भगवते समर्पितं जीवनम्, इदमेव सः अस्माकं प्रत्येकस्मात् अपेक्षते। येशुः स्वशिष्यान् उपदिष्टवान् यत् न मुखे प्रविशत् किञ्चित् मनुष्यं कलुषयति, अपि तु हृदयात् निर्गच्छत्।
अधुना वयं सुष्ठु जानीमः यत् जगत् विकृतं जातम्। दुष्टता अनैतिकता च पृथिव्याम् अभिव्यक्ता भवति। अत एव अस्माभिः सतर्कैः भवितव्यम् येन न वयं तानि कार्याणि कुर्मः यानि भगवतः दृष्टौ न रोचन्ते।
जानीहि यत् मानवहृदयं विविधैः कारणैः दूषितं भवितुम् अर्हति, यानि चारित्र्यं भावनाः च प्रभावयन्ति। यथा - ईर्ष्या, द्वेषः, नकारात्मकाः विचाराः, दर्पः, अहङ्कारः, आडम्बरः, गर्वः, असत्यं च। एतानि सर्वाणि सहजतया अस्माकं हृदयं दूषयितुं शक्नुवन्ति, भगवतः सान्निध्यात् च दूरयितुम्।
हृदयस्य दूषणं विविधैः प्रकारैः प्रकटितं भवितुम् अर्हति। यथा - अपकारिणां प्रति क्षमाभावः, धनसत्तायाः दुष्कामा, परपीडायाम् उदासीनता, प्रतिशोधकामना, भगवतः आह्वाने उदासीनता, तस्य इच्छायाः अनुपालने अनिच्छा च।
अद्य अहं स्नेहेन त्वाम् आह्वयामि यत् त्वं शुद्धं रोचकं च जीवनं यापयितुं सङ्कल्पं कुर्याः। भगवतः समीपे गत्वा हृदयात् सर्वाणि दूषणानि निष्कासय, यानि त्वां तस्य सान्निध्यात् दूरयन्ति। यद्यपि तव पापानि रक्तवर्णानि स्युः, तथापि येशोः रक्तेन तानि शुक्लवर्णानि भविष्यन्ति। अतः उत्थाय पवित्रतया वर्तस्व येन तव आत्मा मुक्ता भवेत्।
देवताप्रसादाशुचिभक्ष्यं व्यभिचारकर्म्म कण्ठसम्पीडनमारितप्राणिभक्ष्यं रक्तभक्ष्यञ्च एतानि परित्यक्तुं लिखामः।
अतएव हे प्रियतमाः, एतादृशीः प्रतिज्ञाः प्राप्तैरस्माभिः शरीरात्मनोः सर्व्वमालिन्यम् अपमृज्येश्वरस्य भक्त्या पवित्राचारः साध्यतां।
अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।
अतो हेतोः परमेश्वरः कथयति यूयं तेषां मध्याद् बहिर्भूय पृथग् भवत, किमप्यमेध्यं न स्पृशत; तेनाहं युष्मान् ग्रहीष्यामि,
हे व्यभिचारिणो व्यभिचारिण्यश्च, संसारस्य यत् मैत्र्यं तद् ईश्वरस्य शात्रवमिति यूयं किं न जानीथ? अत एव यः कश्चित् संसारस्य मित्रं भवितुम् अभिलषति स एवेश्वरस्य शत्रु र्भवति।
अतो हेतो र्यूयं सर्व्वाम् अशुचिक्रियां दुष्टताबाहुल्यञ्च निक्षिप्य युष्मन्मनसां परित्राणे समर्थं रोपितं वाक्यं नम्रभावेन गृह्लीत।
अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम् पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे। इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।
अपरमप्यवादीद् यन्नरान्निरेति तदेव नरममेध्यं करोति। यतोऽन्तराद् अर्थान् मानवानां मनोभ्यः कुचिन्ता परस्त्रीवेश्यागमनं नरवधश्चौर्य्यं लोभो दुष्टता प्रवञ्चना कामुकता कुदृष्टिरीश्वरनिन्दा गर्व्वस्तम इत्यादीनि निर्गच्छन्ति। एतानि सर्व्वाणि दुरितान्यन्तरादेत्य नरममेध्यं कुर्व्वन्ति।
युष्माकं यानि वपूंसि तानि युष्मदन्तःस्थितस्येश्वराल्लब्धस्य पवित्रस्यात्मनो मन्दिराणि यूयञ्च स्वेषां स्वामिनो नाध्वे किमेतद् युष्माभि र्न ज्ञायते? जगतोऽपि विचारणं पवित्रलोकैः कारिष्यत एतद् यूयं किं न जानीथ? अतो जगद् यदि युष्माभि र्विचारयितव्यं तर्हि क्षुद्रतमविचारेषु यूयं किमसमर्थाः? यूयं मूल्येन क्रीता अतो वपुर्मनोभ्याम् ईश्वरो युष्माभिः पूज्यतां यत ईश्वर एव तयोः स्वामी।
हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं।
यदि स्वपापानि स्वीकुर्म्महे तर्हि स विश्वास्यो याथार्थिकश्चास्ति तस्माद् अस्माकं पापानि क्षमिष्यते सर्व्वस्माद् अधर्म्माच्चास्मान् शुद्धयिष्यति।
यूयं संसारे संसारस्थविषयेषु च मा प्रीयध्वं यः संसारे प्रीयते तस्यान्तरे पितुः प्रेम न तिष्ठति। यतः संसारे यद्यत् स्थितम् अर्थतः शारीरिकभावस्याभिलाषो दर्शनेन्द्रियस्याभिलाषो जीवनस्य गर्व्वश्च सर्व्वमेतत् पितृतो न जायते किन्तु संसारदेव। संसारस्तदीयाभिलाषश्च व्यत्येति किन्तु य ईश्वरस्येष्टं करोति सो ऽनन्तकालं यावत् तिष्ठति।
ईश्वरस्य समीपवर्त्तिनो भवत तेन स युष्माकं समीपवर्त्ती भविष्यति। हे पापिनः, यूयं स्वकरान् परिष्कुरुध्वं। हे द्विमनोलोकाः, यूयं स्वान्तःकरणानि शुचीनि कुरुध्वं।
यतः स यथास्मान् सर्व्वस्माद् अधर्म्मात् मोचयित्वा निजाधिकारस्वरूपं सत्कर्म्मसूत्सुकम् एकं प्रजावर्गं पावयेत् तदर्थम् अस्माकं कृते आत्मदानं कृतवान्।
यौवनावस्थाया अभिलाषास्त्वया परित्यज्यन्तां धर्म्मो विश्वासः प्रेम ये च शुचिमनोभिः प्रभुम् उद्दिश्य प्रार्थनां कुर्व्वते तैः सार्द्धम् ऐक्यभावश्चैतेषु त्वया यत्नो विधीयतां।
अतएव कुतो विलम्बसे? प्रभो र्नाम्ना प्रार्थ्य निजपापप्रक्षालनार्थं मज्जनाय समुत्तिष्ठ।
त्रातुः प्रभो र्यीशुख्रीष्टस्य ज्ञानेन संसारस्य मलेभ्य उद्धृता ये पुनस्तेषु निमज्ज्य पराजीयन्ते तेषां प्रथमदशातः शेषदशा कुत्सिता भवति।
किन्तु भ्रातृत्वेन विख्यातः कश्चिज्जनो यदि व्यभिचारी लोभी देवपूजको निन्दको मद्यप उपद्रावी वा भवेत् तर्हि तादृशेन मानवेन सह भोजनपानेऽपि युष्माभि र्न कर्त्तव्ये इत्यधुना मया लिखितं।
मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।
अतो वेश्यागमनम् अशुचिक्रिया रागः कुत्सिताभिलाषो देवपूजातुल्यो लोभश्चैतानि र्पािथवपुरुषस्याङ्गानि युष्माभि र्निहन्यन्तां।
हे प्रियतमाः, यूयं प्रवासिनो विदेशिनश्च लोका इव मनसः प्रातिकूल्येन योधिभ्यः शारीरिकसुखाभिलाषेभ्यो निवर्त्तध्वम् इत्यहं विनये।
तस्मात् पूर्व्वकालिकाचारकारी यः पुरातनपुरुषो मायाभिलाषै र्नश्यति तं त्यक्त्वा युष्माभि र्मानसिकभावो नूतनीकर्त्तव्यः, यो नवपुरुष ईश्वरानुरूपेण पुण्येन सत्यतासहितेन धार्म्मिकत्वेन च सृष्टः स एव परिधातव्यश्च।
अपरञ्च सर्व्वैः सार्थम् एेक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं।
अल्पवयष्कत्वात् केनाप्यवज्ञेयो न भव किन्त्वालापेनाचरणेन प्रेम्ना सदात्मत्वेन विश्वासेन शुचित्वेन च विश्वासिनाम् आदर्शो भव।
क्लेशकाले पितृहीनानां विधवानाञ्च यद् अवेक्षणं संसाराच्च निष्कलङ्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः।
यन्मुखं प्रविशति, तत् मनुजम् अमेध्यं न करोति, किन्तु यदास्यात् निर्गच्छति, तदेव मानुषममेध्यी करोती।
त्वं जगतस्तान् गृहाणेति न प्रार्थये किन्त्वशुभाद् रक्षेति प्रार्थयेहम्। अहं यथा जगत्सम्बन्धीयो न भवामि तथा तेपि जगत्सम्बन्धीया न भवन्ति।
यदा मनुजा मम नामकृते युष्मान् निन्दन्ति ताडयन्ति मृषा नानादुर्व्वाक्यानि वदन्ति च, तदा युयं धन्याः।
अपरञ्च कुत्सिताभिलाषाान् पूरयितुं युष्माकं मर्त्यदेहेषु पापम् आधिपत्यं न करोतु। अपरं स्वं स्वम् अङ्गम् अधर्म्मस्यास्त्रं कृत्वा पापसेवायां न समर्पयत, किन्तु श्मशानाद् उत्थितानिव स्वान् ईश्वरे समर्पयत स्वान्यङ्गानि च धर्म्मास्त्रस्वरूपाणीश्वरम् उद्दिश्य समर्पयत।
किन्तु वेश्यागमनं सर्व्वविधाशौचक्रिया लोभश्चैतेषाम् उच्चारणमपि युष्माकं मध्ये न भवतु, एतदेव पवित्रलोकानाम् उचितं।
विवाहः सर्व्वेषां समीपे सम्मानितव्यस्तदीयशय्या च शुचिः किन्तु वेश्यागामिनः पारदारिकाश्चेश्वरेण दण्डयिष्यन्ते।
ईश्वरस्यायम् अभिलाषो यद् युष्माकं पवित्रता भवेत्, यूयं व्यभिचाराद् दूरे तिष्ठत। युष्माकम् एकैको जनः स्वकीयं प्राणाधारं पवित्रं मान्यञ्च रक्षतु,
अस्मान् परीक्षां मानय, किन्तु पापात्मनो रक्ष; राजत्वं गौरवं पराक्रमः एते सर्व्वे सर्व्वदा तव; तथास्तु।
यूयम् ईश्वरस्य मन्दिरं युष्मन्मध्ये चेश्वरस्यात्मा निवसतीति किं न जानीथ? ईश्वरस्य मन्दिरं येन विनाश्यते सोऽपीश्वरेण विनाशयिष्यते यत ईश्वरस्य मन्दिरं पवित्रमेव यूयं तु तन्मन्दिरम् आध्वे।
केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति।
शारीरिकभावस्य फलं मृत्युः किञ्चात्मिकभावस्य फले जीवनं शान्तिश्च। यतः शारीरिकभाव ईश्वरस्य विरुद्धः शत्रुताभाव एव स ईश्वरस्य व्यवस्थाया अधीनो न भवति भवितुञ्च न शक्नोति। एतस्मात् शारीरिकाचारिषु तोष्टुम् ईश्वरेण न शक्यं।
अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।
मनोभिः किन्तु मन्यध्वं पवित्रं प्रभुमीश्वरं। अपरञ्च युष्माकम् आन्तरिकप्रत्याशायास्तत्त्वं यः कश्चित् पृच्छति तस्मै शान्तिभीतिभ्याम् उत्तरं दातुं सदा सुसज्जा भवत। ये च ख्रीष्टधर्म्मे युष्माकं सदाचारं दूषयन्ति ते दुष्कर्म्मकारिणामिव युष्माकम् अपवादेन यत् लज्जिता भवेयुस्तदर्थं युष्माकम् उत्तमः संवेदो भवतु।
इत्थं सति वयम् अद्यारभ्य परस्परं न दूषयन्तः स्वभ्रातु र्विघ्नो व्याघातो वा यन्न जायेत तादृशीमीहां कुर्म्महे।
अतो युष्माकं या क्षमता सा दुर्ब्बलानाम् उन्माथस्वरूपा यन्न भवेत् तदर्थं सावधाना भवत।
य ईश्वरात् जातः स पापाचारं न करोति किन्त्वीश्वरात् जातो जनः स्वं रक्षति तस्मात् स पापात्मा तं न स्पृशतीति वयं जानीमः।
स चास्मान् इदं शिक्ष्यति यद् वयम् अधर्म्मं सांसारिकाभिलाषांश्चानङ्गीकृत्य विनीतत्वेन न्यायेनेश्वरभक्त्या चेहलोके आयु र्यापयामः,
स्वशरीरार्थं येन बीजम् उप्यते तेन शरीराद् विनाशरूपं शस्यं लप्स्यते किन्त्वात्मनः कृते येन बीजम् उप्यते तेनात्मतोऽनन्तजीवितरूपं शस्यं लप्स्यते।
यः कश्चिद् ईश्वरात् जातः स पापाचारं न करोति यतस्तस्य वीर्य्यं तस्मिन् तिष्ठति पापाचारं कर्त्तुञ्च न शक्नोति यतः स ईश्वरात् जातः।
यतो मयि, अर्थतो मम शरीरे, किमप्युत्तमं न वसति, एतद् अहं जानामि; ममेच्छुकतायां तिष्ठन्त्यामप्यहम् उत्तमकर्म्मसाधने समर्थो न भवामि।
इतरान् प्रति सुसंवादं घोषयित्वाहं यत् स्वयमग्राह्यो न भवामि तदर्थं देहम् आहन्मि वशीकुर्व्वे च।
अतएव हे प्रियतमाः, तानि प्रतीक्षमाणा यूयं निष्कलङ्का अनिन्दिताश्च भूत्वा यत् शान्त्याश्रितास्तिष्ठथैतस्मिन् यतध्वं।
अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।
अतो हेतो र्वयं दिवा विहितं सदाचरणम् आचरिष्यामः। रङ्गरसो मत्तत्वं लम्पटत्वं कामुकत्वं विवाद ईर्ष्या चैतानि परित्यक्ष्यामः।
हे बालकाः, यूयम् ईश्वरात् जातास्तान् जितवन्तश्च यतः संसाराधिष्ठानकारिणो ऽपि युष्मदधिष्ठानकारी महान्।
तत्सर्व्वेण चास्मभ्यं तादृशा बहुमूल्या महाप्रतिज्ञा दत्ता याभि र्यूयं संसारव्याप्तात् कुत्सिताभिलाषमूलात् सर्व्वनाशाद् रक्षां प्राप्येश्वरीयस्वभावस्यांशिनो भवितुं शक्नुथ।
अतो हेतोरस्माभिः सरलान्तःकरणै र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज्ञा निश्चला धारयितव्या।
यूयं सावधाना भूत्वा ख्रीष्टस्य सुसंवादस्योपयुक्तम् आचारं कुरुध्वं यतोऽहं युष्मान् उपागत्य साक्षात् कुर्व्वन् किं वा दूरे तिष्ठन् युष्माकं यां वार्त्तां श्रोतुम् इच्छामि सेयं यूयम् एकात्मानस्तिष्ठथ, एकमनसा सुसंवादसम्बन्धीयविश्वासस्य पक्षे यतध्वे, विपक्षैश्च केनापि प्रकारेण न व्याकुलीक्रियध्व इति।
युष्माकं शारीरिक्या दुर्ब्बलताया हेतो र्मानववद् अहम् एतद् ब्रवीमि; पुनः पुनरधर्म्मकरणार्थं यद्वत् पूर्व्वं पापामेध्ययो र्भृत्यत्वे निजाङ्गानि समार्पयत तद्वद् इदानीं साधुकर्म्मकरणार्थं धर्म्मस्य भृत्यत्वे निजाङ्गानि समर्पयत।
मानवा यान्यन्यानि कलुषाणि कुर्व्वते तानि वपु र्न समाविशन्ति किन्तु व्यभिचारिणा स्वविग्रहस्य विरुद्धं कल्मषं क्रियते।
ईश्वरे ममासक्तत्वाद् अहं युष्मानधि तपे यस्मात् सतीं कन्यामिव युष्मान् एकस्मिन् वरेऽर्थतः ख्रीष्टे समर्पयितुम् अहं वाग्दानम् अकार्षं।
अतो ऽपरे यथा निद्रागताः सन्ति तद्वद् अस्माभि र्न भवितव्यं किन्तु जागरितव्यं सचेतनैश्च भवितव्यं।
तस्मात् तव दक्षिणं नेत्रं यदि त्वां बाधते, तर्हि तन्नेत्रम् उत्पाट्य दूरे निक्षिप, यस्मात् तव सर्व्ववपुषो नरके निक्षेपात् तवैकाङ्गस्य नाशो वरं। अभिमानहीना जना धन्याः, यतस्ते स्वर्गीयराज्यम् अधिकरिष्यन्ति। यद्वा तव दक्षिणः करो यदि त्वां बाधते, तर्हि तं करं छित्त्वा दूरे निक्षिप, यतः सर्व्ववपुषो नरके निक्षेपात् एकाङ्गस्य नाशो वरं।
वेश्यागाम्यशौचाचारी देवपूजक इव गण्यो लोभी चैतेषां कोषि ख्रीष्टस्य राज्येऽर्थत ईश्वरस्य राज्ये कमप्यधिकारं न प्राप्स्यतीति युष्माभिः सम्यक् ज्ञायतां।
आयुषो यः समयो व्यतीतस्तस्मिन् युष्माभि र्यद् देवपूजकानाम् इच्छासाधनं कामकुत्सिताभिलाषमद्यपानरङ्गरसमत्तताघृणार्हदेवपूजाचरणञ्चाकारि तेन बाहुल्यं। यूयं तैः सह तस्मिन् सर्व्वनाशपङ्के मज्जितुं न धावथ, इत्यनेनाश्चर्य्यं विज्ञाय ते युष्मान् निन्दन्ति।
एकस्माद् वदनाद् धन्यवादशापौ निर्गच्छतः। हे मम भ्रातरः, एतादृशं न कर्त्तव्यं। प्रस्रवणः किम् एकस्मात् छिद्रात् मिष्टं तिक्तञ्च तोयं निर्गमयति? हे मम भ्रातरः, उडुम्बरतरुः किं जितफलानि द्राक्षालता वा किम् उडुम्बरफलानि फलितुं शक्नोति? तद्वद् एकः प्रस्रवणो लवणमिष्टे तोये निर्गमयितुं न शक्नोति।
अहं तस्मिन् तिष्ठामीति यो गदति तस्येदम् उचितं यत् ख्रीष्टो यादृग् आचरितवान् सो ऽपि तादृग् आचरेत्।
अपरम् अप्रत्ययिभिः सार्द्धं यूयम् एकयुगे बद्धा मा भूत, यस्माद् धर्म्माधर्म्मयोः कः सम्बन्धोऽस्ति? तिमिरेण सर्द्धं प्रभाया वा का तुलनास्ति?
यदि यूयं शरीरिकाचारिणो भवेत तर्हि युष्माभि र्मर्त्तव्यमेव किन्त्वात्मना यदि शरीरकर्म्माणि घातयेत तर्हि जीविष्यथ।
अतो हेतोरेतावत्साक्षिमेघै र्वेष्टिताः सन्तो वयमपि सर्व्वभारम् आशुबाधकं पापञ्च निक्षिप्यास्माकं गमनाय निरूपिते मार्गे धैर्य्येण धावाम।
अतो यूयं सर्व्वे मिथ्याकथनं परित्यज्य समीपवासिभिः सह सत्यालापं कुरुत यतो वयं परस्परम् अङ्गप्रत्यङ्गा भवामः।
सङ्कीर्णद्वारेण प्रविशत; यतो नरकगमनाय यद् द्वारं तद् विस्तीर्णं यच्च वर्त्म तद् बृहत् तेन बहवः प्रविशन्ति। अपरं स्वर्गगमनाय यद् द्वारं तत् कीदृक् संकीर्णं। यच्च वर्त्म तत् कीदृग् दुर्गमम्। तदुद्देष्टारः कियन्तोऽल्पाः।
अपरञ्च विश्वासिनो युष्मान् प्रति वयं कीदृक् पवित्रत्वयथार्थत्वनिर्दोषत्वाचारिणोऽभवामेत्यस्मिन् ईश्वरो यूयञ्च साक्षिण आध्वे।
अपरञ्च युष्माकं प्रेम कापट्यवर्जितं भवतु यद् अभद्रं तद् ऋतीयध्वं यच्च भद्रं तस्मिन् अनुरज्यध्वम्।