर्हि युष्माकं स्वर्गस्थपितापि युष्मान् क्षमिष्यते; किन्तु यदि यूयम् अन्येषाम् अपराधान् न क्षमध्वे, तर्हि युष्माकं जनकोपि युष्माकम् अपराधान् न क्षमिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 2:23

निन्दितो ऽपि सन् स प्रतिनिन्दां न कृतवान् दुःखं सहमानो ऽपि न भर्त्सितवान् किन्तु यथार्थविचारयितुः समीपे स्वं समर्पितवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 17:3-4

यूयं स्वेषु सावधानास्तिष्ठत; तव भ्राता यदि तव किञ्चिद् अपराध्यति तर्हि तं तर्जय, तेन यदि मनः परिवर्त्तयति तर्हि तं क्षमस्व। तद्वन् मानवपुत्रप्रकाशदिनेपि भविष्यति। तदा यदि कश्चिद् गृहोपरि तिष्ठति तर्हि स गृहमध्यात् किमपि द्रव्यमानेतुम् अवरुह्य नैतु; यश्च क्षेत्रे तिष्ठति सोपि व्याघुट्य नायातु। लोटः पत्नीं स्मरत। यः प्राणान् रक्षितुं चेष्टिष्यते स प्राणान् हारयिष्यति यस्तु प्राणान् हारयिष्यति सएव प्राणान् रक्षिष्यति। युष्मानहं वच्मि तस्यां रात्रौ शय्यैकगतयो र्लोकयोरेको धारिष्यते परस्त्यक्ष्यते। स्त्रियौ युगपत् पेषणीं व्यावर्त्तयिष्यतस्तयोरेका धारिष्यते परात्यक्ष्यते। पुरुषौ क्षेत्रे स्थास्यतस्तयोरेको धारिष्यते परस्त्यक्ष्यते। तदा ते पप्रच्छुः, हे प्रभो कुत्रेत्थं भविष्यति? ततः स उवाच, यत्र शवस्तिष्ठति तत्र गृध्रा मिलन्ति। पुनरेकदिनमध्ये यदि स तव सप्तकृत्वोऽपराध्यति किन्तु सप्तकृत्व आगत्य मनः परिवर्त्य मयापराद्धम् इति वदति तर्हि तं क्षमस्व।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 4:26-27

अपरं क्रोधे जाते पापं मा कुरुध्वम्, अशान्ते युष्माकं रोषेसूर्य्योऽस्तं न गच्छतु। अपरं शयताने स्थानं मा दत्त।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 10:3-4

यतः शरीरे चरन्तोऽपि वयं शारीरिकं युद्धं न कुर्म्मः। अस्माकं युद्धास्त्राणि च न शारीरिकानि किन्त्वीश्वरेण दुर्गभञ्जनाय प्रबलानि भवन्ति,

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:19-21

अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम् पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे। इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 18:21-22

तदानीं पितरस्तत्समीपमागत्य कथितवान् हे प्रभो, मम भ्राता मम यद्यपराध्यति, तर्हि तं कतिकृत्वः क्षमिष्ये? किं सप्तकृत्वः? यीशुस्तं जगाद, त्वां केवलं सप्तकृत्वो यावत् न वदामि, किन्तु सप्तत्या गुणितं सप्तकृत्वो यावत्।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 6:29

यदि कश्चित् तव कपोले चपेटाघातं करोति तर्हि तं प्रति कपोलम् अन्यं परावर्त्त्य सम्मुखीकुरु पुनश्च यदि कश्चित् तव गात्रीयवस्त्रं हरति तर्हि तं परिधेयवस्त्रम् अपि ग्रहीतुं मा वारय।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 15:1-2

बलवद्भिरस्माभि र्दुर्ब्बलानां दौर्ब्बल्यं सोढव्यं न च स्वेषाम् इष्टाचार आचरितव्यः। अपरमपि लिखितम् आस्ते, हे अन्यजातयो यूयं समं नन्दत तज्जनैः। पुनश्च लिखितम् आस्ते, हे सर्व्वदेशिनो यूयं धन्यं ब्रूत परेश्वरं। हे तदीयनरा यूयं कुरुध्वं तत्प्रशंसनं॥ अपर यीशायियोऽपि लिलेख, यीशयस्य तु यत् मूलं तत् प्रकाशिष्यते तदा। सर्व्वजातीयनृणाञ्च शासकः समुदेष्यति। तत्रान्यदेशिलोकैश्च प्रत्याशा प्रकरिष्यते॥ अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु। हे भ्रातरो यूयं सद्भावयुक्ताः सर्व्वप्रकारेण ज्ञानेन च सम्पूर्णाः परस्परोपदेशे च तत्परा इत्यहं निश्चितं जानामि, तथाप्यहं यत् प्रगल्भतरो भवन् युष्मान् प्रबोधयामि तस्यैकं कारणमिदं। भिन्नजातीयाः पवित्रेणात्मना पावितनैवेद्यरूपा भूत्वा यद् ग्राह्या भवेयुस्तन्निमित्तमहम् ईश्वरस्य सुसंवादं प्रचारयितुं भिन्नजातीयानां मध्ये यीशुख्रीष्टस्य सेवकत्वं दानं ईश्वरात् लब्धवानस्मि। ईश्वरं प्रति यीशुख्रीष्टेन मम श्लाघाकरणस्य कारणम् आस्ते। भिन्नदेशिन आज्ञाग्राहिणः कर्त्तुं ख्रीष्टो वाक्येन क्रियया च, आश्चर्य्यलक्षणैश्चित्रक्रियाभिः पवित्रस्यात्मनः प्रभावेन च यानि कर्म्माणि मया साधितवान्, केवलं तान्येव विनान्यस्य कस्यचित् कर्म्मणो वर्णनां कर्त्तुं प्रगल्भो न भवामि। तस्मात् आ यिरूशालम इल्लूरिकं यावत् सर्व्वत्र ख्रीष्टस्य सुसंवादं प्राचारयं। अस्माकम् एकैको जनः स्वसमीपवासिनो हितार्थं निष्ठार्थञ्च तस्यैवेष्टाचारम् आचरतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:13

यूयम् एकैकस्याचरणं सहध्वं येन च यस्य किमप्यपराध्यते तस्य तं दोषं स क्षमतां, ख्रीष्टो युष्माकं दोषान् यद्वद् क्षमितवान् यूयमपि तद्वत् कुरुध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 4:7-8

हे प्रियतमाः, वयं परस्परं प्रेम करवाम, यतः प्रेम ईश्वरात् जायते, अपरं यः कश्चित् प्रेम करोति स ईश्वरात् जात ईश्वरं वेत्ति च। यः प्रेम न करोति स ईश्वरं न जानाति यत ईश्वरः प्रेमस्वरूपः।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 12:14-15

अपरञ्च सर्व्वैः सार्थम् एेक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं। यथा कश्चिद् ईश्वरस्यानुग्रहात् न पतेत्, यथा च तिक्तताया मूलं प्ररुह्य बाधाजनकं न भवेत् तेन च बहवोऽपवित्रा न भवेयुः,

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:28

अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 7:12

यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:5

युष्माकं विनीतत्वं सर्व्वमानवै र्ज्ञायतां, प्रभुः सन्निधौ विद्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 4:8

विशेषतः परस्परं गाढं प्रेम कुरुत, यतः, पापानामपि बाहुल्यं प्रेम्नैवाच्छादयिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 4:18-19

प्रेम्नि भीति र्न वर्त्तते किन्तु सिद्धं प्रेम भीतिं निराकरोति यतो भीतिः सयातनास्ति भीतो मानवः प्रेम्नि सिद्धो न जातः। अस्मासु स प्रथमं प्रीतवान् इति कारणाद् वयं तस्मिन् प्रीयामहे।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:31

इत्यत्र वयं किं ब्रूमः? ईश्वरो यद्यस्माकं सपक्षो भवति तर्हि को विपक्षोऽस्माकं?

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 12:36-37

किन्त्वहं युष्मान् वदामि, मनुजा यावन्त्यालस्यवचांसि वदन्ति, विचारदिने तदुत्तरमवश्यं दातव्यं, यतस्त्वं स्वीयवचोभि र्निरपराधः स्वीयवचोभिश्च सापराधो गणिष्यसे।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 6:36

अत एव स यथा दयालु र्यूयमपि तादृशा दयालवो भवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 1:3-4

कृपालुः पिता सर्व्वसान्त्वनाकारीश्वरश्च योऽस्मत्प्रभोर्यीशुख्रीष्टस्य तात ईश्वरः स धन्यो भवतु। यतो वयम् ईश्वरात् सान्त्वनां प्राप्य तया सान्त्वनया यत् सर्व्वविधक्लिष्टान् लोकान् सान्त्वयितुं शक्नुयाम तदर्थं सोऽस्माकं सर्व्वक्लेशसमयेऽस्मान् सान्त्वयति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 7:1-2

यथा यूयं दोषीकृता न भवथ, तत्कृतेऽन्यं दोषिणं मा कुरुत। मीने याचिते च तस्मै भुजगं वितरति, एतादृशः पिता युष्माकं मध्ये क आस्ते? तस्माद् यूयम् अभद्राः सन्तोऽपि यदि निजबालकेभ्य उत्तमं द्रव्यं दातुं जानीथ, तर्हि युष्माकं स्वर्गस्थः पिता स्वीययाचकेभ्यः किमुत्तमानि वस्तूनि न दास्यति? यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्। सङ्कीर्णद्वारेण प्रविशत; यतो नरकगमनाय यद् द्वारं तद् विस्तीर्णं यच्च वर्त्म तद् बृहत् तेन बहवः प्रविशन्ति। अपरं स्वर्गगमनाय यद् द्वारं तत् कीदृक् संकीर्णं। यच्च वर्त्म तत् कीदृग् दुर्गमम्। तदुद्देष्टारः कियन्तोऽल्पाः। अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ। मनुजाः किं कण्टकिनो वृक्षाद् द्राक्षाफलानि शृगालकोलितश्च उडुम्बरफलानि शातयन्ति? तद्वद् उत्तम एव पादप उत्तमफलानि जनयति, अधमपादपएवाधमफलानि जनयति। किन्तूत्तमपादपः कदाप्यधमफलानि जनयितुं न शक्नोति, तथाधमोपि पादप उत्तमफलानि जनयितुं न शक्नोति। अपरं ये ये पादपा अधमफलानि जनयन्ति, ते कृत्ता वह्नौ क्षिप्यन्ते। यतो यादृशेन दोषेण यूयं परान् दोषिणः कुरुथ, तादृशेन दोषेण यूयमपि दोषीकृता भविष्यथ, अन्यञ्च येन परिमाणेन युष्माभिः परिमीयते, तेनैव परिमाणेन युष्मत्कृते परिमायिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 13:34-35

यूयं परस्परं प्रीयध्वम् अहं युष्मासु यथा प्रीये यूयमपि परस्परम् तथैव प्रीयध्वं, युष्मान् इमां नवीनाम् आज्ञाम् आदिशामि। तेनैव यदि परस्परं प्रीयध्वे तर्हि लक्षणेनानेन यूयं मम शिष्या इति सर्व्वे ज्ञातुं शक्ष्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 4:31-32

अपरं कटुवाक्यं रोषः कोषः कलहो निन्दा सर्व्वविधद्वेषश्चैतानि युष्माकं मध्याद् दूरीभवन्तु। यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:21

कुक्रियया पराजिता न सन्त उत्तमक्रियया कुक्रियां पराजयत।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

करुणामय परमेश्वर, मम आत्मा त्वां स्तौति, भवतः प्रेमकृपाभ्यां मम जीवने यत् प्रकाशं ददासि तस्मै धन्यवादः। भवतः करुणापूर्णहस्तः मां धारयति, आंध्यात् मध्ये शान्तिं प्रददाति, तस्मै धन्यवादः। प्रतिदिनं मम कृते यत् करोषि तस्मै धन्यवादः। हे पवित्रात्मन्, मम प्रार्थनायां मां मार्गदर्शनं कुरु, येन मम हृदये प्रतिशोधस्य भावना न जायेत, शान्तिं प्राप्नुयाम्। क्षमा एव आरोग्यस्य, द्वेषमुक्तेः मार्गः इति मां बोधय। त्वमेव सर्वोच्च न्यायाधीशः, भवतः न्याये विश्वासः प्रतिशोधात् श्रेष्ठः इति मां स्मारय। कृपया मम हृदये करुणा, दया च संचारयतु येन सर्वान् प्रेमभावेन द्रष्टुं शक्नुयामि। भवतः असीमप्रेम मां पूरयतु, येन क्रोधेन न, प्रेम्णा विपत्तीनां सामनां कर्तुं शक्नुयामि। मम प्रतिशोधस्य इच्छां भवतः चरणयोः समर्पयामि, तां करुणायां, दयायां च परिवर्तयतु। भवतः सततसान्निध्यं, नकारात्मकभावानां निवारणं कृते धन्यवादः। येशोः नाम्नि, आमीन।

उपवर्ग

अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्