भवतः जीवनयात्रायां सुखदुःखमयीनि विविधानि परिस्थितीनि आगमिष्यन्ति। भूमण्डले विचरणशीलः परिपूर्णतमः भद्रतमश्च येशुः अपि स्वजीवने दुःखदायकानां क्षणानि अनुभूतवान्। सः प्रलुब्धः, अवमानितः, तिरस्कृतः, उपहासितश्च। तथापि एतेषां कोऽपि अनुभवः मानवजातिं प्रति तस्य प्रेम न परिवर्तितवान्। शापं दातुं स्थाने सः अस्मान् अनन्तप्रेम्णा प्रेम कृतवान्, पितरं च अस्माकं दुष्टतायाः क्षमां याचितवान्।
बहवः जनाः भवन्तं पीडयितुं, आक्रष्टुं, उपहसितुं च चेष्टिष्यन्ति, भवतः स्वप्नान् योजनाश्च उपहास्यं कर्तुं वा प्रयतिष्यन्ति इति स्मर्तव्यम्। केषुचित् क्षणेषु भवान् निरुत्साहः भविष्यति, अपमानकारणात् लोकात् अन्तर्धानं वा इच्छिष्यति। तथापि अद्य अहं भवन्तं प्रोत्साहयितुम् एताः पङ्क्तीः लिखामि। यद्यपि केचन भवन्तम् उपहसन्ति, तथापि ईश्वरस्य भवद्विषये किं चिन्तनमस्ति इति ज्ञातुं महत्त्वपूर्णम्। तस्मै भवान् अद्भुतसृष्टिः अस्ति, तस्य च वचनम् अस्ति - "निश्चयेन सः उपहासकानाम् उपहासं करिष्यति, विनीतेभ्यः च अनुग्रहं दास्यति" (नीतिवचनम् ३:३४)।
अन्ये किं वदन्ति कुर्वन्ति वा इति चिन्तां मा कुरु। ईश्वरः दोषिणं निर्दोषं न गणयिष्यति। तस्य वचने विश्वासं कुरु, तस्मिन् विश्रामं कुरु, तस्य च शक्तिशालीहस्तः भवतः सर्वेभ्यः पीडकैः रक्षतु। भवन्तं भयभीतं कर्तुं शत्रोः योजने मा पराजयस्व। येशौ भवन्तं बलवन्तं कुर्वति, तस्य नाम्नि च भवान् विजयी अस्ति इति स्मर।
युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते।
तदा श्मशानाद् उत्थानस्य कथां श्रुत्वा केचिद् उपाहमन्, केचिदवदन् एनां कथां पुनरपि त्वत्तः श्रोष्यामः।
तस्यमां कथां निशम्य फीष्ट उच्चैः स्वरेण कथितवान् हे पौल त्वम् उन्मत्तोसि बहुविद्याभ्यासेन त्वं हतज्ञानो जातः।
तदनन्तरं यीशु र्यिरूशालम्नगरं गच्छन् मार्गमध्ये शिष्यान् एकान्ते वभाषे, पश्य वयं यिरूशालम्नगरं यामः, तत्र प्रधानयाजकाध्यापकानां करेषु मनुष्यपुत्रः समर्पिष्यते; ते च तं हन्तुमाज्ञाप्य तिरस्कृत्य वेत्रेण प्रहर्त्तुं क्रुशे धातयितुञ्चान्यदेशीयानां करेषु समर्पयिष्यन्ति, किन्तु स तृतीयदिवसे श्मशानाद् उत्थापिष्यते।
अनन्तरं स द्वादशशिष्यानाहूय बभाषे, पश्यत वयं यिरूशालम्नगरं यामः, तस्मात् मनुष्यपुत्रे भविष्यद्वादिभिरुक्तं यदस्ति तदनुरूपं तं प्रति घटिष्यते;
तदा यै र्यीशुर्धृतस्ते तमुपहस्य प्रहर्त्तुमारेभिरे। वस्त्रेण तस्य दृशौ बद्ध्वा कपोले चपेटाघातं कृत्वा पप्रच्छुः, कस्ते कपोले चपेटाघातं कृतवान? गणयित्वा तद् वद। तदन्यत् तद्विरुद्धं बहुनिन्दावाक्यं वक्तुमारेभिरे।
हेरोद् तस्य सेनागणश्च तमवज्ञाय उपहासत्वेन राजवस्त्रं परिधाप्य पुनः पीलातं प्रति तं प्राहिणोत्।
किञ्च प्रधानयाजका अध्यापकाश्च तद्वत् तिरस्कृत्य परस्परं चचक्षिरे एष परानावत् किन्तु स्वमवितुं न शक्नोति। यदीस्रायेलो राजाभिषिक्तस्त्राता भवति तर्ह्यधुनैन क्रुशादवरोहतु वयं तद् दृष्ट्वा विश्वसिष्यामः; किञ्च यौ लोकौ तेन सार्द्धं क्रुशे ऽविध्येतां तावपि तं निर्भर्त्सयामासतुः।
तत्र लोकसंघस्तिष्ठन् ददर्श; ते तेषां शासकाश्च तमुपहस्य जगदुः, एष इतरान् रक्षितवान् यदीश्वरेणाभिरुचितो ऽभिषिक्तस्त्राता भवति तर्हि स्वमधुना रक्षतु।
येयं कथा भविष्यद्वादिनां ग्रन्थेषु लिखितास्ते सावधाना भवत स कथा यथा युष्मान् प्रति न घटते।
किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो भविष्यति।
कण्टकानां मुकुटं निर्म्माय तच्छिरसि ददुः, तस्य दक्षिणकरे वेत्रमेकं दत्त्वा तस्य सम्मुखे जानूनि पातयित्वा, हे यिहूदीयानां राजन्, तुभ्यं नम इत्युक्त्वा तं तिरश्चक्रुः,
अथ यीशुश्चतुर्दिशो निरीक्ष्य शिष्यान् अवादीत्, धनिलोकानाम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः।
यदा लोका मनुष्यसूनो र्नामहेतो र्युष्मान् ऋृतीयिष्यन्ते पृथक् कृत्वा निन्दिष्यन्ति, अधमानिव युष्मान् स्वसमीपाद् दूरीकरिष्यन्ति च तदा यूयं धन्याः।
किन्तु त्वं निजं भ्रातरं कुतो दूषयसि? तथा त्वं निजं भ्रातरं कुतस्तुच्छं जानासि? ख्रीष्टस्य विचारसिंहासनस्य सम्मुखे सर्व्वैरस्माभिरुपस्थातव्यं;
यतो हेतो र्ये विनश्यन्ति ते तां क्रुशस्य वार्त्तां प्रलापमिव मन्यन्ते किञ्च परित्राणं लभमानेष्वस्मासु सा ईश्वरीयशक्तिस्वरूपा।
ख्रीष्टस्य कृते वयं मूढाः किन्तु यूयं ख्रीष्टेन ज्ञानिनः, वयं दुर्ब्बला यूयञ्च सबलाः, यूयं सम्मानिता वयञ्चापमानिताः।
मृत्युदशातः ख्रीष्ट उत्थापित इति वार्त्ता यदि तमधि घोष्यते तर्हि मृतलोकानाम् उत्थिति र्नास्तीति वाग् युष्माकं मध्ये कैश्चित् कुतः कथ्यते? मृतानाम् उत्थिति र्यदि न भवेत् तर्हि ख्रीष्टोऽपि नोत्थापितः ख्रीष्टश्च यद्यनुत्थापितः स्यात् तर्ह्यस्माकं घोषणं वितथं युष्माकं विश्वासोऽपि वितथः।
युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते। स्वशरीरार्थं येन बीजम् उप्यते तेन शरीराद् विनाशरूपं शस्यं लप्स्यते किन्त्वात्मनः कृते येन बीजम् उप्यते तेनात्मतोऽनन्तजीवितरूपं शस्यं लप्स्यते।
अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।
युष्माकम् आलापः सर्व्वदानुग्रहसूचको लवणेन सुस्वादुश्च भवतु यस्मै यदुत्तरं दातव्यं तद् युष्माभिरवगम्यतां।
अतएव हे मम प्रियभ्रातरः, युष्माकम् एकैको जनः श्रवणे त्वरितः कथने धीरः क्रोधेऽपि धीरो भवतु। हे मम भ्रातरः, यूयं यदा बहुविधपरीक्षाषु निपतत तदा तत् पूर्णानन्दस्य कारणं मन्यध्वं। यतो मानवस्य क्रोध ईश्वरीयधर्म्मं न साधयति।
हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचारञ्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि। अद्वितीयो व्यवस्थापको विचारयिता च स एवास्ते यो रक्षितुं नाशयितुञ्च पारयति। किन्तु कस्त्वं यत् परस्य विचारं करोषि?
इत्थं तं तिरस्कृत्य तद् वसनं मोचयित्वा पुनर्निजवसनं परिधापयाञ्चक्रुः, तं क्रुशेन वेधितुं नीतवन्तः।
कर्णेजपा अपवादिन ईश्वरद्वेषका हिंसका अहङ्कारिण आत्मश्लाघिनः कुकर्म्मोत्पादकाः पित्रोराज्ञालङ्घका
किन्तु यूयं यदि परस्परं दंदश्यध्वे ऽशाश्यध्वे च तर्हि युष्माकम् एकोऽन्येन यन्न ग्रस्यते तत्र युष्माभिः सावधानै र्भवितव्यं।
तद्वद् रसनापि क्षुद्रतराङ्गं सन्ती दर्पवाक्यानि भाषते। पश्य कीदृङ्महारण्यं दह्यते ऽल्पेन वह्निना। रसनापि भवेद् वह्निरधर्म्मरूपपिष्टपे। अस्मदङ्गेषु रसना तादृशं सन्तिष्ठति सा कृत्स्नं देहं कलङ्कयति सृष्टिरथस्य चक्रं प्रज्वलयति नरकानलेन ज्वलति च।
किन्त्वहं युष्मान् वदामि, मनुजा यावन्त्यालस्यवचांसि वदन्ति, विचारदिने तदुत्तरमवश्यं दातव्यं, यतस्त्वं स्वीयवचोभि र्निरपराधः स्वीयवचोभिश्च सापराधो गणिष्यसे।
ततः स उवाच, यूयं मनुष्याणां निकटे स्वान् निर्दोषान् दर्शयथ किन्तु युष्माकम् अन्तःकरणानीश्वरो जानाति, यत् मनुष्याणाम् अति प्रशंस्यं तद् ईश्वरस्य घृण्यं।
इत्थं त ईश्वरस्य सत्यतां विहाय मृषामतम् आश्रितवन्तः सच्चिदानन्दं सृष्टिकर्त्तारं त्यक्त्वा सृष्टवस्तुनः पूजां सेवाञ्च कृतवन्तः; इति हेतोरीश्वरस्तान् कुक्रियायां समर्प्य निजनिजकुचिन्ताभिलाषाभ्यां स्वं स्वं शरीरं परस्परम् अपमानितं कर्त्तुम् अददात्।
किन्तु वेश्यागमनं सर्व्वविधाशौचक्रिया लोभश्चैतेषाम् उच्चारणमपि युष्माकं मध्ये न भवतु, एतदेव पवित्रलोकानाम् उचितं। यतो वयं तस्य शरीरस्याङ्गानि मांसास्थीनि च भवामः। एतदर्थं मानवः स्वमातापितरोै परित्यज्य स्वभार्य्यायाम् आसंक्ष्यति तौ द्वौ जनावेकाङ्गौ भविष्यतः। एतन्निगूढवाक्यं गुरुतरं मया च ख्रीष्टसमिती अधि तद् उच्यते। अतएव युष्माकम् एकैको जन आत्मवत् स्वयोषिति प्रीयतां भार्य्यापि स्वामिनं समादर्त्तुं यततां। अपरं कुत्सितालापः प्रलापः श्लेषोक्तिश्च न भवतु यत एतान्यनुचितानि किन्त्वीश्वरस्य धन्यवादो भवतु।
किन्त्विदानीं क्रोधो रोषो जिहिंसिषा दुर्मुखता वदननिर्गतकदालपश्चैतानि सर्व्वाणि दूरीकुरुध्वं।
तन्नहि किन्तु स प्रतुलं वरं वितरति तस्माद् उक्तमास्ते यथा, आत्माभिमानलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः॥
अनिष्टस्य परिशोधेनानिष्टं निन्दाया वा परिशोधेन निन्दां न कुर्व्वन्त आशिषं दत्त यतो यूयम् आशिरधिकारिणो भवितुमाहूता इति जानीथ।
किन्त्वहं युष्मान् वदामि यूयं हिंसकं नरं मा व्याघातयत। किन्तु केनचित् तव दक्षिणकपोले चपेटाघाते कृते तं प्रति वामं कपोलञ्च व्याघोटय।
अपरं कटुवाक्यं रोषः कोषः कलहो निन्दा सर्व्वविधद्वेषश्चैतानि युष्माकं मध्याद् दूरीभवन्तु।
कोपि स्वं न वञ्चयतां। युष्माकं कश्चन चेदिहलोकस्य ज्ञानेन ज्ञानवानहमिति बुध्यते तर्हि स यत् ज्ञानी भवेत् तदर्थं मूढो भवतु। यस्मादिहलोकस्य ज्ञानम् ईश्वरस्य साक्षात् मूढत्वमेव। एतस्मिन् लिखितमप्यास्ते, तीक्ष्णा या ज्ञानिनां बुद्धिस्तया तान् धरतीश्वरः।
हे भ्रातरः, युष्माकं कश्चिद् यदि कस्मिंश्चित् पापे पतति तर्ह्यात्मिकभावयुक्तै र्युष्माभिस्तितिक्षाभावं विधाय स पुनरुत्थाप्यतां यूयमपि यथा तादृक्परीक्षायां न पतथ तथा सावधाना भवत। अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः। हे भ्रातरः, अहं स्वहस्तेन युष्मान् प्रति कियद्वृहत् पत्रं लिखितवान् तद् युष्माभि र्दृश्यतां। ये शारीरिकविषये सुदृश्या भवितुमिच्छन्ति ते यत् ख्रीष्टस्य क्रुशस्य कारणादुपद्रवस्य भागिनो न भवन्ति केवलं तदर्थं त्वक्छेदे युष्मान् प्रवर्त्तयन्ति। ते त्वक्छेदग्राहिणोऽपि व्यवस्थां न पालयन्ति किन्तु युष्मच्छरीरात् श्लाघालाभार्थं युष्माकं त्वक्छेदम् इच्छन्ति। किन्तु येनाहं संसाराय हतः संसारोऽपि मह्यं हतस्तदस्मत्प्रभो र्यीशुख्रीष्टस्य क्रुशं विनान्यत्र कुत्रापि मम श्लाघनं कदापि न भवतु। ख्रीष्टे यीशौ त्वक्छेदात्वक्छेदयोः किमपि गुणं नास्ति किन्तु नवीना सृष्टिरेव गुणयुक्ता। अपरं यावन्तो लोका एतस्मिन् मार्गे चरन्ति तेषाम् ईश्वरीयस्य कृत्स्नस्येस्रायेलश्च शान्ति र्दयालाभश्च भूयात्। इतः परं कोऽपि मां न क्लिश्नातु यस्माद् अहं स्वगात्रे प्रभो र्यीशुख्रीष्टस्य चिह्नानि धारये। हे भ्रातरः अस्माकं प्रभो र्यीशुख्रीष्टस्य प्रसादो युष्माकम् आत्मनि स्थेयात्। तथास्तु। युष्माकम् एकैको जनः परस्य भारं वहत्वनेन प्रकारेण ख्रीष्टस्य विधिं पालयत।
विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं। यतो मम सेवने युष्माकं त्रुटिं पूरयितुं स प्राणान् पणीकृत्य ख्रीष्टस्य कार्य्यार्थं मृतप्रायेऽभवत्। केवलम् आत्महिताय न चेष्टमानाः परहितायापि चेष्टध्वं।