कुलुस्सियों 1:16 यतः सर्व्वमेव तेन ससृजे सिंहासनराजत्वपराक्रमादीनि स्वर्गमर्त्त्यस्थितानि दृश्यादृश्यानि वस्तूनि सर्व्वाणि तेनैव तस्मै च ससृजिरे।
रोमियों 1:20 फलतस्तस्यानन्तशक्तीश्वरत्वादीन्यदृश्यान्यपि सृष्टिकालम् आरभ्य कर्म्मसु प्रकाशमानानि दृश्यन्ते तस्मात् तेषां दोषप्रक्षालनस्य पन्था नास्ति।
इब्रानियों 11:3 अपरम् ईश्वरस्य वाक्येन जगन्त्यसृज्यन्त, दृष्टवस्तूनि च प्रत्यक्षवस्तुभ्यो नोदपद्यन्तैतद् वयं विश्वासेन बुध्यामहे।
रोमियों 11:36 यतो वस्तुमात्रमेव तस्मात् तेन तस्मै चाभवत् तदीयो महिमा सर्व्वदा प्रकाशितो भवतु। इति।
रोमियों 4:17 यो निर्जीवान् सजीवान् अविद्यमानानि वस्तूनि च विद्यमानानि करोति इब्राहीमो विश्वासभूमेस्तस्येश्वरस्य साक्षात् सोऽस्माकं सर्व्वेषाम् आदिपुरुष आस्ते, यथा लिखितं विद्यते, अहं त्वां बहुजातीनाम् आदिपुरुषं कृत्वा नियुक्तवान्।
इब्रानियों 1:10 पुनश्च, यथा, "हे प्रभो पृथिवीमूलम् आदौ संस्थापितं त्वया। तथा त्वदीयहस्तेन कृतं गगनमण्डलं।
रोमियों 8:22 अपरञ्च प्रसूयमानावद् व्यथितः सन् इदानीं यावत् कृत्स्नः प्राणिगण आर्त्तस्वरं करोतीति वयं जानीमः।
इब्रानियों 3:4 एकैकस्य निवेशनस्य परिजनानां स्थापयिता कश्चिद् विद्यते यश्च सर्व्वस्थापयिता स ईश्वर एव।
रोमियों 1:19-20 यत ईश्वरमधि यद्यद् ज्ञेयं तद् ईश्वरः स्वयं तान् प्रति प्रकाशितवान् तस्मात् तेषाम् अगोचरं नहि। स रोमानगरस्थान् ईश्वरप्रियान् आहूतांश्च पवित्रलोकान् प्रति पत्रं लिखति। फलतस्तस्यानन्तशक्तीश्वरत्वादीन्यदृश्यान्यपि सृष्टिकालम् आरभ्य कर्म्मसु प्रकाशमानानि दृश्यन्ते तस्मात् तेषां दोषप्रक्षालनस्य पन्था नास्ति।
मत्ती 6:26 विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।
रोमियों 8:21 किन्तु प्राणिगणोऽपि नश्वरताधीनत्वात् मुक्तः सन् ईश्वरस्य सन्तानानां परममुक्तिं प्राप्स्यतीत्यभिप्रायेण वशीकर्त्रा वशीचक्रे।