भगवतः व्यवस्था कथं परिभाषिता? एषः प्रश्नः अस्माकं कृते अतीव महत्वपूर्णः, यतः अयं अस्माकं आध्यात्मिकबोधेन, भगवतः स्वरूपेण च सम्बद्धः। संक्षेपेण, भगवतः व्यवस्थाः ताः एव याः तस्य जीवनमार्गं नियमयन्ति, यासु च तस्य भविष्यराज्यं आधारितं भविष्यति। ताः व्यवस्थाः दिव्याः, स्वस्य उद्देश्ये, न्याय्यतायां, प्रयोगे च पूर्णाः सन्ति। यथा पौलुसः अपोस्टोलः वदति, भगवतः व्यवस्था "पवित्रा, आज्ञा च पवित्रा, न्याय्या, उत्तमा च", तथा "आध्यात्मिका" (रोम. ७:१२,१४)। यथा च राजा दाउदः अलिखत्, "यहोवायाः व्यवस्था पूर्णा, आत्मानं परिवर्तयति।" ततः सः भगवतः साक्ष्यानां, विधीनां, आज्ञानां, न्याय्यानां च सौन्दर्यं, लाभं च वर्णितवान्, याः तस्य व्यवस्थायाः विविधाः रूपाणि सन्ति (स्तो. १९:७-११)।
बाइबिलीयव्यवस्थाः दिव्याज्ञानां, विधीनां, न्याय्यानां च व्यवस्थया निर्मिताः सन्ति, याः प्रत्येकं राष्ट्रेण, प्रत्येकं मनुष्येण च पालनीयाः, यतः भगवान् सर्वेषां स्रष्टा अस्ति। अपि च, भगवतः व्यवस्थाः न्यायस्य, पापस्य च संकल्पनां परिभाषयन्ति। यदि वयं ताः पालयामः, तर्हि ताः सदैव अस्माकं हिताय भविष्यन्ति। बहवः जनाः यत् वदन्ति तत् तुच्छं मत्वा, भवतः कृते भगवद्व्यवस्थापालनं आनन्दस्य, भगवतः प्रति प्रेमप्रदर्शनस्य च विषयः भवेत्। वयं जानीमः यत् एतादृशाः कर्माणि स्वबलेन साधयितुं न शक्नुमः, किन्तु ख्रीष्टे सर्वं साधयितुं शक्नुमः। स्तोत्रकारः दाउदः अस्मान् शिक्षयति यत् भगवद्व्यवस्था कदापि भारः नास्ति। सः स्तोत्रग्रन्थे अलिखत्, "किन्तु यहोवायाः व्यवस्थायाम् एव तस्य प्रीतिः, तस्यां च व्यवस्थायां सः अहोरात्रं चिन्तयति।" अस्माकं आत्मने भगवद्व्यवस्था आनन्ददायिनी अस्ति, तस्यां च वयं सदैव चिन्तनं कुर्मः, पितुः आज्ञाभङ्गं विना।
युष्माकं परस्परं प्रेम विना ऽन्यत् किमपि देयम् ऋणं न भवतु, यतो यः परस्मिन् प्रेम करोति तेन व्यवस्था सिध्यति।
अहं युष्मत्तः कथामेकां जिज्ञासे यूयम् आत्मानं केनालभध्वं? व्यवस्थापालनेन किं वा विश्वासवाक्यस्य श्रवणेन?
अहमीश्वरस्यानुग्रहं नावजानामि यस्माद् व्यवस्थया यदि पुण्यं भवति तर्हि ख्रीष्टो निरर्थकमम्रियत।
यतो व्यवस्थादानसमयं यावत् जगति पापम् आसीत् किन्तु यत्र व्यवस्था न विद्यते तत्र पापस्यापि गणना न विद्यते।
अलब्धव्यवस्थाशास्त्रै र्यैः पापानि कृतानि व्यवस्थाशास्त्रालब्धत्वानुरूपस्तेषां विनाशो भविष्यति; किन्तु लब्धव्यवस्थाशास्त्रा ये पापान्यकुर्व्वन् व्यवस्थानुसारादेव तेषां विचारो भविष्यति।
यस्मात् त्वं समीपवासिनि स्ववत् प्रेम कुर्य्या इत्येकाज्ञा कृत्स्नाया व्यवस्थायाः सारसंग्रहः।
किन्तु वयं व्यवस्थाया अनायत्ता अनुग्रहस्य चायत्ता अभवाम, इति कारणात् किं पापं करिष्यामः? तन्न भवतु।
अतएव व्यवस्थानुरूपैः कर्म्मभिः कश्चिदपि प्राणीश्वरस्य साक्षात् सपुण्यीकृतो भवितुं न शक्ष्यति यतो व्यवस्थया पापज्ञानमात्रं जायते।
अधिकन्तु व्यवस्थागमनाद् अपराधस्य बाहुल्यं जातं किन्तु यत्र पापस्य बाहुल्यं तत्रैव तस्माद् अनुग्रहस्य बाहुल्यम् अभवत्। तेन मृत्युना यद्वत् पापस्य राजत्वम् अभवत् तद्वद् अस्माकं प्रभुयीशुख्रीष्टद्वारानन्तजीवनदायिपुण्येनानुग्रहस्य राजत्वं भवति।
किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।
तर्हि वयं किं ब्रूमः? व्यवस्था किं पापजनिका भवति? नेत्थं भवतु। व्यवस्थाम् अविद्यमानायां पापं किम् इत्यहं नावेदं; किञ्च लोभं मा कार्षीरिति चेद् व्यवस्थाग्रन्थे लिखितं नाभविष्यत् तर्हि लोभः किम्भूतस्तदहं नाज्ञास्यं।
इत्थं वयं यद् विश्वासेन सपुण्यीभवामस्तदर्थं ख्रीष्टस्य समीपम् अस्मान् नेतुं व्यवस्थाग्रथोऽस्माकं विनेता बभूव। किन्त्वधुनागते विश्वासे वयं तस्य विनेतुरनधीना अभवाम।
अहं व्यवस्थां भविष्यद्वाक्यञ्च लोप्तुम् आगतवान्, इत्थं मानुभवत, ते द्वे लोप्तुं नागतवान्, किन्तु सफले कर्त्तुम् आगतोस्मि। अपरं युष्मान् अहं तथ्यं वदामि यावत् व्योममेदिन्यो र्ध्वंसो न भविष्यति, तावत् सर्व्वस्मिन् सफले न जाते व्यवस्थाया एका मात्रा बिन्दुरेकोपि वा न लोप्स्यते।
वयं तं जानीम इति तदीयाज्ञापालनेनावगच्छामः। अहं तं जानामीति वदित्वा यस्तस्याज्ञा न पालयति सो ऽनृतवादी सत्यमतञ्च तस्यान्तरे न विद्यते।
युष्माकम् उपरि पापस्याधिपत्यं पुन र्न भविष्यति, यस्माद् यूयं व्यवस्थाया अनायत्ता अनुग्रहस्य चायत्ता अभवत।
किन्तु परमेश्वरः कथयति तद्दिनात् परमहं इस्रायेलवंशीयैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामि, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां हृत्पत्रे च तान् लेखिष्यामि, अपरमहं तेषाम् ईश्वरो भविष्यामि ते च मम लोका भविष्यन्ति।
ततो यीशुरुवाच, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैश्च साकं प्रभौ परमेश्वरे प्रीयस्व, एषा प्रथममहाज्ञा। तस्याः सदृशी द्वितीयाज्ञैषा, तव समीपवासिनि स्वात्मनीव प्रेम कुरु। ततो राजा पुनरपि दासानन्यान् इत्युक्त्वा प्रेषयामास, निमन्त्रितान् वदत, पश्यत, मम भेज्यमासादितमास्ते, निजव्टषादिपुष्टजन्तून् मारयित्वा सर्व्वं खाद्यद्रव्यमासादितवान्, यूयं विवाहमागच्छत। अनयो र्द्वयोराज्ञयोः कृत्स्नव्यवस्थाया भविष्यद्वक्तृग्रन्थस्य च भारस्तिष्ठति।
किन्तु यः कश्चित् नत्वा मुक्तेः सिद्धां व्यवस्थाम् आलोक्य तिष्ठति स विस्मृतियुक्तः श्रोता न भूत्वा कर्म्मकर्त्तैव सन् स्वकार्य्ये धन्यो भविष्यति।
यावन्तो लोका व्यवस्थायाः कर्म्मण्याश्रयन्ति ते सर्व्वे शापाधीना भवन्ति यतो लिखितमास्ते, यथा, "यः कश्चिद् एतस्य व्यवस्थाग्रन्थस्य सर्व्ववाक्यानि निश्चिद्रं न पालयति स शप्त इति।"
व्यवस्था भविष्यन्मङ्गलानां छायास्वरूपा न च वस्तूनां मूर्त्तिस्वरूपा ततो हेतो र्नित्यं दीयमानैरेकविधै र्वार्षिकबलिभिः शरणागतलोकान् सिद्धान् कर्त्तुं कदापि न शक्नोति।
योहन आगमनपर्य्यनतं युष्माकं समीपे व्यवस्थाभविष्यद्वादिनां लेखनानि चासन् ततः प्रभृति ईश्वरराज्यस्य सुसंवादः प्रचरति, एकैको लोकस्तन्मध्यं यत्नेन प्रविशति च।
यस्माच्छारीरस्य दुर्ब्बलत्वाद् व्यवस्थया यत् कर्म्मासाध्यम् ईश्वरो निजपुत्रं पापिशरीररूपं पापनाशकबलिरूपञ्च प्रेष्य तस्य शरीरे पापस्य दण्डं कुर्व्वन् तत्कर्म्म साधितवान्। अपरञ्च तेन ये नियुक्तास्त आहूता अपि ये च तेनाहूतास्ते सपुण्यीकृताः, ये च तेन सपुण्यीकृतास्ते विभवयुक्ताः। इत्यत्र वयं किं ब्रूमः? ईश्वरो यद्यस्माकं सपक्षो भवति तर्हि को विपक्षोऽस्माकं? आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति? ईश्वरस्याभिरुचितेषु केन दोष आरोपयिष्यते? य ईश्वरस्तान् पुण्यवत इव गणयति किं तेन? अपरं तेभ्यो दण्डदानाज्ञा वा केन करिष्यते? योऽस्मन्निमित्तं प्राणान् त्यक्तवान् केवलं तन्न किन्तु मृतगणमध्याद् उत्थितवान्, अपि चेश्वरस्य दक्षिणे पार्श्वे तिष्ठन् अद्याप्यस्माकं निमित्तं प्रार्थत एवम्भूतो यः ख्रीष्टः किं तेन? अस्माभिः सह ख्रीष्टस्य प्रेमविच्छेदं जनयितुं कः शक्नोति? क्लेशो व्यसनं वा ताडना वा दुर्भिक्षं वा वस्त्रहीनत्वं वा प्राणसंशयो वा खङ्गो वा किमेतानि शक्नुवन्ति? किन्तु लिखितम् आस्ते, यथा, वयं तव निमित्तं स्मो मृत्युवक्त्रेऽखिलं दिनं। बलिर्देयो यथा मेषो वयं गण्यामहे तथा। अपरं योऽस्मासु प्रीयते तेनैतासु विपत्सु वयं सम्यग् विजयामहे। यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते। ततः शारीरिकं नाचरित्वास्माभिरात्मिकम् आचरद्भिर्व्यवस्थाग्रन्थे निर्द्दिष्टानि पुण्यकर्म्माणि सर्व्वाणि साध्यन्ते।
तस्मात् यो जन एतासाम् आज्ञानाम् अतिक्षुद्राम् एकाज्ञामपी लंघते मनुजांञ्च तथैव शिक्षयति, स स्वर्गीयराज्ये सर्व्वेभ्यः क्षुद्रत्वेन विख्यास्यते, किन्तु यो जनस्तां पालयति, तथैव शिक्षयति च, स स्वर्गीयराज्ये प्रधानत्वेन विख्यास्यते।
ये चालब्धव्यवस्थास्तान् यत् प्रतिपद्ये तदर्थम् ईश्वरस्य साक्षाद् अलब्धव्यवस्थो न भूत्वा ख्रीष्टेन लब्धव्यवस्थो योऽहं सोऽहम् अलब्धव्यवस्थानां कृतेऽलब्धव्यवस्थ इवाभवं।
किन्तु व्यवस्थापालनेन मनुष्यः सपुण्यो न भवति केवलं यीशौ ख्रीष्टे यो विश्वासस्तेनैव सपुण्यो भवतीति बुद्ध्वावामपि व्यवस्थापालनं विना केवलं ख्रीष्टे विश्वासेन पुण्यप्राप्तये ख्रीष्टे यीशौ व्यश्वसिव यतो व्यवस्थापालनेन कोऽपि मानवः पुण्यं प्राप्तुं न शक्नोति।
व्यवस्थाश्रोतार ईश्वरस्य समीपे निष्पापा भविष्यन्तीति नहि किन्तु व्यवस्थाचारिण एव सपुण्या भविष्यन्ति।
यतो यः कश्चित् कृत्स्नां व्यवस्थां पालयति स यद्येकस्मिन् विधौ स्खलति तर्हि सर्व्वेषाम् अपराधी भवति।
युष्माकं यावन्तो लोका व्यवस्थया सपुण्यीभवितुं चेष्टन्ते ते सर्व्वे ख्रीष्टाद् भ्रष्टा अनुग्रहात् पतिताश्च।
यच्च दण्डाज्ञारूपं ऋणपत्रम् अस्माकं विरुद्धम् आसीत् तत् प्रमार्ज्जितवान् शलाकाभिः क्रुशे बद्ध्वा दूरीकृतवांश्च।
यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।
ये जना एतादृशं कर्म्म कुर्व्वन्ति तएव मृतियोग्या ईश्वरस्य विचारमीदृशं ज्ञात्वापि त एतादृशं कर्म्म स्वयं कुर्व्वन्ति केवलमिति नहि किन्तु तादृशकर्म्मकारिषु लोकेष्वपि प्रीयन्ते।
तर्हि व्यवस्था किम्भूता? प्रतिज्ञा यस्मै प्रतिश्रुता तस्य सन्तानस्यागमनं यावद् व्यभिचारनिवारणार्थं व्यवस्थापि दत्ता, सा च दूतैराज्ञापिता मध्यस्थस्य करे समर्पिता च।
यतो ऽलब्धव्यवस्थाशास्त्रा भिन्नदेशीयलोका यदि स्वभावतो व्यवस्थानुरूपान् आचारान् कुर्व्वन्ति तर्ह्यलब्धशास्त्राः सन्तोऽपि ते स्वेषां व्यवस्थाशास्त्रमिव स्वयमेव भवन्ति। तेषां मनसि साक्षिस्वरूपे सति तेषां वितर्केषु च कदा तान् दोषिणः कदा वा निर्दोषान् कृतवत्सु ते स्वान्तर्लिखितस्य व्यवस्थाशास्त्रस्य प्रमाणं स्वयमेव ददति।
किञ्च त्वं स्वसमीपवासिनि स्वात्मवत् प्रीयस्व, एतच्छास्त्रीयवचनानुसारतो यदि यूयं राजकीयव्यवस्थां पालयथ तर्हि भद्रं कुरुथ।
अपरञ्च सर्व्वैः सार्थम् एेक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं।
वयम् ईश्वरस्य सन्तानेषु प्रीयामहे तद् अनेन जानीमो यद् ईश्वरे प्रीयामहे तस्याज्ञाः पालयामश्च। अपरम् ईश्वरस्य पुत्र आगतवान् वयञ्च यया तस्य सत्यमयस्य ज्ञानं प्राप्नुयामस्तादृशीं धियम् अस्मभ्यं दत्तवान् इति जानीमस्तस्मिन् सत्यमये ऽर्थतस्तस्य पुत्रे यीशुख्रीष्टे तिष्ठामश्च; स एव सत्यमय ईश्वरो ऽनन्तजीवनस्वरूपश्चास्ति। हे प्रियबालकाः, यूयं देवमूर्त्तिभ्यः स्वान् रक्षत। आमेन्। यत ईश्वरे यत् प्रेम तत् तदीयाज्ञापालनेनास्माभिः प्रकाशयितव्यं, तस्याज्ञाश्च कठोरा न भवन्ति।
भक्ष्यं पेयञ्चेश्वरराज्यस्य सारो नहि, किन्तु पुण्यं शान्तिश्च पवित्रेणात्मना जात आनन्दश्च।
हे भ्रातरः, यूयं स्वातन्त्र्यार्थम् आहूता आध्वे किन्तु तत्स्वातन्त्र्यद्वारेण शारीरिकभावो युष्मान् न प्रविशतु। यूयं प्रेम्ना परस्परं परिचर्य्यां कुरुध्वं।
ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च। वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च।
युष्माकम् एकैकजनः शासनपदस्य निघ्नो भवतु यतो यानि शासनपदानि सन्ति तानि सर्व्वाणीश्वरेण स्थापितानि; ईश्वरं विना पदस्थापनं न भवति। यतः प्रेम समीपवासिनोऽशुभं न जनयति तस्मात् प्रेम्ना सर्व्वा व्यवस्था पाल्यते। प्रत्ययीभवनकालेऽस्माकं परित्राणस्य सामीप्याद् इदानीं तस्य सामीप्यम् अव्यवहितं; अतः समयं विविच्यास्माभिः साम्प्रतम् अवश्यमेव निद्रातो जागर्त्तव्यं। बहुतरा यामिनी गता प्रभातं सन्निधिं प्राप्तं तस्मात् तामसीयाः क्रियाः परित्यज्यास्माभि र्वासरीया सज्जा परिधातव्या। अतो हेतो र्वयं दिवा विहितं सदाचरणम् आचरिष्यामः। रङ्गरसो मत्तत्वं लम्पटत्वं कामुकत्वं विवाद ईर्ष्या चैतानि परित्यक्ष्यामः। यूयं प्रभुयीशुख्रीष्टरूपं परिच्छदं परिधद्ध्वं सुखाभिलाषपूरणाय शारीरिकाचरणं माचरत। इति हेतोः शासनपदस्य यत् प्रातिकूल्यं तद् ईश्वरीयनिरूपणस्य प्रातिकूल्यमेव; अपरं ये प्रातिकूल्यम् आचरन्ति ते स्वेषां समुचितं दण्डं स्वयमेव घटयन्ते।
मदर्थं सर्व्वं द्रव्यम् अप्रतिषिद्धं किन्तु न सर्व्वं हितजनकं।मदर्थं सर्व्वमप्रतिषिद्धं तथाप्यहं कस्यापि द्रव्यस्य वशीकृतो न भविष्यामि।
ईश्वरस्य वादोऽमरः प्रभावविशिष्टश्च सर्व्वस्माद् द्विधारखङ्गादपि तीक्ष्णः, अपरं प्राणात्मनो र्ग्रन्थिमज्जयोश्च परिभेदाय विच्छेदकारी मनसश्च सङ्कल्पानाम् अभिप्रेतानाञ्च विचारकः।
अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।
हे व्यवस्थाधीनताकाङ्क्षिणः यूयं किं व्यवस्थाया वचनं न गृह्लीथ? तन्मां वदत। लिखितमास्ते, इब्राहीमो द्वौ पुत्रावासाते तयोरेको दास्यां द्वितीयश्च पत्न्यां जातः। तयो र्यो दास्यां जातः स शारीरिकनियमेन जज्ञे यश्च पत्न्यां जातः स प्रतिज्ञया जज्ञे। इदमाख्यानं दृष्टन्तस्वरूपं। ते द्वे योषितावीश्वरीयसन्धी तयोरेका सीनयपर्व्वताद् उत्पन्ना दासजनयित्री च सा तु हाजिरा।
स प्रथमो नियम आराधनाया विविधरीतिभिरैहिकपवित्रस्थानेन च विशिष्ट आसीत्। केवलं खाद्यपेयेषु विविधमज्जनेषु च शारीरिकरीतिभि र्युक्तानि नैवेद्यानि बलिदानानि च भवन्ति। अपरं भाविमङ्गलानां महायाजकः ख्रीष्ट उपस्थायाहस्तनिर्म्मितेनार्थत एतत्सृष्टे र्बहिर्भूतेन श्रेष्ठेन सिद्धेन च दूष्येण गत्वा छागानां गोवत्सानां वा रुधिरम् अनादाय स्वीयरुधिरम् आदायैककृत्व एव महापवित्रस्थानं प्रविश्यानन्तकालिकां मुक्तिं प्राप्तवान्। वृषछागानां रुधिरेण गवीभस्मनः प्रक्षेपेण च यद्यशुचिलोकाः शारीरिशुचित्वाय पूयन्ते, तर्हि किं मन्यध्वे यः सदातनेनात्मना निष्कलङ्कबलिमिव स्वमेवेश्वराय दत्तवान्, तस्य ख्रीष्टस्य रुधिरेण युष्माकं मनांस्यमरेश्वरस्य सेवायै किं मृत्युजनकेभ्यः कर्म्मभ्यो न पवित्रीकारिष्यन्ते? स नूतननियमस्य मध्यस्थोऽभवत् तस्याभिप्रायोऽयं यत् प्रथमनियमलङ्घनरूपपापेभ्यो मृत्युना मुक्तौ जातायाम् आहूतलोका अनन्तकालीयसम्पदः प्रतिज्ञाफलं लभेरन्। यत्र नियमो भवति तत्र नियमसाधकस्य बले र्मृत्युना भवितव्यं। यतो हतेन बलिना नियमः स्थिरीभवति किन्तु नियमसाधको बलि र्यावत् जीवति तावत् नियमो निरर्थकस्तिष्ठति। तस्मात् स पूर्व्वनियमोऽपि रुधिरपातं विना न साधितः। फलतः सर्व्वलोकान् प्रति व्यवस्थानुसारेण सर्व्वा आज्ञाः कथयित्वा मूसा जलेन सिन्दूरवर्णलोम्ना एषोवतृणेन च सार्द्धं गोवत्सानां छागानाञ्च रुधिरं गृहीत्वा ग्रन्थे सर्व्वलोकेषु च प्रक्षिप्य बभाषे, यतो दूष्यमेकं निरमीयत तस्य प्रथमकोष्ठस्य नाम पवित्रस्थानमित्यासीत् तत्र दीपवृक्षो भोजनासनं दर्शनीयपूपानां श्रेणी चासीत्।
किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।
तेषां कोपि प्रभेदो नास्ति, यतः सर्व्वएव पापिन ईश्वरीयतेजोहीनाश्च जाताः। त ईश्वरस्यानुग्रहाद् मूल्यं विना ख्रीष्टकृतेन परित्राणेन सपुण्यीकृता भवन्ति।