प्रभातस्य नूतनः उदयः, नूतनः चायं दिवसः ईश्वरेण अस्मभ्यं प्रदत्तः। अस्य कृते ईश्वरस्य स्तुतिः, कृतज्ञता च भवतु। यत् अस्माकं जीवने अनुकम्पा कृपा च प्रदर्शिता, तत् कृते विशेषतः धन्यवादः।
प्रतिदिनं मार्गे विघ्नाः सम्मुखं आगच्छन्ति। कदाचित् वयं निराशाम् अपि अनुभवन्ति। किन्तु एतेषु सर्वेषु अपि परिस्थितिषु, अद्यतनं जीवनम् ईश्वरस्य वरदानम् इति न विस्मर्तव्यम्। जीवितम् स्वतः न आगतम्, अपि तु सृष्टिकर्ता प्रदत्तम् अस्ति।
परितः विद्यमाना सृष्टेः सौन्दर्यं दृष्ट्वा ईश्वरस्य धन्यवादः भवतु। यत्किञ्चित् ईश्वरेण निर्मितम्, तत् सर्वं कल्याणकरम् एव। अस्मिन् दिवसे अधिकतमं लाभं प्राप्तुं पवित्रात्मा नः साहाय्यं करोतु। तस्य प्रकाशे एव वयं गच्छेम। एवं कृत्वा वयं किमपि न विस्मरामः, अपि च भगवतः दयां स्मरन्तः सदा प्रसन्नाः भविष्यामः।
अन्येभ्यः सुप्रभातं वक्तुं पूर्वं पवित्रात्मा, तुभ्यं सुप्रभातम्। दिवसस्य आरम्भः तेन सह एव करणीयः। रात्रौ शयनसमये तस्य सान्निध्ये आनन्दम् अनुभूय निद्रां गच्छ।
ततो यीशुरुवाच, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैश्च साकं प्रभौ परमेश्वरे प्रीयस्व,
अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।
अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।
श्वः कृते मा चिन्तयत, श्वएव स्वयं स्वमुद्दिश्य चिन्तयिष्यति; अद्यतनी या चिन्ता साद्यकृते प्रचुरतरा।
अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।
हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि।
अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।
एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्।
यतो मम युगम् अनायासं मम भारश्च लघुः।
सर्व्वदानन्दत।
निरन्तरं प्रार्थनां कुरुध्वं।
सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।
यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।
तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।
यच्च कुरुध्वे तत् मानुषमनुद्दिश्य प्रभुम् उद्दिश्य प्रफुल्लमनसा कुरुध्वं,
यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ।
अतएव कृपां ग्रहीतुं प्रयोजनीयोपकारार्थम् अनुग्रहं प्राप्तुञ्च वयम् उत्साहेनानुग्रहसिंहासनस्य समीपं यामः।
युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।