तन्नहि किन्तु भिन्नजातिभि र्ये बलयो दीयन्ते त ईश्वराय तन्नहि भूतेभ्यएव दीयन्ते तस्माद् यूयं यद् भूतानां सहभागिनो भवथेत्यहं नाभिलषामि। प्रभोः कंसेन भूतानामपि कंसेन पानं युष्माभिरसाध्यं; यूयं प्रभो र्भोज्यस्य भूतानामपि भोज्यस्य सहभागिनो भवितुं न शक्नुथ।
अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम् पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे। इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं
किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।
बहवो मायाकर्म्मकारिणः स्वस्वग्रन्थान् आनीय राशीकृत्य सर्व्वेषां समक्षम् अदाहयन्, ततो गणनां कृत्वाबुध्यन्त पञ्चायुतरूप्यमुद्रामूल्यपुस्तकानि दग्धानि।
कोपि मनुजो द्वौ प्रभू सेवितुं न शक्नोति, यस्माद् एकं संमन्य तदन्यं न सम्मन्यते, यद्वा एकत्र मनो निधाय तदन्यम् अवमन्यते; तथा यूयमपीश्वरं लक्ष्मीञ्चेत्युभे सेवितुं न शक्नुथ।
अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम् पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे। इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।
स्वर्गे पृथिव्यां वा यद्यपि केषुचिद् ईश्वर इति नामारोप्यते तादृशाश्च बहव ईश्वरा बहवश्च प्रभवो विद्यन्ते तथाप्यस्माकमद्वितीय ईश्वरः स पिता यस्मात् सर्व्वेषां यदर्थञ्चास्माकं सृष्टि र्जाता, अस्माकञ्चाद्वितीयः प्रभुः स यीशुः ख्रीष्टो येन सर्व्ववस्तूनां येनास्माकमपि सृष्टिः कृता।
तच्चाश्चर्य्यं नहि; यतः स्वयं शयतानपि तेजस्विदूतस्य वेशं धारयति, ततस्तस्य परिचारका अपि धर्म्मपरिचारकाणां वेशं धारयन्तीत्यद्भुतं नहि; किन्तु तेषां कर्म्माणि यादृशानि फलान्यपि तादृशानि भविष्यन्ति।
कुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।
इति हेतोरीश्वरस्तान् कुक्रियायां समर्प्य निजनिजकुचिन्ताभिलाषाभ्यां स्वं स्वं शरीरं परस्परम् अपमानितं कर्त्तुम् अददात्।
अपरम् अवशिष्टा ये मानवा तै र्दण्डै र्न हतास्ते यथा दृष्टिश्रवणगमनशक्तिहीनान् स्वर्णरौप्यपित्तलप्रस्तरकाष्ठमयान् विग्रहान् भूतांश्च न पूजयिष्यन्ति तथा स्वहस्तानां क्रियाभ्यः स्वमनांसि न परावर्त्तितवन्तः
ईश्वरस्य मन्दिरेण सह वा देवप्रतिमानां का तुलना? अमरस्येश्वरस्य मन्दिरं यूयमेव। ईश्वरेण तदुक्तं यथा, तेषां मध्येऽहं स्वावासं निधास्यामि तेषां मध्ये च यातायातं कुर्व्वन् तेषाम् ईश्वरो भविष्यामि ते च मल्लोका भविष्यन्ति।
अपरम् ईश्वरं ज्ञात्वापि ते तम् ईश्वरज्ञानेन नाद्रियन्त कृतज्ञा वा न जाताः; तस्मात् तेषां सर्व्वे तर्का विफलीभूताः, अपरञ्च तेषां विवेकशून्यानि मनांसि तिमिरे मग्नानि। ते स्वान् ज्ञानिनो ज्ञात्वा ज्ञानहीना अभवन् अनश्वरस्येश्वरस्य गौरवं विहाय नश्वरमनुष्यपशुपक्ष्युरोगामिप्रभृतेराकृतिविशिष्टप्रतिमास्तैराश्रिताः। इत्थं त ईश्वरस्य सत्यतां विहाय मृषामतम् आश्रितवन्तः सच्चिदानन्दं सृष्टिकर्त्तारं त्यक्त्वा सृष्टवस्तुनः पूजां सेवाञ्च कृतवन्तः; इति हेतोरीश्वरस्तान् कुक्रियायां समर्प्य निजनिजकुचिन्ताभिलाषाभ्यां स्वं स्वं शरीरं परस्परम् अपमानितं कर्त्तुम् अददात्।
अपरञ्च नम्रता स्वर्गदूतानां सेवा चैतादृशम् इष्टकर्म्माचरन् यः कश्चित् परोक्षविषयान् प्रविशति स्वकीयशारीरिकभावेन च मुधा गर्व्वितः सन् सन्धिभिः शिराभिश्चोपकृतं संयुक्तञ्च कृत्स्नं शरीरं यस्मात् मूर्द्धत ईश्वरीयवृद्धिं प्राप्नोति तं मूर्द्धानं न धारयति तेन मानवेन युष्मत्तः फलापहरणं नानुजानीत।
अपरम् अप्रत्ययिभिः सार्द्धं यूयम् एकयुगे बद्धा मा भूत, यस्माद् धर्म्माधर्म्मयोः कः सम्बन्धोऽस्ति? तिमिरेण सर्द्धं प्रभाया वा का तुलनास्ति? बिलीयालदेवेन साकं ख्रीष्टस्य वा का सन्धिः? अविश्वासिना सार्द्धं वा विश्वासिलोकस्यांशः कः? ईश्वरस्य मन्दिरेण सह वा देवप्रतिमानां का तुलना? अमरस्येश्वरस्य मन्दिरं यूयमेव। ईश्वरेण तदुक्तं यथा, तेषां मध्येऽहं स्वावासं निधास्यामि तेषां मध्ये च यातायातं कुर्व्वन् तेषाम् ईश्वरो भविष्यामि ते च मल्लोका भविष्यन्ति।
हे निर्ब्बोधा गालातिलोकाः, युष्माकं मध्ये क्रुशे हत इव यीशुः ख्रीष्टो युष्माकं समक्षं प्रकाशित आसीत् अतो यूयं यथा सत्यं वाक्यं न गृह्लीथ तथा केनामुह्यत? यावन्तो लोका व्यवस्थायाः कर्म्मण्याश्रयन्ति ते सर्व्वे शापाधीना भवन्ति यतो लिखितमास्ते, यथा, "यः कश्चिद् एतस्य व्यवस्थाग्रन्थस्य सर्व्ववाक्यानि निश्चिद्रं न पालयति स शप्त इति।" ईश्वरस्य साक्षात् कोऽपि व्यवस्थया सपुण्यो न भवति तद व्यक्तं यतः "पुण्यवान् मानवो विश्वासेन जीविष्यतीति" शास्त्रीयं वचः। व्यवस्था तु विश्वाससम्बन्धिनी न भवति किन्त्वेतानि यः पालयिष्यति स एव तै र्जीविष्यतीतिनियमसम्बन्धिनी। ख्रीष्टोऽस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतोऽस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सोऽभिशप्त इति।" तस्माद् ख्रीष्टेन यीशुनेव्राहीम आशी र्भिन्नजातीयलोकेषु वर्त्तते तेन वयं प्रतिज्ञातम् आत्मानं विश्वासेन लब्धुं शक्नुमः। हे भ्रातृगण मानुषाणां रीत्यनुसारेणाहं कथयामि केनचित् मानवेन यो नियमो निरचायि तस्य विकृति र्वृद्धि र्वा केनापि न क्रियते। परन्त्विब्राहीमे तस्य सन्तानाय च प्रतिज्ञाः प्रति शुश्रुविरे तत्र सन्तानशब्दं बहुवचनान्तम् अभूत्वा तव सन्तानायेत्येकवचनान्तं बभूव स च सन्तानः ख्रीष्ट एव। अतएवाहं वदामि, ईश्वरेण यो नियमः पुरा ख्रीष्टमधि निरचायि ततः परं त्रिंशदधिकचतुःशतवत्सरेषु गतेषु स्थापिता व्यवस्था तं नियमं निरर्थकीकृत्य तदीयप्रतिज्ञा लोप्तुं न शक्नोति। यस्मात् सम्पदधिकारो यदि व्यवस्थया भवति तर्हि प्रतिज्ञया न भवति किन्त्वीश्वरः प्रतिज्ञया तदधिकारित्वम् इब्राहीमे ऽददात्। तर्हि व्यवस्था किम्भूता? प्रतिज्ञा यस्मै प्रतिश्रुता तस्य सन्तानस्यागमनं यावद् व्यभिचारनिवारणार्थं व्यवस्थापि दत्ता, सा च दूतैराज्ञापिता मध्यस्थस्य करे समर्पिता च। अहं युष्मत्तः कथामेकां जिज्ञासे यूयम् आत्मानं केनालभध्वं? व्यवस्थापालनेन किं वा विश्वासवाक्यस्य श्रवणेन? नैकस्य मध्यस्थो विद्यते किन्त्वीश्वर एक एव। तर्हि व्यवस्था किम् ईश्वरस्य प्रतिज्ञानां विरुद्धा? तन्न भवतु। यस्माद् यदि सा व्यवस्था जीवनदानेसमर्थाभविष्यत् तर्हि व्यवस्थयैव पुण्यलाभोऽभविष्यत्। किन्तु यीशुख्रीष्टे यो विश्वासस्तत्सम्बन्धियाः प्रतिज्ञायाः फलं यद् विश्वासिलोकेभ्यो दीयते तदर्थं शास्त्रदाता सर्व्वान् पापाधीनान् गणयति। अतएव विश्वासस्यानागतसमये वयं व्यवस्थाधीनाः सन्तो विश्वासस्योदयं यावद् रुद्धा इवारक्ष्यामहे। इत्थं वयं यद् विश्वासेन सपुण्यीभवामस्तदर्थं ख्रीष्टस्य समीपम् अस्मान् नेतुं व्यवस्थाग्रथोऽस्माकं विनेता बभूव। किन्त्वधुनागते विश्वासे वयं तस्य विनेतुरनधीना अभवाम। ख्रीष्टे यीशौ विश्वसनात् सर्व्वे यूयम् ईश्वरस्य सन्ताना जाताः। यूयं यावन्तो लोकाः ख्रीष्टे मज्जिता अभवत सर्व्वे ख्रीष्टं परिहितवन्तः। अतो युष्मन्मध्ये यिहूदियूनानिनो र्दासस्वतन्त्रयो र्योषापुरुषयोश्च कोऽपि विशेषो नास्ति; सर्व्वे यूयं ख्रीष्टे यीशावेक एव। किञ्च यूयं यदि ख्रीष्टस्य भवथ तर्हि सुतराम् इब्राहीमः सन्तानाः प्रतिज्ञया सम्पदधिकारिणश्चाध्वे। यूयं किम् ईदृग् अबोधा यद् आत्मना कर्म्मारभ्य शरीरेण तत् साधयितुं यतध्वे?
अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।
हे प्रियतमाः, यूयं सर्व्वेष्वात्मसु न विश्वसित किन्तु ते ईश्वरात् जाता न वेत्यात्मनः परीक्षध्वं यतो बहवो मृषाभविष्यद्वादिनो जगन्मध्यम् आगतवन्तः।
यत एतादृशः समय आयाति यस्मिन् लोका यथार्थम् उपदेशम् असह्यमानाः कर्णकण्डूयनविशिष्टा भूत्वा निजाभिलाषात् शिक्षकान् संग्रहीष्यन्ति सत्यमताच्च श्रोत्राणि निवर्त्त्य विपथगामिनो भूत्वोपाख्यानेषु प्रवर्त्तिष्यन्ते;