बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

ईश्वरस्य सर्वज्ञताईश्वरस्य सर्वव्यापीताईश्वरस्य सर्वशक्तिमान्ईश्वरस्य महत्त्वम्ईश्वरस्य गुणाःईश्वरस्य चरित्रम्ईश्वरस्य सृष्टिःईश्वरस्य सार्वभौमत्वम्नियमःईश्वरस्य कवचम्ईश्वरस्य सद्भावःईश्वरस्य प्रतीक्षां कुरुतईश्वरस्य सौन्दर्यम्ईश्वरस्य विषयेदिव्य प्रज्ञापरीक्षासमये ईश्वरस्य उद्देश्यम्अस्माकं प्रति ईश्वरस्य प्रेमसमागमस्य विषयेकठिनसमये ईश्वरस्य निष्ठाईश्वरस्य स्वसन्ततिनां परिचर्याअस्माकं जीवनस्य कृते ईश्वरस्य योजनाईश्वरस्य वचनम्ईश्वरस्य आह्वानस्य विषयेईश्वरस्य अस्तित्वस्य विषये बाइबिलतःईश्वरस्य इच्छाअस्माकं पितुः परमेश्वरस्य विषयेईश्वरस्य पुत्रस्य विषयेमसीहस्य विषयेत्रिमूर्तिःकरुणाईश्वरस्य वाणीभविष्यद्वादिः

उपवर्ग

150 ईश्वरीयप्रज्ञायाः विषये बाइबिलस्य श्लोकाः


याकूब 1:5

युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।

इफिसियों 1:17

अस्माकं प्रभो र्यीशुख्रीष्टस्य तातो यः प्रभावाकर ईश्वरः स स्वकीयतत्त्वज्ञानाय युष्मभ्यं ज्ञानजनकम् प्रकाशितवाक्यबोधकञ्चात्मानं देयात्।

याकूब 3:17

किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।

कुलुस्सियों 2:2-3

फलतः पूर्णबुद्धिरूपधनभोगाय प्रेम्ना संयुक्तानां तेषां मनांसि यत् पितुरीश्वरस्य ख्रीष्टस्य च निगूढवाक्यस्य ज्ञानार्थं सान्त्वनां प्राप्नुयुरित्यर्थमहं यते।

यदि यूयं ख्रीष्टेन सार्द्धं संसारस्य वर्णमालायै मृता अभवत तर्हि यैै र्द्रव्यै र्भोगेन क्षयं गन्तव्यं

तानि मा स्पृश मा भुंक्ष्व मा गृहाणेति मानवैरादिष्टान् शिक्षितांश्च विधीन्

आचरन्तो यूयं कुतः संसारे जीवन्त इव भवथ?

ते विधयः स्वेच्छाभक्त्या नम्रतया शरीरक्लेशनेन च ज्ञानविधिवत् प्रकाशन्ते तथापि तेऽगण्याः शारीरिकभाववर्द्धकाश्च सन्ति।

यतो विद्याज्ञानयोः सर्व्वे निधयः ख्रीष्टे गुप्ताः सन्ति।

1 कुरिन्थियों 1:25

यत ईश्वरे यः प्रलाप आरोप्यते स मानवातिरिक्तं ज्ञानमेव यच्च दौर्ब्बल्यम् ईश्वर आरोप्यते तत् मानवातिरिक्तं बलमेव।

1 कुरिन्थियों 2:6-7

वयं ज्ञानं भाषामहे तच्च सिद्धलोकै र्ज्ञानमिव मन्यते, तदिहलोकस्य ज्ञानं नहि, इहलोकस्य नश्वराणाम् अधिपतीनां वा ज्ञानं नहि;

किन्तु कालावस्थायाः पूर्व्वस्माद् यत् ज्ञानम् अस्माकं विभवार्थम् ईश्वरेण निश्चित्य प्रच्छन्नं तन्निगूढम् ईश्वरीयज्ञानं प्रभाषामहे।

2 तीमुथियु 3:15

यानि च धर्म्मशास्त्राणि ख्रीष्टे यीशौ विश्वासेन परित्राणप्राप्तये त्वां ज्ञानिनं कर्त्तुं शक्नुवन्ति तानि त्वं शैशवकालाद् अवगतोऽसि।

कुलुस्सियों 4:5

यूयं समयं बहुमूल्यं ज्ञात्वा बहिःस्थान् लोकान् प्रति ज्ञानाचारं कुरुध्वं।

1 कुरिन्थियों 3:19

यस्मादिहलोकस्य ज्ञानम् ईश्वरस्य साक्षात् मूढत्वमेव। एतस्मिन् लिखितमप्यास्ते, तीक्ष्णा या ज्ञानिनां बुद्धिस्तया तान् धरतीश्वरः।

इफिसियों 5:15-17

अतः सावधाना भवत, अज्ञाना इव माचरत किन्तु ज्ञानिन इव सतर्कम् आचरत।

समयं बहुमूल्यं गणयध्वं यतः काला अभद्राः।

तस्माद् यूयम् अज्ञाना न भवत किन्तु प्रभोरभिमतं किं तदवगता भवत।

2 पतरस 1:5-6

ततो हेतो र्यूयं सम्पूर्णं यत्नं विधाय विश्वासे सौजन्यं सौजन्ये ज्ञानं

ज्ञान आयतेन्द्रियताम् आयतेन्द्रियतायां धैर्य्यं धैर्य्य ईश्वरभक्तिम्

1 कुरिन्थियों 1:30

यूयञ्च तस्मात् ख्रीष्टे यीशौ संस्थितिं प्राप्तवन्तः स ईश्वराद् युष्माकं ज्ञानं पुण्यं पवित्रत्वं मुक्तिश्च जाता।

1 कुरिन्थियों 2:10-12

अपरमीश्वरः स्वात्मना तदस्माकं साक्षात् प्राकाशयत्; यत आत्मा सर्व्वमेवानुसन्धत्ते तेन चेश्वरस्य मर्म्मतत्त्वमपि बुध्यते।

मनुजस्यान्तःस्थमात्मानं विना केन मनुजेन तस्य मनुजस्य तत्त्वं बुध्यते? तद्वदीश्वरस्यात्मानं विना केनापीश्वरस्य तत्त्वं न बुध्यते।

वयञ्चेहलोकस्यात्मानं लब्धवन्तस्तन्नहि किन्त्वीश्वरस्यैवात्मानं लब्धवन्तः, ततो हेतोरीश्वरेण स्वप्रसादाद् अस्मभ्यं यद् यद् दत्तं तत्सर्व्वम् अस्माभि र्ज्ञातुं शक्यते।

कुलुस्सियों 1:28

तस्माद् वयं तमेव घोषयन्तो यद् एकैकं मानवं सिद्धीभूतं ख्रीष्टे स्थापयेम तदर्थमेकैकं मानवं प्रबोधयामः पूर्णज्ञानेन चैकैकं मानवं उपदिशामः।

1 तीमुथियुस 4:15-16

एतेषु मनो निवेशय, एतेषु वर्त्तस्व, इत्थञ्च सर्व्वविषये तव गुणवृद्धिः प्रकाशतां।

स्वस्मिन् उपदेशे च सावधानो भूत्वावतिष्ठस्व तत् कृत्वा त्वयात्मपरित्राणं श्रोतृणाञ्च परित्राणं साधयिष्यते।

उपवर्ग

ईश्वरस्य सर्वज्ञताईश्वरस्य सर्वव्यापीताईश्वरस्य सर्वशक्तिमान्ईश्वरस्य महत्त्वम्ईश्वरस्य गुणाःईश्वरस्य चरित्रम्ईश्वरस्य सृष्टिःईश्वरस्य सार्वभौमत्वम्नियमःईश्वरस्य कवचम्ईश्वरस्य सद्भावःईश्वरस्य प्रतीक्षां कुरुतईश्वरस्य सौन्दर्यम्ईश्वरस्य विषयेदिव्य प्रज्ञापरीक्षासमये ईश्वरस्य उद्देश्यम्अस्माकं प्रति ईश्वरस्य प्रेमसमागमस्य विषयेकठिनसमये ईश्वरस्य निष्ठाईश्वरस्य स्वसन्ततिनां परिचर्याअस्माकं जीवनस्य कृते ईश्वरस्य योजनाईश्वरस्य वचनम्ईश्वरस्य आह्वानस्य विषयेईश्वरस्य अस्तित्वस्य विषये बाइबिलतःईश्वरस्य इच्छाअस्माकं पितुः परमेश्वरस्य विषयेईश्वरस्य पुत्रस्य विषयेमसीहस्य विषयेत्रिमूर्तिःकरुणाईश्वरस्य वाणीभविष्यद्वादिः