प्रिये, ईश्वरस्य वचने यत् विरुद्धं तत् घृणितम् अस्ति। प्राचीनशास्त्रे बहुधा मूर्तिपूजा, मिथ्यादेवानां पूजा, म्लेच्छानां कर्मकाण्डाश्चेति घृणितत्वेन वर्णिताः सन्ति। ईश्वरः स्वजनं तादृशेभ्यः कर्मभ्यः विरतं भवितुम् आदिदेश, यतः तानि तस्य इच्छाविरुद्धानि आसन्। यथा द्वितीयोपदेशग्रन्थे १८:९-१२ मध्ये विविधाः मन्त्रतन्त्रविद्याः ईश्वरस्य घृणिताः इति वर्णिताः।
नवीनशास्त्रे अपि येशुः पवित्रतायाः महत्त्वम् उपदिष्टवान्। कथं कर्माणि ईश्वरस्य घृणितानि भवन्ति इति च। यथा मत्ती १५:१८-२० मध्ये येशुः कथयति यत् मुखात् निर्गच्छन्ति वचनानि मनुष्यं दूषयन्ति, यतः तानि हृदयात् आगच्छन्ति। अत्र येशुः स्पष्टयति यत् हृदये विद्यमानं दुष्टत्वं यथा मिथ्यावादिता, ईश्वरनिन्दा, अनाचारश्चेति घृणितत्वेन गण्यन्ते।
ईश्वरः अस्मान् पवित्रतया तस्य वचनस्य आज्ञापालनेन च जीवितुम् इच्छति, येन वयं घृणितेभ्यः कर्मभ्यः विरताः भवेम। धर्मग्रन्थस्य अध्ययनम् अत्यावश्यकम् अस्ति, यतः तेन ईश्वरस्य इच्छानुसारं कथं जीवितव्यम् इति ज्ञायते, घृणितेभ्यः कर्मभ्यः च रक्षा भवति।
ततः स उवाच, यूयं मनुष्याणां निकटे स्वान् निर्दोषान् दर्शयथ किन्तु युष्माकम् अन्तःकरणानीश्वरो जानाति, यत् मनुष्याणाम् अति प्रशंस्यं तद् ईश्वरस्य घृण्यं।
परन्त्वपवित्रं घृण्यकृद् अनृतकृद् वा किमपि तन्मध्यं न प्रवेक्ष्यति मेषशावकस्य जीवनपुस्तके येषां नामानि लिखितानि केवलं त एव प्रवेक्ष्यन्ति।
किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।
अतो यत् सर्व्वनाशकृद्घृणार्हं वस्तु दानियेल्भविष्यद्वदिना प्रोक्तं तद् यदा पुण्यस्थाने स्थापितं द्रक्ष्यथ, (यः पठति, स बुध्यतां)
सा नारी कृष्णलोहितवर्णं सिन्दूरवर्णञ्च परिच्छदं धारयति स्वर्णमणिमुक्ताभिश्च विभूषितास्ति तस्याः करे घृणार्हद्रव्यैः स्वव्यभिचारजातमलैश्च परिपूर्ण एकः सुवर्णमयः कंसो विद्यते।
तस्या भाले निगूढवाक्यमिदं पृथिवीस्थवेश्यानां घृण्यक्रियाणाञ्च माता महाबाबिलिति नाम लिखितम् आस्ते।
कुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।
इत्थं त ईश्वरस्य सत्यतां विहाय मृषामतम् आश्रितवन्तः सच्चिदानन्दं सृष्टिकर्त्तारं त्यक्त्वा सृष्टवस्तुनः पूजां सेवाञ्च कृतवन्तः;
इति हेतोरीश्वरस्तान् कुक्रियायां समर्प्य निजनिजकुचिन्ताभिलाषाभ्यां स्वं स्वं शरीरं परस्परम् अपमानितं कर्त्तुम् अददात्।
ईश्वरेण तेषु क्वभिलाषे समर्पितेषु तेषां योषितः स्वाभाविकाचरणम् अपहाय विपरीतकृत्ये प्रावर्त्तन्त;
तथा पुरुषा अपि स्वाभाविकयोषित्सङ्गमं विहाय परस्परं कामकृशानुना दग्धाः सन्तः पुमांसः पुंभिः साकं कुकृत्ये समासज्य निजनिजभ्रान्तेः समुचितं फलम् अलभन्त।
तन्नहि किन्तु भिन्नजातिभि र्ये बलयो दीयन्ते त ईश्वराय तन्नहि भूतेभ्यएव दीयन्ते तस्माद् यूयं यद् भूतानां सहभागिनो भवथेत्यहं नाभिलषामि।
प्रभोः कंसेन भूतानामपि कंसेन पानं युष्माभिरसाध्यं; यूयं प्रभो र्भोज्यस्य भूतानामपि भोज्यस्य सहभागिनो भवितुं न शक्नुथ।