ततः पूर्व्वं तस्मिन्नगरे शिमोन्नामा कश्चिज्जनो बह्वी र्मायाक्रियाः कृत्वा स्वं कञ्चन महापुरुषं प्रोच्य शोमिरोणीयानां मोहं जनयामास।
अपरम् अवशिष्टा ये मानवा तै र्दण्डै र्न हतास्ते यथा दृष्टिश्रवणगमनशक्तिहीनान् स्वर्णरौप्यपित्तलप्रस्तरकाष्ठमयान् विग्रहान् भूतांश्च न पूजयिष्यन्ति तथा स्वहस्तानां क्रियाभ्यः स्वमनांसि न परावर्त्तितवन्तः स्वबधकुहकव्यभिचारचौर्य्योभ्यो ऽपि मनांसि न परावर्त्तितवन्तः।
दीपस्यापि प्रभा तद्वत् पुन र्न द्रक्ष्यते त्वयि। न कन्यावरयोः शब्दः पुनः संश्रोष्यते त्वयि। यस्मान्मुख्याः पृथिव्या ये वणिजस्तेऽभवन् तव। यस्माच्च जातयः सर्व्वा मोहितास्तव मायया।
यस्या गणनया तदधिपतीनां बहुधनोपार्जनं जातं तादृशी गणकभूतग्रस्ता काचन दासी प्रार्थनास्थानगमनकाल आगत्यास्मान् साक्षात् कृतवती। सास्माकं पौलस्य च पश्चाद् एत्य प्रोच्चैः कथामिमां कथितवती, मनुष्या एते सर्व्वोपरिस्थस्येश्वरस्य सेवकाः सन्तोऽस्मान् प्रति परित्राणस्य मार्गं प्रकाशयन्ति। सा कन्या बहुदिनानि तादृशम् अकरोत् तस्मात् पौलो दुःखितः सन् मुखं परावर्त्य तं भूतमवदद्, अहं यीशुख्रीष्टस्य नाम्ना त्वामाज्ञापयामि त्वमस्या बहिर्गच्छ; तेनैव तत्क्षणात् स भूतस्तस्या बहिर्गतः।
अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम् पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे। इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं
कुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।
अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम् पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे। इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।
किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।
हे प्रियतमाः, यूयं सर्व्वेष्वात्मसु न विश्वसित किन्तु ते ईश्वरात् जाता न वेत्यात्मनः परीक्षध्वं यतो बहवो मृषाभविष्यद्वादिनो जगन्मध्यम् आगतवन्तः।
यतो भाक्तख्रीष्टा भाक्तभविष्यद्वादिनश्च उपस्थाय यानि महन्ति लक्ष्माणि चित्रकर्म्माणि च प्रकाशयिष्यन्ति, तै र्यदि सम्भवेत् तर्हि मनोनीतमानवा अपि भ्रामिष्यन्ते।
अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ।
अपरं स महानागो ऽर्थतो दियावलः (अपवादकः) शयतानश्च (विपक्षः) इति नाम्ना विख्यातो यः पुरातनः सर्पः कृत्स्नं नरलोकं भ्रामयति स पृथिव्यां निपातितस्तेन सार्द्धं तस्य दूता अपि तत्र निपातिताः।
ते स्वेषां मनःस्वीश्वराय स्थानं दातुम् अनिच्छुकास्ततो हेतोरीश्वरस्तान् प्रति दुष्टमनस्कत्वम् अविहितक्रियत्वञ्च दत्तवान्। अतएव ते सर्व्वे ऽन्यायो व्यभिचारो दुष्टत्वं लोभो जिघांसा ईर्ष्या वधो विवादश्चातुरी कुमतिरित्यादिभि र्दुष्कर्म्मभिः परिपूर्णाः सन्तः अस्माकं स प्रभु र्यीशुः ख्रीष्टः शारीरिकसम्बन्धेन दायूदो वंशोद्भवः कर्णेजपा अपवादिन ईश्वरद्वेषका हिंसका अहङ्कारिण आत्मश्लाघिनः कुकर्म्मोत्पादकाः पित्रोराज्ञालङ्घका अविचारका नियमलङ्घिनः स्नेहरहिता अतिद्वेषिणो निर्दयाश्च जाताः। ये जना एतादृशं कर्म्म कुर्व्वन्ति तएव मृतियोग्या ईश्वरस्य विचारमीदृशं ज्ञात्वापि त एतादृशं कर्म्म स्वयं कुर्व्वन्ति केवलमिति नहि किन्तु तादृशकर्म्मकारिषु लोकेष्वपि प्रीयन्ते।
युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते।
सावधाना भवत मानुषिकशिक्षात इहलोकस्य वर्णमालातश्चोत्पन्ना ख्रीष्टस्य विपक्षा या दर्शनविद्या मिथ्याप्रतारणा च तया कोऽपि युष्माकं क्षतिं न जनयतु।
यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते,
हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं।
अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।
ईश्वरस्य वादोऽमरः प्रभावविशिष्टश्च सर्व्वस्माद् द्विधारखङ्गादपि तीक्ष्णः, अपरं प्राणात्मनो र्ग्रन्थिमज्जयोश्च परिभेदाय विच्छेदकारी मनसश्च सङ्कल्पानाम् अभिप्रेतानाञ्च विचारकः।
य ईश्वरात् जातः स पापाचारं न करोति किन्त्वीश्वरात् जातो जनः स्वं रक्षति तस्मात् स पापात्मा तं न स्पृशतीति वयं जानीमः।