यद्यपि तव भ्राता त्वयि किमप्यपराध्यति, तर्हि गत्वा युवयोर्द्वयोः स्थितयोस्तस्यापराधं तं ज्ञापय। तत्र स यदि तव वाक्यं शृणोति, तर्हि त्वं स्वभ्रातरं प्राप्तवान्,
अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं।
तदानीं पितरस्तत्समीपमागत्य कथितवान् हे प्रभो, मम भ्राता मम यद्यपराध्यति, तर्हि तं कतिकृत्वः क्षमिष्ये?
किं सप्तकृत्वः? यीशुस्तं जगाद, त्वां केवलं सप्तकृत्वो यावत् न वदामि, किन्तु सप्तत्या गुणितं सप्तकृत्वो यावत्।
ततः सोवदत्, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वशक्तिभिः सर्व्वचित्तैश्च प्रभौ परमेश्वरे प्रेम कुरु, समीपवासिनि स्ववत् प्रेम कुरु च।
यतः प्रभो र्दासेन युद्धम् अकर्त्तव्यं किन्तु सर्व्वान् प्रति शान्तेन शिक्षादानेच्छुकेन सहिष्णुना च भवितव्यं, विपक्षाश्च तेन नम्रत्वेन चेतितव्याः।
तथा कृते यदीश्वरः सत्यमतस्य ज्ञानार्थं तेभ्यो मनःपरिवर्त्तनरूपं वरं दद्यात्,
हे भ्रातरः, अस्माकं प्रभुयीशुख्रीष्टस्य नाम्ना युष्मान् विनयेऽहं सर्व्वै र्युष्माभिरेकरूपाणि वाक्यानि कथ्यन्तां युष्मन्मध्ये भिन्नसङ्घाता न भवन्तु मनोविचारयोरैक्येन युष्माकं सिद्धत्वं भवतु।
हे मम प्रियबालकाः, वाक्येन जिह्वया वास्माभिः प्रेम न कर्त्तव्यं किन्तु कार्य्येण सत्यतया चैव।
युष्माकम् आलापः सर्व्वदानुग्रहसूचको लवणेन सुस्वादुश्च भवतु यस्मै यदुत्तरं दातव्यं तद् युष्माभिरवगम्यतां।
युष्माकं परस्परं प्रेम विना ऽन्यत् किमपि देयम् ऋणं न भवतु, यतो यः परस्मिन् प्रेम करोति तेन व्यवस्था सिध्यति।
अपरं ये बहिःस्थितास्तेषां दृष्टिगोचरे युष्माकम् आचरणं यत् मनोरम्यं भवेत् कस्यापि वस्तुनश्चाभावो युष्माकं यन्न भवेत्,
तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।
देवपूजकानां मध्ये युष्माकम् आचार एवम् उत्तमो भवतु यथा ते युष्मान् दुष्कर्म्मकारिलोकानिव पुन र्न निन्दन्तः कृपादृष्टिदिने स्वचक्षुर्गोचरीयसत्क्रियाभ्य ईश्वरस्य प्रशंसां कुर्य्युः।
त्वं प्राचीनं न भर्त्सय किन्तु तं पितरमिव यूनश्च भ्रातृनिव
सा यत् शिशुपोषणेनातिथिसेवनेन पवित्रलोकानां चरणप्रक्षालनेन क्लिष्टानाम् उपकारेण सर्व्वविधसत्कर्म्माचरणेन च सत्कर्म्मकरणात् सुख्यातिप्राप्ता भवेत् तदप्यावश्यकं।
किन्तु युवती र्विधवा न गृहाण यतः ख्रीष्टस्य वैपरीत्येन तासां दर्पे जाते ता विवाहम् इच्छन्ति।
तस्माच्च पूर्व्वधर्म्मं परित्यज्य दण्डनीया भवन्ति।
अनन्तरं ता गृहाद् गृहं पर्य्यटन्त्य आलस्यं शिक्षन्ते केवलमालस्यं नहि किन्त्वनर्थकालापं पराधिकारचर्च्चाञ्चापि शिक्षमाणा अनुचितानि वाक्यानि भाषन्ते।
अतो ममेच्छेयं युवत्यो विधवा विवाहं कुर्व्वताम् अपत्यवत्यो भवन्तु गृहकर्म्म कुर्व्वताञ्चेत्थं विपक्षाय किमपि निन्दाद्वारं न ददतु।
यत इतः पूर्व्वम् अपि काश्चित् शयतानस्य पश्चाद्गामिन्यो जाताः।
अपरं विश्वासिन्या विश्वासिनो वा कस्यापि परिवाराणां मध्ये यदि विधवा विद्यन्ते तर्हि स ताः प्रतिपालयतु तस्मात् समितौ भारे ऽनारोपिते सत्यविधवानां प्रतिपालनं कर्त्तुं तया शक्यते।
ये प्राञ्चः समितिं सम्यग् अधितिष्ठन्ति विशेषत ईश्वरवाक्येनोपदेशेन च ये यत्नं विदधते ते द्विगुणस्यादरस्य योग्या मान्यन्तां।
यस्मात् शास्त्रे लिखितमिदमास्ते, त्वं शस्यमर्द्दकवृषस्यास्यं मा बधानेति, अपरमपि कार्य्यकृद् वेतनस्य योग्यो भवतीति।
द्वौ त्रीन् वा साक्षिणो विना कस्याचित् प्राचीनस्य विरुद्धम् अभियोगस्त्वया न गृह्यतां।
वृद्धाः स्त्रियश्च मातृनिव युवतीश्च पूर्णशुचित्वेन भगिनीरिव विनयस्व।
यूयम् एकैकस्याचरणं सहध्वं येन च यस्य किमप्यपराध्यते तस्य तं दोषं स क्षमतां, ख्रीष्टो युष्माकं दोषान् यद्वद् क्षमितवान् यूयमपि तद्वत् कुरुध्वं।
अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः।
अपरं तत् कुत्सितं नाचरति, आत्मचेष्टां न कुरुते सहसा न क्रुध्यति परानिष्टं न चिन्तयति,
यदि यूयम् अन्येषाम् अपराधान् क्षमध्वे तर्हि युष्माकं स्वर्गस्थपितापि युष्मान् क्षमिष्यते;
किन्तु यदि यूयम् अन्येषाम् अपराधान् न क्षमध्वे, तर्हि युष्माकं जनकोपि युष्माकम् अपराधान् न क्षमिष्यते।
सहिष्णुतासान्त्वनयोराकरो य ईश्वरः स एवं करोतु यत् प्रभु र्यीशुख्रीष्ट इव युष्माकम् एकजनोऽन्यजनेन सार्द्धं मनस ऐक्यम् आचरेत्;
ततो हेतो र्यूयं सम्पूर्णं यत्नं विधाय विश्वासे सौजन्यं सौजन्ये ज्ञानं
ज्ञान आयतेन्द्रियताम् आयतेन्द्रियतायां धैर्य्यं धैर्य्य ईश्वरभक्तिम्
ईश्वरभक्तौ भ्रातृस्नेहे च प्रेम युङ्क्त।
यौवनावस्थाया अभिलाषास्त्वया परित्यज्यन्तां धर्म्मो विश्वासः प्रेम ये च शुचिमनोभिः प्रभुम् उद्दिश्य प्रार्थनां कुर्व्वते तैः सार्द्धम् ऐक्यभावश्चैतेषु त्वया यत्नो विधीयतां।
ईश्वरे ऽहं प्रीय इत्युक्त्वा यः कश्चित् स्वभ्रातरं द्वेष्टि सो ऽनृतवादी। स यं दृष्टवान् तस्मिन् स्वभ्रातरि यदि न प्रीयते तर्हि यम् ईश्वरं न दृष्टवान् कथं तस्मिन् प्रेम कर्त्तुं शक्नुयात्?
ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।
किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।
हे भ्रातरः,यूयं बुद्ध्या बालकाइव मा भूत परन्तु दुष्टतया शिशवइव भूत्वा बुद्ध्या सिद्धा भवत।
हे भ्रातरः, यूयं यद् दण्ड्या न भवेत तदर्थं परस्परं न ग्लायत, पश्यत विचारयिता द्वारसमीपे तिष्ठति।
प्रेम्ना सत्यताम् आचरद्भिः सर्व्वविषये ख्रीष्टम् उद्दिश्य वर्द्धितव्यञ्च, यतः स मूर्द्धा,
परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत।
यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।
यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।
युष्माकम् एकैकजनः शासनपदस्य निघ्नो भवतु यतो यानि शासनपदानि सन्ति तानि सर्व्वाणीश्वरेण स्थापितानि; ईश्वरं विना पदस्थापनं न भवति।
प्रेम चिरसहिष्णु हितैषि च, प्रेम निर्द्वेषम् अशठं निर्गर्व्वञ्च।
अपरं तत् कुत्सितं नाचरति, आत्मचेष्टां न कुरुते सहसा न क्रुध्यति परानिष्टं न चिन्तयति,
हे भ्रातरः, यूयं स्वातन्त्र्यार्थम् आहूता आध्वे किन्तु तत्स्वातन्त्र्यद्वारेण शारीरिकभावो युष्मान् न प्रविशतु। यूयं प्रेम्ना परस्परं परिचर्य्यां कुरुध्वं।
अपरम् ईश्वरस्य महिम्नः प्रकाशार्थं ख्रीष्टो यथा युष्मान् प्रत्यगृह्लात् तथा युष्माकमप्येको जनोऽन्यजनं प्रतिगृह्लातु।
हे प्रियतमाः, वयं परस्परं प्रेम करवाम, यतः प्रेम ईश्वरात् जायते, अपरं यः कश्चित् प्रेम करोति स ईश्वरात् जात ईश्वरं वेत्ति च।
विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं।
अतएव यूयम् ईश्वरस्य मनोभिलषिताः पवित्राः प्रियाश्च लोका इव स्नेहयुक्ताम् अनुकम्पां हितैषितां नम्रतां तितिक्षां सहिष्णुताञ्च परिधद्ध्वं।
अस्मात् करग्राहिणे करं दत्त, तथा शुल्कग्राहिणे शुल्कं दत्त, अपरं यस्माद् भेतव्यं तस्माद् बिभीत, यश्च समादरणीयस्तं समाद्रियध्वम्; इत्थं यस्य यत् प्राप्यं तत् तस्मै दत्त।
किञ्च त्वं स्वसमीपवासिनि स्वात्मवत् प्रीयस्व, एतच्छास्त्रीयवचनानुसारतो यदि यूयं राजकीयव्यवस्थां पालयथ तर्हि भद्रं कुरुथ।
हे भ्रातरः, युष्माकं मध्ये ये जनाः परिश्रमं कुर्व्वन्ति प्रभो र्नाम्ना युष्मान् अधितिष्ठन्त्युपदिशन्ति च तान् यूयं सम्मन्यध्वं।
स्वकर्म्महेतुना च प्रेम्ना तान् अतीवादृयध्वमिति मम प्रार्थना, यूयं परस्परं निर्व्विरोधा भवत।
अपरञ्च युष्माकं मनसां परस्परम् एकोभावो भवतु; अपरम् उच्चपदम् अनाकाङ्क्ष्य नीचलोकैः सहापि मार्दवम् आचरत; स्वान् ज्ञानिनो न मन्यध्वं।
हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचारञ्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि।
अतएव हे मम प्रियभ्रातरः, युष्माकम् एकैको जनः श्रवणे त्वरितः कथने धीरः क्रोधेऽपि धीरो भवतु।
युष्माकं यानि वपूंसि तानि युष्मदन्तःस्थितस्येश्वराल्लब्धस्य पवित्रस्यात्मनो मन्दिराणि यूयञ्च स्वेषां स्वामिनो नाध्वे किमेतद् युष्माभि र्न ज्ञायते?
जगतोऽपि विचारणं पवित्रलोकैः कारिष्यत एतद् यूयं किं न जानीथ? अतो जगद् यदि युष्माभि र्विचारयितव्यं तर्हि क्षुद्रतमविचारेषु यूयं किमसमर्थाः?
यूयं मूल्येन क्रीता अतो वपुर्मनोभ्याम् ईश्वरो युष्माभिः पूज्यतां यत ईश्वर एव तयोः स्वामी।
इत्थं सति वयम् अद्यारभ्य परस्परं न दूषयन्तः स्वभ्रातु र्विघ्नो व्याघातो वा यन्न जायेत तादृशीमीहां कुर्म्महे।
अपरञ्च सर्व्वैः सार्थम् एेक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं।
किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा
परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।
हे प्रियतमाः, अस्मासु यदीश्वरेणैतादृशं प्रेम कृतं तर्हि परस्परं प्रेम कर्त्तुम् अस्माकमप्युचितं।
अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।
येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।
भ्रातृषु प्रेम तिष्ठतु। अतिथिसेवा युष्माभि र्न विस्मर्य्यतां
ये दष्यस्य सेवां कुर्व्वन्ति ते यस्या द्रव्यभोजनस्यानधिकारिणस्तादृशी यज्ञवेदिरस्माकम् आस्ते।
यतो येषां पशूनां शोणितं पापनाशाय महायाजकेन महापवित्रस्थानस्याभ्यन्तरं नीयते तेषां शरीराणि शिबिराद् बहि र्दह्यन्ते।
तस्माद् यीशुरपि यत् स्वरुधिरेण प्रजाः पवित्रीकुर्य्यात् तदर्थं नगरद्वारस्य बहि र्मृतिं भुक्तवान्।
अतो हेतोरस्माभिरपि तस्यापमानं सहमानैः शिबिराद् बहिस्तस्य समीपं गन्तव्यं।
यतो ऽत्रास्माकं स्थायि नगरं न विद्यते किन्तु भावि नगरम् अस्माभिरन्विष्यते।
अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।
अपरञ्च परोपकारो दानञ्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते।
यूयं स्वनायकानाम् आज्ञाग्राहिणो वश्याश्च भवत यतो यैरुपनिधिः प्रतिदातव्यस्तादृशा लोका इव ते युष्मदीयात्मनां रक्षणार्थं जाग्रति, अतस्ते यथा सानन्दास्तत् कुर्य्यु र्न च सार्त्तस्वरा अत्र यतध्वं यतस्तेषाम् आर्त्तस्वरो युष्माकम् इष्टजनको न भवेत्।
अपरञ्च यूयम् अस्मन्निमित्तिं प्रार्थनां कुरुत यतो वयम् उत्तममनोविशिष्टाः सर्व्वत्र सदाचारं कर्त्तुम् इच्छुकाश्च भवाम इति निश्चितं जानीमः।
विशेषतोऽहं यथा त्वरया युष्मभ्यं पुन र्दीये तदर्थं प्रार्थनायै युष्मान् अधिकं विनये।
यतस्तया प्रच्छन्नरूपेण दिव्यदूताः केषाञ्चिद् अतिथयोऽभवन्।
हे बालकाः, यूयं प्रभुम् उद्दिश्य पित्रोराज्ञाग्राहिणो भवत यतस्तत् न्याय्यं।
अधिकन्तु हे भ्रातरः, यूयं प्रभुना तस्य विक्रमयुक्तशक्त्या च बलवन्तो भवत।
यूयं यत् शयतानश्छलानि निवारयितुं शक्नुथ तदर्थम् ईश्वरीयसुसज्जां परिधद्ध्वं।
यतः केवलं रक्तमांसाभ्याम् इति नहि किन्तु कर्तृत्वपराक्रमयुक्तैस्तिमिरराज्यस्येहलोकस्याधिपतिभिः स्वर्गोद्भवै र्दुष्टात्मभिरेव सार्द्धम् अस्माभि र्युद्धं क्रियते।
अतो हेतो र्यूयं यया संकुेले दिनेऽवस्थातुं सर्व्वाणि पराजित्य दृढाः स्थातुञ्च शक्ष्यथ ताम् ईश्वरीयसुसज्जां गृह्लीत।
वस्तुतस्तु सत्यत्वेन शृङ्खलेन कटिं बद्ध्वा पुण्येन वर्म्मणा वक्ष आच्छाद्य
शान्तेः सुवार्त्तया जातम् उत्साहं पादुकायुगलं पदे समर्प्य तिष्ठत।
येन च दुष्टात्मनोऽग्निबाणान् सर्व्वान् निर्व्वापयितुं शक्ष्यथ तादृशं सर्व्वाच्छादकं फलकं विश्वासं धारयत।
शिरस्त्रं परित्राणम् आत्मनः खङ्गञ्चेश्वरस्य वाक्यं धारयत।
सर्व्वसमये सर्व्वयाचनेन सर्व्वप्रार्थनेन चात्मना प्रार्थनां कुरुध्वं तदर्थं दृढाकाङ्क्षया जाग्रतः सर्व्वेषां पवित्रलोकानां कृते सदा प्रार्थनां कुरुध्वं।
अहञ्च यस्य सुसंवादस्य शृङ्खलबद्धः प्रचारकदूतोऽस्मि तम् उपयुक्तेनोत्साहेन प्रचारयितुं यथा शक्नुयां
त्वं निजपितरं मातरञ्च सम्मन्यस्वेति यो विधिः स प्रतिज्ञायुक्तः प्रथमो विधिः
शरीरमध्ये यद् भेदो न भवेत् किन्तु सर्व्वाण्यङ्गानि यद् ऐक्यभावेन सर्व्वेषां हितं चिन्तयन्ति तदर्थम् ईश्वरेणाप्रधानम् आदरणीयं कृत्वा शरीरं विरचितं।
तस्माद् एकस्याङ्गस्य पीडायां जातायां सर्व्वाण्यङ्गानि तेन सह पीड्यन्ते, एकस्य समादरे जाते च सर्व्वाणि तेन सह संहृष्यन्ति।
हे युवानः, यूयमपि प्राचीनलोकानां वश्या भवत सर्व्वे च सर्व्वेषां वशीभूय नम्रताभरणेन भूषिता भवत, यतः,आत्माभिमानिलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः।