Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

100 भगवतः दिवसस्य विषये बाइबिलस्य श्लोकाः

100 भगवतः दिवसस्य विषये बाइबिलस्य श्लोकाः
2 पतरस 3:10

किन्तु क्षपायां चौर इव प्रभो र्दिनम् आगमिष्यति तस्मिन् महाशब्देन गगनमण्डलं लोप्स्यते मूलवस्तूनि च तापेन गलिष्यन्ते पृथिवी तन्मध्यस्थितानि कर्म्माणि च धक्ष्यन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 1:10

तत्र प्रभो र्दिने आत्मनाविष्टो ऽहं स्वपश्चात् तूरीध्वनिवत् महारवम् अश्रौषं,

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 5:2

यतो रात्रौ यादृक् तस्करस्तादृक् प्रभो र्दिनम् उपस्थास्यतीति यूयं स्वयमेव सम्यग् जानीथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 2:20

महाभयानकस्यैव तद्दिनस्य परेशितुः। पुरागमाद् रविः कृष्णो रक्तश्चन्द्रो भविष्यतः।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 1:8

अपरम् अस्माकं प्रभो र्यीशुख्रीष्टस्य दिवसे यूयं यन्निर्द्दोषा भवेत तदर्थं सएव यावदन्तं युष्मान् सुस्थिरान् करिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 4:16-17

यतः प्रभुः सिंहनादेन प्रधानस्वर्गदूतस्योच्चैः शब्देनेश्वरीयतूरीवाद्येन च स्वयं स्वर्गाद् अवरोक्ष्यति तेन ख्रीष्टाश्रिता मृतलोकाः प्रथमम् उत्थास्यान्ति। अपरम् अस्माकं मध्ये ये जीवन्तोऽवशेक्ष्यन्ते त आकाशे प्रभोः साक्षात्करणार्थं तैः सार्द्धं मेघवाहनेन हरिष्यन्ते; इत्थञ्च वयं सर्व्वदा प्रभुना सार्द्धं स्थास्यामः।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 6:17

यतस्तस्य क्रोधस्य महादिनम् उपस्थितं कः स्थातुं शक्नोति?

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 24:42

युष्माकं प्रभुः कस्मिन् दण्ड आगमिष्यति, तद् युष्माभि र्नावगम्यते, तस्मात् जाग्रतः सन्तस्तिष्ठत।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 19:15

तस्य वक्त्राद् एकस्तीक्षणः खङ्गो निर्गच्छति तेन खङ्गेन सर्व्वजातीयास्तेनाघातितव्याः स च लौहदण्डेन तान् चारयिष्यति सर्व्वशक्तिमत ईश्वरस्य प्रचण्डकोपरसोत्पादकद्राक्षाकुण्डे यद्यत् तिष्ठति तत् सर्व्वं स एव पदाभ्यां पिनष्टि।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 1:14

यूयमितः पूर्व्वमप्यस्मान् अंशतो गृहीतवन्तः, यतः प्रभो र्यीशुख्रीष्टस्य दिने यद्वद् युष्मास्वस्माकं श्लाघा तद्वद् अस्मासु युष्माकमपि श्लाघा भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 4:7

सर्व्वेषाम् अन्तिमकाल उपस्थितस्तस्माद् यूयं सुबुद्धयः प्रार्थनार्थं जाग्रतश्च भवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 25:13

अतो जाग्रतः सन्तस्तिष्ठत, मनुजसुतः कस्मिन् दिने कस्मिन् दण्डे वागमिष्यति, तद् युष्माभि र्न ज्ञायते।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 2:16

यस्मिन् दिने मया प्रकाशितस्य सुसंवादस्यानुसाराद् ईश्वरो यीशुख्रीष्टेन मानुषाणाम् अन्तःकरणानां गूढाभिप्रायान् धृत्वा विचारयिष्यति तस्मिन् विचारदिने तत् प्रकाशिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 17:31

यतः स्वनियुक्तेन पुरुषेण यदा स पृथिवीस्थानां सर्व्वलोकानां विचारं करिष्यति तद्दिनं न्यरूपयत्; तस्य श्मशानोत्थापनेन तस्मिन् सर्व्वेभ्यः प्रमाणं प्रादात्।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 10:25

अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 16:14

त आश्चर्य्यकर्म्मकारिणो भूतानाम् आत्मानः सन्ति सर्व्वशक्तिमत ईश्वरस्य महादिने येन युद्धेन भवितव्यं तत्कृते कृत्स्रजगतो राज्ञाः संग्रहीतुं तेषां सन्निधिं निर्गच्छन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 24:30

तदानीम् आकाशमध्ये मनुजसुतस्य लक्ष्म दर्शिष्यते, ततो निजपराक्रमेण महातेजसा च मेघारूढं मनुजसुतं नभसागच्छन्तं विलोक्य पृथिव्याः सर्व्ववंशीया विलपिष्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 13:11

प्रत्ययीभवनकालेऽस्माकं परित्राणस्य सामीप्याद् इदानीं तस्य सामीप्यम् अव्यवहितं; अतः समयं विविच्यास्माभिः साम्प्रतम् अवश्यमेव निद्रातो जागर्त्तव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 3:19-21

अतः स्वेषां पापमोचनार्थं खेदं कृत्वा मनांसि परिवर्त्तयध्वं, तस्माद् ईश्वरात् सान्त्वनाप्राप्तेः समय उपस्थास्यति; तस्मिन्नेव समये मन्दिरप्रवेशकानां समीपे भिक्षारणार्थं यं जन्मखञ्जमानुषं लोका मन्दिरस्य सुन्दरनाम्नि द्वारे प्रतिदिनम् अस्थापयन् तं वहन्तस्तद्वारं आनयन्। पुनश्च पूर्व्वकालम् आरभ्य प्रचारितो यो यीशुख्रीष्टस्तम् ईश्वरो युष्मान् प्रति प्रेषयिष्यति। किन्तु जगतः सृष्टिमारभ्य ईश्वरो निजपवित्रभविष्यद्वादिगणोन यथा कथितवान् तदनुसारेण सर्व्वेषां कार्य्याणां सिद्धिपर्य्यन्तं तेन स्वर्गे वासः कर्त्तव्यः।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 थिस्सलुनीकियों 2:2-3

प्रभेस्तद् दिनं प्रायेणोपस्थितम् इति यदि कश्चिद् आत्मना वाचा वा पत्रेण वास्माकम् आदेशं कल्पयन् युष्मान् गदति तर्हि यूयं तेन चञ्चलमनस उद्विग्नाश्च न भवत। केनापि प्रकारेण कोऽपि युष्मान् न वञ्चयतु यतस्तस्माद् दिनात् पूर्व्वं धर्म्मलोपेनोपस्यातव्यं,

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 7:21-23

ये जना मां प्रभुं वदन्ति, ते सर्व्वे स्वर्गराज्यं प्रवेक्ष्यन्ति तन्न, किन्तु यो मानवो मम स्वर्गस्थस्य पितुरिष्टं कर्म्म करोति स एव प्रवेक्ष्यति। तद् दिने बहवो मां वदिष्यन्ति, हे प्रभो हे प्रभो, तव नाम्ना किमस्मामि र्भविष्यद्वाक्यं न व्याहृतं? तव नाम्ना भूताः किं न त्याजिताः? तव नाम्ना किं नानाद्भुतानि कर्म्माणि न कृतानि? तदाहं वदिष्यामि, हे कुकर्म्मकारिणो युष्मान् अहं न वेद्मि, यूयं मत्समीपाद् दूरीभवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 21:36

यथा यूयम् एतद्भाविघटना उत्तर्त्तुं मनुजसुतस्य सम्मुखे संस्थातुञ्च योग्या भवथ कारणादस्मात् सावधानाः सन्तो निरन्तरं प्रार्थयध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 4:7

इति हेतोः स पुनरद्यनामकं दिनं निरूप्य दीर्घकाले गतेऽपि पूर्व्वोक्तां वाचं दायूदा कथयति, यथा, "अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ, तर्हि मा कुरुतेदानीं कठिनानि मनांसि वः।"

अध्यायः    |  संस्करणम् प्रतिलिपि
2 पतरस 3:12-13

तस्येश्वरदिनस्यागमनं प्रतीक्षमाणैराकाङ्क्षमाणैश्च यूष्माभि र्धर्म्माचारेश्वरभक्तिभ्यां कीदृशै र्लोकै र्भवितव्यं? तथापि वयं तस्य प्रतिज्ञानुसारेण धर्म्मस्य वासस्थानं नूतनम् आकाशमण्डलं नूतनं भूमण्डलञ्च प्रतीक्षामहे।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 20:12

अपरं क्षुद्रा महान्तश्च सर्व्वे मृता मया दृष्टाः, ते सिंहासनस्यान्तिके ऽतिष्ठन् ग्रन्थाश्च व्यस्तीर्य्यन्त जीवनपुस्तकाख्यम् अपरम् एकं पुस्तकमपि विस्तीर्णं। तत्र ग्रन्थेषु यद्यत् लिखितं तस्मात् मृतानाम् एकैकस्य स्वक्रियानुयायी विचारः कृतः।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 2:28

अतएव हे प्रियबालका यूयं तत्र तिष्ठत, तथा सति स यदा प्रकाशिष्यते तदा वयं प्रतिभान्विता भविष्यामः, तस्यागमनसमये च तस्य साक्षान्न त्रपिष्यामहे।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:18-19

किन्त्वस्मासु यो भावीविभवः प्रकाशिष्यते तस्य समीपे वर्त्तमानकालीनं दुःखमहं तृणाय मन्ये। यतः प्राणिगण ईश्वरस्य सन्तानानां विभवप्राप्तिम् आकाङ्क्षन् नितान्तम् अपेक्षते।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 1:11

हे गालीलीयलोका यूयं किमर्थं गगणं प्रति निरीक्ष्य दण्डायमानास्तिष्ठथ? युष्माकं समीपात् स्वर्गं नीतो यो यीशुस्तं यूयं यथा स्वर्गम् आरोहन्तम् अदर्शम् तथा स पुनश्चागमिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 17:24

यतस्तडिद् यथाकाशैकदिश्युदिय तदन्यामपि दिशं व्याप्य प्रकाशते तद्वत् निजदिने मनुजसूनुः प्रकाशिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 21:4

तेषां नेत्रेभ्यश्चाश्रूणि सर्व्वाणीश्वरेण प्रमार्क्ष्यन्ते मृत्युरपि पुन र्न भविष्यति शोकविलापक्लेशा अपि पुन र्न भविष्यन्ति, यतः प्रथमानि सर्व्वाणि व्यतीतिनि।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 5:4-6

किन्तु हे भ्रातरः, यूयम् अन्धकारेणावृता न भवथ तस्मात् तद्दिनं तस्कर इव युष्मान् न प्राप्स्यति। सर्व्वे यूयं दीप्तेः सन्ताना दिवायाश्च सन्ताना भवथ वयं निशावंशास्तिमिरवंशा वा न भवामः। अतो ऽपरे यथा निद्रागताः सन्ति तद्वद् अस्माभि र्न भवितव्यं किन्तु जागरितव्यं सचेतनैश्च भवितव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 24:3-5

अनन्तरं तस्मिन् जैतुनपर्व्वतोपरि समुपविष्टे शिष्यास्तस्य समीपमागत्य गुप्तं पप्रच्छुः, एता घटनाः कदा भविष्यन्ति? भवत आगमनस्य युगान्तस्य च किं लक्ष्म? तदस्मान् वदतु। तदानीम् आकाशमध्ये मनुजसुतस्य लक्ष्म दर्शिष्यते, ततो निजपराक्रमेण महातेजसा च मेघारूढं मनुजसुतं नभसागच्छन्तं विलोक्य पृथिव्याः सर्व्ववंशीया विलपिष्यन्ति। तदानीं स महाशब्दायमानतूर्य्या वादकान् निजदूतान् प्रहेष्यति, ते व्योम्न एकसीमातोऽपरसीमां यावत् चतुर्दिशस्तस्य मनोनीतजनान् आनीय मेलयिष्यन्ति। उडुम्बरपादपस्य दृष्टान्तं शिक्षध्वं; यदा तस्य नवीनाः शाखा जायन्ते, पल्लवादिश्च निर्गच्छति, तदा निदाघकालः सविधो भवतीति यूयं जानीथ; तद्वद् एता घटना दृष्ट्वा स समयो द्वार उपास्थाद् इति जानीत। युष्मानहं तथ्यं वदामि, इदानीन्तनजनानां गमनात् पूर्व्वमेव तानि सर्व्वाणि घटिष्यन्ते। नभोमेदिन्यो र्लुप्तयोरपि मम वाक् कदापि न लोप्स्यते। अपरं मम तातं विना मानुषः स्वर्गस्थो दूतो वा कोपि तद्दिनं तद्दण्डञ्च न ज्ञापयति। अपरं नोहे विद्यमाने यादृशमभवत् तादृशं मनुजसुतस्यागमनकालेपि भविष्यति। फलतो जलाप्लावनात् पूर्व्वं यद्दिनं यावत् नोहः पोतं नारोहत्, तावत्कालं यथा मनुष्या भोजने पाने विवहने विवाहने च प्रवृत्ता आसन्; अपरम् आप्लावितोयमागत्य यावत् सकलमनुजान् प्लावयित्वा नानयत्, तावत् ते यथा न विदामासुः, तथा मनुजसुतागमनेपि भविष्यति। तदानीं यीशुस्तानवोचत्, अवधद्व्वं, कोपि युष्मान् न भ्रमयेत्। तदा क्षेत्रस्थितयोर्द्वयोरेको धारिष्यते, अपरस्त्याजिष्यते। तथा पेषण्या पिंषत्योरुभयो र्योषितोरेका धारिष्यतेऽपरा त्याजिष्यते। युष्माकं प्रभुः कस्मिन् दण्ड आगमिष्यति, तद् युष्माभि र्नावगम्यते, तस्मात् जाग्रतः सन्तस्तिष्ठत। कुत्र यामे स्तेन आगमिष्यतीति चेद् गृहस्थो ज्ञातुम् अशक्ष्यत्, तर्हि जागरित्वा तं सन्धिं कर्त्तितुम् अवारयिष्यत् तद् जानीत। युष्माभिरवधीयतां, यतो युष्माभि र्यत्र न बुध्यते, तत्रैव दण्डे मनुजसुत आयास्यति। प्रभु र्निजपरिवारान् यथाकालं भोजयितुं यं दासम् अध्यक्षीकृत्य स्थापयति, तादृशो विश्वास्यो धीमान् दासः कः? प्रभुरागत्य यं दासं तथाचरन्तं वीक्षते, सएव धन्यः। युष्मानहं सत्यं वदामि, स तं निजसर्व्वस्वस्याधिपं करिष्यति। किन्तु प्रभुरागन्तुं विलम्बत इति मनसि चिन्तयित्वा यो दुष्टो दासो ऽपरदासान् प्रहर्त्तुं मत्तानां सङ्गे भोक्तुं पातुञ्च प्रवर्त्तते, बहवो मम नाम गृह्लन्त आगमिष्यन्ति, ख्रीष्टोऽहमेवेति वाचं वदन्तो बहून् भ्रमयिष्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
यहूदा 1:14-15

आदमतः सप्तमः पुरुषो यो हनोकः स तानुद्दिश्य भविष्यद्वाक्यमिदं कथितवान्, यथा, पश्य स्वकीयपुण्यानाम् अयुतै र्वेष्टितः प्रभुः। सर्व्वान् प्रति विचाराज्ञासाधनायागमिष्यति। तदा चाधार्म्मिकाः सर्व्वे जाता यैरपराधिनः। विधर्म्मकर्म्मणां तेषां सर्व्वेषामेव कारणात्। तथा तद्वैपरीत्येनाप्यधर्म्माचारिपापिनां। उक्तकठोरवाक्यानां सर्व्वेषामपि कारणात्। परमेशेन दोषित्वं तेषां प्रकाशयिष्यते॥

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 3:3

अतः कीदृशीं शिक्षां लब्धवान् श्रुतवाश्चासि तत् स्मरन् तां पालय स्वमनः परिवर्त्तय च। चेत् प्रबुद्धो न भवेस्तर्ह्यहं स्तेन इव तव समीपम् उपस्थास्यामि किञ्च कस्मिन् दण्डे उपस्थास्यामि तन्न ज्ञास्यसि।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 14:10-12

किन्तु त्वं निजं भ्रातरं कुतो दूषयसि? तथा त्वं निजं भ्रातरं कुतस्तुच्छं जानासि? ख्रीष्टस्य विचारसिंहासनस्य सम्मुखे सर्व्वैरस्माभिरुपस्थातव्यं; यादृशं लिखितम् आस्ते, परेशः शपथं कुर्व्वन् वाक्यमेतत् पुरावदत्। सर्व्वो जनः समीपे मे जानुपातं करिष्यति। जिह्वैकैका तथेशस्य निघ्नत्वं स्वीकरिष्यति। अतएव ईश्वरसमीपेऽस्माकम् एकैकजनेन निजा कथा कथयितव्या।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 15:52-53

सर्व्वैरस्माभि र्महानिद्रा न गमिष्यते किन्त्वन्तिमदिने तूर्य्यां वादितायाम् एकस्मिन् विपले निमिषैकमध्ये सर्व्वै रूपान्तरं गमिष्यते, यतस्तूरी वादिष्यते, मृतलोकाश्चाक्षयीभूता उत्थास्यन्ति वयञ्च रूपान्तरं गमिष्यामः। यतः क्षयणीयेनैतेन शरीरेणाक्षयत्वं परिहितव्यं, मरणाधीनेनैतेन देहेन चामरत्वं परिहितव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 5:5

स नरः शरीरनाशार्थमस्माभिः शयतानो हस्ते समर्पयितव्यस्ततोऽस्माकं प्रभो र्यीशो र्दिवसे तस्यात्मा रक्षां गन्तुं शक्ष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 22:12

पश्याहं तूर्णम् आगच्छामि, एकैकस्मै स्वक्रियानुयायिफलदानार्थं मद्दातव्यफलं मम समवर्त्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 1:10

मृतगणमध्याच्च तेनोत्थापितस्य पुत्रस्यार्थत आगामिक्रोधाद् अस्माकं निस्तारयितु र्यीशोः स्वर्गाद् आगमनं प्रतीक्षितुम् आरभध्वम् एतत् सर्व्वं ते लोकाः स्वयम् अस्मान् ज्ञापयन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 12:40

अतएव यूयमपि सज्जमानास्तिष्ठत यतो यस्मिन् क्षणे तं नाप्रेक्षध्वे तस्मिन्नेव क्षणे मनुष्यपुत्र आगमिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 14:7

स उच्चैःस्वरेणेदं गदति यूयमीश्वराद् बिभीत तस्य स्तवं कुरुत च यतस्तदीयविचारस्य दण्ड उपातिष्ठत् तस्माद् आकाशमण्डलस्य पृथिव्याः समुद्रस्य तोयप्रस्रवणानाञ्च स्रष्टा युष्माभिः प्रणम्यतां।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 तीमुथियु 4:1

ईश्वरस्य गोचरे यश्च यीशुः ख्रीष्टः स्वीयागमनकाले स्वराजत्वेन जीवतां मृतानाञ्च लोकानां विचारं करिष्यति तस्य गोचरे ऽहं त्वाम् इदं दृढम् आज्ञापयामि।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 1:5-7

यूयञ्चेश्वरस्य शक्तितः शेषकाले प्रकाश्यपरित्राणार्थं विश्वासेन रक्ष्यध्वे। तस्माद् यूयं यद्यप्यानन्देन प्रफुल्ला भवथ तथापि साम्प्रतं प्रयोजनहेतोः कियत्कालपर्य्यन्तं नानाविधपरीक्षाभिः क्लिश्यध्वे। यतो वह्निना यस्य परीक्षा भवति तस्मात् नश्वरसुवर्णादपि बहुमूल्यं युष्माकं विश्वासरूपं यत् परीक्षितं स्वर्णं तेन यीशुख्रीष्टस्यागमनसमये प्रशंसायाः समादरस्य गौरवस्य च योग्यता प्राप्तव्या।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 22:20

एतत् साक्ष्यं यो ददाति स एव वक्ति सत्यम् अहं तूर्णम् आगच्छामि। तथास्तु। प्रभो यीशोे, आगम्यतां भवता।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 19:28

ततो यीशुः कथितवान्, युष्मानहं तथ्यं वदामि, यूयं मम पश्चाद्वर्त्तिनो जाता इति कारणात् नवीनसृष्टिकाले यदा मनुजसुतः स्वीयैश्चर्य्यसिंहासन उपवेक्ष्यति, तदा यूयमपि द्वादशसिंहासनेषूपविश्य इस्रायेलीयद्वादशवंशानां विचारं करिष्यथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 21:25-28

सूर्य्यचन्द्रनक्षत्रेषु लक्षणादि भविष्यन्ति, भुवि सर्व्वदेशीयानां दुःखं चिन्ता च सिन्धौ वीचीनां तर्जनं गर्जनञ्च भविष्यन्ति। भूभौ भाविघटनां चिन्तयित्वा मनुजा भियामृतकल्पा भविष्यन्ति, यतो व्योममण्डले तेजस्विनो दोलायमाना भविष्यन्ति। तदा पराक्रमेणा महातेजसा च मेघारूढं मनुष्यपुत्रम् आयान्तं द्रक्ष्यन्ति। किन्त्वेतासां घटनानामारम्भे सति यूयं मस्तकान्युत्तोल्य ऊर्दध्वं द्रक्ष्यथ, यतो युष्माकं मुक्तेः कालः सविधो भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 9:28

तद्वत् ख्रीष्टोऽपि बहूनां पापवहनार्थं बलिरूपेणैककृत्व उत्ससृजे, अपरं द्वितीयवारं पापाद् भिन्नः सन् ये तं प्रतीक्षन्ते तेषां परित्राणार्थं दर्शनं दास्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 5:10

अस्मदीश्वरपक्षे ऽस्मान् नृपतीन् याजकानपि। कृतवांस्तेन राजत्वं करिष्यामो महीतले॥

अध्यायः    |  संस्करणम् प्रतिलिपि
2 थिस्सलुनीकियों 1:10

किन्तु तस्मिन् दिने स्वकीयपवित्रलोकेषु विराजितुं युष्मान् अपरांश्च सर्व्वान् विश्वासिलोकान् विस्मापयितुञ्च स आगमिष्यति यतो ऽस्माकं प्रमाणे युष्माभि र्विश्वासोऽकारि।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:23

केवलः स इति नहि किन्तु प्रथमजातफलस्वरूपम् आत्मानं प्राप्ता वयमपि दत्तकपुत्रत्वपदप्राप्तिम् अर्थात् शरीरस्य मुक्तिं प्रतीक्षमाणास्तद्वद् अन्तरार्त्तरावं कुर्म्मः।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 4:17

स यादृशो ऽस्ति वयमप्येतस्मिन् जगति तादृशा भवाम एतस्माद् विचारदिने ऽस्माभि र्या प्रतिभा लभ्यते सास्मत्सम्बन्धीयस्य प्रेम्नः सिद्धिः।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 3:13

तर्ह्येकैकस्य कर्म्म प्रकाशिष्यते यतः स दिवसस्तत् प्रकाशयिष्यति। यतो हतोस्तन दिवसेन वह्निमयेनोदेतव्यं तत एकैकस्य कर्म्म कीदृशमेतस्य परीक्षा बह्निना भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 19:11-16

अनन्तरं मया मुक्तः स्वर्गो दृष्टः, एकः श्वेतवर्णो ऽश्वो ऽपि दृष्टस्तदारूढो जनो विश्वास्यः सत्यमयश्चेति नाम्ना ख्यातः स याथार्थ्येन विचारं युद्धञ्च करोति। तस्य नेत्रे ऽग्निशिखातुल्ये शिरसि च बहुकिरीटानि विद्यन्ते तत्र तस्य नाम लिखितमस्ति तमेव विना नापरः को ऽपि तन्नाम जानाति। स रुधिरमग्नेन परिच्छदेनाच्छादित ईश्वरवाद इति नाम्नाभिधीयते च। अपरं स्वर्गस्थसैन्यानि श्वेताश्वारूढानि परिहितनिर्म्मलश्वेतसूक्ष्मवस्त्राणि च भूत्वा तमनुगच्छन्ति। तस्य वक्त्राद् एकस्तीक्षणः खङ्गो निर्गच्छति तेन खङ्गेन सर्व्वजातीयास्तेनाघातितव्याः स च लौहदण्डेन तान् चारयिष्यति सर्व्वशक्तिमत ईश्वरस्य प्रचण्डकोपरसोत्पादकद्राक्षाकुण्डे यद्यत् तिष्ठति तत् सर्व्वं स एव पदाभ्यां पिनष्टि। अपरं तस्य परिच्छद उरसि च राज्ञां राजा प्रभूनां प्रभुश्चेति नाम निखितमस्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 24:15

धार्म्मिकाणाम् अधार्म्मिकाणाञ्च प्रमीतलोकानामेवोत्थानं भविष्यतीति कथामिमे स्वीकुर्व्वन्ति तथाहमपि तस्मिन् ईश्वरे प्रत्याशां करोमि;

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 11:18

विजातीयेषु कुप्यत्सु प्रादुर्भूता तव क्रुधा। मृतानामपि कालो ऽसौ विचारो भविता यदा। भृत्याश्च तव यावन्तो भविष्यद्वादिसाधवः। ये च क्षुद्रा महान्तो वा नामतस्ते हि बिभ्यति। यदा सर्व्वेभ्य एतेभ्यो वेतनं वितरिष्यते। गन्तव्यश्च यदा नाशो वसुधाया विनाशकैः॥

अध्यायः    |  संस्करणम् प्रतिलिपि
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्