भगवता स्वजनहिताय निरूपिताः भवन्ति भविष्यद्वक्तारः। तेषां कर्तव्यमासीत् पापकर्मफलानि जनान् बोधयितुम् एकस्मिन् सत्यदेवे भक्तिं श्रद्धां च स्थापयितुं च। न सर्वदा सुकरमासीत् तेषां कार्यम्। प्रायशः ते विरोधं निन्दां च सोढुमपद्यन्त ये तेषां वचनं न श्रोतुमिच्छन्ति स्म।
पुराणे नियमग्रन्थे, यथा यशायाहः यिर्मयाहः इजकियेलः एलियाहः एलीशाहः च, अनेके भविष्यद्वक्तारः आसन्। दिव्यानि दर्शनानि प्राप्य, ईश्वरीयाणि रहस्यानि ते इजरायेल-जनान् बोधयामासुः। तेषां वचनानि, ईश्वरप्रेम्णा ज्ञानेन च परिपूर्णानि, अस्माकं स्वस्य ईश्वरेण सह सम्बन्धं चिन्तयितुं प्रेरयन्ति।
भविष्यद्वक्तानां कथासु मुख्यं शिक्षणं विद्यते श्रद्धायाः पश्चात्तापस्य च। जनान् पापमार्गात् निवर्तयितुं भगवतः समीपं प्रत्यागन्तुं च ते प्रोत्साहयामासुः। तेषां माध्यमेन, ईश्वरः कथं स्वजनेन सह घनिष्ठं सम्बन्धम् इच्छति, कथं स न्यायं आज्ञापालनं चापेक्षते, तत् अवगच्छामः।
अधुना, अस्मिन् पापदुष्टे जगति, भगवद्भक्तानां, भविष्यद्वक्तानां च पवित्रात्मना सह निकटतमः सम्बन्धः आवश्यकः। एवं ते न भ्रान्ताः न वञ्चिताः भविष्यन्ति, न च यानि भगवता नोक्तानि तानि स्वीकरिष्यन्ति। भवन्तः स्वहृदयानि पवित्रतया सत्यनिष्ठया च रक्षन्तु, भगवतः नियमान् सिद्धान्तांश्च दृढतया पालयन्तु।
हे मम भ्रातरः, ये भविष्यद्वादिनः प्रभो र्नाम्ना भाषितवन्तस्तान् यूयं दुःखसहनस्य धैर्य्यस्य च दृष्टान्तान् जानीत।
तदा आनन्दत, तथा भृशं ह्लादध्वञ्च, यतः स्वर्गे भूयांसि फलानि लप्स्यध्वे; ते युष्माकं पुरातनान् भविष्यद्वादिनोऽपि तादृग् अताडयन्।
कथयामास च मूसाव्यवस्थायां भविष्यद्वादिनां ग्रन्थेषु गीतपुस्तके च मयि यानि सर्व्वाणि वचनानि लिखितानि तदनुरूपाणि घटिष्यन्ते युष्माभिः सार्द्धं स्थित्वाहं यदेतद्वाक्यम् अवदं तदिदानीं प्रत्यक्षमभूत्।
पुरा य ईश्वरो भविष्यद्वादिभिः पितृलोकेभ्यो नानासमये नानाप्रकारं कथितवान् पुनश्च, यथा, "हे प्रभो पृथिवीमूलम् आदौ संस्थापितं त्वया। तथा त्वदीयहस्तेन कृतं गगनमण्डलं। इमे विनंक्ष्यतस्त्वन्तु नित्यमेवावतिष्ठसे। इदन्तु सकलं विश्वं संजरिष्यति वस्त्रवत्। सङ्कोचितं त्वया तत्तु वस्त्रवत् परिवर्त्स्यते। त्वन्तु नित्यं स एवासी र्निरन्तास्तव वत्सराः॥" अपरं दूतानां मध्ये कः कदाचिदीश्वरेणेदमुक्तः? यथा, "तवारीन् पादपीठं ते यावन्नहि करोम्यहं। मम दक्षिणदिग्भागे तावत् त्वं समुपाविश॥" ये परित्राणस्याधिकारिणो भविष्यन्ति तेषां परिचर्य्यार्थं प्रेष्यमाणाः सेवनकारिण आत्मानः किं ते सर्व्वे दूता नहि? स एतस्मिन् शेषकाले निजपुत्रेणास्मभ्यं कथितवान्। स तं पुत्रं सर्व्वाधिकारिणं कृतवान् तेनैव च सर्व्वजगन्ति सृष्टवान्।
युष्मासु यो ऽनुग्रहो वर्त्तते तद्विषये य ईश्वरीयवाक्यं कथितवन्तस्ते भविष्यद्वादिनस्तस्य परित्राणस्यान्वेषणम् अनुसन्धानञ्च कृतवन्तः। विशेषतस्तेषामन्तर्व्वासी यः ख्रीष्टस्यात्मा ख्रीष्टे वर्त्तिष्यमाणानि दुःखानि तदनुगामिप्रभावञ्च पूर्व्वं प्राकाशयत् तेन कः कीदृशो वा समयो निरदिश्यतैतस्यानुसन्धानं कृतवन्तः। ततस्तै र्विषयैस्ते यन्न स्वान् किन्त्वस्मान् उपकुर्व्वन्त्येतत् तेषां निकटे प्राकाश्यत। यांश्च तान् विषयान् दिव्यदूता अप्यवनतशिरसो निरीक्षितुम् अभिलषन्ति ते विषयाः साम्प्रतं स्वर्गात् प्रेषितस्य पवित्रस्यात्मनः सहाय्याद् युष्मत्समीपे सुसंवादप्रचारयितृभिः प्राकाश्यन्त।
अस्माद् ईश्वरानुग्रहेण विशेषं विशेषं दानम् अस्मासु प्राप्तेषु सत्सु कोपि यदि भविष्यद्वाक्यं वदति तर्हि प्रत्ययस्य परिमाणानुसारतः स तद् वदतु;
यो भविष्यद्वादीति ज्ञात्वा तस्यातिथ्यं विधत्ते, स भविष्यद्वादिनः फलं लप्स्यते, यश्च धार्म्मिक इति विदित्वा तस्यातिथ्यं विधत्ते स धार्म्मिकमानवस्य फलं प्राप्स्यति।
हे यिरूशालम् हे यिरूशालम् त्वं भविष्यद्वादिनो हंसि तवान्तिके प्रेरितान् प्रस्तरैर्मारयसि च, यथा कुक्कुटी निजपक्षाधः स्वशावकान् संगृह्लाति, तथाहमपि तव शिशून् संग्रहीतुं कतिवारान् ऐच्छं किन्तु त्वं नैच्छः।
किन्त्वीश्वरः ख्रीष्टस्य दुःखभोगे भविष्यद्वादिनां मुखेभ्यो यां यां कथां पूर्व्वमकथयत् ताः कथा इत्थं सिद्धा अकरोत्।
गत्वा च हेरोदो नृपते र्मरणपर्य्यन्तं तत्र देशे न्युवास, तेन मिसर्देशादहं पुत्रं स्वकीयं समुपाहूयम्। यदेतद्वचनम् ईश्वरेण भविष्यद्वादिना कथितं तत् सफलमभूत्।
प्रभुः परमेश्वरो युष्माकं भ्रातृगणस्य मध्ये मादृशम् एकं भविष्यद्वक्तारम् उत्पादयिष्यति तस्य कथायां यूयं मनो निधास्यथ, यो जन इस्रायेलः सन्तानेभ्य एनां कथां कथयामास स एष मूसाः।
अपरं द्वौ त्रयो वेश्वरीयादेशवक्तारः स्वं स्वमादेशं कथयन्तु तदन्ये च तं विचारयन्तु।
यः कश्चिद् आत्मानम् ईश्वरीयादेशवक्तारम् आत्मनाविष्टं वा मन्यते स युष्मान् प्रति मया यद् यत् लिख्यते तत्प्रभुनाज्ञापितम् ईत्युररी करोतु।
अपरं प्रेरिता भविष्यद्वादिनश्च यत्र भित्तिमूलस्वरूपास्तत्र यूयं तस्मिन् मूले निचीयध्वे तत्र च स्वयं यीशुः ख्रीष्टः प्रधानः कोणस्थप्रस्तरः।
ते यिहूदीयाः प्रभुं यीशुं भविष्यद्वादिनश्च हतवन्तो ऽस्मान् दूरीकृतवन्तश्च, त ईश्वराय न रोचन्ते सर्व्वेषां मानवानां विपक्षा भवन्ति च;
किन्तु तूरीं वादिष्यतः सप्तमदूतस्य तूरीवादनसमय ईश्वरस्य गुप्ता मन्त्रणा तस्य दासान् भविष्यद्वादिनः प्रति तेन सुसंवादे यथा प्रकाशिता तथैव सिद्धा भविष्यति।
भविष्यद्वादिसाधूनां रक्तं तैरेव पातितं। शोणितं त्वन्तु तेभ्यो ऽदास्तत्पानं तेषु युज्यते॥
ततः स माम् अवदत् सावधानो भव मैवं कृरु, त्वया तव भ्रातृभि र्भविष्यद्वादिभिरेतद्ग्रन्थस्थवाक्यपालनकारिभिश्च सहदासो ऽहं। त्वम् ईश्वरं प्रणम।
हे यिरूशालम् हे यिरूशालम् नगरि त्वं भविष्यद्वादिनो हतवती, तव समीपं प्रेरितांश्च पाषाणैराहतवती, यथा कुक्कुटी शावकान् पक्षाधः संगृह्लाति, तथा तव सन्तानान् संग्रहीतुं अहं बहुवारम् ऐच्छं; किन्तु त्वं न सममन्यथाः।
अतएव ईश्वरस्य शास्त्रे प्रोक्तमस्ति तेषामन्तिके भविष्यद्वादिनः प्रेरितांश्च प्रेषयिष्यामि ततस्ते तेषां कांश्चन हनिष्यन्ति कांश्चन ताडश्ष्यिन्ति।
ततः परं भविष्यद्वादिगणे यिरूशालम आन्तियखियानगरम् आगते सति आगाबनामा तेषामेक उत्थाय आत्मनः शिक्षया सर्व्वदेशे दुर्भिक्षं भविष्यतीति ज्ञापितवान्; ततः क्लौदियकैसरस्याधिकारे सति तत् प्रत्यक्षम् अभवत्।
तत्रास्मासु बहुदिनानि प्रोषितेषु यिहूदीयदेशाद् आगत्यागाबनामा भविष्यद्वादी समुपस्थितवान्। सोस्माकं समीपमेत्य पौलस्य कटिबन्धनं गृहीत्वा निजहस्तापादान् बद्ध्वा भाषितवान् यस्येदं कटिबन्धनं तं यिहूदीयलोका यिरूशालमनगर इत्थं बद्ध्वा भिन्नदेशीयानां करेषु समर्पयिष्यन्तीति वाक्यं पवित्र आत्मा कथयति।
अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ।
तस्या मन्त्रणाया ज्ञानं लब्ध्वा मया यः सुसंवादो यीशुख्रीष्टमधि प्रचार्य्यते, तदनुसाराद् युष्मान् धर्म्मे सुस्थिरान् कर्त्तुं समर्थो योऽद्वितीयः
यो युष्माकमातिथ्यं विदधाति, स ममातिथ्यं विदधाति, यश्च ममातिथ्यं विदधाति, स मत्प्रेरकस्यातिथ्यं विदधाति। यो भविष्यद्वादीति ज्ञात्वा तस्यातिथ्यं विधत्ते, स भविष्यद्वादिनः फलं लप्स्यते, यश्च धार्म्मिक इति विदित्वा तस्यातिथ्यं विधत्ते स धार्म्मिकमानवस्य फलं प्राप्स्यति। यश्च कश्चित् एतेषां क्षुद्रनराणाम् यं कञ्चनैकं शिष्य इति विदित्वा कंसैकं शीतलसलिलं तस्मै दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण फलेन न वञ्चिष्यते।
अतो हे बालक त्वन्तु सर्व्वेभ्यः श्रेष्ठ एव यः। तस्यैव भाविवादीति प्रविख्यातो भविष्यसि। अस्माकं चरणान् क्षेमे मार्गे चालयितुं सदा। एवं ध्वान्तेऽर्थतो मृत्योश्छायायां ये तु मानवाः।
तस्मात् सर्व्वे लोकाः शशङ्किरे; एको महाभविष्यद्वादी मध्येऽस्माकम् समुदैत्, ईश्वरश्च स्वलोकानन्वगृह्लात् कथामिमां कथयित्वा ईश्वरं धन्यं जगदुः।
स पप्रच्छ का घटनाः? तदा तौ वक्तुमारेभाते यीशुनामा यो नासरतीयो भविष्यद्वादी ईश्वरस्य मानुषाणाञ्च साक्षात् वाक्ये कर्म्मणि च शक्तिमानासीत्
यस्तस्मिन् विश्वसिति स तस्य नाम्ना पापान्मुक्तो भविष्यति तस्मिन् सर्व्वे भविष्यद्वादिनोपि एतादृशं साक्ष्यं ददति।
केचित् केचित् समितावीश्वरेण प्रथमतः प्रेरिता द्वितीयत ईश्वरीयादेशवक्तारस्तृतीयत उपदेष्टारो नियुक्ताः, ततः परं केभ्योऽपि चित्रकार्य्यसाधनसामर्थ्यम् अनामयकरणशक्तिरुपकृतौ लोकशासने वा नैपुण्यं नानाभाषाभाषणसामर्थ्यं वा तेन व्यतारि।
मनुष्येभ्यो नहि मनुष्यैरपि नहि किन्तु यीशुख्रीष्टेन मृतगणमध्यात् तस्योत्थापयित्रा पित्रेश्वरेण च प्रेरितो योऽहं पौलः सोऽहं
स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनोऽपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्।
अधिकं किं कथयिष्यामि? गिदियोनो बारकः शिम्शोनो यिप्तहो दायूद् शिमूयेलो भविष्यद्वादिनश्चैतेषां वृत्तान्तकथनाय मम समयाभावो भविष्यति। विश्वासात् ते राज्यानि वशीकृतवन्तो धर्म्मकर्म्माणि साधितवन्तः प्रतिज्ञानां फलं लब्धवन्तः सिंहानां मुखानि रुद्धवन्तो वह्नेर्दाहं निर्व्वापितवन्तः खङ्गधाराद् रक्षां प्राप्तवन्तो दौर्ब्बल्ये सबलीकृता युद्धे पराक्रमिणो जाताः परेषां सैन्यानि दवयितवन्तश्च।
यः कश्चित् मूससो व्यवस्थाम् अवमन्यते स दयां विना द्वयोस्तिसृणां वा साक्षिणां प्रमाणेन हन्यते,
यदि वा प्रेरिता न भवन्ति तदा कथं प्रचारयिष्यन्ति? यादृशं लिखितम् आस्ते, यथा, माङ्गलिकं सुसंवादं ददत्यानीय ये नराः। प्रचारयन्ति शान्तेश्च सुसंवादं जनास्तु ये। तेषां चरणपद्मानि कीदृक् शोभान्वितानि हि।
युष्माकं पूर्व्वपुरुषाः कं भविष्यद्वादिनं नाताडयन्? ये तस्य धार्म्मिकस्य जनस्यागमनकथां कथितवन्तस्तान् अघ्नन् यूयम् अधूना विश्वासघातिनो भूत्वा तं धार्म्मिकं जनम् अहत।
युष्माकं सन्निधौ यः सुसंवादोऽस्माभि र्घोषितस्तस्माद् अन्यः सुसंवादोऽस्माकं स्वर्गीयदूतानां वा मध्ये केनचिद् यदि घोष्यते तर्हि स शप्तो भवतु।
किन्तु वाक्यं परेशस्यानन्तकालं वितिष्ठते। तदेव च वाक्यं सुसंवादेन युष्माकम् अन्तिके प्रकाशितं।
यतो भविष्यद्वाक्यं पुरा मानुषाणाम् इच्छातो नोत्पन्नं किन्त्वीश्वरस्य पवित्रलोकाः पवित्रेणात्मना प्रवर्त्तिताः सन्तो वाक्यम् अभाषन्त।
हे भ्रातृगण यीशुधारिणां लोकानां पथदर्शको यो यिहूदास्तस्मिन् दायूदा पवित्र आत्मा यां कथां कथयामास तस्याः प्रत्यक्षीभवनस्यावश्यकत्वम् आसीत्।
युष्मान् अस्मांश्चाभिषिच्य यः ख्रीष्टे स्थास्नून् करोति स ईश्वर एव। स चास्मान् मुद्राङ्कितान् अकार्षीत् सत्याङ्कारस्य पणखरूपम् आत्मानं अस्माकम् अन्तःकरणेषु निरक्षिपच्च।
पृथिवीनिवासिनश्च तयो र्हेतोरानन्दिष्यन्ति सुखभोगं कुर्व्वन्तः परस्परं दानानि प्रेषयिष्यन्ति च यतस्ताभ्यां भविष्यद्वादिभ्यां पृथिवीनिवासिनो यातनां प्राप्ताः।