अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम् पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे। इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।
किन्तु यः कश्चित् संशय्य भुङ्क्तेऽर्थात् न प्रतीत्य भुङ्क्ते, स एवावश्यं दण्डार्हो भविष्यति, यतो यत् प्रत्ययजं नहि तदेव पापमयं भवति।
सावधाना भवत मानुषिकशिक्षात इहलोकस्य वर्णमालातश्चोत्पन्ना ख्रीष्टस्य विपक्षा या दर्शनविद्या मिथ्याप्रतारणा च तया कोऽपि युष्माकं क्षतिं न जनयतु।
येषामनेकेषां लोकानां प्रतीतिरजायत त आगत्य स्वैः कृताः क्रियाः प्रकाशरूपेणाङ्गीकृतवन्तः। बहवो मायाकर्म्मकारिणः स्वस्वग्रन्थान् आनीय राशीकृत्य सर्व्वेषां समक्षम् अदाहयन्, ततो गणनां कृत्वाबुध्यन्त पञ्चायुतरूप्यमुद्रामूल्यपुस्तकानि दग्धानि।
किन्त्वैहिकलोकानां मध्ये ये व्यभिचारिणो लोभिन उपद्राविणो देवपूजका वा तेषां संसर्गः सर्व्वथा विहातव्य इति नहि, विहातव्ये सति युष्माभि र्जगतो निर्गन्तव्यमेव। किन्तु भ्रातृत्वेन विख्यातः कश्चिज्जनो यदि व्यभिचारी लोभी देवपूजको निन्दको मद्यप उपद्रावी वा भवेत् तर्हि तादृशेन मानवेन सह भोजनपानेऽपि युष्माभि र्न कर्त्तव्ये इत्यधुना मया लिखितं।
लिखितमास्ते, लोका भोक्तुं पातुञ्चोपविविशुस्ततः क्रीडितुमुत्थिता इतयनेन प्रकारेण तेषां कैश्चिद् यद्वद् देवपूजा कृता युष्माभिस्तद्वत् न क्रियतां।
कोपि स्वं न वञ्चयतां। युष्माकं कश्चन चेदिहलोकस्य ज्ञानेन ज्ञानवानहमिति बुध्यते तर्हि स यत् ज्ञानी भवेत् तदर्थं मूढो भवतु।
किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।
ईश्वरस्य मन्दिरेण सह वा देवप्रतिमानां का तुलना? अमरस्येश्वरस्य मन्दिरं यूयमेव। ईश्वरेण तदुक्तं यथा, तेषां मध्येऽहं स्वावासं निधास्यामि तेषां मध्ये च यातायातं कुर्व्वन् तेषाम् ईश्वरो भविष्यामि ते च मल्लोका भविष्यन्ति।
देवताबलिप्रसादभक्षणे वयमिदं विद्मो यत् जगन्मध्ये कोऽपि देवो न विद्यते, एकश्चेश्वरो द्वितीयो नास्तीति।
तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"
यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते,
यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।
अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।