ततो यीशु र्जगाद, क्रोष्टुः स्थातुं स्थानं विद्यते, विहायसो विहङ्गमानां नीडानि च सन्ति; किन्तु मनुष्यपुत्रस्य शिरः स्थापयितुं स्थानं न विद्यते।
किन्तु मेदिन्यां कलुषं क्षमितुं मनुजसुतस्य सामर्थ्यमस्तीति यूयं यथा जानीथ, तदर्थं स तं पक्षाघातिनं गदितवान्, उत्तिष्ठ, निजशयनीयं आदाय गेहं गच्छ।
तै र्यदा यूयमेकपुरे ताडिष्यध्वे, तदा यूयमन्यपुरं पलायध्वं युष्मानहं तथ्यं वच्मि यावन्मनुजसुतो नैति तावद् इस्रायेल्देशीयसर्व्वनगरभ्रमणं समापयितुं न शक्ष्यथ।
मनुजसुत आगत्य भुक्तवान् पीतवांश्च, तेन लोका वदन्ति, पश्यत एष भोक्ता मद्यपाता चण्डालपापिनां बन्धश्च, किन्तु ज्ञानिनो ज्ञानव्यवहारं निर्दोषं जानन्ति।
यतो यूनम् यथा त्र्यहोरात्रं बृहन्मीनस्य कुक्षावासीत्, तथा मनुजपुत्रोपि त्र्यहोरात्रं मेदिन्या मध्ये स्थास्यति।
अपरञ्च यीशुः कैसरिया-फिलिपिप्रदेशमागत्य शिष्यान् अपृच्छत्, योऽहं मनुजसुतः सोऽहं कः? लोकैरहं किमुच्ये?
मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।
किन्त्वहं युष्मान् वच्मि, एलिय एत्य गतः, ते तमपरिचित्य तस्मिन् यथेच्छं व्यवजहुः; मनुजसुतेनापि तेषामन्तिके तादृग् दुःखं भोक्तव्यं।
अपरं तेषां गालील्प्रदेशे भ्रमणकाले यीशुना ते गदिताः, मनुजसुतो जनानां करेषु समर्पयिष्यते तै र्हनिष्यते च,
यतो युष्मानहं तथ्यं ब्रवीमि, स्वर्गे तेषां दूता मम स्वर्गस्थस्य पितुरास्यं नित्यं पश्यन्ति। एवं ये ये हारितास्तान् रक्षितुं मनुजपुत्र आगच्छत्।
ततो यीशुः कथितवान्, युष्मानहं तथ्यं वदामि, यूयं मम पश्चाद्वर्त्तिनो जाता इति कारणात् नवीनसृष्टिकाले यदा मनुजसुतः स्वीयैश्चर्य्यसिंहासन उपवेक्ष्यति, तदा यूयमपि द्वादशसिंहासनेषूपविश्य इस्रायेलीयद्वादशवंशानां विचारं करिष्यथ।
यतो यथा विद्युत् पूर्व्वदिशो निर्गत्य पश्चिमदिशं यावत् प्रकाशते, तथा मानुषपुत्रस्याप्यागमनं भविष्यति।
तदानीम् आकाशमध्ये मनुजसुतस्य लक्ष्म दर्शिष्यते, ततो निजपराक्रमेण महातेजसा च मेघारूढं मनुजसुतं नभसागच्छन्तं विलोक्य पृथिव्याः सर्व्ववंशीया विलपिष्यन्ति।
यदा मनुजसुतः पवित्रदूतान् सङ्गिनः कृत्वा निजप्रभावेनागत्य निजतेजोमये सिंहासने निवेक्ष्यति,
युष्माभि र्ज्ञातं दिनद्वयात् परं निस्तारमह उपस्थास्यति, तत्र मनुजसुतः क्रुशेन हन्तुं परकरेषु समर्पिष्यते।
मनुजसुतमधि यादृशं लिखितमास्ते, तदनुरूपा तद्गति र्भविष्यति; किन्तु येन पुंसा स परकरेषु समर्पयिष्यते, हा हा चेत् स नाजनिष्यत, तदा तस्य क्षेममभविष्यत्।
किन्तु पृथिव्यां पापानि मार्ष्टुं मनुष्यपुत्रस्य सामर्थ्यमस्ति, एतद् युष्मान् ज्ञापयितुं (स तस्मै पक्षाघातिने कथयामास)
मनुष्यपुत्रेणावश्यं बहवो यातना भोक्तव्याः प्राचीनलोकैः प्रधानयाजकैरध्यापकैश्च स निन्दितः सन् घातयिष्यते तृतीयदिने उत्थास्यति च, यीशुः शिष्यानुपदेष्टुमारभ्य कथामिमां स्पष्टमाचष्ट।
ततः परं गिरेरवरोहणकाले स तान् गाढम् दूत्यादिदेश यावन्नरसूनोः श्मशानादुत्थानं न भवति, तावत् दर्शनस्यास्य वार्त्ता युष्माभिः कस्मैचिदपि न वक्तव्या।
तदा स प्रत्युवाच , एलियः प्रथममेत्य सर्व्वकार्य्याणि साधयिष्यति; नरपुत्रे च लिपि र्यथास्ते तथैव सोपि बहुदुःखं प्राप्यावज्ञास्यते।
अपरञ्च स शिष्यानुपदिशन् बभाषे, नरपुत्रो नरहस्तेषु समर्पयिष्यते ते च तं हनिष्यन्ति तैस्तस्मिन् हते तृतीयदिने स उत्थास्यतीति।
पश्यत वयं यिरूशालम्पुरं यामः, तत्र मनुष्यपुत्रः प्रधानयाजकानाम् उपाध्यायानाञ्च करेषु समर्पयिष्यते; ते च वधदण्डाज्ञां दापयित्वा परदेशीयानां करेषु तं समर्पयिष्यन्ति।
यतो मनुष्यपुत्रः सेव्यो भवितुं नागतः सेवां कर्त्तां तथानेकेषां परित्राणस्य मूल्यरूपस्वप्राणं दातुञ्चागतः।
तदानीं महापराक्रमेण महैश्वर्य्येण च मेघमारुह्य समायान्तं मानवसुतं मानवाः समीक्षिष्यन्ते।
मनुजतनयमधि यादृशं लिखितमास्ते तदनुरूपा गतिस्तस्य भविष्यति, किन्तु यो जनो मानवसुतं समर्पयिष्यते हन्त तस्य जन्माभावे सति भद्रमभविष्यत्।
किन्तु पृथिव्यां पापं क्षन्तुं मानवसुतस्य सामर्थ्यमस्तीति यथा यूयं ज्ञातुं शक्नुथ तदर्थं (स तं पक्षाघातिनं जगाद) उत्तिष्ठ स्वशय्यां गृहीत्वा गृहं याहीति त्वामादिशामि।
ततः परं मानवसुत आगत्याखाददपिवञ्च तस्माद् यूयं वदथ, खादकः सुरापश्चाण्डालपापिनां बन्धुरेको जनो दृश्यताम्।
स पुनरुवाच, मनुष्यपुत्रेण वहुयातना भोक्तव्याः प्राचीनलोकैः प्रधानयाजकैरध्यापकैश्च सोवज्ञाय हन्तव्यः किन्तु तृतीयदिवसे श्मशानात् तेनोत्थातव्यम्।
यूनस् तु यथा नीनिवीयलोकानां समीपे चिह्नरूपोभवत् तथा विद्यमानलोकानाम् एषां समीपे मनुष्यपुत्रोपि चिह्नरूपो भविष्यति।
अपरं युष्मभ्यं कथयामि यः कश्चिन् मानुषाणां साक्षान् मां स्वीकरोति मनुष्यपुत्र ईश्वरदूतानां साक्षात् तं स्वीकरिष्यति।
अन्यच्च यः कश्चिन् मनुजसुतस्य निन्दाभावेन काञ्चित् कथां कथयति तस्य तत्पापस्य मोचनं भविष्यति किन्तु यदि कश्चित् पवित्रम् आत्मानं निन्दति तर्हि तस्य तत्पापस्य मोचनं न भविष्यति।
ततः स शिष्यान् जगाद, यदा युष्माभि र्मनुजसुतस्य दिनमेकं द्रष्टुम् वाञ्छिष्यते किन्तु न दर्शिष्यते, ईदृक्काल आयाति।
युष्मानहं वदामि त्वरया परिष्करिष्यति, किन्तु यदा मनुष्यपुत्र आगमिष्यति तदा पृथिव्यां किमीदृशं विश्वासं प्राप्स्यति?
अन्यच्चावादीद् युष्मानहं यथार्थं वदामि, इतः परं मोचिते मेघद्वारे तस्मान्मनुजसूनुना ईश्वरस्य दूतगणम् अवरोहन्तमारोहन्तञ्च द्रक्ष्यथ।
क्षयणीयभक्ष्यार्थं मा श्रामिष्ट किन्त्वन्तायुर्भक्ष्यार्थं श्राम्यत, तस्मात् तादृशं भक्ष्यं मनुजपुत्रो युष्माभ्यं दास्यति; तस्मिन् तात ईश्वरः प्रमाणं प्रादात्।
तदा यीशुस्तान् आवोचद् युष्मानहं यथार्थतरं वदामि मनुष्यपुत्रस्यामिषे युष्माभि र्न भुक्त्ते तस्य रुधिरे च न पीते जीवनेन सार्द्धं युष्माकं सम्बन्धो नास्ति।
ततो यीशुरकथयद् यदा मनुष्यपुत्रम् ऊर्द्व्व उत्थापयिष्यथ तदाहं स पुमान् केवलः स्वयं किमपि कर्म्म न करोमि किन्तु तातो यथा शिक्षयति तदनुसारेण वाक्यमिदं वदामीति च यूयं ज्ञातुं शक्ष्यथ।
तदा लोका अकथयन् सोभिषिक्तः सर्व्वदा तिष्ठतीति व्यवस्थाग्रन्थे श्रुतम् अस्माभिः, तर्हि मनुष्यपुत्रः प्रोत्थापितो भविष्यतीति वाक्यं कथं वदसि? मनुष्यपुत्रोयं कः?
यिहूदे बहिर्गते यीशुरकथयद् इदानीं मानवसुतस्य महिमा प्रकाशते तेनेश्वरस्यापि महिमा प्रकाशते।
किन्तु शौलः क्रमश उत्साहवान् भूत्वा यीशुरीश्वरेणाभिषिक्तो जन एतस्मिन् प्रमाणं दत्वा दम्मेषक्-निवासियिहूदीयलोकान् निरुत्तरान् अकरोत्।
जीवितमृतोभयलोकानां विचारं कर्त्तुम् ईश्वरो यं नियुक्तवान् स एव स जनः, इमां कथां प्रचारयितुं तस्मिन् प्रमाणं दातुञ्च सोऽस्मान् आज्ञापयत्।
यतः स्वनियुक्तेन पुरुषेण यदा स पृथिवीस्थानां सर्व्वलोकानां विचारं करिष्यति तद्दिनं न्यरूपयत्; तस्य श्मशानोत्थापनेन तस्मिन् सर्व्वेभ्यः प्रमाणं प्रादात्।
किन्तु पापकर्म्मणो यादृशो भावस्तादृग् दानकर्म्मणो भावो न भवति यत एकस्य जनस्यापराधेन यदि बहूनां मरणम् अघटत तथापीश्वरानुग्रहस्तदनुग्रहमूलकं दानञ्चैकेन जनेनार्थाद् यीशुना ख्रीष्टेन बहुषु बाहुल्यातिबाहुल्येन फलति।
यत एकस्य जनस्य पापकर्म्मतस्तेनैकेन यदि मरणस्य राजत्वं जातं तर्हि ये जना अनुग्रहस्य बाहुल्यं पुण्यदानञ्च प्राप्नुवन्ति त एकेन जनेन, अर्थात् यीशुख्रीष्टेन, जीवने राजत्वम् अवश्यं करिष्यन्ति।
यस्माच्छारीरस्य दुर्ब्बलत्वाद् व्यवस्थया यत् कर्म्मासाध्यम् ईश्वरो निजपुत्रं पापिशरीररूपं पापनाशकबलिरूपञ्च प्रेष्य तस्य शरीरे पापस्य दण्डं कुर्व्वन् तत्कर्म्म साधितवान्।
यत ईश्वरो बहुभ्रातृणां मध्ये स्वपुत्रं ज्येष्ठं कर्त्तुम् इच्छन् यान् पूर्व्वं लक्ष्यीकृतवान् तान् तस्य प्रतिमूर्त्याः सादृश्यप्राप्त्यर्थं न्ययुंक्त।
यतः स स्वसम्मुखे पवित्रान् निष्कलङ्कान् अनिन्दनीयांश्च युष्मान् स्थापयितुम् इच्छति।
अस्माकं जीवनस्वरूपः ख्रीष्टो यदा प्रकाशिष्यते तदा तेन सार्द्धं यूयमपि विभवेन प्रकाशिष्यध्वे।
किन्तु कुत्रापि कश्चित् प्रमाणम् ईदृशं दत्तवान्, यथा, "किं वस्तु मानवो यत् स नित्यं संस्मर्य्यते त्वया। किं वा मानवसन्तानो यत् स आलोच्यते त्वया।
तेषाम् अपत्यानां रुधिरपललविशिष्टत्वात् सोऽपि तद्वत् तद्विशिष्टोऽभूत् तस्याभिप्रायोऽयं यत् स मृत्युबलाधिकारिणं शयतानं मृत्युना बलहीनं कुर्य्यात्
अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।
अपरम् अस्माकं तादृशमहायाजकस्य प्रयोजनमासीद् यः पवित्रो ऽहिंसको निष्कलङ्कः पापिभ्यो भिन्नः स्वर्गादप्युच्चीकृतश्च स्यात्।
यतः सोऽस्मदर्थं तिरस्करिण्यार्थतः स्वशरीरेण नवीनं जीवनयुक्तञ्चैकं पन्थानं निर्म्मितवान्,
यूयं परस्परम् अपराधान् अङ्गीकुरुध्वम् आरोग्यप्राप्त्यर्थञ्चैकजनो ऽन्यस्य कृते प्रार्थनां करोतु धार्म्मिकस्य सयत्ना प्रार्थना बहुशक्तिविशिष्टा भवति।
यतः पूर्व्वं यूयं भ्रमणकारिमेषा इवाध्वं किन्त्वधुना युष्माकम् आत्मनां पालकस्याध्यक्षस्य च समीपं प्रत्यावर्त्तिताः।
यस्माद् ईश्वरस्य सन्निधिम् अस्मान् आनेतुम् अधार्म्मिकाणां विनिमयेन धार्म्मिकः ख्रीष्टो ऽप्येककृत्वः पापानां दण्डं भुक्तवान्, स च शरीरसम्बन्धे मारितः किन्त्वात्मनः सम्बन्धे पुन र्जीवितो ऽभवत्।
यः पापाचारं करोति स शयतानात् जातो यतः शयतान आदितः पापाचारी शयतानस्य कर्म्मणां लोपार्थमेवेश्वरस्य पुत्रः प्राकाशत।
अस्मास्वीश्वरस्य प्रेमैतेन प्राकाशत यत् स्वपुत्रेणास्मभ्यं जीवनदानार्थम् ईश्वरः स्वीयम् अद्वितीयं पुत्रं जगन्मध्यं प्रेषितवान्।
अपरम् ईश्वरस्य पुत्र आगतवान् वयञ्च यया तस्य सत्यमयस्य ज्ञानं प्राप्नुयामस्तादृशीं धियम् अस्मभ्यं दत्तवान् इति जानीमस्तस्मिन् सत्यमये ऽर्थतस्तस्य पुत्रे यीशुख्रीष्टे तिष्ठामश्च; स एव सत्यमय ईश्वरो ऽनन्तजीवनस्वरूपश्चास्ति।
तेषां सप्त दीपवृक्षाणां मध्ये दीर्घपरिच्छदपरिहितः सुवर्णशृङ्खलेन वेष्टितवक्षश्च मनुष्यपुत्राकृतिरेको जनस्तिष्ठति,
अपरं थुयातीरास्थसमिते र्दूतं प्रतीदं लिख। यस्य लोचने वह्निशिखासदृशे चरणौ च सुपित्तलसङ्काशौ स ईश्वरपुत्रो भाषते,
अपरञ्च लायदिकेयास्थसमिते र्दूतं प्रतीदं लिख, य आमेन् अर्थतो विश्वास्यः सत्यमयश्च साक्षी, ईश्वरस्य सृष्टेरादिश्चास्ति स एव भाषते।
किन्तु तेषां प्राचीनानाम् एको जनो मामवदत् मा रोदीः पश्य यो यिहूदावंशीयः सिंहो दायूदो मूलस्वरूपश्चास्ति स पत्रस्य तस्य सप्तमुद्राणाञ्च मोचनाय प्रमूतवान्।
तदनन्तरं निरीक्षमाणेन मया श्वेतवर्ण एको मेघो दृष्टस्तन्मेघारूढो जनो मानवपुत्राकृतिरस्ति तस्य शिरसि सुवर्णकिरीटं करे च तीक्ष्णं दात्रं तिष्ठति।
अन्यच्चाहं युष्मान् वदामि, बहवः पूर्व्वस्याः पश्चिमायाश्च दिश आगत्य इब्राहीमा इस्हाका याकूबा च साकम् मिलित्वा समुपवेक्ष्यन्ति;
यथा मम प्रभुमिदं वाक्यमवदत् परमेश्वरः। तवारीन् पादपीठं ते यावन्नहि करोम्यहं। तावत् कालं मदीये त्वं दक्षपार्श्व उपाविश। अतो यदि दायूद् तं प्रभुं वदति, र्तिह स कथं तस्य सन्तानो भवति?
यीशुः प्रत्यवदत्, त्वं सत्यमुक्तवान्; अहं युष्मान् तथ्यं वदामि, इतःपरं मनुजसुतं सर्व्वशक्तिमतो दक्षिणपार्श्वे स्थातुं गगणस्थं जलधरानारुह्यायान्तं वीक्षध्वे।
तदा यीशुस्तं प्रोवाच भवाम्यहम् यूयञ्च सर्व्वशक्तिमतो दक्षीणपार्श्वे समुपविशन्तं मेघ मारुह्य समायान्तञ्च मनुष्यपुत्रं सन्द्रक्ष्यथ।
हे गालीलीयलोका यूयं किमर्थं गगणं प्रति निरीक्ष्य दण्डायमानास्तिष्ठथ? युष्माकं समीपात् स्वर्गं नीतो यो यीशुस्तं यूयं यथा स्वर्गम् आरोहन्तम् अदर्शम् तथा स पुनश्चागमिष्यति।
अतो यं यीशुं यूयं क्रुशेऽहत परमेश्वरस्तं प्रभुत्वाभिषिक्तत्वपदे न्ययुंक्तेति इस्रायेलीया लोका निश्चितं जानन्तु।
पश्चात् तं जीवनस्याधिपतिम् अहत किन्त्वीश्वरः श्मशानात् तम् उदस्थापयत तत्र वयं साक्षिण आस्महे।
तर्हि सर्व्व इस्रायेेलीयलोका यूयं जानीत नासरतीयो यो यीशुख्रीष्टः क्रुशे युष्माभिरविध्यत यश्चेश्वरेण श्मशानाद् उत्थापितः, तस्य नाम्ना जनोयं स्वस्थः सन् युष्माकं सम्मुखे प्रोत्तिष्ठति।
किन्तु स्तिफानः पवित्रेणात्मना पूर्णो भूत्वा गगणं प्रति स्थिरदृष्टिं कृत्वा ईश्वरस्य दक्षिणे दण्डायमानं यीशुञ्च विलोक्य कथितवान्;
सर्व्वेषां प्रभु र्यो यीशुख्रीष्टस्तेन ईश्वर इस्रायेल्वंशानां निकटे सुसंवादं प्रेष्य सम्मेलनस्य यं संवादं प्राचारयत् तं संवादं यूयं श्रुतवन्तः।
तस्य स्वप्रतिश्रुतस्य वाक्यस्यानुसारेण इस्रायेल्लोकानां निमित्तं तेषां मनुष्याणां वंशाद् ईश्वर एकं यीशुं (त्रातारम्) उदपादयत्।
पवित्रस्यात्मनः सम्बन्धेन चेश्वरस्य प्रभाववान् पुत्र इति श्मशानात् तस्योत्थानेन प्रतिपन्नं।
तत् केवलं नहि किन्तु सर्व्वाध्यक्षः सर्व्वदा सच्चिदानन्द ईश्वरो यः ख्रीष्टः सोऽपि शारीरिकसम्बन्धेन तेषां वंशसम्भवः।
यतो जीवन्तो मृताश्चेत्युभयेषां लोकानां प्रभुत्वप्राप्त्यर्थं ख्रीष्टो मृत उत्थितः पुनर्जीवितश्च।
अत उपयुक्तसमयात् पूर्व्वम् अर्थतः प्रभोरागमनात् पूर्व्वं युष्माभि र्विचारो न क्रियतां। प्रभुरागत्य तिमिरेण प्रच्छन्नानि सर्व्वाणि दीपयिष्यति मनसां मन्त्रणाश्च प्रकाशयिष्यति तस्मिन् समय ईश्वराद् एकैकस्य प्रशंसा भविष्यति।
परन्त्विब्राहीमे तस्य सन्तानाय च प्रतिज्ञाः प्रति शुश्रुविरे तत्र सन्तानशब्दं बहुवचनान्तम् अभूत्वा तव सन्तानायेत्येकवचनान्तं बभूव स च सन्तानः ख्रीष्ट एव।
यत ईश्वरस्य नानारूपं ज्ञानं यत् साम्प्रतं समित्या स्वर्गे प्राधान्यपराक्रमयुक्तानां दूतानां निकटे प्रकाश्यते तदर्थं स यीशुना ख्रीष्टेन सर्व्वाणि सृष्टवान्।
स परिचर्य्याकर्म्मसाधनाय ख्रीष्टस्य शरीरस्य निष्ठायै च पवित्रलोकानां सिद्धतायास्तादृशम् उपायं निश्चितवान्।
किन्त्वस्माकं जनपदः स्वर्गे विद्यते तस्माच्चागमिष्यन्तं त्रातारं प्रभुं यीशुख्रीष्टं वयं प्रतीक्षामहे।
स एव समितिरूपायास्तनो र्मूर्द्धा किञ्च सर्व्वविषये स यद् अग्रियो भवेत् तदर्थं स एव मृतानां मध्यात् प्रथमत उत्थितोऽग्रश्च।
सन्धिभिः शिराभिश्चोपकृतं संयुक्तञ्च कृत्स्नं शरीरं यस्मात् मूर्द्धत ईश्वरीयवृद्धिं प्राप्नोति तं मूर्द्धानं न धारयति तेन मानवेन युष्मत्तः फलापहरणं नानुजानीत।
स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।
हे स्वर्गीयस्याह्वानस्य सहभागिनः पवित्रभ्रातरः, अस्माकं धर्म्मप्रतिज्ञाया दूतोऽग्रसरश्च यो यीशुस्तम् आलोचध्वं।
यतः ख्रीष्टः सत्यपवित्रस्थानस्य दृष्टान्तरूपं हस्तकृतं पवित्रस्थानं न प्रविष्टवान् किन्त्वस्मन्निमित्तम् इदानीम् ईश्वरस्य साक्षाद् उपस्थातुं स्वर्गमेव प्रविष्टः।
यश्चास्माकं विश्वासस्याग्रेसरः सिद्धिकर्त्ता चास्ति तं यीशुं वीक्षामहै यतः स स्वसम्मुखस्थितानन्दस्य प्राप्त्यर्थम् अपमानं तुच्छीकृत्य क्रुशस्य यातनां सोढवान् ईश्वरीयसिंहासनस्य दक्षिणपार्श्वे समुपविष्टवांश्च।
यो जनः परीक्षां सहते स एव धन्यः, यतः परीक्षितत्वं प्राप्य स प्रभुना स्वप्रेमकारिभ्यः प्रतिज्ञातं जीवनमुकुटं लप्स्यते।
विशेषतस्तेषामन्तर्व्वासी यः ख्रीष्टस्यात्मा ख्रीष्टे वर्त्तिष्यमाणानि दुःखानि तदनुगामिप्रभावञ्च पूर्व्वं प्राकाशयत् तेन कः कीदृशो वा समयो निरदिश्यतैतस्यानुसन्धानं कृतवन्तः।
निष्कलङ्कनिर्म्मलमेषशावकस्येव ख्रीष्टस्य बहुमूल्येन रुधिरेण मुक्तिं प्राप्तवन्त इति जानीथ।
अपरं मानुषैरवज्ञातस्य किन्त्वीश्वरेणाभिरुचितस्य बहुमूल्यस्य जीवत्प्रस्तरस्येव तस्य प्रभोः सन्निधिम् आगता
यतः शास्त्रे लिखितमास्ते, यथा, पश्य पाषाण एको ऽस्ति सीयोनि स्थापितो मया। मुख्यकोणस्य योग्यः स वृतश्चातीव मूल्यवान्। यो जनो विश्वसेत् तस्मिन् स लज्जां न गमिष्यति।
किन्तु स यथा ज्योतिषि वर्त्तते तथा वयमपि यदि ज्योतिषि चरामस्तर्हि परस्परं सहभागिनो भवामस्तस्य पुत्रस्य यीशुख्रीष्टस्य रुधिरञ्चास्मान् सर्व्वस्मात् पापात् शुद्धयति।
तच्च साक्ष्यमिदं यद् ईश्वरो ऽस्मभ्यम् अनन्तजीवनं दत्तवान् तच्च जीवनं तस्य पुत्रे विद्यते।
यतो बहवः प्रवञ्चका जगत् प्रविश्य यीशुख्रीष्टो नरावतारो भूत्वागत एतत् नाङ्गीकुर्व्वन्ति स एव प्रवञ्चकः ख्रीष्टारिश्चास्ति।
पश्यत स मेघैरागच्छति तेनैकैकस्य चक्षुस्तं द्रक्ष्यति ये च तं विद्धवन्तस्ते ऽपि तं विलोकिष्यन्ते तस्य कृते पृथिवीस्थाः सर्व्वे वंशा विलपिष्यन्ति। सत्यम् आमेन्।
यो जनो जयति स शुभ्रपरिच्छदं परिधापयिष्यन्ते, अहञ्च जीवनग्रन्थात् तस्य नाम नान्तर्धापयिष्यामि किन्तु मत्पितुः साक्षात् तस्य दूतानां साक्षाच्च तस्य नाम स्वीकरिष्यामि।
अपरमहं यथा जितवान् मम पित्रा च सह तस्य सिंहासन उपविष्टश्चास्मि, तथा यो जनो जयति तमहं मया सार्द्धं मत्सिंहासन उपवेशयिष्यामि।
अपरं सिंहासनस्य चतुर्णां प्राणिनां प्राचीनवर्गस्य च मध्य एको मेषशावको मया दृष्टः स छेदित इव तस्य सप्तशृङ्गाणि सप्तलोचनानि च सन्ति तानि कृत्स्नां पृथिवीं प्रेषिता ईश्वरस्य सप्तात्मानः।
यतः सिंहासनाधिष्ठानकारी मेषशावकस्तान् चारयिष्यति, अमृततोयानां प्रस्रवणानां सन्निधिं तान् गमयिष्यति च, ईश्वरोऽपि तेषां नयनभ्यः सर्व्वमश्रु प्रमार्क्ष्यति।
ततः परं स्वर्गे उच्चै र्भाषमाणो रवो ऽयं मयाश्रावि, त्राणं शक्तिश्च राजत्वमधुनैवेश्वरस्य नः। तथा तेनाभिषिक्तस्य त्रातुः पराक्रमो ऽभवत्ं॥ यतो निपातितो ऽस्माकं भ्रातृणां सो ऽभियोजकः। येनेश्वरस्य नः साक्षात् ते ऽदूष्यन्त दिवानिशं॥
यो मनुजसुतस्य विरुद्धां कथां कथयति, तस्यापराधस्य क्षमा भवितुं शक्नोति, किन्तु यः कश्चित् पवित्रस्यात्मनो विरुद्धां कथां कथयति नेहलोके न प्रेत्य तस्यापराधस्य क्षमा भवितुं शक्नोति।
तद्वत् ख्रीष्टोऽपि बहूनां पापवहनार्थं बलिरूपेणैककृत्व उत्ससृजे, अपरं द्वितीयवारं पापाद् भिन्नः सन् ये तं प्रतीक्षन्ते तेषां परित्राणार्थं दर्शनं दास्यति।
नूतननियमस्य मध्यस्थो यीशुः, अपरं हाबिलो रक्तात् श्रेयः प्रचारकं प्रोक्षणस्य रक्तञ्चैतेषां सन्निधौ यूयम् आगताः।