प्राणानां त्यागः येशोः अतीव पीडादायकः लज्जाकरश्च आसीत्। तथापि तस्य दुःखस्य मध्ये अद्भुताः घटनाः घटिताः याः प्रमाणयन्ति यत् येशुः सामान्यः मानवः नासीत्। यथा तस्य वचनम् "पितः, क्षमस्व एतान्, न हि जानन्ति किं कुर्वन्ति" (लूका २३:३४)।
येशुख्रीष्टः क्रूशे तीव्रयातनायाः अनन्तरं प्राणान् अत्यजत्। अस्माकं स्थाने यः दण्डः तेन प्राप्तः सः अतीव तीव्रः आसीत्, येन गभीराणि क्षतानि जातानि बहु रक्तस्रावश्च जातः। तदेव रक्तं अस्मान् क्रीतवान् पापात् च मोचितवान्।
सुसमाचारानुसारं येशुः क्रूशारोपणात् किञ्चित्कालपश्चात् एव प्राणान् अत्यजत्। तथापि तस्य मृत्युं सुनिश्चितं कर्तुं एकः सैनिकः तस्य पार्श्वे शूलं प्रावेशयत्।
एतादृशीं घटनां स्मृत्वा ईश्वरस्य सम्मुखे धार्मिकं जीवनं यापयितुं प्रयत्नः करणीयः। एवम् एव येशोः त्यागस्य महत्त्वं अवगन्तव्यं यः अस्मान् अरक्षत् अनन्तात् दण्डात् च मोचितवान् यं वयं अर्हामः। तस्य नाम पूजयितव्यं तस्य अनन्तप्रेम्णः कृते च कृतज्ञता दर्शयितव्या।
तदा यीशुरम्लरसं गृहीत्वा सर्व्वं सिद्धम् इति कथां कथयित्वा मस्तकं नमयन् प्राणान् पर्य्यत्यजत्।
अपरञ्च ये जीवन्ति ते यत् स्वार्थं न जीवन्ति किन्तु तेषां कृते यो जनो मृतः पुनरुत्थापितश्च तमुद्दिश्य यत् जीवन्ति तदर्थमेव स सर्व्वेषां कृते मृतवान्।
युष्माभि र्ज्ञातं दिनद्वयात् परं निस्तारमह उपस्थास्यति, तत्र मनुजसुतः क्रुशेन हन्तुं परकरेषु समर्पिष्यते।
अपरञ्च स यद् अम्रियत तेनैकदा पापम् उद्दिश्याम्रियत, यच्च जीवति तेनेश्वरम् उद्दिश्य जीवति;
मनुष्यपुत्रेणावश्यं बहवो यातना भोक्तव्याः प्राचीनलोकैः प्रधानयाजकैरध्यापकैश्च स निन्दितः सन् घातयिष्यते तृतीयदिने उत्थास्यति च, यीशुः शिष्यानुपदेष्टुमारभ्य कथामिमां स्पष्टमाचष्ट।
अस्माकं शरीरे ख्रीष्टस्य जीवनं यत् प्रकाशेत तदर्थं तस्मिन् शरीरे यीशो र्मरणमपि धारयामः।
तृतीययामे "एली एली लामा शिवक्तनी", अर्थात् मदीश्वर मदीश्वर कुतो मामत्याक्षीः? यीशुरुच्चैरिति जगाद।
किञ्च इत्थमुच्चैराहूय प्राणान् त्यजन्तं तं दृष्द्वा तद्रक्षणाय नियुक्तो यः सेनापतिरासीत् सोवदत् नरोयम् ईश्वरपुत्र इति सत्यम्।
ईश्वरराज्यापेक्ष्यरिमथीययूषफनामा मान्यमन्त्री समेत्य पीलातसविधं निर्भयो गत्वा यीशोर्देहं ययाचे।
यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।
क्रुशे पातितेन तस्य रक्तेन सन्धिं विधाय तेनैव स्वर्गमर्त्त्यस्थितानि सर्व्वाणि स्वेन सह सन्धापयितुञ्चेश्वरेणाभिलेषे।
पश्य वयं यिरूशालम्नगरं यामः, तत्र प्रधानयाजकाध्यापकानां करेषु मनुष्यपुत्रः समर्पिष्यते;
ते च तं हन्तुमाज्ञाप्य तिरस्कृत्य वेत्रेण प्रहर्त्तुं क्रुशे धातयितुञ्चान्यदेशीयानां करेषु समर्पयिष्यन्ति, किन्तु स तृतीयदिवसे श्मशानाद् उत्थापिष्यते।
अपरं तेषां गालील्प्रदेशे भ्रमणकाले यीशुना ते गदिताः, मनुजसुतो जनानां करेषु समर्पयिष्यते तै र्हनिष्यते च,
किन्तु तृतीयेऽहि्न म उत्थापिष्यते, तेन ते भृशं दुःखिता बभूवः।
ततः पूपं गृहीत्वा ईश्वरगुणान् कीर्त्तयित्वा भङ्क्ता तेभ्यो दत्वावदत्, युष्मदर्थं समर्पितं यन्मम वपुस्तदिदं, एतत् कर्म्म मम स्मरणार्थं कुरुध्वं।
प्रधानयाजका अध्यायकाश्च यथा तं हन्तुं शक्नुवन्ति तथोपायाम् अचेष्टन्त किन्तु लोकेभ्यो बिभ्युः।
अथ भोजनान्ते तादृशं पात्रं गृहीत्वावदत्, युष्मत्कृते पातितं यन्मम रक्तं तेन निर्णीतनवनियमरूपं पानपात्रमिदं।
पापिनां करेषु समर्पितेन क्रुशे हतेन च मनुष्यपुत्रेण तृतीयदिवसे श्मशानादुत्थातव्यम् इति कथां स गलीलि तिष्ठन् युष्मभ्यं कथितवान् तां स्मरत।
तदा यीशुरकथयत्, हे पितरेतान् क्षमस्व यत एते यत् कर्म्म कुर्व्वन्ति तन् न विदुः; पश्चात्ते गुटिकापातं कृत्वा तस्य वस्त्राणि विभज्य जगृहुः।
यतो युष्मानहं वदामि, अपराधिजनैः सार्द्धं गणितः स भविष्यति। इदं यच्छास्त्रीयं वचनं लिखितमस्ति तन्मयि फलिष्यति यतो मम सम्बन्धीयं सर्व्वं सेत्स्यति।
परेऽहनि योहन् स्वनिकटमागच्छन्तं यिशुं विलोक्य प्रावोचत् जगतः पापमोचकम् ईश्वरस्य मेषशावकं पश्यत।
यद्यई पृथिव्या ऊर्द्व्वे प्रोत्थापितोस्मि तर्हि सर्व्वान् मानवान् स्वसमीपम् आकर्षिष्यामि।
कथं तस्य मृति र्भविष्यति, एतद् बोधयितुं स इमां कथाम् अकथयत्।
पश्चाद् एको योद्धा शूलाघातेन तस्य कुक्षिम् अविधत् तत्क्षणात् तस्माद् रक्तं जलञ्च निरगच्छत्।
तस्मिन् यीशौ ईश्वरस्य पूर्व्वनिश्चितमन्त्रणानिरूपणानुसारेण मृत्यौ समर्पिते सति यूयं तं धृत्वा दुष्टलोकानां हस्तैः क्रुशे विधित्वाहत।
किन्त्वीश्वरस्तं निधनस्य बन्धनान्मोचयित्वा उदस्थापयत् यतः स मृत्युना बद्धस्तिष्ठतीति न सम्भवति।
अतो यं यीशुं यूयं क्रुशेऽहत परमेश्वरस्तं प्रभुत्वाभिषिक्तत्वपदे न्ययुंक्तेति इस्रायेलीया लोका निश्चितं जानन्तु।
तर्हि सर्व्व इस्रायेेलीयलोका यूयं जानीत नासरतीयो यो यीशुख्रीष्टः क्रुशे युष्माभिरविध्यत यश्चेश्वरेण श्मशानाद् उत्थापितः, तस्य नाम्ना जनोयं स्वस्थः सन् युष्माकं सम्मुखे प्रोत्तिष्ठति।
किन्त्वस्मासु पापिषु सत्स्वपि निमित्तमस्माकं ख्रीष्टः स्वप्राणान् त्यक्तवान्, तत ईश्वरोस्मान् प्रति निजं परमप्रेमाणं दर्शितवान्।
वयं यत् पापस्य दासाः पुन र्न भवामस्तदर्थम् अस्माकं पापरूपशरीरस्य विनाशार्थम् अस्माकं पुरातनपुरुषस्तेन साकं क्रुशेऽहन्यतेति वयं जानीमः।
यतो जीवन्तो मृताश्चेत्युभयेषां लोकानां प्रभुत्वप्राप्त्यर्थं ख्रीष्टो मृत उत्थितः पुनर्जीवितश्च।
यतोऽहं यद् यत् ज्ञापितस्तदनुसारात् युष्मासु मुख्यां यां शिक्षां समार्पयं सेयं, शास्त्रानुसारात् ख्रीष्टोऽस्माकं पापमोचनार्थं प्राणान् त्यक्तवान्,
यतो वयं तेन यद् ईश्वरीयपुण्यं भवामस्तदर्थं पापेन सह यस्य ज्ञातेयं नासीत् स एव तेनास्माकं विनिमयेन पापः कृतः।
ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।
किन्तु येनाहं संसाराय हतः संसारोऽपि मह्यं हतस्तदस्मत्प्रभो र्यीशुख्रीष्टस्य क्रुशं विनान्यत्र कुत्रापि मम श्लाघनं कदापि न भवतु।
यच्च दण्डाज्ञारूपं ऋणपत्रम् अस्माकं विरुद्धम् आसीत् तत् प्रमार्ज्जितवान् शलाकाभिः क्रुशे बद्ध्वा दूरीकृतवांश्च।
वयं यत् पापेभ्यो निवृत्य धर्म्मार्थं जीवामस्तदर्थं स स्वशरीरेणास्माकं पापानि क्रुश ऊढवान् तस्य प्रहारै र्यूयं स्वस्था अभवत।
यस्माद् ईश्वरस्य सन्निधिम् अस्मान् आनेतुम् अधार्म्मिकाणां विनिमयेन धार्म्मिकः ख्रीष्टो ऽप्येककृत्वः पापानां दण्डं भुक्तवान्, स च शरीरसम्बन्धे मारितः किन्त्वात्मनः सम्बन्धे पुन र्जीवितो ऽभवत्।
स चास्माकं पापानां प्रायश्चित्तं केवलमस्माकं नहि किन्तु लिखिलसंसारस्य पापानां प्रायश्चित्तं।
यश्च यीशुख्रीष्टो विश्वस्तः साक्षी मृतानां मध्ये प्रथमजातो भूमण्डलस्थराजानाम् अधिपतिश्च भवति, एतेभ्यो ऽनुग्रहः शान्तिश्च युष्मासु वर्त्ततां।
अपरं ते नूतनमेकं गीतमगायन्, यथा, ग्रहीतुं पत्रिकां तस्य मुद्रा मोचयितुं तथा। त्वमेवार्हसि यस्मात् त्वं बलिवत् छेदनं गतः। सर्व्वाभ्यो जातिभाषाभ्यः सर्व्वस्माद् वंशदेशतः। ईश्वरस्य कृते ऽस्मान् त्वं स्वीयरक्तेन क्रीतवान्।
ततो मयोक्तं हे महेच्छ भवानेव तत् जानाति। तेन कथितं, इमे महाक्लेशमध्याद् आगत्य मेेषशावकस्य रुधिरेण स्वीयपरिच्छदान् प्रक्षालितवन्तः शुक्लीकृतवन्तश्च।
स दूतो योषितो जगाद, यूयं मा भैष्ट, क्रुशहतयीशुं मृगयध्वे तदहं वेद्मि।
सोऽत्र नास्ति, यथावदत् तथोत्थितवान्; एतत् प्रभोः शयनस्थानं पश्यत।
ततः स किञ्चिद्दूरं गत्वाधोमुखः पतन् प्रार्थयाञ्चक्रे, हे मत्पितर्यदि भवितुं शक्नोति, तर्हि कंसोऽयं मत्तो दूरं यातु; किन्तु मदिच्छावत् न भवतु, त्वदिच्छावद् भवतु।
अपरमुदितवान् हे पित र्हे पितः सर्व्वें त्वया साध्यं, ततो हेतोरिमं कंसं मत्तो दूरीकुरु, किन्तु तन् ममेच्छातो न तवेच्छातो भवतु।
हे पित र्यदि भवान् सम्मन्यते तर्हि कंसमेनं ममान्तिकाद् दूरय किन्तु मदिच्छानुरूपं न त्वदिच्छानुरूपं भवतु।
अपरञ्च मूसा यथा प्रान्तरे सर्पं प्रोत्थापितवान् मनुष्यपुत्रोऽपि तथैवोत्थापितव्यः;
तस्माद् यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।
यज्जीवनभक्ष्यं स्वर्गादागच्छत् सोहमेव इदं भक्ष्यं यो जनो भुङ्क्त्ते स नित्यजीवी भविष्यति। पुनश्च जगतो जीवनार्थमहं यत् स्वकीयपिशितं दास्यामि तदेव मया वितरितं भक्ष्यम्।
अहं युष्मानतियथार्थं वदामि, धान्यबीजं मृत्तिकायां पतित्वा यदि न मृयते तर्ह्येकाकी तिष्ठति किन्तु यदि मृयते तर्हि बहुगुणं फलं फलति।
तदानीं यीशो र्माता मातु र्भगिनी च या क्लियपा भार्य्या मरियम् मग्दलीनी मरियम् च एतास्तस्य क्रुशस्य सन्निधौ समतिष्ठन्।
ततो यीशुः स्वमातरं प्रियतमशिष्यञ्च समीपे दण्डायमानौ विलोक्य मातरम् अवदत्, हे योषिद् एनं तव पुत्रं पश्य,
शिष्यन्त्ववदत्, एनां तव मातरं पश्य। ततः स शिष्यस्तद्घटिकायां तां निजगृहं नीतवान्।
कण्टकानां मुकुटं निर्म्माय तच्छिरसि ददुः, तस्य दक्षिणकरे वेत्रमेकं दत्त्वा तस्य सम्मुखे जानूनि पातयित्वा, हे यिहूदीयानां राजन्, तुभ्यं नम इत्युक्त्वा तं तिरश्चक्रुः,
तदानीं ते तं क्रुशेन संविध्य तस्य वसनानि गुटिकापातेन विभज्य जगृहुः, तस्मात्, विभजन्तेऽधरीयं मे ते मनुष्याः परस्परं। मदुत्तरीयवस्त्रार्थं गुटिकां पातयन्ति च॥यदेतद्वचनं भविष्यद्वादिभिरुक्तमासीत्, तदा तद् असिध्यत्,
तदा ते हन्तुं द्वावपराधिनौ तेन सार्द्धं निन्युः।
अपरं शिरःकपालनामकस्थानं प्राप्य तं क्रुशे विविधुः; तद्द्वयोरपराधिनोरेकं तस्य दक्षिणो तदन्यं वामे क्रुशे विविधुः।
तदोभयपार्श्वयो र्विद्धौ यावपराधिनौ तयोरेकस्तं विनिन्द्य बभाषे, चेत्त्वम् अभिषिक्तोसि तर्हि स्वमावाञ्च रक्ष।
तदा पीलातः प्रधानयाजकादिलोकान् जगाद्, अहमेतस्य कमप्यपराधं नाप्तवान्।
किन्त्वन्यस्तं तर्जयित्वावदत्, ईश्वरात्तव किञ्चिदपि भयं नास्ति किं? त्वमपि समानदण्डोसि,
योग्यपात्रे आवां स्वस्वकर्म्मणां समुचितफलं प्राप्नुवः किन्त्वनेन किमपि नापराद्धं।
अथ स यीशुं जगाद हे प्रभे भवान् स्वराज्यप्रवेशकाले मां स्मरतु।
तदा यीशुः कथितवान् त्वां यथार्थं वदामि त्वमद्यैव मया सार्द्धं परलोकस्य सुखस्थानं प्राप्स्यसि।
इत्थं सेनागणो यीशुं क्रुशे विधित्वा तस्य परिधेयवस्त्रं चतुरो भागान् कृत्वा एकैकसेना एकैकभागम् अगृह्लत् तस्योत्तरीयवस्त्रञ्चागृह्लत्। किन्तूत्तरीयवस्त्रं सूचिसेवनं विना सर्व्वम् ऊतं।
तस्मात्ते व्याहरन् एतत् कः प्राप्स्यति? तन्न खण्डयित्वा तत्र गुटिकापातं करवाम। विभजन्तेऽधरीयं मे वसनं ते परस्परं। ममोत्तरीयवस्त्रार्थं गुटिकां पातयन्ति च। इति यद्वाक्यं धर्म्मपुस्तके लिखितमास्ते तत् सेनागणेनेत्थं व्यवहरणात् सिद्धमभवत्।
तदा महायाजको निजवसनं छित्त्वा जगाद, एष ईश्वरं निन्दितवान्, अस्माकमपरसाक्ष्येण किं प्रयोजनं? पश्यत, यूयमेवास्यास्याद् ईश्वरनिन्दां श्रुतवन्तः,
युष्माभिः किं विविच्यते? ते प्रत्यूचुः, वधार्होऽयं।
प्रभाते जाते प्रधानयाजकलोकप्राचीना यीशुं हन्तुं तत्प्रतिकूलं मन्त्रयित्वा
मां प्रति परमेश्वरस्यादेशात् तेभ्य आदीयत, तेन च कुलालस्य क्षेत्रं क्रीतमिति यद्वचनं यिरिमियभविष्यद्वादिना प्रोक्तं तत् तदासिध्यत्।
अनन्तरं यीशौ तदधिपतेः सम्मुख उपतिष्ठति स तं पप्रच्छ, त्वं किं यिहूदीयानां राजा? तदा यीशुस्तमवदत्, त्वं सत्यमुक्तवान्।
किन्तु प्रधानयाजकप्राचीनैरभियुक्तेन तेन किमपि न प्रत्यवादि।
ततः पीलातेन स उदितः, इमे त्वत्प्रतिकूलतः कति कति साक्ष्यं ददति, तत् त्वं न शृणोषि?
तथापि स तेषामेकस्यापि वचस उत्तरं नोदितवान्; तेन सोऽधिपति र्महाचित्रं विदामास।
अन्यच्च तन्महकालेऽधिपतेरेतादृशी रातिरासीत्, प्रजा यं कञ्चन बन्धिनं याचन्ते, तमेव स मोचयतीति।
तदानीं बरब्बानामा कश्चित् ख्यातबन्ध्यासीत्।
ततः पीलातस्तत्र मिलितान् लोकान् अपृच्छत्, एष बरब्बा बन्धी ख्रीष्टविख्यातो यीशुश्चैतयोः कं मोचयिष्यामि? युष्माकं किमीप्सितं?
तैरीर्ष्यया स समर्पित इति स ज्ञातवान्।
अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।
तं बद्व्वा नीत्वा पन्तीयपीलाताख्याधिपे समर्पयामासुः।
अथ प्रभाते सति प्रधानयाजकाः प्राञ्च उपाध्यायाः सर्व्वे मन्त्रिणश्च सभां कृत्वा यीशुृं बन्धयित्व पीलाताख्यस्य देशाधिपतेः सविधं नीत्वा समर्पयामासुः।
पश्चात् पीलातः प्रधानयाजकान् शासकान् लोकांश्च युगपदाहूय बभाषे,
राज्यविपर्य्ययकारकोयम् इत्युक्त्वा मनुष्यमेनं मम निकटमानैष्ट किन्तु पश्यत युष्माकं समक्षम् अस्य विचारं कृत्वापि प्रोक्तापवादानुरूपेणास्य कोप्यपराधः सप्रमाणो न जातः,
यूयञ्च हेरोदः सन्निधौ प्रेषिता मया तत्रास्य कोप्यपराधस्तेनापि न प्राप्तः।पश्यतानेन वधहेेतुकं किमपि नापराद्धं।
तस्मादेनं ताडयित्वा विहास्यामि।
तदारभ्य पीलातस्तं मोचयितुं चेष्टितवान् किन्तु यिहूदीया रुवन्तो व्याहरन् यदीमं मानवं त्यजसि तर्हि त्वं कैसरस्य मित्रं न भवसि, यो जनः स्वं राजानं वक्ति सएव कैमरस्य विरुद्धां कथां कथयति।
पश्चात् तं जीवनस्याधिपतिम् अहत किन्त्वीश्वरः श्मशानात् तम् उदस्थापयत तत्र वयं साक्षिण आस्महे।
वयञ्च यिहूदीयदेशे यिरूशालम्नगरे च तेन कृतानां सर्व्वेषां कर्म्मणां साक्षिणो भवामः। लोकास्तं क्रुशे विद्ध्वा हतवन्तः,
यस्मात् स्वशोणितेन विश्वासात् पापनाशको बली भवितुं स एव पूर्व्वम् ईश्वरेण निश्चितः, इत्थम् ईश्वरीयसहिष्णुत्वात् पुराकृतपापानां मार्ज्जनकरणे स्वीययाथार्थ्यं तेन प्रकाश्यते,
आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?
यतो हेतो र्ये विनश्यन्ति ते तां क्रुशस्य वार्त्तां प्रलापमिव मन्यन्ते किञ्च परित्राणं लभमानेष्वस्मासु सा ईश्वरीयशक्तिस्वरूपा।
यतो यीशुख्रीष्टं तस्य क्रुशे हतत्वञ्च विना नान्यत् किमपि युष्मन्मध्ये ज्ञापयितुं विहितं बुद्धवान्।
स्वकीयक्रुशे शत्रुतां निहत्य तेनैवैकस्मिन् शरीरे तयो र्द्वयोरीश्वरेण सन्धिं कारयितुं निश्चतवान्।
इत्थं नरमूर्त्तिम् आश्रित्य नम्रतां स्वीकृत्य मृत्योरर्थतः क्रुशीयमृत्योरेव भोगायाज्ञाग्राही बभूव।
जाग्रतो निद्रागता वा वयं यत् तेन प्रभुना सह जीवामस्तदर्थं सोऽस्माकं कृते प्राणान् त्यक्तवान्।
तथापि दिव्यदूतगणेभ्यो यः किञ्चिन् न्यूनीकृतोऽभवत् तं यीशुं मृत्युभोगहेतोस्तेजोगौरवरूपेण किरीटेन विभूषितं पश्यामः, यत ईश्वरस्यानुग्रहात् स सर्व्वेषां कृते मृत्युम् अस्वदत।
कर्त्तव्ये सति जगतः सृष्टिकालमारभ्य बहुवारं तस्य मृत्युभोग आवश्यकोऽभवत्; किन्त्विदानीं स आत्मोत्सर्गेण पापनाशार्थम् एककृत्वो जगतः शेषकाले प्रचकाशे।
तद्वत् ख्रीष्टोऽपि बहूनां पापवहनार्थं बलिरूपेणैककृत्व उत्ससृजे, अपरं द्वितीयवारं पापाद् भिन्नः सन् ये तं प्रतीक्षन्ते तेषां परित्राणार्थं दर्शनं दास्यति।
यूयं निरर्थकात् पैतृकाचारात् क्षयणीयै रूप्यसुवर्णादिभि र्मुक्तिं न प्राप्य
निष्कलङ्कनिर्म्मलमेषशावकस्येव ख्रीष्टस्य बहुमूल्येन रुधिरेण मुक्तिं प्राप्तवन्त इति जानीथ।
तदर्थमेव यूयम् आहूता यतः ख्रीष्टोऽपि युष्मन्निमित्तं दुःखं भुक्त्वा यूयं यत् तस्य पदचिह्नै र्व्रजेत तदर्थं दृष्टान्तमेकं दर्शितवान्।
अस्माकं विनिमयेन ख्रीष्टः शरीरसम्बन्धे दण्डं भुक्तवान् अतो हेतोः शरीरसम्बन्धे यो दण्डं भुक्तवान् स पापात् मुक्त
मेषवत्सस्य रक्तेन स्वसाक्ष्यवचनेन च। ते तु निर्जितवन्तस्तं न च स्नेहम् अकुर्व्वत। प्राणोष्वपि स्वकीयेषु मरणस्यैव सङ्कटे।
यतो यूनम् यथा त्र्यहोरात्रं बृहन्मीनस्य कुक्षावासीत्, तथा मनुजपुत्रोपि त्र्यहोरात्रं मेदिन्या मध्ये स्थास्यति।
स पुनरुवाच, मनुष्यपुत्रेण वहुयातना भोक्तव्याः प्राचीनलोकैः प्रधानयाजकैरध्यापकैश्च सोवज्ञाय हन्तव्यः किन्तु तृतीयदिवसे श्मशानात् तेनोत्थातव्यम्।
तस्माद् यिहूदीयास्तं धर्त्तुम् उद्यतास्तथापि कोपि तस्य गात्रे हस्तं नार्पयद् यतो हेतोस्तदा तस्य समयो नोपतिष्ठति।
तदा ते पाषाणान् उत्तोल्य तमाहन्तुम् उदयच्छन् किन्तु यीशु र्गुप्तो मन्तिराद् बहिर्गत्य तेषां मध्येन प्रस्थितवान्।
तदा तेषां कियफानामा यस्तस्मिन् वत्सरे महायाजकपदे न्ययुज्यत स प्रत्यवदद् यूयं किमपि न जानीथ;
यीशु र्यद्यपिमर्थायां तद्भगिन्याम् इलियासरि चाप्रीयत,
समग्रदेशस्य विनाशतोपि सर्व्वलोकार्थम् एकस्य जनस्य मरणम् अस्माकं मङ्गलहेतुकम् एतस्य विवेचनामपि न कुरुथ।
एतां कथां स निजबुद्ध्या व्याहरद् इति न,
किन्तु यीशूस्तद्देशीयानां कारणात् प्राणान् त्यक्ष्यति, दिशि दिशि विकीर्णान् ईश्वरस्य सन्तानान् संगृह्यैकजातिं करिष्यति च, तस्मिन् वत्सरे कियफा महायाजकत्वपदे नियुक्तः सन् इदं भविष्यद्वाक्यं कथितवान्।
तद्दिनमारभ्य ते कथं तं हन्तुं शक्नुवन्तीति मन्त्रणां कर्त्तुं प्रारेभिरे।
स्वं प्रति यद् घटिष्यते तज् ज्ञात्वा यीशुरग्रेसरः सन् तानपृच्छत् कं गवेषयथ?
तदा ते सर्व्वे रुवन्तो व्याहरन् एनं मानुषं नहि बरब्बां मोचय। किन्तु स बरब्बा दस्युरासीत्।
ते प्रत्यवदन्, नासरतीयं यीशुं; ततो यीशुरवादीद् अहमेव सः; तैः सह विश्वासघाती यिहूदाश्चातिष्ठत्।
तदाहमेव स तस्यैतां कथां श्रुत्वैव ते पश्चादेत्य भूमौ पतिताः।
तदा यीशुः प्रत्यवदद् ईश्वरेणादत्तं ममोपरि तव किमप्यधिपतित्वं न विद्यते, तथापि यो जनो मां तव हस्ते समार्पयत् तस्य महापातकं जातम्।
फलतो लौकिकभावेन दायूदो वंशे ख्रीष्टं जन्म ग्राहयित्वा तस्यैव सिंहासने समुवेष्टुं तमुत्थापयिष्यति परमेश्वरः शपथं कुत्वा दायूदः समीप इमम् अङ्गीकारं कृतवान्,
तथा सति, एकेन मानुषेण पापं पापेन च मरणं जगतीं प्राविशत् अपरं सर्व्वेषां पापित्वात् सर्व्वे मानुषा मृते र्निघ्ना अभवत्।
यतो यद्वत् मानुषद्वारा मृत्युः प्रादुर्भूतस्तद्वत् मानुषद्वारा मृतानां पुनरुत्थितिरपि प्रदुर्भूता।
आदमा यथा सर्व्वे मरणाधीना जातास्तथा ख्रीष्टेन सर्व्वे जीवयिष्यन्ते।
ख्रीष्टोऽस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतोऽस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सोऽभिशप्त इति।"
ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।
अपरं व्यवस्थानुसारेण प्रायशः सर्व्वाणि रुधिरेण परिष्क्रियन्ते रुधिरपातं विना पापमोचनं न भवति च।
तेषां नेत्रेभ्यश्चाश्रूणि सर्व्वाणीश्वरेण प्रमार्क्ष्यन्ते मृत्युरपि पुन र्न भविष्यति शोकविलापक्लेशा अपि पुन र्न भविष्यन्ति, यतः प्रथमानि सर्व्वाणि व्यतीतिनि।