इति हेतोरीश्वरस्तान् कुक्रियायां समर्प्य निजनिजकुचिन्ताभिलाषाभ्यां स्वं स्वं शरीरं परस्परम् अपमानितं कर्त्तुम् अददात्।
तन्नहि किन्तु भिन्नजातिभि र्ये बलयो दीयन्ते त ईश्वराय तन्नहि भूतेभ्यएव दीयन्ते तस्माद् यूयं यद् भूतानां सहभागिनो भवथेत्यहं नाभिलषामि।
अपरञ्च नम्रता स्वर्गदूतानां सेवा चैतादृशम् इष्टकर्म्माचरन् यः कश्चित् परोक्षविषयान् प्रविशति स्वकीयशारीरिकभावेन च मुधा गर्व्वितः सन् सन्धिभिः शिराभिश्चोपकृतं संयुक्तञ्च कृत्स्नं शरीरं यस्मात् मूर्द्धत ईश्वरीयवृद्धिं प्राप्नोति तं मूर्द्धानं न धारयति तेन मानवेन युष्मत्तः फलापहरणं नानुजानीत।
हे प्रियतमाः, यूयं सर्व्वेष्वात्मसु न विश्वसित किन्तु ते ईश्वरात् जाता न वेत्यात्मनः परीक्षध्वं यतो बहवो मृषाभविष्यद्वादिनो जगन्मध्यम् आगतवन्तः।
पवित्र आत्मा स्पष्टम् इदं वाक्यं वदति चरमकाले कतिपयलोका वह्निनाङ्कितत्वात् यतो हेतोः सर्व्वमानवानां विशेषतो विश्वासिनां त्राता योऽमर ईश्वरस्तस्मिन् वयं विश्वसामः। त्वम् एतानि वाक्यानि प्रचारय समुपदिश च। अल्पवयष्कत्वात् केनाप्यवज्ञेयो न भव किन्त्वालापेनाचरणेन प्रेम्ना सदात्मत्वेन विश्वासेन शुचित्वेन च विश्वासिनाम् आदर्शो भव। यावन्नाहम् आगमिष्यामि तावत् त्व पाठे चेतयने उपदेशे च मनो निधत्स्व। प्राचीनगणहस्तार्पणसहितेन भविष्यद्वाक्येन यद्दानं तुभ्यं विश्राणितं तवान्तःस्थे तस्मिन् दाने शिथिलमना मा भव। एतेषु मनो निवेशय, एतेषु वर्त्तस्व, इत्थञ्च सर्व्वविषये तव गुणवृद्धिः प्रकाशतां। स्वस्मिन् उपदेशे च सावधानो भूत्वावतिष्ठस्व तत् कृत्वा त्वयात्मपरित्राणं श्रोतृणाञ्च परित्राणं साधयिष्यते। कठोरमनसां कापट्याद् अनृतवादिनां विवाहनिषेधकानां भक्ष्यविशेषनिषेधकानाञ्च
कुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।
यस्या गणनया तदधिपतीनां बहुधनोपार्जनं जातं तादृशी गणकभूतग्रस्ता काचन दासी प्रार्थनास्थानगमनकाल आगत्यास्मान् साक्षात् कृतवती। सास्माकं पौलस्य च पश्चाद् एत्य प्रोच्चैः कथामिमां कथितवती, मनुष्या एते सर्व्वोपरिस्थस्येश्वरस्य सेवकाः सन्तोऽस्मान् प्रति परित्राणस्य मार्गं प्रकाशयन्ति। सा कन्या बहुदिनानि तादृशम् अकरोत् तस्मात् पौलो दुःखितः सन् मुखं परावर्त्य तं भूतमवदद्, अहं यीशुख्रीष्टस्य नाम्ना त्वामाज्ञापयामि त्वमस्या बहिर्गच्छ; तेनैव तत्क्षणात् स भूतस्तस्या बहिर्गतः।
अपरम् अवशिष्टा ये मानवा तै र्दण्डै र्न हतास्ते यथा दृष्टिश्रवणगमनशक्तिहीनान् स्वर्णरौप्यपित्तलप्रस्तरकाष्ठमयान् विग्रहान् भूतांश्च न पूजयिष्यन्ति तथा स्वहस्तानां क्रियाभ्यः स्वमनांसि न परावर्त्तितवन्तः
बहवो मायाकर्म्मकारिणः स्वस्वग्रन्थान् आनीय राशीकृत्य सर्व्वेषां समक्षम् अदाहयन्, ततो गणनां कृत्वाबुध्यन्त पञ्चायुतरूप्यमुद्रामूल्यपुस्तकानि दग्धानि।
अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम् पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे। इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।
किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।
अपरम् ईश्वरं ज्ञात्वापि ते तम् ईश्वरज्ञानेन नाद्रियन्त कृतज्ञा वा न जाताः; तस्मात् तेषां सर्व्वे तर्का विफलीभूताः, अपरञ्च तेषां विवेकशून्यानि मनांसि तिमिरे मग्नानि। ते स्वान् ज्ञानिनो ज्ञात्वा ज्ञानहीना अभवन् अनश्वरस्येश्वरस्य गौरवं विहाय नश्वरमनुष्यपशुपक्ष्युरोगामिप्रभृतेराकृतिविशिष्टप्रतिमास्तैराश्रिताः। इत्थं त ईश्वरस्य सत्यतां विहाय मृषामतम् आश्रितवन्तः सच्चिदानन्दं सृष्टिकर्त्तारं त्यक्त्वा सृष्टवस्तुनः पूजां सेवाञ्च कृतवन्तः; इति हेतोरीश्वरस्तान् कुक्रियायां समर्प्य निजनिजकुचिन्ताभिलाषाभ्यां स्वं स्वं शरीरं परस्परम् अपमानितं कर्त्तुम् अददात्।
तन्नहि किन्तु भिन्नजातिभि र्ये बलयो दीयन्ते त ईश्वराय तन्नहि भूतेभ्यएव दीयन्ते तस्माद् यूयं यद् भूतानां सहभागिनो भवथेत्यहं नाभिलषामि। प्रभोः कंसेन भूतानामपि कंसेन पानं युष्माभिरसाध्यं; यूयं प्रभो र्भोज्यस्य भूतानामपि भोज्यस्य सहभागिनो भवितुं न शक्नुथ।
हे भ्रातरो युष्मान् विनयेऽहं युष्माभि र्या शिक्षा लब्धा ताम् अतिक्रम्य ये विच्छेदान् विघ्नांश्च कुर्व्वन्ति तान् निश्चिनुत तेषां सङ्गं वर्जयत च। यतस्तादृशा लोका अस्माकं प्रभो र्यीशुख्रीष्टस्य दासा इति नहि किन्तु स्वोदरस्यैव दासाः; अपरं प्रणयवचनै र्मधुरवाक्यैश्च सरललोकानां मनांसि मोहयन्ति।
तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"
यूयं नानाविधनूतनशिक्षाभि र्न परिवर्त्तध्वं यतोऽनुग्रहेणान्तःकरणस्य सुस्थिरीभवनं क्षेमं न च खाद्यद्रव्यैः। यतस्तदाचारिणस्तै र्नोपकृताः।
किन्तु हस्तनिर्म्मितेश्वरा ईश्वरा नहि पौलनाम्ना केनचिज्जनेन कथामिमां व्याहृत्य केवलेफिषनगरे नहि प्रायेण सर्व्वस्मिन् आशियादेशे प्रवृत्तिं ग्राहयित्वा बहुलोकानां शेमुषी परावर्त्तिता, एतद् युष्माभि र्दृश्यते श्रूयते च। तेनास्माकं वाणिज्यस्य सर्व्वथा हानेः सम्भवनं केवलमिति नहि, आशियादेशस्थै र्वा सर्व्वजगत्स्थै र्लोकैः पूज्या यार्तिमी महादेवी तस्या मन्दिरस्यावज्ञानस्य तस्या ऐश्वर्य्यस्य नाशस्य च सम्भावना विद्यतेे।
ईश्वरस्य मन्दिरेण सह वा देवप्रतिमानां का तुलना? अमरस्येश्वरस्य मन्दिरं यूयमेव। ईश्वरेण तदुक्तं यथा, तेषां मध्येऽहं स्वावासं निधास्यामि तेषां मध्ये च यातायातं कुर्व्वन् तेषाम् ईश्वरो भविष्यामि ते च मल्लोका भविष्यन्ति। अतो हेतोः परमेश्वरः कथयति यूयं तेषां मध्याद् बहिर्भूय पृथग् भवत, किमप्यमेध्यं न स्पृशत; तेनाहं युष्मान् ग्रहीष्यामि,
अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।