बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

गूढप्रथानां जोखिमाःडायनविरुद्धं ईश्वरस्य शक्तिःईश्वरस्य मूर्तिनां प्रत्याख्यानम्गूढप्रथाभ्यः दूरं तिष्ठन्तुज्योतिषशास्त्र एवं भविष्यवाणीसन्तेरियाजादू-टोना आध्यात्मिक वञ्चनाजादू-टोना-प्रलोभनस्य प्रतिरोधं कुरुतमिथ्याभविष्यद्वादिनो तेषां वञ्चनाः चमूर्तिवेदीनां विनाशःआत्मानां आह्वानम्आत्मानां माध्यमानां च मिथ्यात्वम्भाग्यविदां कुण्डलीनां च वञ्चनागूढप्रथानां निषेधःईश्वरस्य विश्वासः न तु मूर्तिषुमन्त्राणां आकर्षणानां च व्यर्थतामूर्तिभ्यः दूरं स्थातुं महत्त्वम्कृष्णजादूप्रथानां अस्वीकारःअन्धविश्वासप्रथाःमूर्तिभ्यः यज्ञःमिथ्याप्रत्ययाः अन्धविश्वासः चजादूविरुद्धं ईश्वरस्य वचनम्मूर्तिविरुद्धं ईश्वरस्य न्यायःआध्यात्मिकसम्बन्धं भङ्गयन्गूढ अभ्यासबिम्बानां मिथ्यादेवानां च प्रत्याख्यानम्जादू-टोना-प्रथाः भङ्गःताबीजस्य प्रयोगे निन्दाआत्मा पंथानां मिथ्यात्वम्मिथ्यादेवतानां मुखौटां विमोचनEngaño de las Practicas Espiritistasसैन्टेरिया प्रथाएँभविष्यत्वादस्य वञ्चनम्

उपवर्ग

91 प्रतिमानां मिथ्यादेवतानां च अस्वीकारस्य विषये बाइबिलश्लोकाः


1 योहन 5:21

हे प्रियबालकाः, यूयं देवमूर्त्तिभ्यः स्वान् रक्षत। आमेन्।

1 कुरिन्थियों 8:4

देवताबलिप्रसादभक्षणे वयमिदं विद्मो यत् जगन्मध्ये कोऽपि देवो न विद्यते, एकश्चेश्वरो द्वितीयो नास्तीति।

गलातियों 5:19-21

अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम्

पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे।

इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं

पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।

1 कुरिन्थियों 10:14

हे प्रियभ्रातरः, देवपूजातो दूरम् अपसरत।

प्रकाशितवाक्य 21:8

किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।

प्रकाशितवाक्य 22:15

कुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।

प्रेरिता 17:29

अतएव यदि वयम् ईश्वरस्य वंशा भवामस्तर्हि मनुष्यै र्विद्यया कौशलेन च तक्षितं स्वर्णं रूप्यं दृषद् वैतेषामीश्वरत्वम् अस्माभि र्न ज्ञातव्यं।

रोमियों 1:22-23

ते स्वान् ज्ञानिनो ज्ञात्वा ज्ञानहीना अभवन्

अनश्वरस्येश्वरस्य गौरवं विहाय नश्वरमनुष्यपशुपक्ष्युरोगामिप्रभृतेराकृतिविशिष्टप्रतिमास्तैराश्रिताः।

मत्ती 4:10

तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"

कुलुस्सियों 3:5

अतो वेश्यागमनम् अशुचिक्रिया रागः कुत्सिताभिलाषो देवपूजातुल्यो लोभश्चैतानि र्पािथवपुरुषस्याङ्गानि युष्माभि र्निहन्यन्तां।

2 कुरिन्थियों 6:16-17

ईश्वरस्य मन्दिरेण सह वा देवप्रतिमानां का तुलना? अमरस्येश्वरस्य मन्दिरं यूयमेव। ईश्वरेण तदुक्तं यथा, तेषां मध्येऽहं स्वावासं निधास्यामि तेषां मध्ये च यातायातं कुर्व्वन् तेषाम् ईश्वरो भविष्यामि ते च मल्लोका भविष्यन्ति।

अतो हेतोः परमेश्वरः कथयति यूयं तेषां मध्याद् बहिर्भूय पृथग् भवत, किमप्यमेध्यं न स्पृशत; तेनाहं युष्मान् ग्रहीष्यामि,

याकूब 4:4

हे व्यभिचारिणो व्यभिचारिण्यश्च, संसारस्य यत् मैत्र्यं तद् ईश्वरस्य शात्रवमिति यूयं किं न जानीथ? अत एव यः कश्चित् संसारस्य मित्रं भवितुम् अभिलषति स एवेश्वरस्य शत्रु र्भवति।

फिलिप्पियों 3:19

तेषां शेषदशा सर्व्वनाश उदरश्चेश्वरो लज्जा च श्लाघा पृथिव्याञ्च लग्नं मनः।

1 थिस्सलुनीकियों 1:9

यतो युष्मन्मध्ये वयं कीदृशं प्रवेशं प्राप्ता यूयञ्च कथं प्रतिमा विहायेश्वरं प्रत्यावर्त्तध्वम् अमरं सत्यमीश्वरं सेवितुं

मत्ती 6:24

कोपि मनुजो द्वौ प्रभू सेवितुं न शक्नोति, यस्माद् एकं संमन्य तदन्यं न सम्मन्यते, यद्वा एकत्र मनो निधाय तदन्यम् अवमन्यते; तथा यूयमपीश्वरं लक्ष्मीञ्चेत्युभे सेवितुं न शक्नुथ।

प्रेरिता 14:15

हे महेच्छाः कुत एतादृशं कर्म्म कुरुथ? आवामपि युष्मादृशौ सुखदुःखभोगिनौ मनुष्यौ, युयम् एताः सर्व्वा वृथाकल्पनाः परित्यज्य यथा गगणवसुन्धराजलनिधीनां तन्मध्यस्थानां सर्व्वेषाञ्च स्रष्टारममरम् ईश्वरं प्रति परावर्त्तध्वे तदर्थम् आवां युष्माकं सन्निधौ सुसंवादं प्रचारयावः।

रोमियों 2:22

तथा परदारगमनं प्रतिषेधन् स्वयं किं परदारान् गच्छसि? तथा त्वं स्वयं प्रतिमाद्वेषी सन् किं मन्दिरस्य द्रव्याणि हरसि?

गलातियों 4:8-9

अपरञ्च पूर्व्वं यूयम् ईश्वरं न ज्ञात्वा ये स्वभावतोऽनीश्वरास्तेषां दासत्वेऽतिष्ठत।

इदानीम् ईश्वरं ज्ञात्वा यदि वेश्वरेण ज्ञाता यूयं कथं पुनस्तानि विफलानि तुच्छानि चाक्षराणि प्रति परावर्त्तितुं शक्नुथ? यूयं किं पुनस्तेषां दासा भवितुमिच्छथ?

उपवर्ग

गूढप्रथानां जोखिमाःडायनविरुद्धं ईश्वरस्य शक्तिःईश्वरस्य मूर्तिनां प्रत्याख्यानम्गूढप्रथाभ्यः दूरं तिष्ठन्तुज्योतिषशास्त्र एवं भविष्यवाणीसन्तेरियाजादू-टोना आध्यात्मिक वञ्चनाजादू-टोना-प्रलोभनस्य प्रतिरोधं कुरुतमिथ्याभविष्यद्वादिनो तेषां वञ्चनाः चमूर्तिवेदीनां विनाशःआत्मानां आह्वानम्आत्मानां माध्यमानां च मिथ्यात्वम्भाग्यविदां कुण्डलीनां च वञ्चनागूढप्रथानां निषेधःईश्वरस्य विश्वासः न तु मूर्तिषुमन्त्राणां आकर्षणानां च व्यर्थतामूर्तिभ्यः दूरं स्थातुं महत्त्वम्कृष्णजादूप्रथानां अस्वीकारःअन्धविश्वासप्रथाःमूर्तिभ्यः यज्ञःमिथ्याप्रत्ययाः अन्धविश्वासः चजादूविरुद्धं ईश्वरस्य वचनम्मूर्तिविरुद्धं ईश्वरस्य न्यायःआध्यात्मिकसम्बन्धं भङ्गयन्गूढ अभ्यासबिम्बानां मिथ्यादेवानां च प्रत्याख्यानम्जादू-टोना-प्रथाः भङ्गःताबीजस्य प्रयोगे निन्दाआत्मा पंथानां मिथ्यात्वम्मिथ्यादेवतानां मुखौटां विमोचनEngaño de las Practicas Espiritistasसैन्टेरिया प्रथाएँभविष्यत्वादस्य वञ्चनम्