बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

उपवर्ग

103 द्वेषस्य विषये बाइबिलस्य श्लोकाः

भयंकरो मनोभावः द्वेषस्य वर्तते, अत एव ईश्वरस्य वचनं तस्य परिणामान् प्रति बोधयति।

शास्त्रेषु अस्माकं विषये श्लोकाः सन्ति। गिरिप्रवचने भगवान् द्वेषं प्रति एवं कथयति - "यः कश्चन स्वभ्रातरं प्रति क्रुध्यति सः दण्डार्हः भविष्यति; यः कश्चन स्वभ्रातरं मूर्ख इति वदेत् सः महासभायां दण्डार्हः भविष्यति; यः कश्चन स्वभ्रातरं नास्तिक इति वदेत् सः नरकानलं प्राप्स्यति" (मत्ती ५.२२)

यथा यथा वयं भगवतः समीपं गच्छामः, तेन तेन पापं बहिः अन्तः च अधिकं ज्ञातुं शक्नुमः। छद्मं वैरभावं च त्यक्तुं प्रयत्नः करणीयः, यतो हि वयं द्वेषभावं मनसि धारयन्तः अपि इतरेभ्यः तस्य अभावं दर्शयामः।

अस्मात् भावनात् दूरं गत्वा ईश्वरस्य क्षमा याचनीया, येशोः नाम्नि मोक्षं प्राप्नुमः। द्वेषो हि न केवलं हृदयं, अपि तु मनः शरीरं च हिनस्ति।


1 योहन 2:9

अहं ज्योतिषि वर्त्त इति गदित्वा यः स्वभ्रातरं द्वेष्टि सो ऽद्यापि तमिस्रे वर्त्तते।

1 योहन 2:11

किन्तु स्वभ्रातरं यो द्वेष्टि स तिमिरे वर्त्तते तिमिरे चरति च तिमिरेण च तस्य नयने ऽन्धीक्रियेते तस्मात् क्क यामीति स ज्ञातुं न शक्नोति।

1 योहन 4:20

ईश्वरे ऽहं प्रीय इत्युक्त्वा यः कश्चित् स्वभ्रातरं द्वेष्टि सो ऽनृतवादी। स यं दृष्टवान् तस्मिन् स्वभ्रातरि यदि न प्रीयते तर्हि यम् ईश्वरं न दृष्टवान् कथं तस्मिन् प्रेम कर्त्तुं शक्नुयात्?

1 योहन 3:15

यः कश्चित् स्वभ्रातरं द्वेष्टि सं नरघाती किञ्चानन्तजीवनं नरघातिनः कस्याप्यन्तरे नावतिष्ठते तद् यूयं जानीथ।

लूका 6:27-28

हे श्रोतारो युष्मभ्यमहं कथयामि, यूयं शत्रुषु प्रीयध्वं ये च युष्मान् द्विषन्ति तेषामपि हितं कुरुत।

ये च युष्मान् शपन्ति तेभ्य आशिषं दत्त ये च युष्मान् अवमन्यन्ते तेषां मङ्गलं प्रार्थयध्वं।

मत्ती 10:22

मन्नमहेतोः सर्व्वे जना युष्मान् ऋृतीयिष्यन्ते, किन्तु यः शेषं यावद् धैर्य्यं घृत्वा स्थास्यति, स त्रायिष्यते।

योहन 3:20

यः कुकर्म्म करोति तस्याचारस्य दृष्टत्वात् स ज्योतिर्ॠतीयित्वा तन्निकटं नायाति;

योहन 15:18

जगतो लोकै र्युष्मासु ऋतीयितेषु ते पूर्व्वं मामेवार्त्तीयन्त इति यूयं जानीथ।

इफिसियों 4:31-32

अपरं कटुवाक्यं रोषः कोषः कलहो निन्दा सर्व्वविधद्वेषश्चैतानि युष्माकं मध्याद् दूरीभवन्तु।

यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।

मत्ती 5:43-44

निजसमीपवसिनि प्रेम कुरु, किन्तु शत्रुं प्रति द्वेषं कुरु, यदेतत् पुरोक्तं वचनं एतदपि यूयं श्रुतवन्तः।

किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।

मत्ती 6:24

कोपि मनुजो द्वौ प्रभू सेवितुं न शक्नोति, यस्माद् एकं संमन्य तदन्यं न सम्मन्यते, यद्वा एकत्र मनो निधाय तदन्यम् अवमन्यते; तथा यूयमपीश्वरं लक्ष्मीञ्चेत्युभे सेवितुं न शक्नुथ।

मार्क 13:13

मम नामहेतोः सर्व्वेषां सविधे यूयं जुगुप्सिता भविष्यथ, किन्तु यः कश्चित् शेषपर्य्यन्तं धैर्य्यम् आलम्बिष्यते सएव परित्रास्यते।

लूका 1:71

कृपया पुरुषान् पूर्व्वान् निकषार्थात्तु नः पितुः। इब्राहीमः समीपे यं शपथं कृतवान् पुरा।

लूका 6:22

यदा लोका मनुष्यसूनो र्नामहेतो र्युष्मान् ऋृतीयिष्यन्ते पृथक् कृत्वा निन्दिष्यन्ति, अधमानिव युष्मान् स्वसमीपाद् दूरीकरिष्यन्ति च तदा यूयं धन्याः।

लूका 21:17

मम नाम्नः कारणात् सर्व्वै र्मनुष्यै र्यूयम् ऋतीयिष्यध्वे।

योहन 7:7

जगतो लोका युष्मान् ऋतीयितुं न शक्रुवन्ति किन्तु मामेव ऋतीयन्ते यतस्तेषां कर्माणि दुष्टानि तत्र साक्ष्यमिदम् अहं ददामि।

योहन 8:44

यूयं शैतान् पितुः सन्ताना एतस्माद् युष्माकं पितुरभिलाषं पूरयथ स आ प्रथमात् नरघाती तदन्तः सत्यत्वस्य लेशोपि नास्ति कारणादतः स सत्यतायां नातिष्ठत् स यदा मृषा कथयति तदा निजस्वभावानुसारेणैव कथयति यतो स मृषाभाषी मृषोत्पादकश्च।

योहन 15:18-19

जगतो लोकै र्युष्मासु ऋतीयितेषु ते पूर्व्वं मामेवार्त्तीयन्त इति यूयं जानीथ।

यदि यूयं जगतो लोका अभविष्यत तर्हि जगतो लोका युष्मान् आत्मीयान् बुद्ध्वाप्रेष्यन्त; किन्तु यूयं जगतो लोका न भवथ, अहं युष्मान् अस्माज्जगतोऽरोचयम् एतस्मात् कारणाज्जगतो लोका युष्मान् ऋतीयन्ते।

योहन 15:23-25

यो जनो माम् ऋतीयते स मम पितरमपि ऋतीयते।

यादृशानि कर्म्माणि केनापि कदापि नाक्रियन्त तादृशानि कर्म्माणि यदि तेषां साक्षाद् अहं नाकरिष्यं तर्हि तेषां पापं नाभविष्यत् किन्त्वधुना ते दृष्ट्वापि मां मम पितरञ्चार्त्तीयन्त।

तस्मात् तेऽकारणं माम् ऋतीयन्ते यदेतद् वचनं तेषां शास्त्रे लिखितमास्ते तत् सफलम् अभवत्।

योहन 17:14

तवोपदेशं तेभ्योऽददां जगता सह यथा मम सम्बन्धो नास्ति तथा जजता सह तेषामपि सम्बन्धाभावाज् जगतो लोकास्तान् ऋतीयन्ते।

रोमियों 1:30

कर्णेजपा अपवादिन ईश्वरद्वेषका हिंसका अहङ्कारिण आत्मश्लाघिनः कुकर्म्मोत्पादकाः पित्रोराज्ञालङ्घका

रोमियों 8:7

यतः शारीरिकभाव ईश्वरस्य विरुद्धः शत्रुताभाव एव स ईश्वरस्य व्यवस्थाया अधीनो न भवति भवितुञ्च न शक्नोति।

रोमियों 12:9

अपरञ्च युष्माकं प्रेम कापट्यवर्जितं भवतु यद् अभद्रं तद् ऋतीयध्वं यच्च भद्रं तस्मिन् अनुरज्यध्वम्।

रोमियों 12:17-19

परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत।

यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत।

हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।

रोमियों 13:10

यतः प्रेम समीपवासिनोऽशुभं न जनयति तस्मात् प्रेम्ना सर्व्वा व्यवस्था पाल्यते।

1 कुरिन्थियों 13:4-5

प्रेम चिरसहिष्णु हितैषि च, प्रेम निर्द्वेषम् अशठं निर्गर्व्वञ्च।

अपरं तत् कुत्सितं नाचरति, आत्मचेष्टां न कुरुते सहसा न क्रुध्यति परानिष्टं न चिन्तयति,

गलातियों 4:16

साम्प्रतमहं सत्यवादित्वात् किं युष्माकं रिपु र्जातोऽस्मि?

गलातियों 5:19-21

अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम्

पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे।

इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं

पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।

इफिसियों 4:26-27

अपरं क्रोधे जाते पापं मा कुरुध्वम्, अशान्ते युष्माकं रोषेसूर्य्योऽस्तं न गच्छतु।

अपरं शयताने स्थानं मा दत्त।

इफिसियों 4:31

अपरं कटुवाक्यं रोषः कोषः कलहो निन्दा सर्व्वविधद्वेषश्चैतानि युष्माकं मध्याद् दूरीभवन्तु।

इफिसियों 5:11

यूयं तिमिरस्य विफलकर्म्मणाम् अंशिनो न भूत्वा तेषां दोषित्वं प्रकाशयत।

फिलिप्पियों 1:15

केचिद् द्वेषाद् विरोधाच्चापरे केचिच्च सद्भावात् ख्रीष्टं घोषयन्ति;

फिलिप्पियों 2:3

विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं।

कुलुस्सियों 3:8

किन्त्विदानीं क्रोधो रोषो जिहिंसिषा दुर्मुखता वदननिर्गतकदालपश्चैतानि सर्व्वाणि दूरीकुरुध्वं।

1 थिस्सलुनीकियों 5:15

अपरं कमपि प्रत्यनिष्टस्य फलम् अनिष्टं केनापि यन्न क्रियेत तदर्थं सावधाना भवत, किन्तु परस्परं सर्व्वान् मानवांश्च प्रति नित्यं हिताचारिणो भवत।

2 थिस्सलुनीकियों 1:6-8

यतः स्वकीयस्वर्गदूतानां बलैः सहितस्य प्रभो र्यीशोः स्वर्गाद् आगमनकाले युष्माकं क्लेशकेभ्यः क्लेशेन फलदानं सार्द्धमस्माभिश्च

क्लिश्यमानेभ्यो युष्मभ्यं शान्तिदानम् ईश्वरेण न्याय्यं भोत्स्यते;

तदानीम् ईश्वरानभिज्ञेभ्यो ऽस्मत्प्रभो र्यीशुख्रीष्टस्य सुसंवादाग्राहकेभ्यश्च लोकेभ्यो जाज्वल्यमानेन वह्निना समुचितं फलं यीशुना दास्यते;

2 तीमुथियु 3:3

प्रीतिवर्जिता असन्धेया मृषापवादिनो ऽजितेन्द्रियाः प्रचण्डा भद्रद्वेषिणो

तीतुस 3:3

यतः पूर्व्वं वयमपि निर्ब्बोधा अनाज्ञाग्राहिणो भ्रान्ता नानाभिलाषाणां सुखानाञ्च दासेया दुष्टत्वेर्ष्याचारिणो घृणिताः परस्परं द्वेषिणश्चाभवामः।

इब्रानियों 1:9

पुण्ये प्रेम करोषि त्वं किञ्चाधर्म्मम् ऋतीयसे। तस्माद् य ईश ईशस्ते स ते मित्रगणादपि। अधिकाह्लादतैलेन सेचनं कृतवान् तव॥"

इब्रानियों 10:26-27

सत्यमतस्य ज्ञानप्राप्तेः परं यदि वयं स्वंच्छया पापाचारं कुर्म्मस्तर्हि पापानां कृते ऽन्यत् किमपि बलिदानं नावशिष्यते

किन्तु विचारस्य भयानका प्रतीक्षा रिपुनाशकानलस्य तापश्चावशिष्यते।

इब्रानियों 12:14-15

अपरञ्च सर्व्वैः सार्थम् एेक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं।

यथा कश्चिद् ईश्वरस्यानुग्रहात् न पतेत्, यथा च तिक्तताया मूलं प्ररुह्य बाधाजनकं न भवेत् तेन च बहवोऽपवित्रा न भवेयुः,

याकूब 1:19-20

अतएव हे मम प्रियभ्रातरः, युष्माकम् एकैको जनः श्रवणे त्वरितः कथने धीरः क्रोधेऽपि धीरो भवतु।

हे मम भ्रातरः, यूयं यदा बहुविधपरीक्षाषु निपतत तदा तत् पूर्णानन्दस्य कारणं मन्यध्वं।

यतो मानवस्य क्रोध ईश्वरीयधर्म्मं न साधयति।

याकूब 4:1-2

युष्माकं मध्ये समरा रणश्च कुत उत्पद्यन्ते? युष्मदङ्गशिबिराश्रिताभ्यः सुखेच्छाभ्यः किं नोत्पद्यन्तेे?

प्रभोः समक्षं नम्रा भवत तस्मात् स युष्मान् उच्चीकरिष्यति।

हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचारञ्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि।

अद्वितीयो व्यवस्थापको विचारयिता च स एवास्ते यो रक्षितुं नाशयितुञ्च पारयति। किन्तु कस्त्वं यत् परस्य विचारं करोषि?

अद्य श्वो वा वयम् अमुकनगरं गत्वा तत्र वर्षमेकं यापयन्तो वाणिज्यं करिष्यामः लाभं प्राप्स्यामश्चेति कथां भाषमाणा यूयम् इदानीं शृणुत।

श्वः किं घटिष्यते तद् यूयं न जानीथ यतो जीवनं वो भवेत् कीदृक् तत्तु बाष्पस्वरूपकं, क्षणमात्रं भवेद् दृश्यं लुप्यते च ततः परं।

तदनुक्त्वा युष्माकम् इदं कथनीयं प्रभोरिच्छातो वयं यदि जीवामस्तर्ह्येतत् कर्म्म तत् कर्म्म वा करिष्याम इति।

किन्त्विदानीं यूयं गर्व्ववाक्यैः श्लाघनं कुरुध्वे तादृशं सर्व्वं श्लाघनं कुत्सितमेव।

अतो यः कश्चित् सत्कर्म्म कर्त्तं विदित्वा तन्न करोति तस्य पापं जायते।

यूयं वाञ्छथ किन्तु नाप्नुथ, यूयं नरहत्याम् ईर्ष्याञ्च कुरुथ किन्तु कृतार्था भवितुं न शक्नुथ, यूयं युध्यथ रणं कुरुथ च किन्त्वप्राप्तास्तिष्ठथ, यतो हेतोः प्रार्थनां न कुरुथ।

याकूब 4:4

हे व्यभिचारिणो व्यभिचारिण्यश्च, संसारस्य यत् मैत्र्यं तद् ईश्वरस्य शात्रवमिति यूयं किं न जानीथ? अत एव यः कश्चित् संसारस्य मित्रं भवितुम् अभिलषति स एवेश्वरस्य शत्रु र्भवति।

1 पतरस 2:1

सर्व्वान् द्वेषान् सर्व्वांश्च छलान् कापट्यानीर्ष्याः समस्तग्लानिकथाश्च दूरीकृत्य

1 पतरस 3:9

अनिष्टस्य परिशोधेनानिष्टं निन्दाया वा परिशोधेन निन्दां न कुर्व्वन्त आशिषं दत्त यतो यूयम् आशिरधिकारिणो भवितुमाहूता इति जानीथ।

1 पतरस 4:8

विशेषतः परस्परं गाढं प्रेम कुरुत, यतः, पापानामपि बाहुल्यं प्रेम्नैवाच्छादयिष्यते।

1 योहन 3:13

हे मम भ्रातरः, संसारो यदि युष्मान् द्वेष्टि तर्हि तद् आश्चर्य्यं न मन्यध्वं।

1 योहन 4:7-8

हे प्रियतमाः, वयं परस्परं प्रेम करवाम, यतः प्रेम ईश्वरात् जायते, अपरं यः कश्चित् प्रेम करोति स ईश्वरात् जात ईश्वरं वेत्ति च।

यः प्रेम न करोति स ईश्वरं न जानाति यत ईश्वरः प्रेमस्वरूपः।

1 योहन 4:20-21

ईश्वरे ऽहं प्रीय इत्युक्त्वा यः कश्चित् स्वभ्रातरं द्वेष्टि सो ऽनृतवादी। स यं दृष्टवान् तस्मिन् स्वभ्रातरि यदि न प्रीयते तर्हि यम् ईश्वरं न दृष्टवान् कथं तस्मिन् प्रेम कर्त्तुं शक्नुयात्?

अत ईश्वरे यः प्रीयते स स्वीयभ्रातर्य्यपि प्रीयताम् इयम् आज्ञा तस्माद् अस्माभि र्लब्धा।

1 योहन 5:3

यत ईश्वरे यत् प्रेम तत् तदीयाज्ञापालनेनास्माभिः प्रकाशयितव्यं, तस्याज्ञाश्च कठोरा न भवन्ति।

2 योहन 1:6

अपरं प्रेमैतेन प्रकाशते यद् वयं तस्याज्ञा आचरेम। आदितो युष्माभि र्या श्रुता सेयम् आज्ञा सा च युष्माभिराचरितव्या।

यहूदा 1:10

किन्त्विमे यन्न बुध्यन्ते तन्निन्दन्ति यच्च निर्ब्बोधपशव इवेन्द्रियैरवगच्छन्ति तेन नश्यन्ति।

यहूदा 1:17-19

किन्तु हे प्रियतमाः, अस्माकं प्रभो र्यीशुख्रीष्टस्य प्रेरितै र्यद् वाक्यं पूर्व्वं युष्मभ्यं कथितं तत् स्मरत,

फलतः शेषसमये स्वेच्छातो ऽधर्म्माचारिणो निन्दका उपस्थास्यन्तीति।

एते लोकाः स्वान् पृथक् कुर्व्वन्तः सांसारिका आत्महीनाश्च सन्ति।

प्रकाशितवाक्य 2:6

तथापि तवेष गुणो विद्यते यत् नीकलायतीयलोकानां याः क्रिया अहम् ऋतीये तास्त्वमपि ऋतीयमे।

प्रकाशितवाक्य 2:15

तथा नीकलायतीयानां शिक्षावलम्बिनस्तव केचित् जना अपि सन्ति तदेवाहम् ऋतीये।

प्रकाशितवाक्य 12:11

मेषवत्सस्य रक्तेन स्वसाक्ष्यवचनेन च। ते तु निर्जितवन्तस्तं न च स्नेहम् अकुर्व्वत। प्राणोष्वपि स्वकीयेषु मरणस्यैव सङ्कटे।

प्रकाशितवाक्य 12:17

ततो नागो योषिते क्रुद्ध्वा तद्वंशस्यावशिष्टलोकैरर्थतो य ईश्वरस्याज्ञाः पालयन्ति यीशोः साक्ष्यं धारयन्ति च तैः सह योद्धुं निर्गतवान्।

प्रकाशितवाक्य 17:16

त्वया दृष्टानि दश शृङ्गाणि पशुश्चेमे तां वेश्याम् ऋतीयिष्यन्ते दीनां नग्नाञ्च करिष्यन्ति तस्या मांसानि भोक्ष्यन्ते वह्निना तां दाहयिष्यन्ति च।

प्रकाशितवाक्य 18:2

स बलवता स्वरेण वाचमिमाम् अघोषयत् पतिता पतिता महाबाबिल्, सा भूतानां वसतिः सर्व्वेषाम् अशुच्यात्मनां कारा सर्व्वेषाम् अशुचीनां घृण्यानाञ्च पक्षिणां पिञ्जरश्चाभवत्।

प्रकाशितवाक्य 22:15

कुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।

ईश्वरस्य प्रार्थना

हे परमेश्वर, त्वं मे गतिः, त्वं मे प्राणधारः, त्वं मे आत्मानं रक्षसि, त्वं मे चेतः नवयसि, त्वं मे हृदयं चिकित्ससि। हे पवित्र पिता, त्वमेव मां द्वेषक्रोधपाशेभ्यः मोचयितुं समर्थः। अहं जानामि यत् क्रोधो वैरं च मां दहति। गतानां बन्धनानि भञ्जयितुं, द्वेषभावनानां विषदंशेभ्यः मुक्तुं मां साहाय्यं कुरु। हे पवित्रात्मन्, मम हृदयं शोधयितुं, अग्रगमनाय बाधकं सर्वं त्यक्तुं, येन केनापि प्रकारेण मम हृदयं आहतं तेषां सर्वेषां क्षमां कर्तुं, मह्यं बलं प्रयच्छ। अस्मिन् काले केवलं वैरभावेन परिवृतः अहं मम प्रियजनैः विलग्नः अभवम्। मम बुद्धिं प्रकाशय, मां तव सत्यं बोधय, तव वचनमार्गेण मां नेतुम् अनुगृहाण। यतः "यः प्रकाशे वर्तते इति वदति, किन्तु स्वभ्रातरं द्वेष्टि, सः अन्धकारे एव वर्तते।" हे प्रभो, अद्यारभ्य अहं द्वेषं, क्रोधं, वैरं, अक्षमां च त्यजामि। येशोः नाम्नि, आमेन्।

उपवर्ग