मित्र, दर्पः खलु सर्वेषां व्याधिः। वयः, लिङ्गं, सामाजिकस्थितिः वा नास्ति तस्य प्रभावः।
पवित्रग्रन्थे, बाइबिल-ग्रन्थे, दर्पपाशपतनस्य भयं बोधयन्ति बहवः विचारविमर्शाः सन्ति। उपदेशकग्रन्थे, ज्ञानी शलोमन् जीवनस्य क्षणभङ्गुरतां, लौकिकधनसम्मानसञ्चयस्य च व्यर्थतां वर्णयति। अतः सः अस्मान् ईश्वरे एव आशां विश्वासं च स्थापयितुं प्रेरयति। यतो हि सर्वाणि अस्माकं सम्पत्तयः सिद्धयः च क्षणिकाः, नित्यत्वे च मूल्यहीनाः भविष्यन्ति।
तथा च नूतने नियमे, येशुः अस्मान् नित्यं, पारलौकिकं च ध्येयं कर्तुं शिक्षयति, न तु परेषां प्रशंसा-मान्यता-प्राप्तिम्। सः स्ववाक्येन अस्माकं वास्तविकं ध्येयं ज्ञातुं, सार्थकं जीवनं जीवातुं च मार्गदर्शनं करोति, यत् ईश्वरप्रेमे, परप्रेमे च केन्द्रितं भवेत्।
दर्पः अस्मान् विनम्रतायाः दूरे करोति, स्वकीयं मानं च प्राप्तुं प्रेरयति। तेन परेषां प्रति प्रेम, ईश्वरस्य इच्छा च विस्मृता भवति।
यतः संसारे यद्यत् स्थितम् अर्थतः शारीरिकभावस्याभिलाषो दर्शनेन्द्रियस्याभिलाषो जीवनस्य गर्व्वश्च सर्व्वमेतत् पितृतो न जायते किन्तु संसारदेव।
अपरं यत्र स्थाने कीटाः कलङ्काश्च क्षयं नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं शक्नुवन्ति, तादृश्यां मेदिन्यां स्वार्थं धनं मा संचिनुत।
त्वं यदा ददासि तदा कपटिनो जना यथा मनुजेभ्यः प्रशंसां प्राप्तुं भजनभवने राजमार्गे च तूरीं वादयन्ति, तथा मा कुरिु, अहं तुभ्यं यथार्थं कथयामि, ते स्वकायं फलम् अलभन्त।
किन्तु यत्र स्थाने कीटाः कलङ्काश्च क्षयं न नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं न शक्नुवन्ति, तादृशे स्वर्गे धनं सञ्चिनुत।
यस्मात् यत्र स्थाने युष्मांक धनं तत्रैव खाने युष्माकं मनांसि।
अपरं केशरचनया स्वर्णालङ्कारधारणोन परिच्छदपरिधानेन वा युष्माकं वाह्यभूषा न भवतु,
किन्त्वीश्वरस्य साक्षाद् बहुमूल्यक्षमाशान्तिभावाक्षयरत्नेन युक्तो गुप्त आन्तरिकमानव एव।
मानुषो यदि सर्व्वं जगत् लभते निजप्रणान् हारयति, तर्हि तस्य को लाभः? मनुजो निजप्राणानां विनिमयेन वा किं दातुं शक्नोति?
संयतेच्छया युक्ता येश्वरभक्तिः सा महालाभोपायो भवतीति सत्यं।
एतज्जगत्प्रवेशनकालेऽस्माभिः किमपि नानायि तत्तयजनकालेऽपि किमपि नेतुं न शक्ष्यत इति निश्चितं।
अनन्तरं स लोकानवदत् लोभे सावधानाः सतर्काश्च तिष्ठत, यतो बहुसम्पत्तिप्राप्त्या मनुष्यस्यायु र्न भवति।
विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं।
कश्चिदपि जनो योग्यत्वादधिकं स्वं न मन्यतां किन्तु ईश्वरो यस्मै प्रत्ययस्य यत्परिमाणम् अददात् स तदनुसारतो योग्यरूपं स्वं मनुताम्, ईश्वराद् अनुग्रहं प्राप्तः सन् युष्माकम् एकैकं जनम् इत्याज्ञापयामि।
अतएव यद्वद् लिखितमास्ते तद्वत्, यः कश्चित् श्लाघमानः स्यात् श्लाघतां प्रभुना स हि।
सर्व्वप्राणी तृणैस्तुल्यस्तत्तेजस्तृणपुष्पवत्। तृणानि परिशुष्यति पुष्पाणि निपतन्ति च।
किन्तु वाक्यं परेशस्यानन्तकालं वितिष्ठते। तदेव च वाक्यं सुसंवादेन युष्माकम् अन्तिके प्रकाशितं।
ये शारीरिकाचारिणस्ते शारीरिकान् विषयान् भावयन्ति ये चात्मिकाचारिणस्ते आत्मनो विषयान् भावयन्ति।
शारीरिकभावस्य फलं मृत्युः किञ्चात्मिकभावस्य फले जीवनं शान्तिश्च।
अपरात् कस्त्वां विशेषयति? तुभ्यं यन्न दत्त तादृशं किं धारयसि? अदत्तेनेव दत्तेन वस्तुना कुतः श्लाघसे?
तस्माद् भोजनं पानम् अन्यद्वा कर्म्म कुर्व्वद्भि र्युष्माभिः सर्व्वमेवेश्वरस्य महिम्नः प्रकाशार्थं क्रियतां।
अपरम् ईश्वरं ज्ञात्वापि ते तम् ईश्वरज्ञानेन नाद्रियन्त कृतज्ञा वा न जाताः; तस्मात् तेषां सर्व्वे तर्का विफलीभूताः, अपरञ्च तेषां विवेकशून्यानि मनांसि तिमिरे मग्नानि।
ते स्वान् ज्ञानिनो ज्ञात्वा ज्ञानहीना अभवन्
कश्चिद् यदि सर्व्वं जगत् प्राप्नोति किन्तु स्वप्राणान् हारयति स्वयं विनश्यति च तर्हि तस्य को लाभः?
श्वः किं घटिष्यते तद् यूयं न जानीथ यतो जीवनं वो भवेत् कीदृक् तत्तु बाष्पस्वरूपकं, क्षणमात्रं भवेद् दृश्यं लुप्यते च ततः परं।
अतः सावधाना भवत, अज्ञाना इव माचरत किन्तु ज्ञानिन इव सतर्कम् आचरत।
समयं बहुमूल्यं गणयध्वं यतः काला अभद्राः।
अपरञ्च युष्माकं मनसां परस्परम् एकोभावो भवतु; अपरम् उच्चपदम् अनाकाङ्क्ष्य नीचलोकैः सहापि मार्दवम् आचरत; स्वान् ज्ञानिनो न मन्यध्वं।
युष्मान् अहं प्रभुनेदं ब्रवीम्यादिशामि च, अन्ये भिन्नजातीया इव यूयं पून र्माचरत।
यतस्ते स्वमनोमायाम् आचरन्त्यान्तरिकाज्ञानात् मानसिककाठिन्याच्च तिमिरावृतबुद्धय ईश्वरीयजीवनस्य बगीर्भूताश्च भवन्ति,
कोपि मनुजो द्वौ प्रभू सेवितुं न शक्नोति, यस्माद् एकं संमन्य तदन्यं न सम्मन्यते, यद्वा एकत्र मनो निधाय तदन्यम् अवमन्यते; तथा यूयमपीश्वरं लक्ष्मीञ्चेत्युभे सेवितुं न शक्नुथ।
यः कश्चित् श्लाघमानः स्यात् श्लाघतां प्रभुना स हि।
स्वेन यः प्रशंस्यते स परीक्षितो नहि किन्तु प्रभुना यः प्रशंस्यते स एव परीक्षितः।
तन्नहि किन्तु स प्रतुलं वरं वितरति तस्माद् उक्तमास्ते यथा, आत्माभिमानलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः॥
किन्तु मम यद्यत् लभ्यम् आसीत् तत् सर्व्वम् अहं ख्रीष्टस्यानुरोधात् क्षतिम् अमन्ये।
किञ्चाधुनाप्यहं मत्प्रभोः ख्रीष्टस्य यीशो र्ज्ञानस्योत्कृष्टतां बुद्ध्वा तत् सर्व्वं क्षतिं मन्ये।
हे युवानः, यूयमपि प्राचीनलोकानां वश्या भवत सर्व्वे च सर्व्वेषां वशीभूय नम्रताभरणेन भूषिता भवत, यतः,आत्माभिमानिलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः।
यतो वयं प्रत्यक्षान् विषयान् अनुद्दिश्याप्रत्यक्षान् उद्दिशामः। यतो हेतोः प्रत्यक्षविषयाः क्षणमात्रस्थायिनः किन्त्वप्रत्यक्षा अनन्तकालस्थायिनः।
यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"
यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।
तत्सर्व्वेण चास्मभ्यं तादृशा बहुमूल्या महाप्रतिज्ञा दत्ता याभि र्यूयं संसारव्याप्तात् कुत्सिताभिलाषमूलात् सर्व्वनाशाद् रक्षां प्राप्येश्वरीयस्वभावस्यांशिनो भवितुं शक्नुथ।
अतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति ज्ञात्वा प्रभोः कार्य्ये सदा तत्परा भवत।
यूयम् अनुग्रहाद् विश्वासेन परित्राणं प्राप्ताः, तच्च युष्मन्मूलकं नहि किन्त्वीश्वरस्यैव दानं,
तत् कर्म्मणां फलम् अपि नहि, अतः केनापि न श्लाघितव्यं।
कोपि दास उभौ प्रभू सेवितुं न शक्नोति, यत एकस्मिन् प्रीयमाणोऽन्यस्मिन्नप्रीयते यद्वा एकं जनं समादृत्य तदन्यं तुच्छीकरोति तद्वद् यूयमपि धनेश्वरौ सेवितुं न शक्नुथ।
ये जना मां प्रभुं वदन्ति, ते सर्व्वे स्वर्गराज्यं प्रवेक्ष्यन्ति तन्न, किन्तु यो मानवो मम स्वर्गस्थस्य पितुरिष्टं कर्म्म करोति स एव प्रवेक्ष्यति।
तद् दिने बहवो मां वदिष्यन्ति, हे प्रभो हे प्रभो, तव नाम्ना किमस्मामि र्भविष्यद्वाक्यं न व्याहृतं? तव नाम्ना भूताः किं न त्याजिताः? तव नाम्ना किं नानाद्भुतानि कर्म्माणि न कृतानि?
तदाहं वदिष्यामि, हे कुकर्म्मकारिणो युष्मान् अहं न वेद्मि, यूयं मत्समीपाद् दूरीभवत।
यतस्तात्कालिका लोका आत्मप्रेमिणो ऽर्थप्रेमिण आत्मश्लाघिनो ऽभिमानिनो निन्दकाः पित्रोरनाज्ञाग्राहिणः कृतघ्ना अपवित्राः
प्रीतिवर्जिता असन्धेया मृषापवादिनो ऽजितेन्द्रियाः प्रचण्डा भद्रद्वेषिणो
विश्वासघातका दुःसाहसिनो दर्पध्माता ईश्वराप्रेमिणः किन्तु सुखप्रेमिणो
यतो मयि, अर्थतो मम शरीरे, किमप्युत्तमं न वसति, एतद् अहं जानामि; ममेच्छुकतायां तिष्ठन्त्यामप्यहम् उत्तमकर्म्मसाधने समर्थो न भवामि।