क्रोधः खलस्य साधनम् अस्ति येन जनान् ईश्वरविरुद्धं पापं कर्तुं प्रेरयति। यदा वयं क्रोधेन अनियन्त्रितं भवामः तदा अवश्यमेव दुष्परिणामान् भुञ्जामहे। यद्यपि ईश्वरः अपि मानवानां प्रति कुपितः अभवत् तथापि सः अस्मभ्यं तेन सह मेलनस्य अवसरं सर्वदा ददाति। क्रोधः न केवलं दिव्याशिषः अस्माकं जीवने नष्टं करोति अपि तु मानसिकं दुःखम् अपि जनयति। यद्यपि वयं न्याय्यकारणात् अन्याय्यकारणात् वा कुप्येम, तथापि धर्मग्रन्थः अस्मान् एफिसियों ४:२६-२७ इति स्थाने सूचयति यत् कुप्यितुं युक्तम् अस्ति परन्तु क्रोधेन पापं कर्तुं न। "कुप्यध्वं किन्तु मा पापं कुरुत; सूर्यास्तमयात् पूर्वं युष्माकं क्रोधः शान्तः भवतु, शैतानाय अवकाशं मा दत्त।" अन्याय्यं दृष्ट्वा ईश्वरनिन्दां वा श्रुत्वा कुप्यितुं युक्तम् अस्ति, तथापि प्रभुः अस्मान् उपदिशति यत् - "प्रतिकारः मम अस्ति; अहं दण्डं दास्यामि" (रोमियों १२)। पवित्रात्मना सह निरन्तरं सम्बन्धः स्थापयितुं अति आवश्यकम् अस्ति येन वयं स्वभावान् नियन्त्रयितुं शक्नुमः, तस्मात् प्रार्थयामहे यत् तस्य आत्मनः फलानि अस्माकं हृदये प्रभुतां कुर्वन्तु, अस्माकम् अन्तरंगं बलवत्तरं च कुर्वन्तु।
अतएव हे मम प्रियभ्रातरः, युष्माकम् एकैको जनः श्रवणे त्वरितः कथने धीरः क्रोधेऽपि धीरो भवतु।
किन्त्विदानीं क्रोधो रोषो जिहिंसिषा दुर्मुखता वदननिर्गतकदालपश्चैतानि सर्व्वाणि दूरीकुरुध्वं।
हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।
अपरं कटुवाक्यं रोषः कोषः कलहो निन्दा सर्व्वविधद्वेषश्चैतानि युष्माकं मध्याद् दूरीभवन्तु।
किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो भविष्यति।
किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।
अनन्तरं यीशुरीश्वरस्य मन्दिरं प्रविश्य तन्मध्यात् क्रयविक्रयिणो वहिश्चकार; वणिजां मुद्रासनानी कपोतविक्रयिणाञ्चसनानी च न्युव्जयामास।
अपरं तानुवाच, एषा लिपिरास्ते, "मम गृहं प्रार्थनागृहमिति विख्यास्यति", किन्तु यूयं तद् दस्यूनां गह्वरं कृतवन्तः।
तदा स तेषामन्तःकरणानां काठिन्याद्धेतो र्दुःखितः क्रोधात् चर्तुिदशो दृष्टवान् तं मानुषं गदितवान् तं हस्तं विस्तारय, ततस्तेन हस्ते विस्तृते तद्धस्तोऽन्यहस्तवद् अरोगो जातः।
ये च युष्मान् शपन्ति तेभ्य आशिषं दत्त ये च युष्मान् अवमन्यन्ते तेषां मङ्गलं प्रार्थयध्वं।
यदि कश्चित् तव कपोले चपेटाघातं करोति तर्हि तं प्रति कपोलम् अन्यं परावर्त्त्य सम्मुखीकुरु पुनश्च यदि कश्चित् तव गात्रीयवस्त्रं हरति तर्हि तं परिधेयवस्त्रम् अपि ग्रहीतुं मा वारय।
अतएव याकूब्योहनौ तस्य शिष्यौ तद् दृष्ट्वा जगदतुः, हे प्रभो एलियो यथा चकार तथा वयमपि किं गगणाद् आगन्तुम् एतान् भस्मीकर्त्तुञ्च वह्निमाज्ञापयामः? भवान् किमिच्छति?
किन्तु स मुखं परावर्त्य तान् तर्जयित्वा गदितवान् युष्माकं मनोभावः कः, इति यूयं न जानीथ।
रज्जुभिः कशां निर्म्माय सर्व्वगोमेषादिभिः सार्द्धं तान् मन्दिराद् दूरीकृतवान्।
वणिजां मुद्रादि विकीर्य्य आसनानि न्यूब्जीकृत्य पारावतविक्रयिभ्योऽकथयद् अस्मात् स्थानात् सर्वाण्येतानि नयत, मम पितुगृहं वाणिज्यगृहं मा कार्ष्ट।
अतएव ये मानवाः पापकर्म्मणा सत्यतां रुन्धन्ति तेषां सर्व्वस्य दुराचरणस्याधर्म्मस्य च विरुद्धं स्वर्गाद् ईश्वरस्य कोपः प्रकाशते।
तथा स्वान्तःकरणस्य कठोरत्वात् खेदराहित्याच्चेश्वरस्य न्याय्यविचारप्रकाशनस्य क्रोधस्य च दिनं यावत् किं स्वार्थं कोपं सञ्चिनोषि?
यतस्तव सदाचरणाय स ईश्वरस्य भृत्योऽस्ति। किन्तु यदि कुकर्म्माचरसि तर्हि त्वं शङ्कस्व यतः स निरर्थकं खङ्गं न धारयति; कुकर्म्माचारिणं समुचितं दण्डयितुम् स ईश्वरस्य दण्डदभृत्य एव।
अपरं तत् कुत्सितं नाचरति, आत्मचेष्टां न कुरुते सहसा न क्रुध्यति परानिष्टं न चिन्तयति,
अहं यदागमिष्यामि, तदा युष्मान् यादृशान् द्रष्टुं नेच्छामि तादृशान् द्रक्ष्यामि, यूयमपि मां यादृशं द्रष्टुं नेच्छथ तादृशं द्रक्ष्यथ, युष्मन्मध्ये विवाद ईर्ष्या क्रोधो विपक्षता परापवादः कर्णेजपनं दर्पः कलहश्चैते भविष्यन्ति;
अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम्
पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे।
इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं
पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।
अनर्थकवाक्येन कोऽपि युष्मान् न वञ्चयतु यतस्तादृगाचारहेतोरनाज्ञाग्राहिषु लोकेष्वीश्वरस्य कोपो वर्त्तते।
यत एतेभ्यः कर्म्मभ्य आज्ञालङ्घिनो लोकान् प्रतीश्वरस्य क्रोधो वर्त्तते।
पूर्व्वं यदा यूयं तान्युपाजीवत तदा यूयमपि तान्येवाचरत;
किन्त्विदानीं क्रोधो रोषो जिहिंसिषा दुर्मुखता वदननिर्गतकदालपश्चैतानि सर्व्वाणि दूरीकुरुध्वं।
यत ईश्वरोऽस्मान् क्रोधे न नियुज्यास्माकं प्रभुना यीशुख्रीष्टेन परित्राणस्याधिकारे नियुुक्तवान्,
अतो ममाभिमतमिदं पुरुषैः क्रोधसन्देहौ विना पवित्रकरान् उत्तोल्य सर्व्वस्मिन् स्थाने प्रार्थना क्रियतां।
यतः प्रभो र्दासेन युद्धम् अकर्त्तव्यं किन्तु सर्व्वान् प्रति शान्तेन शिक्षादानेच्छुकेन सहिष्णुना च भवितव्यं, विपक्षाश्च तेन नम्रत्वेन चेतितव्याः।
यतो हेतोरद्यक्षेणेश्वरस्य गृहाद्यक्षेणेवानिन्दनीयेन भवितव्यं। तेन स्वेच्छाचारिणा क्रोधिना पानासक्तेन प्रहारकेण लोभिना वा न भवितव्यं
अवादिषम् इमे लोका भ्रान्तान्तःकरणाः सदा। मामकीनानि वर्त्मानि परिजानन्ति नो इमे।
इति हेतोरहं कोपात् शपथं कृतवान् इमं। प्रेवेक्ष्यते जनैरेतै र्न विश्रामस्थलं मम॥"
इति हेतोः स पुनरद्यनामकं दिनं निरूप्य दीर्घकाले गतेऽपि पूर्व्वोक्तां वाचं दायूदा कथयति, यथा, "अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ, तर्हि मा कुरुतेदानीं कठिनानि मनांसि वः।"
यतः परमेश्वरः कथयति, "दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।" पुनरपि, "तदा विचारयिष्यन्ते परेशेन निजाः प्रजाः।" इदं यः कथितवान् तं वयं जानीमः।
अमरेश्वरस्य करयोः पतनं महाभयानकं।
अतएव हे मम प्रियभ्रातरः, युष्माकम् एकैको जनः श्रवणे त्वरितः कथने धीरः क्रोधेऽपि धीरो भवतु।
हे मम भ्रातरः, यूयं यदा बहुविधपरीक्षाषु निपतत तदा तत् पूर्णानन्दस्य कारणं मन्यध्वं।
यतो मानवस्य क्रोध ईश्वरीयधर्म्मं न साधयति।
युष्माकं मध्ये समरा रणश्च कुत उत्पद्यन्ते? युष्मदङ्गशिबिराश्रिताभ्यः सुखेच्छाभ्यः किं नोत्पद्यन्तेे?
प्रभोः समक्षं नम्रा भवत तस्मात् स युष्मान् उच्चीकरिष्यति।
हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचारञ्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि।
अद्वितीयो व्यवस्थापको विचारयिता च स एवास्ते यो रक्षितुं नाशयितुञ्च पारयति। किन्तु कस्त्वं यत् परस्य विचारं करोषि?
अद्य श्वो वा वयम् अमुकनगरं गत्वा तत्र वर्षमेकं यापयन्तो वाणिज्यं करिष्यामः लाभं प्राप्स्यामश्चेति कथां भाषमाणा यूयम् इदानीं शृणुत।
श्वः किं घटिष्यते तद् यूयं न जानीथ यतो जीवनं वो भवेत् कीदृक् तत्तु बाष्पस्वरूपकं, क्षणमात्रं भवेद् दृश्यं लुप्यते च ततः परं।
तदनुक्त्वा युष्माकम् इदं कथनीयं प्रभोरिच्छातो वयं यदि जीवामस्तर्ह्येतत् कर्म्म तत् कर्म्म वा करिष्याम इति।
किन्त्विदानीं यूयं गर्व्ववाक्यैः श्लाघनं कुरुध्वे तादृशं सर्व्वं श्लाघनं कुत्सितमेव।
अतो यः कश्चित् सत्कर्म्म कर्त्तं विदित्वा तन्न करोति तस्य पापं जायते।
यूयं वाञ्छथ किन्तु नाप्नुथ, यूयं नरहत्याम् ईर्ष्याञ्च कुरुथ किन्तु कृतार्था भवितुं न शक्नुथ, यूयं युध्यथ रणं कुरुथ च किन्त्वप्राप्तास्तिष्ठथ, यतो हेतोः प्रार्थनां न कुरुथ।
निन्दितो ऽपि सन् स प्रतिनिन्दां न कृतवान् दुःखं सहमानो ऽपि न भर्त्सितवान् किन्तु यथार्थविचारयितुः समीपे स्वं समर्पितवान्।
अनिष्टस्य परिशोधेनानिष्टं निन्दाया वा परिशोधेन निन्दां न कुर्व्वन्त आशिषं दत्त यतो यूयम् आशिरधिकारिणो भवितुमाहूता इति जानीथ।
यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते,
प्रभु र्भक्तान् परीक्षाद् उद्धर्त्तुं विचारदिनञ्च यावद् दण्ड्यामानान् अधार्म्मिकान् रोद्धुं पारयति,
केचिद् यथा विलम्बं मन्यन्ते तथा प्रभुः स्वप्रतिज्ञायां विलम्बते तन्नहि किन्तु कोऽपि यन्न विनश्येत् सर्व्वं एव मनःपरावर्त्तनं गच्छेयुरित्यभिलषन् सो ऽस्मान् प्रति दीर्घसहिष्णुतां विदधाति।
यः कश्चित् स्वभ्रातरं द्वेष्टि सं नरघाती किञ्चानन्तजीवनं नरघातिनः कस्याप्यन्तरे नावतिष्ठते तद् यूयं जानीथ।
प्रेम्नि भीति र्न वर्त्तते किन्तु सिद्धं प्रेम भीतिं निराकरोति यतो भीतिः सयातनास्ति भीतो मानवः प्रेम्नि सिद्धो न जातः।
कश्चिद् यदि स्वभ्रातरम् अमृत्युजनकं पापं कुर्व्वन्तं पश्यति तर्हि स प्रार्थनां करोतु तेनेश्वरस्तस्मै जीवनं दास्यति, अर्थतो मृत्युजनकं पापं येन नाकारितस्मै। किन्तु मृत्युजनकम् एकं पापम् आस्ते तदधि तेन प्रार्थना क्रियतामित्यहं न वदामि।
ते च गिरीन् शैलांश्च वदन्ति यूयम् अस्मदुपरि पतित्वा सिंहासनोपविष्टजनस्य दृष्टितो मेषशावकस्य कोपाच्चास्मान् गोपायत;
यतस्तस्य क्रोधस्य महादिनम् उपस्थितं कः स्थातुं शक्नोति?
विजातीयेषु कुप्यत्सु प्रादुर्भूता तव क्रुधा। मृतानामपि कालो ऽसौ विचारो भविता यदा। भृत्याश्च तव यावन्तो भविष्यद्वादिसाधवः। ये च क्षुद्रा महान्तो वा नामतस्ते हि बिभ्यति। यदा सर्व्वेभ्य एतेभ्यो वेतनं वितरिष्यते। गन्तव्यश्च यदा नाशो वसुधाया विनाशकैः॥
सो ऽपीश्वरस्य क्रोधपात्रे स्थितम् अमिश्रितं मदत् अर्थत ईश्वरस्य क्रोधमदं पास्यति पवित्रदूतानां मेषशावकस्य च साक्षाद् वह्निगन्धकयो र्यातनां लप्स्यते च।
ततः स दूतः पृथिव्यां स्वदात्रं प्रसार्य्य पृथिव्या द्राक्षाफलच्छेदनम् अकरोत् तत्फलानि चेश्वरस्य क्रोधस्वरूपस्य महाकुण्डस्य मध्यं निरक्षिपत्।
ततः परम् अहं स्वर्गे ऽपरम् एकम् अद्भुतं महाचिह्नं दृष्टवान् अर्थतो यै र्दण्डैरीश्वरस्य कोपः समाप्तिं गमिष्यति तान् दण्डान् धारयन्तः सप्त दूता मया दृष्टाः।
ततः परं मन्दिरात् तान् सप्तदूतान् सम्भाषमाण एष महारवो मयाश्रावि, यूयं गत्वा तेभ्यः सप्तकंसेभ्य ईश्वरस्य क्रोधं पृथिव्यां स्रावयत।
तदानीं महानगरी त्रिखण्डा जाता भिन्नजातीयानां नगराणि च न्यपतन् महाबाबिल् चेश्वरेण स्वकीयप्रचण्डकोपमदिरापात्रदानार्थं संस्मृता।
तस्य वक्त्राद् एकस्तीक्षणः खङ्गो निर्गच्छति तेन खङ्गेन सर्व्वजातीयास्तेनाघातितव्याः स च लौहदण्डेन तान् चारयिष्यति सर्व्वशक्तिमत ईश्वरस्य प्रचण्डकोपरसोत्पादकद्राक्षाकुण्डे यद्यत् तिष्ठति तत् सर्व्वं स एव पदाभ्यां पिनष्टि।
यस्य कस्यचित् नाम जीवनपुस्तके लिखितं नाविद्यत स एव तस्मिन् वह्निह्रदे न्यक्षिप्यत।
किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।
पश्याहं तूर्णम् आगच्छामि, एकैकस्मै स्वक्रियानुयायिफलदानार्थं मद्दातव्यफलं मम समवर्त्ति।