Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

107 वार्षिकोत्सवानां कृते बाइबिलश्लोकाः

107 वार्षिकोत्सवानां कृते बाइबिलश्लोकाः

ईश्वरः एव दांपत्ययोगस्य केन्द्रबिन्दुः भवेत्। तस्यैव शक्त्या वयं प्रियवचनाः प्रतिबद्धाश्च जीवनसाथिनः प्रति भवितुं शक्नुमः। ईश्वरस्य आशीर्वादेन युक्तं दांपत्यं दृढतरं भवति। अतः भक्त्या पवित्रात्मशोधनद्वारा कृतज्ञतां प्रकाशयितुं परमावश्यकम्। सुखदुःखमिश्रितानि सर्वाणि वर्षाणि प्रार्थनाद्वारा ईश्वराय समर्पणीयानि। एवं कृत्वा दीर्घायुष्मत् सुदृढं च दांपत्यं प्राप्य वयं प्रतिवर्षं वार्षिकोत्सवं प्रियजनानां मध्ये आचरितुं शक्नुमः।

जीवनसाथिना सह विशेषसमयं यापयितुं न विस्मरामः। ईश्वरस्य करुणां स्मृत्वा सर्वस्मै कृतज्ञतां प्रकाशयामः। परस्परं प्राप्तस्य सौभाग्यस्य आनन्दं लभामहे। भगवतः हस्तं धृत्वा अग्रसरितुं प्रयत्नाः कुर्मः। (मत्ती १९.६)


कुलुस्सियों 3:14

विशेषतः सिद्धिजनकेन प्रेमबन्धनेन बद्धा भवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 13:13

इदानीं प्रत्ययः प्रत्याशा प्रेम च त्रीण्येतानि तिष्ठन्ति तेषां मध्ये च प्रेम श्रेष्ठं।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 5:25

अपरञ्च हे पुरुषाः, यूयं ख्रीष्ट इव स्वस्वयोषित्सु प्रीयध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 19:4-6

स प्रत्युवाच, प्रथमम् ईश्वरो नरत्वेन नारीत्वेन च मनुजान् ससर्ज, तस्मात् कथितवान्, मानुषः स्वपितरौ परित्यज्य स्वपत्न्याम् आसक्ष्यते, तौ द्वौ जनावेकाङ्गौ भविष्यतः, किमेतद् युष्माभि र्न पठितम्? अतस्तौ पुन र्न द्वौ तयोरेकाङ्गत्वं जातं, ईश्वरेण यच्च समयुज्यत, मनुजो न तद् भिन्द्यात्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 22:37-39

ततो यीशुरुवाच, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैश्च साकं प्रभौ परमेश्वरे प्रीयस्व, एषा प्रथममहाज्ञा। तस्याः सदृशी द्वितीयाज्ञैषा, तव समीपवासिनि स्वात्मनीव प्रेम कुरु।

अध्यायः    |  संस्करणम् प्रतिलिपि
मार्क 10:6-9

किन्तु सृष्टेरादौ ईश्वरो नरान् पुंरूपेण स्त्रीरूपेण च ससर्ज। "ततः कारणात् पुमान् पितरं मातरञ्च त्यक्त्वा स्वजायायाम् आसक्तो भविष्यति, तौ द्वाव् एकाङ्गौ भविष्यतः।" तस्मात् तत्कालमारभ्य तौ न द्वाव् एकाङ्गौ। अतः कारणाद् ईश्वरो यदयोजयत् कोपि नरस्तन्न वियेजयेत्।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 1:37

किमपि कर्म्म नासाध्यम् ईश्वरस्य।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 15:12-13

अहं युष्मासु यथा प्रीये यूयमपि परस्परं तथा प्रीयध्वम् एषा ममाज्ञा। मित्राणां कारणात् स्वप्राणदानपर्य्यन्तं यत् प्रेम तस्मान् महाप्रेम कस्यापि नास्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:10

अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 13:8

युष्माकं परस्परं प्रेम विना ऽन्यत् किमपि देयम् ऋणं न भवतु, यतो यः परस्मिन् प्रेम करोति तेन व्यवस्था सिध्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 13:4-7

प्रेम चिरसहिष्णु हितैषि च, प्रेम निर्द्वेषम् अशठं निर्गर्व्वञ्च। अपरं तत् कुत्सितं नाचरति, आत्मचेष्टां न कुरुते सहसा न क्रुध्यति परानिष्टं न चिन्तयति, अधर्म्मे न तुष्यति सत्य एव सन्तुष्यति। तत् सर्व्वं तितिक्षते सर्व्वत्र विश्वसिति सर्व्वत्र भद्रं प्रतीक्षते सर्व्वं सहते च।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 16:14

युष्माभिः सर्व्वाणि कर्म्माणि प्रेम्ना निष्पाद्यन्तां।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 9:15

अपरम् ईश्वरस्यानिर्व्वचनीयदानात् स धन्यो भूयात्।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:22-23

किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 4:2-3

सर्व्वथा नम्रतां मृदुतां तितिक्षां परस्परं प्रम्ना सहिष्णुताञ्चाचरत। किन्तु यूयं ख्रीष्टं न तादृशं परिचितवन्तः, यतो यूयं तं श्रुतवन्तो या सत्या शिक्षा यीशुतो लभ्या तदनुसारात् तदीयोपदेशं प्राप्तवन्तश्चेति मन्ये। तस्मात् पूर्व्वकालिकाचारकारी यः पुरातनपुरुषो मायाभिलाषै र्नश्यति तं त्यक्त्वा युष्माभि र्मानसिकभावो नूतनीकर्त्तव्यः, यो नवपुरुष ईश्वरानुरूपेण पुण्येन सत्यतासहितेन धार्म्मिकत्वेन च सृष्टः स एव परिधातव्यश्च। अतो यूयं सर्व्वे मिथ्याकथनं परित्यज्य समीपवासिभिः सह सत्यालापं कुरुत यतो वयं परस्परम् अङ्गप्रत्यङ्गा भवामः। अपरं क्रोधे जाते पापं मा कुरुध्वम्, अशान्ते युष्माकं रोषेसूर्य्योऽस्तं न गच्छतु। अपरं शयताने स्थानं मा दत्त। चोरः पुनश्चैर्य्यं न करोतु किन्तु दीनाय दाने सामर्थ्यं यज्जायते तदर्थं स्वकराभ्यां सद्वृत्त्या परिश्रमं करोतु। अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु। प्रणयबन्धनेन चात्मन एैक्यं रक्षितुं यतध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 4:31-32

अपरं कटुवाक्यं रोषः कोषः कलहो निन्दा सर्व्वविधद्वेषश्चैतानि युष्माकं मध्याद् दूरीभवन्तु। यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 1:3-5

अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन् तस्मात् मम यादृशं युद्धं युष्माभिरदर्शि साम्प्रतं श्रूयते च तादृशं युद्धं युष्माकम् अपि भवति। यति वारान् युष्माकं स्मरामि तति वारान् आ प्रथमाद् अद्य यावद् युष्माकं सुसंवादभागित्वकारणाद् ईश्वरं धन्यं वदामि।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 2:1-2

ख्रीष्टाद् यदि किमपि सान्त्वनं कश्चित् प्रेमजातो हर्षः किञ्चिद् आत्मनः समभागित्वं काचिद् अनुकम्पा कृपा वा जायते तर्हि यूयं ममाह्लादं पूरयन्त ततस्तस्मै यीशुनाम्ने स्वर्गमर्त्यपातालस्थितैः सर्व्वै र्जानुपातः कर्त्तव्यः, तातस्थेश्वरस्य महिम्ने च यीशुख्रीष्टः प्रभुरिति जिह्वाभिः स्वीकर्त्तव्यं। अतो हे प्रियतमाः, युष्माभि र्यद्वत् सर्व्वदा क्रियते तद्वत् केवले ममोपस्थितिकाले तन्नहि किन्त्विदानीम् अनुपस्थितेऽपि मयि बहुतरयत्नेनाज्ञां गृहीत्वा भयकम्पाभ्यां स्वस्वपरित्राणं साध्यतां। यत ईश्वर एव स्वकीयानुरोधाद् युष्मन्मध्ये मनस्कामनां कर्म्मसिद्धिञ्च विदधाति। यूयं कलहविवादर्विजतम् आचारं कुर्व्वन्तोऽनिन्दनीया अकुटिला ईश्वरस्य निष्कलङ्काश्च सन्तानाइव वक्रभावानां कुटिलाचारिणाञ्च लोकानां मध्ये तिष्ठत, यतस्तेषां मध्ये यूयं जीवनवाक्यं धारयन्तो जगतो दीपका इव दीप्यध्वे। युष्माभिस्तथा कृते मम यत्नः परिश्रमो वा न निष्फलो जात इत्यहं ख्रीष्टस्य दिने श्लाघां कर्त्तुं शक्ष्यामि। युष्माकं विश्वासार्थकाय बलिदानाय सेवनाय च यद्यप्यहं निवेदितव्यो भवेयं तथापि तेनानन्दामि सर्व्वेषां युष्माकम् आनन्दस्यांशी भवामि च। तद्वद् यूयमप्यानन्दत मदीयानन्दस्यांशिनो भवत च। युष्माकम् अवस्थाम् अवगत्याहमपि यत् सान्त्वनां प्राप्नुयां तदर्थं तीमथियं त्वरया युष्मत्समीपं प्रेषयिष्यामीति प्रभौ प्रत्याशां कुर्व्वे। एकभावा एकप्रेमाण एकमनस एकचेष्टाश्च भवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 5:16-18

सर्व्वदानन्दत। निरन्तरं प्रार्थनां कुरुध्वं। सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 6:17-19

इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता योऽमर ईश्वरस्तस्मिन् विश्वसन्तु सदाचारं कुर्व्वन्तु सत्कर्म्मधनेन धनिनो सुकला दातारश्च भवन्तु, यथा च सत्यं जीवनं पाप्नुयुस्तथा पारत्रिकाम् उत्तमसम्पदं सञ्चिन्वन्त्वेति त्वयादिश्यन्तां।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 10:24-25

अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं। अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 13:1-2

भ्रातृषु प्रेम तिष्ठतु। अतिथिसेवा युष्माभि र्न विस्मर्य्यतां ये दष्यस्य सेवां कुर्व्वन्ति ते यस्या द्रव्यभोजनस्यानधिकारिणस्तादृशी यज्ञवेदिरस्माकम् आस्ते। यतो येषां पशूनां शोणितं पापनाशाय महायाजकेन महापवित्रस्थानस्याभ्यन्तरं नीयते तेषां शरीराणि शिबिराद् बहि र्दह्यन्ते। तस्माद् यीशुरपि यत् स्वरुधिरेण प्रजाः पवित्रीकुर्य्यात् तदर्थं नगरद्वारस्य बहि र्मृतिं भुक्तवान्। अतो हेतोरस्माभिरपि तस्यापमानं सहमानैः शिबिराद् बहिस्तस्य समीपं गन्तव्यं। यतो ऽत्रास्माकं स्थायि नगरं न विद्यते किन्तु भावि नगरम् अस्माभिरन्विष्यते। अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं। अपरञ्च परोपकारो दानञ्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते। यूयं स्वनायकानाम् आज्ञाग्राहिणो वश्याश्च भवत यतो यैरुपनिधिः प्रतिदातव्यस्तादृशा लोका इव ते युष्मदीयात्मनां रक्षणार्थं जाग्रति, अतस्ते यथा सानन्दास्तत् कुर्य्यु र्न च सार्त्तस्वरा अत्र यतध्वं यतस्तेषाम् आर्त्तस्वरो युष्माकम् इष्टजनको न भवेत्। अपरञ्च यूयम् अस्मन्निमित्तिं प्रार्थनां कुरुत यतो वयम् उत्तममनोविशिष्टाः सर्व्वत्र सदाचारं कर्त्तुम् इच्छुकाश्च भवाम इति निश्चितं जानीमः। विशेषतोऽहं यथा त्वरया युष्मभ्यं पुन र्दीये तदर्थं प्रार्थनायै युष्मान् अधिकं विनये। यतस्तया प्रच्छन्नरूपेण दिव्यदूताः केषाञ्चिद् अतिथयोऽभवन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 1:17

यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 4:8

विशेषतः परस्परं गाढं प्रेम कुरुत, यतः, पापानामपि बाहुल्यं प्रेम्नैवाच्छादयिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 5:6-7

अतो यूयम् ईश्वरस्य बलवत्करस्याधो नम्रीभूय तिष्ठत तेन स उचितसमये युष्मान् उच्चीकरिष्यति। यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 4:19

अस्मासु स प्रथमं प्रीतवान् इति कारणाद् वयं तस्मिन् प्रीयामहे।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:16

येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 7:7

याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 11:28-30

हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि। अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे। एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्। यतो मम युगम् अनायासं मम भारश्च लघुः।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 12:22-26

अथ स शिष्येभ्यः कथयामास, युष्मानहं वदामि, किं खादिष्यामः? किं परिधास्यामः? इत्युक्त्वा जीवनस्य शरीरस्य चार्थं चिन्तां मा कार्ष्ट। भक्ष्याज्जीवनं भूषणाच्छरीरञ्च श्रेष्ठं भवति। काकपक्षिणां कार्य्यं विचारयत, ते न वपन्ति शस्यानि च न छिन्दन्ति, तेषां भाण्डागाराणि न सन्ति कोषाश्च न सन्ति, तथापीश्वरस्तेभ्यो भक्ष्याणि ददाति, यूयं पक्षिभ्यः श्रेष्ठतरा न किं? अपरञ्च भावयित्वा निजायुषः क्षणमात्रं वर्द्धयितुं शक्नोति, एतादृशो लाको युष्माकं मध्ये कोस्ति? अतएव क्षुद्रं कार्य्यं साधयितुम् असमर्था यूयम् अन्यस्मिन् कार्य्ये कुतो भावयथ?

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 14:1-3

मनोदुःखिनो मा भूत; ईश्वरे विश्वसित मयि च विश्वसित। अहं पितरि तिष्ठामि पिता मयि तिष्ठतीति किं त्वं न प्रत्यषि? अहं यद्वाक्यं वदामि तत् स्वतो न वदामि किन्तु यः पिता मयि विराजते स एव सर्व्वकर्म्माणि कराति। अतएव पितर्य्यहं तिष्ठामि पिता च मयि तिष्ठति ममास्यां कथायां प्रत्ययं कुरुत, नो चेत् कर्म्महेतोः प्रत्ययं कुरुत। अहं युष्मानतियथार्थं वदामि, यो जनो मयि विश्वसिति सोहमिव कर्म्माणि करिष्यति वरं ततोपि महाकर्म्माणि करिष्यति यतो हेतोरहं पितुः समीपं गच्छामि। यथा पुत्रेण पितु र्महिमा प्रकाशते तदर्थं मम नाम प्रोच्य यत् प्रार्थयिष्यध्वे तत् सफलं करिष्यामि। यदि मम नाम्ना यत् किञ्चिद् याचध्वे तर्हि तदहं साधयिष्यामि। यदि मयि प्रीयध्वे तर्हि ममाज्ञाः समाचरत। ततो मया पितुः समीपे प्रार्थिते पिता निरन्तरं युष्माभिः सार्द्धं स्थातुम् इतरमेकं सहायम् अर्थात् सत्यमयम् आत्मानं युष्माकं निकटं प्रेषयिष्यति। एतज्जगतो लोकास्तं ग्रहीतुं न शक्नुवन्ति यतस्ते तं नापश्यन् नाजनंश्च किन्तु यूयं जानीथ यतो हेतोः स युष्माकमन्त र्निवसति युष्माकं मध्ये स्थास्यति च। अहं युष्मान् अनाथान् कृत्वा न यास्यामि पुनरपि युष्माकं समीपम् आगमिष्यामि। कियत्कालरत् परम् अस्य जगतो लोका मां पुन र्न द्रक्ष्यन्ति किन्तु यूयं द्रक्ष्यथ;अहं जीविष्यामि तस्मात् कारणाद् यूयमपि जीविष्यथ। मम पितु गृहे बहूनि वासस्थानि सन्ति नो चेत् पूर्व्वं युष्मान् अज्ञापयिष्यं युष्मदर्थं स्थानं सज्जयितुं गच्छामि। पितर्य्यहमस्मि मयि च यूयं स्थ, तथाहं युष्मास्वस्मि तदपि तदा ज्ञास्यथ। यो जनो ममाज्ञा गृहीत्वा ता आचरति सएव मयि प्रीयते; यो जनश्च मयि प्रीयते सएव मम पितुः प्रियपात्रं भविष्यति, तथाहमपि तस्मिन् प्रीत्वा तस्मै स्वं प्रकाशयिष्यामि। तदा ईष्करियोतीयाद् अन्यो यिहूदास्तमवदत्, हे प्रभो भवान् जगतो लोकानां सन्निधौ प्रकाशितो न भूत्वास्माकं सन्निधौ कुतः प्रकाशितो भविष्यति? ततो यीशुः प्रत्युदितवान्, यो जनो मयि प्रीयते स ममाज्ञा अपि गृह्लाति, तेन मम पितापि तस्मिन् प्रेष्यते, आवाञ्च तन्निकटमागत्य तेन सह निवत्स्यावः। यो जनो मयि न प्रीयते स मम कथा अपि न गृह्लाति पुनश्च यामिमां कथां यूयं शृणुथ सा कथा केवलस्य मम न किन्तु मम प्रेरको यः पिता तस्यापि कथा। इदानीं युष्माकं निकटे विद्यमानोहम् एताः सकलाः कथाः कथयामि। किन्त्वितः परं पित्रा यः सहायोऽर्थात् पवित्र आत्मा मम नाम्नि प्रेरयिष्यति स सर्व्वं शिक्षयित्वा मयोक्ताः समस्ताः कथा युष्मान् स्मारयिष्यति। अहं युष्माकं निकटे शान्तिं स्थापयित्वा यामि, निजां शान्तिं युष्मभ्यं ददामि, जगतो लोका यथा ददाति तथाहं न ददामि; युष्माकम् अन्तःकरणानि दुःखितानि भीतानि च न भवन्तु। अहं गत्वा पुनरपि युष्माकं समीपम् आगमिष्यामि मयोक्तं वाक्यमिदं यूयम् अश्रौष्ट; यदि मय्यप्रेष्यध्वं तर्ह्यहं पितुः समीपं गच्छामि ममास्यां कथायां यूयम् अह्लादिष्यध्वं यतो मम पिता मत्तोपि महान्। तस्या घटनायाः समये यथा युष्माकं श्रद्धा जायते तदर्थम् अहं तस्या घटनायाः पूर्व्वम् इदानीं युष्मान् एतां वार्त्तां वदामि। यदि गत्वाहं युष्मन्निमित्तं स्थानं सज्जयामि तर्हि पनरागत्य युष्मान् स्वसमीपं नेष्यामि, ततो यत्राहं तिष्ठामि तत्र यूयमपि स्थास्यथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 2:46-47

सर्व्व एकचित्तीभूय दिने दिने मन्दिरे सन्तिष्ठमाना गृहे गृहे च पूपानभञ्जन्त ईश्वरस्य धन्यवादं कुर्व्वन्तो लोकैः समादृताः परमानन्देन सरलान्तःकरणेन भोजनं पानञ्चकुर्व्वन्। परमेश्वरो दिने दिने परित्राणभाजनै र्मण्डलीम् अवर्द्धयत्।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 5:3-5

तत् केवलं नहि किन्तु क्लेशभोगेऽप्यानन्दामो यतः क्लेशााद् धैर्य्यं जायत इति वयं जानीमः, धैर्य्याच्च परीक्षितत्वं जायते, परीक्षितत्वात् प्रत्याशा जायते, प्रत्याशातो व्रीडितत्वं न जायते, यस्माद् अस्मभ्यं दत्तेन पवित्रेणात्मनास्माकम् अन्तःकरणानीश्वरस्य प्रेमवारिणा सिक्तानि।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:28

अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 1:4-9

ईश्वरो यीशुख्रीष्टेन युष्मान् प्रति प्रसादं प्रकाशितवान्, तस्मादहं युष्मन्निमित्तं सर्व्वदा मदीयेश्वरं धन्यं वदामि। ख्रीष्टसम्बन्धीयं साक्ष्यं युष्माकं मध्ये येन प्रकारेण सप्रमाणम् अभवत् तेन यूयं ख्रीष्टात् सर्व्वविधवक्तृताज्ञानादीनि सर्व्वधनानि लब्धवन्तः। ततोऽस्मत्प्रभो र्यीशुख्रीष्टस्य पुनरागमनं प्रतीक्षमाणानां युष्माकं कस्यापि वरस्याभावो न भवति। अपरम् अस्माकं प्रभो र्यीशुख्रीष्टस्य दिवसे यूयं यन्निर्द्दोषा भवेत तदर्थं सएव यावदन्तं युष्मान् सुस्थिरान् करिष्यति। य ईश्वरः स्वपुत्रस्यास्मत्प्रभो र्यीशुख्रीष्टस्यांशिनः कर्त्तुं युष्मान् आहूतवान् स विश्वसनीयः।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 1:3-4

कृपालुः पिता सर्व्वसान्त्वनाकारीश्वरश्च योऽस्मत्प्रभोर्यीशुख्रीष्टस्य तात ईश्वरः स धन्यो भवतु। यतो वयम् ईश्वरात् सान्त्वनां प्राप्य तया सान्त्वनया यत् सर्व्वविधक्लिष्टान् लोकान् सान्त्वयितुं शक्नुयाम तदर्थं सोऽस्माकं सर्व्वक्लेशसमयेऽस्मान् सान्त्वयति।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 6:9

सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 3:20-21

अस्माकम् अन्तरे या शक्तिः प्रकाशते तया सर्व्वातिरिक्तं कर्म्म कुर्व्वन् अस्माकं प्रार्थनां कल्पनाञ्चातिक्रमितुं यः शक्नोति ख्रीष्टयीशुना समिते र्मध्ये सर्व्वेषु युगेषु तस्य धन्यवादो भवतु। इति।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:4

यूयं प्रभौ सर्व्वदानन्दत। पुन र्वदामि यूयम् आनन्दत।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 2:6-7

अतो यूयं प्रभुं यीशुख्रीष्टं यादृग् गृहीतवन्तस्तादृक् तम् अनुचरत। तस्मिन् बद्धमूलाः स्थापिताश्च भवत या च शिक्षा युष्माभि र्लब्धा तदनुसाराद् विश्वासे सुस्थिराः सन्तस्तेनैव नित्यं धन्यवादं कुरुत।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 1:12

मह्यं शक्तिदाता योऽस्माकं प्रभुः ख्रीष्टयीशुस्तमहं धन्यं वदामि।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 तीमुथियु 1:7

यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
तीतुस 2:11-14

यतो हेतोस्त्राणाजनक ईश्वरस्यानुग्रहः सर्व्वान् मानवान् प्रत्युदितवान् स चास्मान् इदं शिक्ष्यति यद् वयम् अधर्म्मं सांसारिकाभिलाषांश्चानङ्गीकृत्य विनीतत्वेन न्यायेनेश्वरभक्त्या चेहलोके आयु र्यापयामः, परमसुखस्याशाम् अर्थतो ऽस्माकं महत ईश्वरस्य त्राणकर्त्तु र्यीशुख्रीष्टस्य प्रभावस्योदयं प्रतीक्षामहे। यतः स यथास्मान् सर्व्वस्माद् अधर्म्मात् मोचयित्वा निजाधिकारस्वरूपं सत्कर्म्मसूत्सुकम् एकं प्रजावर्गं पावयेत् तदर्थम् अस्माकं कृते आत्मदानं कृतवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 6:10

यतो युष्माभिः पवित्रलोकानां य उपकारो ऽकारि क्रियते च तेनेश्वरस्य नाम्ने प्रकाशितं प्रेम श्रमञ्च विस्मर्त्तुम् ईश्वरोऽन्यायकारी न भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 12:28

अतएव निश्चलराज्यप्राप्तैरस्माभिः सोऽनुग्रह आलम्बितव्यो येन वयं सादरं सभयञ्च तुष्टिजनकरूपेणेश्वरं सेवितुं शक्नुयाम।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 1:3-5

अस्माकं प्रभो र्यीशुख्रीष्टस्य तात ईश्वरो धन्यः, यतः स स्वकीयबहुकृपातो मृतगणमध्याद् यीशुख्रीष्टस्योत्थानेन जीवनप्रत्याशार्थम् अर्थतो ऽक्षयनिष्कलङ्काम्लानसम्पत्तिप्राप्त्यर्थम् अस्मान् पुन र्जनयामास। सा सम्पत्तिः स्वर्गे ऽस्माकं कृते सञ्चिता तिष्ठति, यूयञ्चेश्वरस्य शक्तितः शेषकाले प्रकाश्यपरित्राणार्थं विश्वासेन रक्ष्यध्वे।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 3:7

हे पुरुषाः, यूयं ज्ञानतो दुर्ब्बलतरभाजनैरिव योषिद्भिः सहवासं कुरुत, एकस्य जीवनवरस्य सहभागिनीभ्यताभ्यः समादरं वितरत च न चेद् युष्माकं प्रार्थनानां बाधा जनिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 4:10

येन यो वरो लब्धस्तेनैव स परम् उपकरोतृ, इत्थं यूयम् ईश्वरस्य बहुविधप्रसादस्योत्तमा भाण्डागाराधिपा भवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 4:7

हे प्रियतमाः, वयं परस्परं प्रेम करवाम, यतः प्रेम ईश्वरात् जायते, अपरं यः कश्चित् प्रेम करोति स ईश्वरात् जात ईश्वरं वेत्ति च।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

करुणामय प्रभो, भवतः अटलभक्तेः कृते धन्यवादः। भवान् दयालुः कृपालुः च आसीत्, तस्य कृते धन्यवादः। भवतः करुणया आच्छादितः अहं भवतः प्रेम्णि मग्नः आनन्दितः च अभवम्। हे पितः, अस्माकं वार्षिकोत्सवस्य एकत्र आचरणस्य अवसरप्रदानस्य कृते, भवतः शान्तेः संरक्षणस्य च कृते धन्यवादं वदामि। भवतः वचनं पवित्रात्मना सह मधुरसहवासः च अस्माकं जीवने सर्वोपरि स्थाप्यताम्, इति प्रार्थये। हे ईश्वर, भवतः हस्तधारणेन परीक्षाः उत्तीर्णाः भवेयुः, यतः खलु भवान् एव शिक्षितवान् यत् वास्तविकं दाम्पत्यं तत् नास्ति यत्र समस्याः न सन्ति, अपि तु यत्र समस्यानां सामुहिकं समाधानं क्रियते। अस्माकं गृहं दाम्पत्यबन्धनं च सुदृढं कर्तुं प्रज्ञां ददातु, येन भवतः सान्निध्यं अस्माकं जीवनस्य केन्द्रबिन्दुः भवेत्, अपमानजनकैः आक्रामकैः च वचनैः शत्रवे अस्माकं हृदये स्थानं न लभ्यताम्। हे प्रभो, व्यभिचारात्, विच्छेदात् च अस्मान् रक्षतु, शान्तिः मेलनं च अस्मासु सदैव विद्यमानं भवेत्, यतः भवान् यत् युक्तवान् तत् मनुष्यः मा वियोजयतु। येशोः नाम्नि। आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्