अहंकारः, दम्भस्य अतिरेकः, मान्यते। बहुधा अस्माकं मनसि एतत् भावयति यत् वयं इतरेभ्यः श्रेष्ठाः स्मः। ईश्वरस्य वचनम् अनुसृत्य, दर्पयुक्ताः जनाः ईश्वरात् दूरं गच्छन्ति, यथा भाषितम् भवति भजनसंहितायां १०:४ मध्ये - "दुष्टः स्वस्य दर्पात् ईश्वरं न अनुसन्दधाति; तस्य सर्वेषु चिन्तनेषु ईश्वराय स्थानं नास्ति।"
किन्तु ईश्वरः अस्मासु विनयं जिज्ञासति, येन वयं स्वावलम्बित्वं न स्वीकुर्मः अपि तु तस्य आवश्यकतां अनुभवामः। यथा उक्तम् भजनसंहितायां १३८:६ मध्ये - "यतो हि भगवान् उच्चः, विनम्रं पश्यति, किन्तु दर्पयुक्तं दूरात् पश्यति।"
अतः वयं विश्वासिनः, अस्माकं जीवनेभ्यः अहंकारं निष्कासयितुं प्रयत्नं कुर्मः, यतः एषः दोषः अस्मान् ईश्वरस्य सान्निध्यात् सर्वथा दूरं करोति। अहंकारस्य, आत्मगौरवस्य च मध्ये भेदः अवश्यं ज्ञातव्यः। आत्मगौरवं तु स्वस्मिन् धनात्मकं भावम्, यः सर्वैः स्वीकार्यः।
वयं ईश्वरं प्रार्थयामहे यत् सः अस्माकं हृदयं परीक्ष्य, अस्माकं दुष्टमार्गान् संशोधयतु, येन वयं तस्य करुणां प्राप्य स्वजीवनं रक्षामः।
यतः संसारे यद्यत् स्थितम् अर्थतः शारीरिकभावस्याभिलाषो दर्शनेन्द्रियस्याभिलाषो जीवनस्य गर्व्वश्च सर्व्वमेतत् पितृतो न जायते किन्तु संसारदेव।
नरवधश्चौर्य्यं लोभो दुष्टता प्रवञ्चना कामुकता कुदृष्टिरीश्वरनिन्दा गर्व्वस्तम इत्यादीनि निर्गच्छन्ति।
एतानि सर्व्वाणि दुरितान्यन्तरादेत्य नरममेध्यं कुर्व्वन्ति।
अपरञ्च युष्माकं मनसां परस्परम् एकोभावो भवतु; अपरम् उच्चपदम् अनाकाङ्क्ष्य नीचलोकैः सहापि मार्दवम् आचरत; स्वान् ज्ञानिनो न मन्यध्वं।
अपरं यद्यहम् अन्नदानेन सर्व्वस्वं त्यजेयं दाहनाय स्वशरीरं समर्पयेयञ्च किन्तु यदि प्रेमहीनो भवेयं तर्हि तत्सर्व्वं मदर्थं निष्फलं भवति।
यः कश्चित् श्लाघमानः स्यात् श्लाघतां प्रभुना स हि।
स्वेन यः प्रशंस्यते स परीक्षितो नहि किन्तु प्रभुना यः प्रशंस्यते स एव परीक्षितः।
केवलं लोकदर्शनाय सर्व्वकर्म्माणि कुर्व्वन्ति; फलतः पट्टबन्धान् प्रसार्य्य धारयन्ति, स्ववस्त्रेषु च दीर्घग्रन्थीन् धारयन्ति;
भोजनभवन उच्चस्थानं, भजनभवने प्रधानमासनं,
हट्ठे नमस्कारं गुरुरिति सम्बोधनञ्चैतानि सर्व्वाणि वाञ्छन्ति।
ततः स उवाच, यूयं मनुष्याणां निकटे स्वान् निर्दोषान् दर्शयथ किन्तु युष्माकम् अन्तःकरणानीश्वरो जानाति, यत् मनुष्याणाम् अति प्रशंस्यं तद् ईश्वरस्य घृण्यं।
कर्णेजपा अपवादिन ईश्वरद्वेषका हिंसका अहङ्कारिण आत्मश्लाघिनः कुकर्म्मोत्पादकाः पित्रोराज्ञालङ्घका
भद्रम्, अप्रत्ययकारणात् ते विभिन्ना जातास्तथा विश्वासकारणात् त्वं रोपितो जातस्तस्माद् अहङ्कारम् अकृत्वा ससाध्वसो भव।
कश्चिदपि जनो योग्यत्वादधिकं स्वं न मन्यतां किन्तु ईश्वरो यस्मै प्रत्ययस्य यत्परिमाणम् अददात् स तदनुसारतो योग्यरूपं स्वं मनुताम्, ईश्वराद् अनुग्रहं प्राप्तः सन् युष्माकम् एकैकं जनम् इत्याज्ञापयामि।
अपरात् कस्त्वां विशेषयति? तुभ्यं यन्न दत्त तादृशं किं धारयसि? अदत्तेनेव दत्तेन वस्तुना कुतः श्लाघसे?
देवप्रसादे सर्व्वेषाम् अस्माकं ज्ञानमास्ते तद्वयं विद्मः। तथापि ज्ञानं गर्व्वं जनयति किन्तु प्रेमतो निष्ठा जायते।
विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं।
ख्रीष्टस्य यीशो र्यादृशः स्वभावो युष्माकम् अपि तादृशो भवतु।
स ईश्वररूपी सन् स्वकीयाम् ईश्वरतुल्यतां श्लाघास्पदं नामन्यत,
किन्तु स्वं शून्यं कृत्वा दासरूपी बभूव नराकृतिं लेभे च।
वयमेव छिन्नत्वचो लोका यतो वयम् आत्मनेश्वरं सेवामहे ख्रीष्टेन यीशुना श्लाघामहे शरीरेण च प्रगल्भतां न कुर्व्वामहे।
अतएव यूयम् ईश्वरस्य मनोभिलषिताः पवित्राः प्रियाश्च लोका इव स्नेहयुक्ताम् अनुकम्पां हितैषितां नम्रतां तितिक्षां सहिष्णुताञ्च परिधद्ध्वं।
अपरं स गर्व्वितो भूत्वा यत् शयतान इव दण्डयोग्यो न भवेत् तदर्थं तेन नवशिष्येण न भवितव्यं।
यतस्तात्कालिका लोका आत्मप्रेमिणो ऽर्थप्रेमिण आत्मश्लाघिनो ऽभिमानिनो निन्दकाः पित्रोरनाज्ञाग्राहिणः कृतघ्ना अपवित्राः
कमपि न निन्देयु र्निव्विरोधिनः क्षान्ताश्च भवेयुः सर्व्वान् प्रति च पूर्णं मृदुत्वं प्रकाशयेयुश्चेति तान् आदिश।
किन्तु युष्मदन्तःकरणमध्ये यदि तिक्तेर्ष्या विवादेच्छा च विद्यते तर्हि सत्यमतस्य विरुद्धं न श्लाघध्वं नचानृतं कथयत।
तादृशं ज्ञानम् ऊर्द्ध्वाद् आगतं नहि किन्तु पार्थिवं शरीरि भौतिकञ्च।
यतो हेतोरीर्ष्या विवादेच्छा च यत्र वेद्येते तत्रैव कलहः सर्व्वं दुष्कृतञ्च विद्यते।
तन्नहि किन्तु स प्रतुलं वरं वितरति तस्माद् उक्तमास्ते यथा, आत्माभिमानलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः॥
हे युवानः, यूयमपि प्राचीनलोकानां वश्या भवत सर्व्वे च सर्व्वेषां वशीभूय नम्रताभरणेन भूषिता भवत, यतः,आत्माभिमानिलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः।
अतो यूयम् ईश्वरस्य बलवत्करस्याधो नम्रीभूय तिष्ठत तेन स उचितसमये युष्मान् उच्चीकरिष्यति।
अपरं ये जनाः सत्यधर्म्मम् अगृहीत्वा विपरीतधर्म्मम् गृह्लन्ति तादृशा विरोधिजनाः कोपं क्रोधञ्च भोक्ष्यन्ते।
ईश्वरं प्रति यीशुख्रीष्टेन मम श्लाघाकरणस्य कारणम् आस्ते।
भिन्नदेशिन आज्ञाग्राहिणः कर्त्तुं ख्रीष्टो वाक्येन क्रियया च, आश्चर्य्यलक्षणैश्चित्रक्रियाभिः पवित्रस्यात्मनः प्रभावेन च यानि कर्म्माणि मया साधितवान्,
किन्तु येनाहं संसाराय हतः संसारोऽपि मह्यं हतस्तदस्मत्प्रभो र्यीशुख्रीष्टस्य क्रुशं विनान्यत्र कुत्रापि मम श्लाघनं कदापि न भवतु।
अपरं कटुवाक्यं रोषः कोषः कलहो निन्दा सर्व्वविधद्वेषश्चैतानि युष्माकं मध्याद् दूरीभवन्तु।
अपरञ्च नम्रता स्वर्गदूतानां सेवा चैतादृशम् इष्टकर्म्माचरन् यः कश्चित् परोक्षविषयान् प्रविशति स्वकीयशारीरिकभावेन च मुधा गर्व्वितः सन्
ये च जना भ्रान्त्याचारिगणात् कृच्छ्रेणोद्धृतास्तान् इमे ऽपरिमितदर्पकथा भाषमाणाः शारीरिकसुखाभिलाषैः कामक्रीडाभिश्च मोहयन्ति।