ईश्वरस्य अवतारः येशुः आसीत्, मानवजातेः उद्धारार्थं मोक्षार्थं च। तस्य मृत्युः तस्य उद्देश्यं न बाधितुं शक्तः। तत्काले क्रूशे मृत्युदण्डः महापापिनां कृते आसीत्, निर्दयतया क्रूरतया च दण्डः प्रदीयते स्म। येशोः मृत्युः अतिशयेन पीडादायकः लज्जाकरः च आसीत्। परन्तु तस्मिन् भयानके घटने अद्भुताः घटनाः अभूवन्, याः स्पष्टं अकरोत् यत् येशुः सामान्यः मानवः न अपि तु स्वयं ईश्वरः आसीत्। वयं बहवः तस्य त्यागस्य महत्त्वं अवगन्तुं आस्वादयितुं च संवेदनशीलतां नष्टवन्तः। अतः आवश्यकम् अस्ति यत् वयं ईश्वरस्य आत्मानं प्रार्थयामः यत् सः अस्मान् स्वस्य अक्षयं प्रेम प्रकाशयतु। एवं कृत्वा वयं कृतज्ञचित्ताः भवेम, येशुना कृतं सर्वं महत्त्वं दद्याम, यद्यपि वयं तादृशं प्रेम न अर्हामः। सः सर्वं स्वकीयं अस्मभ्यं दत्तवान् यत् वयं स्वतन्त्रजीवनं जीवेम। यत्र कुत्रापि भवसि, नेत्रे निमीलय, येशुं भजस्व यः स्वस्य अनन्तां दयां दर्शितवान् पापात् च त्वां मोचितवान्।
अपरं शिरःकपालनामकस्थानं प्राप्य तं क्रुशे विविधुः; तद्द्वयोरपराधिनोरेकं तस्य दक्षिणो तदन्यं वामे क्रुशे विविधुः।
अपरम् एष यिहूदीयानां राजा नासरतीययीशुः, इति विज्ञापनं लिखित्वा पीलातस्तस्य क्रुशोपरि समयोजयत्।
तदा यीशुरकथयत्, हे पितरेतान् क्षमस्व यत एते यत् कर्म्म कुर्व्वन्ति तन् न विदुः; पश्चात्ते गुटिकापातं कृत्वा तस्य वस्त्राणि विभज्य जगृहुः।
पश्चात् तं जीवनस्याधिपतिम् अहत किन्त्वीश्वरः श्मशानात् तम् उदस्थापयत तत्र वयं साक्षिण आस्महे।
यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।
तदानीं ते तं क्रुशेन संविध्य तस्य वसनानि गुटिकापातेन विभज्य जगृहुः, तस्मात्, विभजन्तेऽधरीयं मे ते मनुष्याः परस्परं। मदुत्तरीयवस्त्रार्थं गुटिकां पातयन्ति च॥यदेतद्वचनं भविष्यद्वादिभिरुक्तमासीत्, तदा तद् असिध्यत्,
अतः सेना आगत्य यीशुना सह क्रुशे हतयोः प्रथमद्वितीयचोरयोः पादान् अभञ्जन्; किन्तु यीशोः सन्निधिं गत्वा स मृत इति दृष्ट्वा तस्य पादौ नाभञ्जन्।
तदैता घटना दृष्ट्वा शतसेनापतिरीश्वरं धन्यमुक्त्वा कथितवान् अयं नितान्तं साधुमनुष्य आसीत्।
तृतीययामे "एली एली लामा शिवक्तनी", अर्थात् मदीश्वर मदीश्वर कुतो मामत्याक्षीः? यीशुरुच्चैरिति जगाद।
यदि युष्माकं करेषु यीशुं समर्पयामि, तर्हि किं दास्यथ? तदानीं ते तस्मै त्रिंशन्मुद्रा दातुं स्थिरीकृतवन्तः।
ततः परं यीशुः क्रुशं वहन् शिरःकपालम् अर्थाद् यद् इब्रीयभाषया गुल्गल्तां वदन्ति तस्मिन् स्थान उपस्थितः।
हे ईश्वरमन्दिरभञ्जक दिनत्रये तन्निर्म्मातः स्वं रक्ष, चेत्त्वमीश्वरसुतस्तर्हि क्रुशादवरोह।
सोऽन्यजनानावत्, किन्तु स्वमवितुं न शक्नोति। यदीस्रायेलो राजा भवेत्, तर्हीदानीमेव क्रुशादवरोहतु, तेन तं वयं प्रत्येष्यामः।
स ईश्वरे प्रत्याशामकरोत्, यदीश्वरस्तस्मिन् सन्तुष्टस्तर्हीदानीमेव तमवेत्, यतः स उक्तवान् अहमीश्वरसुतः।
ततः परं विश्रामवारस्य शेषे सप्ताहप्रथमदिनस्य प्रभोते जाते मग्दलीनी मरियम् अन्यमरियम् च श्मशानं द्रष्टुमागता।
अनन्तरं मार्गे ये ये लोका गमनागमने चक्रुस्ते सर्व्व एव शिरांस्यान्दोल्य निन्दन्तो जगदुः, रे मन्दिरनाशक रे दिनत्रयमध्ये तन्निर्म्मायक,
यदीस्रायेलो राजाभिषिक्तस्त्राता भवति तर्ह्यधुनैन क्रुशादवरोहतु वयं तद् दृष्ट्वा विश्वसिष्यामः; किञ्च यौ लोकौ तेन सार्द्धं क्रुशे ऽविध्येतां तावपि तं निर्भर्त्सयामासतुः।
ततस्तृतीयप्रहरे यीशुरुच्चैरवदत् एली एली लामा शिवक्तनी अर्थाद् "हे मदीश मदीश त्वं पर्य्यत्याक्षीः कुतो हि मां?"
तत्र लोकसंघस्तिष्ठन् ददर्श; ते तेषां शासकाश्च तमुपहस्य जगदुः, एष इतरान् रक्षितवान् यदीश्वरेणाभिरुचितो ऽभिषिक्तस्त्राता भवति तर्हि स्वमधुना रक्षतु।
तदोभयपार्श्वयो र्विद्धौ यावपराधिनौ तयोरेकस्तं विनिन्द्य बभाषे, चेत्त्वम् अभिषिक्तोसि तर्हि स्वमावाञ्च रक्ष।
तदा यीशुः कथितवान् त्वां यथार्थं वदामि त्वमद्यैव मया सार्द्धं परलोकस्य सुखस्थानं प्राप्स्यसि।
इत्थं सेनागणो यीशुं क्रुशे विधित्वा तस्य परिधेयवस्त्रं चतुरो भागान् कृत्वा एकैकसेना एकैकभागम् अगृह्लत् तस्योत्तरीयवस्त्रञ्चागृह्लत्। किन्तूत्तरीयवस्त्रं सूचिसेवनं विना सर्व्वम् ऊतं।
तस्मात्ते व्याहरन् एतत् कः प्राप्स्यति? तन्न खण्डयित्वा तत्र गुटिकापातं करवाम। विभजन्तेऽधरीयं मे वसनं ते परस्परं। ममोत्तरीयवस्त्रार्थं गुटिकां पातयन्ति च। इति यद्वाक्यं धर्म्मपुस्तके लिखितमास्ते तत् सेनागणेनेत्थं व्यवहरणात् सिद्धमभवत्।
अनन्तरं सर्व्वं कर्म्माधुना सम्पन्नमभूत् यीशुरिति ज्ञात्वा धर्म्मपुस्तकस्य वचनं यथा सिद्धं भवति तदर्थम् अकथयत् मम पिपासा जाता।
ततस्तस्मिन् स्थाने अम्लरसेन पूर्णपात्रस्थित्या ते स्पञ्जमेकं तदम्लरसेनार्द्रीकृत्य एसोब्नले तद् योजयित्वा तस्य मुखस्य सन्निधावस्थापयन्।
तदा यीशुरम्लरसं गृहीत्वा सर्व्वं सिद्धम् इति कथां कथयित्वा मस्तकं नमयन् प्राणान् पर्य्यत्यजत्।
तद्विनम् आसादनदिनं तस्मात् परेऽहनि विश्रामवारे देहा यथा क्रुशोपरि न तिष्ठन्ति, यतः स विश्रामवारो महादिनमासीत्, तस्माद् यिहूदीयाः पीलातनिकटं गत्वा तेषां पादभञ्जनस्य स्थानान्तरनयनस्य चानुमतिं प्रार्थयन्त।
पश्चाद् एको योद्धा शूलाघातेन तस्य कुक्षिम् अविधत् तत्क्षणात् तस्माद् रक्तं जलञ्च निरगच्छत्।
तस्मिन् यीशौ ईश्वरस्य पूर्व्वनिश्चितमन्त्रणानिरूपणानुसारेण मृत्यौ समर्पिते सति यूयं तं धृत्वा दुष्टलोकानां हस्तैः क्रुशे विधित्वाहत।
अतो यं यीशुं यूयं क्रुशेऽहत परमेश्वरस्तं प्रभुत्वाभिषिक्तत्वपदे न्ययुंक्तेति इस्रायेलीया लोका निश्चितं जानन्तु।
किन्तु यूयं तं पवित्रं धार्म्मिकं पुमांसं नाङ्गीकृत्य हत्याकारिणमेकं स्वेभ्यो दातुम् अयाचध्वं।
तर्हि सर्व्व इस्रायेेलीयलोका यूयं जानीत नासरतीयो यो यीशुख्रीष्टः क्रुशे युष्माभिरविध्यत यश्चेश्वरेण श्मशानाद् उत्थापितः, तस्य नाम्ना जनोयं स्वस्थः सन् युष्माकं सम्मुखे प्रोत्तिष्ठति।
किन्त्वस्मासु पापिषु सत्स्वपि निमित्तमस्माकं ख्रीष्टः स्वप्राणान् त्यक्तवान्, तत ईश्वरोस्मान् प्रति निजं परमप्रेमाणं दर्शितवान्।
वयं यत् पापस्य दासाः पुन र्न भवामस्तदर्थम् अस्माकं पापरूपशरीरस्य विनाशार्थम् अस्माकं पुरातनपुरुषस्तेन साकं क्रुशेऽहन्यतेति वयं जानीमः।
यतो हेतो र्ये विनश्यन्ति ते तां क्रुशस्य वार्त्तां प्रलापमिव मन्यन्ते किञ्च परित्राणं लभमानेष्वस्मासु सा ईश्वरीयशक्तिस्वरूपा।
वयञ्च क्रुशे हतं ख्रीष्टं प्रचारयामः। तस्य प्रचारो यिहूदीयै र्विघ्न इव भिन्नदेशीयैश्च प्रलाप इव मन्यते,
यतो यीशुख्रीष्टं तस्य क्रुशे हतत्वञ्च विना नान्यत् किमपि युष्मन्मध्ये ज्ञापयितुं विहितं बुद्धवान्।
ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।
ख्रीष्टोऽस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतोऽस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सोऽभिशप्त इति।"
क्रुशे पातितेन तस्य रक्तेन सन्धिं विधाय तेनैव स्वर्गमर्त्त्यस्थितानि सर्व्वाणि स्वेन सह सन्धापयितुञ्चेश्वरेणाभिलेषे।
यच्च दण्डाज्ञारूपं ऋणपत्रम् अस्माकं विरुद्धम् आसीत् तत् प्रमार्ज्जितवान् शलाकाभिः क्रुशे बद्ध्वा दूरीकृतवांश्च।
वयं यत् पापेभ्यो निवृत्य धर्म्मार्थं जीवामस्तदर्थं स स्वशरीरेणास्माकं पापानि क्रुश ऊढवान् तस्य प्रहारै र्यूयं स्वस्था अभवत।
यस्माद् ईश्वरस्य सन्निधिम् अस्मान् आनेतुम् अधार्म्मिकाणां विनिमयेन धार्म्मिकः ख्रीष्टो ऽप्येककृत्वः पापानां दण्डं भुक्तवान्, स च शरीरसम्बन्धे मारितः किन्त्वात्मनः सम्बन्धे पुन र्जीवितो ऽभवत्।
तथापि दिव्यदूतगणेभ्यो यः किञ्चिन् न्यूनीकृतोऽभवत् तं यीशुं मृत्युभोगहेतोस्तेजोगौरवरूपेण किरीटेन विभूषितं पश्यामः, यत ईश्वरस्यानुग्रहात् स सर्व्वेषां कृते मृत्युम् अस्वदत।
यश्चास्माकं विश्वासस्याग्रेसरः सिद्धिकर्त्ता चास्ति तं यीशुं वीक्षामहै यतः स स्वसम्मुखस्थितानन्दस्य प्राप्त्यर्थम् अपमानं तुच्छीकृत्य क्रुशस्य यातनां सोढवान् ईश्वरीयसिंहासनस्य दक्षिणपार्श्वे समुपविष्टवांश्च।
अनन्तरं तेषामशनकाले यीशुः पूपमादायेश्वरीयगुणाननूद्य भंक्त्वा शिष्येभ्यः प्रदाय जगाद, मद्वपुःस्वरूपमिमं गृहीत्वा खादत। पश्चात् स कंसं गृह्लन् ईश्वरीयगुणाननूद्य तेभ्यः प्रदाय कथितवान्, सर्व्वै र्युष्माभिरनेन पातव्यं, यस्मादनेकेषां पापमर्षणाय पातितं यन्मन्नूत्ननियमरूपशोणितं तदेतत्।
प्रभाते जाते प्रधानयाजकलोकप्राचीना यीशुं हन्तुं तत्प्रतिकूलं मन्त्रयित्वा मां प्रति परमेश्वरस्यादेशात् तेभ्य आदीयत, तेन च कुलालस्य क्षेत्रं क्रीतमिति यद्वचनं यिरिमियभविष्यद्वादिना प्रोक्तं तत् तदासिध्यत्। अनन्तरं यीशौ तदधिपतेः सम्मुख उपतिष्ठति स तं पप्रच्छ, त्वं किं यिहूदीयानां राजा? तदा यीशुस्तमवदत्, त्वं सत्यमुक्तवान्। किन्तु प्रधानयाजकप्राचीनैरभियुक्तेन तेन किमपि न प्रत्यवादि। ततः पीलातेन स उदितः, इमे त्वत्प्रतिकूलतः कति कति साक्ष्यं ददति, तत् त्वं न शृणोषि? तथापि स तेषामेकस्यापि वचस उत्तरं नोदितवान्; तेन सोऽधिपति र्महाचित्रं विदामास। अन्यच्च तन्महकालेऽधिपतेरेतादृशी रातिरासीत्, प्रजा यं कञ्चन बन्धिनं याचन्ते, तमेव स मोचयतीति। तदानीं बरब्बानामा कश्चित् ख्यातबन्ध्यासीत्। ततः पीलातस्तत्र मिलितान् लोकान् अपृच्छत्, एष बरब्बा बन्धी ख्रीष्टविख्यातो यीशुश्चैतयोः कं मोचयिष्यामि? युष्माकं किमीप्सितं? तैरीर्ष्यया स समर्पित इति स ज्ञातवान्। अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे। तं बद्व्वा नीत्वा पन्तीयपीलाताख्याधिपे समर्पयामासुः।
अनन्तरं यीशौ तदधिपतेः सम्मुख उपतिष्ठति स तं पप्रच्छ, त्वं किं यिहूदीयानां राजा? तदा यीशुस्तमवदत्, त्वं सत्यमुक्तवान्।
किन्तु प्रधानयाजकप्राचीनैरभियुक्तेन तेन किमपि न प्रत्यवादि। ततः पीलातेन स उदितः, इमे त्वत्प्रतिकूलतः कति कति साक्ष्यं ददति, तत् त्वं न शृणोषि? तथापि स तेषामेकस्यापि वचस उत्तरं नोदितवान्; तेन सोऽधिपति र्महाचित्रं विदामास।
किन्तु स किमप्युत्तरं न दत्वा मौनीभूय तस्यौ; ततो महायाजकः पुनरपि तं पृष्टावान् त्वं सच्चिदानन्दस्य तनयो ऽभिषिक्तस्त्रता? तदा यीशुस्तं प्रोवाच भवाम्यहम् यूयञ्च सर्व्वशक्तिमतो दक्षीणपार्श्वे समुपविशन्तं मेघ मारुह्य समायान्तञ्च मनुष्यपुत्रं सन्द्रक्ष्यथ।
अथ प्रभाते सति प्रधानयाजकाः प्राञ्च उपाध्यायाः सर्व्वे मन्त्रिणश्च सभां कृत्वा यीशुृं बन्धयित्व पीलाताख्यस्य देशाधिपतेः सविधं नीत्वा समर्पयामासुः।
तदा यै र्यीशुर्धृतस्ते तमुपहस्य प्रहर्त्तुमारेभिरे। वस्त्रेण तस्य दृशौ बद्ध्वा कपोले चपेटाघातं कृत्वा पप्रच्छुः, कस्ते कपोले चपेटाघातं कृतवान? गणयित्वा तद् वद। तदन्यत् तद्विरुद्धं बहुनिन्दावाक्यं वक्तुमारेभिरे।
ततः सभास्थाः सर्व्वलोका उत्थाय तं पीलातसम्मुखं नीत्वाप्रोद्य वक्तुमारेभिरे, अथ प्रधानयाजका अध्यापकाश्च प्रोत्तिष्ठन्तः साहसेन तमपवदितुं प्रारेभिरे। हेरोद् तस्य सेनागणश्च तमवज्ञाय उपहासत्वेन राजवस्त्रं परिधाप्य पुनः पीलातं प्रति तं प्राहिणोत्। पूर्व्वं हेरोद्पीलातयोः परस्परं वैरभाव आसीत् किन्तु तद्दिने द्वयो र्मेलनं जातम्। पश्चात् पीलातः प्रधानयाजकान् शासकान् लोकांश्च युगपदाहूय बभाषे, राज्यविपर्य्ययकारकोयम् इत्युक्त्वा मनुष्यमेनं मम निकटमानैष्ट किन्तु पश्यत युष्माकं समक्षम् अस्य विचारं कृत्वापि प्रोक्तापवादानुरूपेणास्य कोप्यपराधः सप्रमाणो न जातः, यूयञ्च हेरोदः सन्निधौ प्रेषिता मया तत्रास्य कोप्यपराधस्तेनापि न प्राप्तः।पश्यतानेन वधहेेतुकं किमपि नापराद्धं। तस्मादेनं ताडयित्वा विहास्यामि। तत्रोत्सवे तेषामेको मोचयितव्यः। इति हेतोस्ते प्रोच्चैरेकदा प्रोचुः, एनं दूरीकृत्य बरब्बानामानं मोचय। स बरब्बा नगर उपप्लववधापराधाभ्यां कारायां बद्ध आसीत्। स्वमभिषिक्तं राजानं वदन्तं कैमरराजाय करदानं निषेधन्तं राज्यविपर्य्ययं कुर्त्तुं प्रवर्त्तमानम् एन प्राप्ता वयं।
पश्चात् पीलातः प्रधानयाजकान् शासकान् लोकांश्च युगपदाहूय बभाषे, राज्यविपर्य्ययकारकोयम् इत्युक्त्वा मनुष्यमेनं मम निकटमानैष्ट किन्तु पश्यत युष्माकं समक्षम् अस्य विचारं कृत्वापि प्रोक्तापवादानुरूपेणास्य कोप्यपराधः सप्रमाणो न जातः, यूयञ्च हेरोदः सन्निधौ प्रेषिता मया तत्रास्य कोप्यपराधस्तेनापि न प्राप्तः।पश्यतानेन वधहेेतुकं किमपि नापराद्धं।
तदनन्तरं प्रत्यूषे ते कियफागृहाद् अधिपते र्गृहं यीशुम् अनयन् किन्तु यस्मिन् अशुचित्वे जाते तै र्निस्तारोत्सवे न भोक्तव्यं, तस्य भयाद् यिहूदीयास्तद्गृहं नाविशन्।
ततः पीलातोऽवदद् यूयमेनं गृहीत्वा स्वेषां व्यवस्थया विचारयत। तदा यिहूदीयाः प्रत्यवदन् कस्यापि मनुष्यस्य प्राणदण्डं कर्त्तुं नास्माकम् अधिकारोऽस्ति।
यीशुः प्रत्यवदत् मम राज्यम् एतज्जगत्सम्बन्धीयं न भवति यदि मम राज्यं जगत्सम्बन्धीयम् अभविष्यत् तर्हि यिहूदीयानां हस्तेषु यथा समर्पितो नाभवं तदर्थं मम सेवका अयोत्स्यन् किन्तु मम राज्यम् ऐहिकं न।
तदा पीलातः कथितवान्, तर्हि त्वं राजा भवसि? यीशुः प्रत्युक्तवान् त्वं सत्यं कथयसि, राजाहं भवामि; सत्यतायां साक्ष्यं दातुं जनिं गृहीत्वा जगत्यस्मिन् अवतीर्णवान्, तस्मात् सत्यधर्म्मपक्षपातिनो मम कथां शृण्वन्ति।
१॰ ततः पीलात् कथितवान त्वं किं मया सार्द्धं न संलपिष्यसि ? त्वां क्रुशे वेधितुं वा मोचयितुं शक्ति र्ममास्ते इति किं त्वं न जानासि ? तदा यीशुः प्रत्यवदद् ईश्वरेणादŸां ममोपरि तव किमप्यधिपतित्वं न विद्यते, तथापि यो जनो मां तव हस्ते समार्पयत् तस्य महापातकं जातम्।
तदा यीशुः प्रत्यवदद् ईश्वरेणादत्तं ममोपरि तव किमप्यधिपतित्वं न विद्यते, तथापि यो जनो मां तव हस्ते समार्पयत् तस्य महापातकं जातम्।
यस्मात् स्वशोणितेन विश्वासात् पापनाशको बली भवितुं स एव पूर्व्वम् ईश्वरेण निश्चितः, इत्थम् ईश्वरीयसहिष्णुत्वात् पुराकृतपापानां मार्ज्जनकरणे स्वीययाथार्थ्यं तेन प्रकाश्यते,
आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?
किन्तु येनाहं संसाराय हतः संसारोऽपि मह्यं हतस्तदस्मत्प्रभो र्यीशुख्रीष्टस्य क्रुशं विनान्यत्र कुत्रापि मम श्लाघनं कदापि न भवतु।
स्वकीयक्रुशे शत्रुतां निहत्य तेनैवैकस्मिन् शरीरे तयो र्द्वयोरीश्वरेण सन्धिं कारयितुं निश्चतवान्।
इत्थं नरमूर्त्तिम् आश्रित्य नम्रतां स्वीकृत्य मृत्योरर्थतः क्रुशीयमृत्योरेव भोगायाज्ञाग्राही बभूव।
जाग्रतो निद्रागता वा वयं यत् तेन प्रभुना सह जीवामस्तदर्थं सोऽस्माकं कृते प्राणान् त्यक्तवान्।
कर्त्तव्ये सति जगतः सृष्टिकालमारभ्य बहुवारं तस्य मृत्युभोग आवश्यकोऽभवत्; किन्त्विदानीं स आत्मोत्सर्गेण पापनाशार्थम् एककृत्वो जगतः शेषकाले प्रचकाशे।
तद्वत् ख्रीष्टोऽपि बहूनां पापवहनार्थं बलिरूपेणैककृत्व उत्ससृजे, अपरं द्वितीयवारं पापाद् भिन्नः सन् ये तं प्रतीक्षन्ते तेषां परित्राणार्थं दर्शनं दास्यति।
यूयं निरर्थकात् पैतृकाचारात् क्षयणीयै रूप्यसुवर्णादिभि र्मुक्तिं न प्राप्य निष्कलङ्कनिर्म्मलमेषशावकस्येव ख्रीष्टस्य बहुमूल्येन रुधिरेण मुक्तिं प्राप्तवन्त इति जानीथ।
तदर्थमेव यूयम् आहूता यतः ख्रीष्टोऽपि युष्मन्निमित्तं दुःखं भुक्त्वा यूयं यत् तस्य पदचिह्नै र्व्रजेत तदर्थं दृष्टान्तमेकं दर्शितवान्।
अस्माकं विनिमयेन ख्रीष्टः शरीरसम्बन्धे दण्डं भुक्तवान् अतो हेतोः शरीरसम्बन्धे यो दण्डं भुक्तवान् स पापात् मुक्त
यश्च यीशुख्रीष्टो विश्वस्तः साक्षी मृतानां मध्ये प्रथमजातो भूमण्डलस्थराजानाम् अधिपतिश्च भवति, एतेभ्यो ऽनुग्रहः शान्तिश्च युष्मासु वर्त्ततां।
अपरं ते नूतनमेकं गीतमगायन्, यथा, ग्रहीतुं पत्रिकां तस्य मुद्रा मोचयितुं तथा। त्वमेवार्हसि यस्मात् त्वं बलिवत् छेदनं गतः। सर्व्वाभ्यो जातिभाषाभ्यः सर्व्वस्माद् वंशदेशतः। ईश्वरस्य कृते ऽस्मान् त्वं स्वीयरक्तेन क्रीतवान्।
ततो मयोक्तं हे महेच्छ भवानेव तत् जानाति। तेन कथितं, इमे महाक्लेशमध्याद् आगत्य मेेषशावकस्य रुधिरेण स्वीयपरिच्छदान् प्रक्षालितवन्तः शुक्लीकृतवन्तश्च।
यतो यूनम् यथा त्र्यहोरात्रं बृहन्मीनस्य कुक्षावासीत्, तथा मनुजपुत्रोपि त्र्यहोरात्रं मेदिन्या मध्ये स्थास्यति।
ततः स किञ्चिद्दूरं गत्वाधोमुखः पतन् प्रार्थयाञ्चक्रे, हे मत्पितर्यदि भवितुं शक्नोति, तर्हि कंसोऽयं मत्तो दूरं यातु; किन्तु मदिच्छावत् न भवतु, त्वदिच्छावद् भवतु।
स पुनरुवाच, मनुष्यपुत्रेण वहुयातना भोक्तव्याः प्राचीनलोकैः प्रधानयाजकैरध्यापकैश्च सोवज्ञाय हन्तव्यः किन्तु तृतीयदिवसे श्मशानात् तेनोत्थातव्यम्।