त्वयि एषा विजयी जीवनम् अस्ति यत् यीशुः क्रुसि स्वप्राणान् अर्पयित्वा दत्तवान्। त्वया तु सततं विजेत्रिवत् गन्तव्यम्। क्रुसि शैतानः पराजितः, अधुना केवलं मनसि यानि युद्धानि सन्ति तानि एव त्वया जेतुम् आवश्यकाः। यीशुना रोगे, विवाहे, सन्ततिषु, तमसः सर्वासु च युक्तिषु विजयः प्रदत्तः। अधुना त्वया विश्वसितव्यं यत् ख्रीष्टस्य रुधिरेण त्वं सर्वविजयी असि।
प्रतिदिनं एतया धारणया गच्छ यत् यीशुं हृदि स्वीकृत्य त्वया विजयः प्राप्तः। तस्य रुधिरं सर्वासु परिस्थितिषु त्वां विजयं कारयति। प्रतिप्रातः स्मर यत् सः त्वदर्थं न मृतवान् यत् त्वं पराजयेन जीवसि, अपि तु विजयात् विजयं, गौरवात् गौरवं प्रति गच्छसि।
प्रत्येकं बाधां, प्रत्येकं सीमां ईश्वरस्य सम्मुखे उपस्थापय। स्वसंशयान्, भयांश्च तस्मै कथय। आत्मानं धर्मनिष्ठं स्थापयितुं या शक्तिः आवश्यका तां प्राप्नुहि, विजयः तव हस्ते अस्ति इति ज्ञात्वा। कोऽपि क्लेशः स्वर्गभूमिपतेः महान् न भवति, स च एव तव जीवनं स्वहस्ते धारयति।
स्वशक्त्या मा युध्यस्व। ईश्वरे, बलवति योद्धरि, आश्रयस्व। सः परीक्षासु त्वां अनुगृह्णाति, कथयति च - "मा भैषीः, अहं त्वां साहाय्यं करोमि"। स्वविचाराणां रक्षां कुरु। ईश्वरस्य वचनेन प्रत्येकं युद्धं जय। पितुः तव विषये या उक्तिः, तस्यां विश्वासं कुरु। यीशुना यत् प्राप्तं तत् दुष्प्राप्यं मा पश्य। पूर्णतया विश्वस यत् विजयी सः त्वयि जीवति, अतः सर्वासु विपत्तिषु, आवश्यकतासु च त्वं विजयी असि।
ईश्वरश्च धन्यो भवतु यतः सोऽस्माकं प्रभुना यीशुख्रीष्टेनास्मान् जययुक्तान् विधापयति।
यतो यः कश्चिद् ईश्वरात् जातः स संसारं जयति किञ्चास्माकं यो विश्वासः स एवास्माकं संसारजयिजयः।
य ईश्वरः सर्व्वदा ख्रीष्टेनास्मान् जयिनः करोति सर्व्वत्र चास्माभिस्तदीयज्ञानस्य गन्धं प्रकाशयति स धन्यः।
सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।
अधिकन्तु शान्तिदायक ईश्वरः शैतानम् अविलम्बं युष्माकं पदानाम् अधो मर्द्दिष्यति। अस्माकं प्रभु र्यीशुख्रीष्टो युष्मासु प्रसादं क्रियात्। इति।
विश्वासात् ते राज्यानि वशीकृतवन्तो धर्म्मकर्म्माणि साधितवन्तः प्रतिज्ञानां फलं लब्धवन्तः सिंहानां मुखानि रुद्धवन्तो वह्नेर्दाहं निर्व्वापितवन्तः खङ्गधाराद् रक्षां प्राप्तवन्तो दौर्ब्बल्ये सबलीकृता युद्धे पराक्रमिणो जाताः परेषां सैन्यानि दवयितवन्तश्च।
यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।
क्षणिकदुःखभोगात् परम् अस्मभ्यं ख्रीष्टेन यीशुना स्वकीयानन्तगौरवदानार्थं योऽस्मान् आहूतवान् स सर्व्वानुग्राहीश्वरः स्वयं युष्मान् सिद्धान् स्थिरान् सबलान् निश्चलांश्च करोतु।
युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।
हे बालकाः, यूयम् ईश्वरात् जातास्तान् जितवन्तश्च यतः संसाराधिष्ठानकारिणो ऽपि युष्मदधिष्ठानकारी महान्।
मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।
ख्रीष्टोऽस्मभ्यं यत् स्वातन्त्र्यं दत्तवान् यूयं तत्र स्थिरास्तिष्ठत दासत्वयुगेन पुन र्न निबध्यध्वं।
अस्माकम् अन्तरे या शक्तिः प्रकाशते तया सर्व्वातिरिक्तं कर्म्म कुर्व्वन् अस्माकं प्रार्थनां कल्पनाञ्चातिक्रमितुं यः शक्नोति
विश्वासरूपम् उत्तमयुद्धं कुरु, अनन्तजीवनम् आलम्बस्व यतस्तदर्थं त्वम् आहूतो ऽभवः, बहुसाक्षिणां समक्षञ्चोत्तमां प्रतिज्ञां स्वीकृतवान्।
तत् केवलं नहि किन्तु क्लेशभोगेऽप्यानन्दामो यतः क्लेशााद् धैर्य्यं जायत इति वयं जानीमः, धैर्य्याच्च परीक्षितत्वं जायते, परीक्षितत्वात् प्रत्याशा जायते,
वयं पदे पदे पीड्यामहे किन्तु नावसीदामः, वयं व्याकुलाः सन्तोऽपि निरुपाया न भवामः; वयं प्रद्राव्यमाना अपि न क्लाम्यामः, निपातिता अपि न विनश्यामः।
हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि। अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे। एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्। यतो मम युगम् अनायासं मम भारश्च लघुः।
तदीयमहापराक्रमस्य महत्वं कीदृग् अनुपमं तत् सर्व्वं युष्मान् ज्ञापयतु। अस्माकं तातस्येश्वरस्य प्रभो र्यीशुख्रीष्टस्य चानुग्रहः शान्तिश्च युष्मासु वर्त्ततां। यतः स यस्याः शक्तेः प्रबलतां ख्रीष्टे प्रकाशयन् मृतगणमध्यात् तम् उत्थापितवान्,
यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।
तस्माद् यूयं यद्यप्यानन्देन प्रफुल्ला भवथ तथापि साम्प्रतं प्रयोजनहेतोः कियत्कालपर्य्यन्तं नानाविधपरीक्षाभिः क्लिश्यध्वे। यतो वह्निना यस्य परीक्षा भवति तस्मात् नश्वरसुवर्णादपि बहुमूल्यं युष्माकं विश्वासरूपं यत् परीक्षितं स्वर्णं तेन यीशुख्रीष्टस्यागमनसमये प्रशंसायाः समादरस्य गौरवस्य च योग्यता प्राप्तव्या।
ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।
ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।
किन्तु यदि वयं प्राणान् धारयामस्तर्हि प्रभुनिमित्तं धारयामः, यदि च प्राणान् त्यजामस्तर्ह्यपि प्रभुनिमित्तं त्यजामः, अतएव जीवने मरणे वा वयं प्रभोरेवास्महे।
ततः स मामुक्तवान् ममानुग्रहस्तव सर्व्वसाधकः, यतो दौर्ब्बल्यात् मम शक्तिः पूर्णतां गच्छतीति। अतः ख्रीष्टस्य शक्ति र्यन्माम् आश्रयति तदर्थं स्वदौर्ब्बल्येन मम श्लाघनं सुखदं।
यूयं कलहविवादर्विजतम् आचारं कुर्व्वन्तोऽनिन्दनीया अकुटिला ईश्वरस्य निष्कलङ्काश्च सन्तानाइव वक्रभावानां कुटिलाचारिणाञ्च लोकानां मध्ये तिष्ठत,
किन्त्वस्मासु यो भावीविभवः प्रकाशिष्यते तस्य समीपे वर्त्तमानकालीनं दुःखमहं तृणाय मन्ये।
किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।
यतः शरीरे चरन्तोऽपि वयं शारीरिकं युद्धं न कुर्म्मः। अस्माकं युद्धास्त्राणि च न शारीरिकानि किन्त्वीश्वरेण दुर्गभञ्जनाय प्रबलानि भवन्ति,
अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।