त्वयि विशिष्टा कृपा ईश्वरेण न्यस्ता विशिष्टं कार्यं साधयितुम्। सः इच्छति यत् त्वं तां कृपाम् दृढसंकल्पेन वर्धय, विश्वास्य च यत् तव अन्तः तस्य सारः विद्यते, त्वयि च क्षमता वर्तते प्रत्येकं नियुक्तं कार्यं सिद्धयितुम्।
प्रथमतया त्वया स्वस्मिन् विश्वासः करणीयः इति स्मर। एषा धारणा त्वां अजय्यं करिष्यति, यत् त्वया कल्पितं तत् दृष्ट्वा एव त्वं न विरमिष्यसि।
द्वितीयतया, त्वया स्वभयानां विरुद्धं युद्धं कर्तव्यम्। यदि भयं न नियन्त्र्यते तर्हि तत् त्वां स्तम्भितं कृत्वा ईश्वरेच्छातः दूरीकरिष्यति।
शत्रुः सर्वदा इच्छति यत् त्वं स्वसंशय-दोष-असुरक्षितानां पृष्ठतः तिष्ठ। तस्य लक्ष्यं त्वां अन्धं कर्तुं यत् त्वं ईश्वरस्य शुभवचनानि न पश्यसि, केवलं दुष्टेषु एव ध्यानं ददासि। अन्ततः सः तव स्वप्नान्, योजनाः, विचाराश्च सीमितं करोति।
येशुः स्वसृजनशीलतां त्वयि निक्षिप्तवान्, सः इच्छति यत् त्वं स्वसारं न गूहसि। यानि प्रतिभाः त्वया प्राप्ताः तानि बहूनां जनानां आशिषं दातुं प्राप्तानि, न तु स्वार्थसाधनाय अपि तु जीवनपरिवर्तनाय। स्वकौशलानि ईश्वरसेवायां योजय, तस्य हस्तेषु मूल्यवान् उपकरणं भव।
येन यो वरो लब्धस्तेनैव स परम् उपकरोतृ, इत्थं यूयम् ईश्वरस्य बहुविधप्रसादस्योत्तमा भाण्डागाराधिपा भवत।
यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।
अस्माद् ईश्वरानुग्रहेण विशेषं विशेषं दानम् अस्मासु प्राप्तेषु सत्सु कोपि यदि भविष्यद्वाक्यं वदति तर्हि प्रत्ययस्य परिमाणानुसारतः स तद् वदतु; यद्वा यदि कश्चित् सेवनकारी भवति तर्हि स तत्सेवनं करोतु; अथवा यदि कश्चिद् अध्यापयिता भवति तर्हि सोऽध्यापयतु; तथा य उपदेष्टा भवति स उपदिशतु यश्च दाता स सरलतया ददातु यस्त्वधिपतिः स यत्नेनाधिपतित्वं करोतु यश्च दयालुः स हृष्टमनसा दयताम्।
प्राचीनगणहस्तार्पणसहितेन भविष्यद्वाक्येन यद्दानं तुभ्यं विश्राणितं तवान्तःस्थे तस्मिन् दाने शिथिलमना मा भव।
अपरं स एतादृशः कस्यचित् पुंसस्तुल्यः, यो दूरदेशं प्रति यात्राकाले निजदासान् आहूय तेषां स्वस्वसामर्थ्यानुरूपम् एकस्मिन् मुद्राणां पञ्च पोटलिकाः अन्यस्मिंश्च द्वे पोटलिके अपरस्मिंश्च पोटलिकैकाम् इत्थं प्रतिजनं समर्प्य स्वयं प्रवासं गतवान्।
दाया बहुविधाः किन्त्वेक आत्मा परिचर्य्याश्च बहुविधाः किन्त्वेकः प्रभुः। साधनानि बहुविधानि किन्तु सर्व्वेषु सर्व्वसाधक ईश्वर एकः। एकैकस्मै तस्यात्मनो दर्शनं परहितार्थं दीयते।
यूयं जगति दीप्तिरूपाः, भूधरोपरि स्थितं नगरं गुप्तं भवितुं नहि शक्ष्यति। अपरं मनुजाः प्रदीपान् प्रज्वाल्य द्रोणाधो न स्थापयन्ति, किन्तु दीपाधारोपर्य्येव स्थापयन्ति, तेन ते दीपा गेहस्थितान् सकलान् प्रकाशयन्ति। येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।
येन वर्द्व्यते तस्मिन्नैवार्पिष्यते, तस्यैव च बाहुल्यं भविष्यति, किन्तु येन न वर्द्व्यते, तस्यान्तिके यत् किञ्चन तिष्ठति, तदपि पुनर्नेष्यते।
येन यो वरो लब्धस्तेनैव स परम् उपकरोतृ, इत्थं यूयम् ईश्वरस्य बहुविधप्रसादस्योत्तमा भाण्डागाराधिपा भवत। यो वाक्यं कथयति स ईश्वरस्य वाक्यमिव कथयतु यश्च परम् उपकरोति स ईश्वरदत्तसामर्थ्यादिवोपकरोतु। सर्व्वविषये यीशुख्रीष्टेनेश्वरस्य गौरवं प्रकाश्यतां तस्यैव गौरवं पराक्रमश्च सर्व्वदा भूयात्। आमेन।
स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनोऽपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्। यावद् वयं सर्व्वे विश्वासस्येश्वरपुत्रविषयकस्य तत्त्वज्ञानस्य चैक्यं सम्पूर्णं पुरुषर्थञ्चार्थतः ख्रीष्टस्य सम्पूर्णपरिमाणस्य समं परिमाणं न प्राप्नुमस्तावत् स परिचर्य्याकर्म्मसाधनाय ख्रीष्टस्य शरीरस्य निष्ठायै च पवित्रलोकानां सिद्धतायास्तादृशम् उपायं निश्चितवान्।
अपरं स एतादृशः कस्यचित् पुंसस्तुल्यः, यो दूरदेशं प्रति यात्राकाले निजदासान् आहूय तेषां स्वस्वसामर्थ्यानुरूपम् एकस्मिन् मुद्राणां पञ्च पोटलिकाः अन्यस्मिंश्च द्वे पोटलिके अपरस्मिंश्च पोटलिकैकाम् इत्थं प्रतिजनं समर्प्य स्वयं प्रवासं गतवान्। अनन्तरं यो दासः पञ्च पोटलिकाः लब्धवान्, स गत्वा वाणिज्यं विधाय ता द्विगुणीचकार। यश्च दासो द्वे पोटलिके अलभत, सोपि ता मुद्रा द्विगुणीचकार। किन्तु यो दास एकां पोटलिकां लब्धवान्, स गत्वा भूमिं खनित्वा तन्मध्ये निजप्रभोस्ता मुद्रा गोपयाञ्चकार। तदनन्तरं बहुतिथे काले गते तेषां दासानां प्रभुरागत्य तैर्दासैः समं गणयाञ्चकार। तासां कन्यानां मध्ये पञ्च सुधियः पञ्च दुर्धिय आसन्। तदानीं यः पञ्च पोटलिकाः प्राप्तवान् स ता द्विगुणीकृतमुद्रा आनीय जगाद; हे प्रभो, भवता मयि पञ्च पोटलिकाः समर्पिताः, पश्यतु, ता मया द्विगुणीकृताः। तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव। ततो येन द्वे पोटलिके लब्धे सोप्यागत्य जगाद, हे प्रभो, भवता मयि द्वे पोटलिके समर्पिते, पश्यतु ते मया द्विगुणीकृते। तेन तस्य प्रभुस्तमवोचत्, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुद्रविणाधिपं करोमि, त्वं निजप्रभोः सुखस्य भागी भव। अनन्तरं य एकां पोटलिकां लब्धवान्, स एत्य कथितवान्, हे प्रभो, त्वां कठिननरं ज्ञातवान्, त्वया यत्र नोप्तं, तत्रैव कृत्यते, यत्र च न कीर्णं, तत्रैव संगृह्यते। अतोहं सशङ्कः सन् गत्वा तव मुद्रा भूमध्ये संगोप्य स्थापितवान्, पश्य, तव यत् तदेव गृहाण। तदा तस्य प्रभुः प्रत्यवदत् रे दुष्टालस दास, यत्राहं न वपामि, तत्र छिनद्मि, यत्र च न किरामि, तत्रेव संगृह्लामीति चेदजानास्तर्हि वणिक्षु मम वित्तार्पणं तवोचितमासीत्, येनाहमागत्य वृद्व्या साकं मूलमुद्राः प्राप्स्यम्। अतोस्मात् तां पोटलिकाम् आदाय यस्य दश पोटलिकाः सन्ति तस्मिन्नर्पयत। येन वर्द्व्यते तस्मिन्नैवार्पिष्यते, तस्यैव च बाहुल्यं भविष्यति, किन्तु येन न वर्द्व्यते, तस्यान्तिके यत् किञ्चन तिष्ठति, तदपि पुनर्नेष्यते। या दुर्धियस्ताः प्रदीपान् सङ्गे गृहीत्वा तैलं न जगृहुः, अपरं यूयं तमकर्म्मण्यं दासं नीत्वा यत्र स्थाने क्रन्दनं दन्तघर्षणञ्च विद्येते, तस्मिन् बहिर्भूततमसि निक्षिपत।
अत एकैकेन जनेन स्वकीयकर्म्मणः परीक्षा क्रियतां तेन परं नालोक्य केवलम् आत्मालोकनात् तस्य श्लघा सम्भविष्यति। यत एकैकोे जनः स्वकीयं भारं वक्ष्यति।
देह एकः सन्नपि यद्वद् बह्वङ्गयुक्तो भवति, तस्यैकस्य वपुषो ऽङ्गानां बहुत्वेन यद्वद् एकं वपु र्भवति, तद्वत् ख्रीष्टः। यतो हेतो र्यिहूदिभिन्नजातीयदासस्वतन्त्रा वयं सर्व्वे मज्जनेनैकेनात्मनैकदेहीकृताः सर्व्वे चैकात्मभुक्ता अभवाम। एकेनाङ्गेन वपु र्न भवति किन्तु बहुभिः।
कश्चिदपि जनो योग्यत्वादधिकं स्वं न मन्यतां किन्तु ईश्वरो यस्मै प्रत्ययस्य यत्परिमाणम् अददात् स तदनुसारतो योग्यरूपं स्वं मनुताम्, ईश्वराद् अनुग्रहं प्राप्तः सन् युष्माकम् एकैकं जनम् इत्याज्ञापयामि।
अतो हेतो र्मम हस्तार्पणेन लब्धो य ईश्वरस्य वरस्त्वयि विद्यते तम् उज्ज्वालयितुं त्वां स्मारयामि।
यूयञ्च ख्रीष्टस्य शरीरं, युष्माकम् एकैकश्च तस्यैकैकम् अङ्गं। केचित् केचित् समितावीश्वरेण प्रथमतः प्रेरिता द्वितीयत ईश्वरीयादेशवक्तारस्तृतीयत उपदेष्टारो नियुक्ताः, ततः परं केभ्योऽपि चित्रकार्य्यसाधनसामर्थ्यम् अनामयकरणशक्तिरुपकृतौ लोकशासने वा नैपुण्यं नानाभाषाभाषणसामर्थ्यं वा तेन व्यतारि। सर्व्वे किं प्रेरिताः? सर्व्वे किम् ईश्वरीयादेशवक्तारः? सर्व्वे किम् उपदेष्टारः? सर्व्वे किं चित्रकार्य्यसाधकाः? इति हेतोरहं युष्मभ्यं निवेदयामि, ईश्वरस्यात्मना भाषमाणः कोऽपि यीशुं शप्त इति न व्याहरति, पुनश्च पवित्रेणात्मना विनीतं विनान्यः कोऽपि यीशुं प्रभुरिति व्याहर्त्तुं न शक्नोति। सर्व्वे किम् अनामयकरणशक्तियुक्ताः? सर्व्वे किं परभाषावादिनः? सर्व्वे वा किं परभाषार्थप्रकाशकाः? यूयं श्रेष्ठदायान् लब्धुं यतध्वं। अनेन यूयं मया सर्व्वोत्तममार्गं दर्शयितव्याः।
यतो वयं तस्य कार्य्यं प्राग् ईश्वरेण निरूपिताभिः सत्क्रियाभिः कालयापनाय ख्रीष्टे यीशौ तेन मृष्टाश्च।
किन्तु यो जनोऽज्ञात्वा प्रहारार्हं कर्म्म करोति सोल्पप्रहारान् प्राप्स्यति। यतो यस्मै बाहुल्येन दत्तं तस्मादेव बाहुल्येन ग्रहीष्यते, मानुषा यस्य निकटे बहु समर्पयन्ति तस्माद् बहु याचन्ते।
अपरात् कस्त्वां विशेषयति? तुभ्यं यन्न दत्त तादृशं किं धारयसि? अदत्तेनेव दत्तेन वस्तुना कुतः श्लाघसे?
यो वाक्यं कथयति स ईश्वरस्य वाक्यमिव कथयतु यश्च परम् उपकरोति स ईश्वरदत्तसामर्थ्यादिवोपकरोतु। सर्व्वविषये यीशुख्रीष्टेनेश्वरस्य गौरवं प्रकाश्यतां तस्यैव गौरवं पराक्रमश्च सर्व्वदा भूयात्। आमेन।
यच्च कुरुध्वे तत् मानुषमनुद्दिश्य प्रभुम् उद्दिश्य प्रफुल्लमनसा कुरुध्वं, यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ।
तथा य उपदेष्टा भवति स उपदिशतु यश्च दाता स सरलतया ददातु यस्त्वधिपतिः स यत्नेनाधिपतित्वं करोतु यश्च दयालुः स हृष्टमनसा दयताम्।
अतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति ज्ञात्वा प्रभोः कार्य्ये सदा तत्परा भवत।
किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।
युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।
अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।
निजाभिमतसाधनाय सर्व्वस्मिन् सत्कर्म्मणि युष्मान् सिद्धान् करोतु, तस्य दृष्टौ च यद्यत् तुष्टिजनकं तदेव युष्माकं मध्ये यीशुना ख्रीष्टेन साधयतु। तस्मै महिमा सर्व्वदा भूयात्। आमेन्।
याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।
तस्माद् वयं तमेव घोषयन्तो यद् एकैकं मानवं सिद्धीभूतं ख्रीष्टे स्थापयेम तदर्थमेकैकं मानवं प्रबोधयामः पूर्णज्ञानेन चैकैकं मानवं उपदिशामः। एतदर्थं तस्य या शक्तिः प्रबलरूपेण मम मध्ये प्रकाशते तयाहं यतमानः श्राभ्यामि।
ततो हेतो र्यूयं सम्पूर्णं यत्नं विधाय विश्वासे सौजन्यं सौजन्ये ज्ञानं ज्ञान आयतेन्द्रियताम् आयतेन्द्रियतायां धैर्य्यं धैर्य्य ईश्वरभक्तिम् ईश्वरभक्तौ भ्रातृस्नेहे च प्रेम युङ्क्त।
एकस्मिन् मुद्राणां पञ्च पोटलिकाः अन्यस्मिंश्च द्वे पोटलिके अपरस्मिंश्च पोटलिकैकाम् इत्थं प्रतिजनं समर्प्य स्वयं प्रवासं गतवान्।
अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः।
किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।
अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।
तस्माद् एकस्याङ्गस्य पीडायां जातायां सर्व्वाण्यङ्गानि तेन सह पीड्यन्ते, एकस्य समादरे जाते च सर्व्वाणि तेन सह संहृष्यन्ति।
आमयग्रस्तान् स्वस्थान् कुरुत, कुष्ठिनः परिष्कुरुत, मृतलोकान् जीवयत, भूतान् त्याजयत, विना मूल्यं यूयम् अलभध्वं विनैव मूल्यं विश्राणयत।
तद्वदस्माकं बहुत्वेऽपि सर्व्वे वयं ख्रीष्टे एकशरीराः परस्परम् अङ्गप्रत्यङ्गत्वेन भवामः।
वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च।
अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।
रे भुजगवंशा यूयमसाधवः सन्तः कथं साधु वाक्यं वक्तुं शक्ष्यथ? यस्माद् अन्तःकरणस्य पूर्णभावानुसाराद् वदनाद् वचो निर्गच्छति। तेन साधुर्मानवोऽन्तःकरणरूपात् साधुभाण्डागारात् साधु द्रव्यं निर्गमयति, असाधुर्मानुषस्त्वसाधुभाण्डागाराद् असाधुवस्तूनि निर्गमयति।
अस्माकम् अन्तरे या शक्तिः प्रकाशते तया सर्व्वातिरिक्तं कर्म्म कुर्व्वन् अस्माकं प्रार्थनां कल्पनाञ्चातिक्रमितुं यः शक्नोति
युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते।
हे मम प्रियबालकाः, वाक्येन जिह्वया वास्माभिः प्रेम न कर्त्तव्यं किन्तु कार्य्येण सत्यतया चैव।
वयञ्चेहलोकस्यात्मानं लब्धवन्तस्तन्नहि किन्त्वीश्वरस्यैवात्मानं लब्धवन्तः, ततो हेतोरीश्वरेण स्वप्रसादाद् अस्मभ्यं यद् यद् दत्तं तत्सर्व्वम् अस्माभि र्ज्ञातुं शक्यते।
अपरं त्वम् ईश्वरस्य साक्षात् स्वं परीक्षितम् अनिन्दनीयकर्म्मकारिणञ्च सत्यमतस्य वाक्यानां सद्विभजने निपुणञ्च दर्शयितुं यतस्व।
अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं।
अतो यूयं प्रभुं यीशुख्रीष्टं यादृग् गृहीतवन्तस्तादृक् तम् अनुचरत। तस्मिन् बद्धमूलाः स्थापिताश्च भवत या च शिक्षा युष्माभि र्लब्धा तदनुसाराद् विश्वासे सुस्थिराः सन्तस्तेनैव नित्यं धन्यवादं कुरुत।
अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।
मनोभिः किन्तु मन्यध्वं पवित्रं प्रभुमीश्वरं। अपरञ्च युष्माकम् आन्तरिकप्रत्याशायास्तत्त्वं यः कश्चित् पृच्छति तस्मै शान्तिभीतिभ्याम् उत्तरं दातुं सदा सुसज्जा भवत।
हे भ्रातरः, यूयं स्वातन्त्र्यार्थम् आहूता आध्वे किन्तु तत्स्वातन्त्र्यद्वारेण शारीरिकभावो युष्मान् न प्रविशतु। यूयं प्रेम्ना परस्परं परिचर्य्यां कुरुध्वं।
मनुजाः किं कण्टकिनो वृक्षाद् द्राक्षाफलानि शृगालकोलितश्च उडुम्बरफलानि शातयन्ति? तद्वद् उत्तम एव पादप उत्तमफलानि जनयति, अधमपादपएवाधमफलानि जनयति। किन्तूत्तमपादपः कदाप्यधमफलानि जनयितुं न शक्नोति, तथाधमोपि पादप उत्तमफलानि जनयितुं न शक्नोति। अपरं ये ये पादपा अधमफलानि जनयन्ति, ते कृत्ता वह्नौ क्षिप्यन्ते। यतो यादृशेन दोषेण यूयं परान् दोषिणः कुरुथ, तादृशेन दोषेण यूयमपि दोषीकृता भविष्यथ, अन्यञ्च येन परिमाणेन युष्माभिः परिमीयते, तेनैव परिमाणेन युष्मत्कृते परिमायिष्यते। अतएव यूयं फलेन तान् परिचेष्यथ।
अस्माद् ईश्वरानुग्रहेण विशेषं विशेषं दानम् अस्मासु प्राप्तेषु सत्सु कोपि यदि भविष्यद्वाक्यं वदति तर्हि प्रत्ययस्य परिमाणानुसारतः स तद् वदतु;
यतो युष्माभिः पवित्रलोकानां य उपकारो ऽकारि क्रियते च तेनेश्वरस्य नाम्ने प्रकाशितं प्रेम श्रमञ्च विस्मर्त्तुम् ईश्वरोऽन्यायकारी न भवति।
हे भ्रातरः, आहूतयुष्मद्गणो यष्माभिरालोक्यतां तन्मध्ये सांसारिकज्ञानेन ज्ञानवन्तः पराक्रमिणो वा कुलीना वा बहवो न विद्यन्ते। यत ईश्वरो ज्ञानवतस्त्रपयितुं मूर्खलोकान् रोचितवान् बलानि च त्रपयितुम् ईश्वरो दुर्ब्बलान् रोचितवान्। तथा वर्त्तमानलोकान् संस्थितिभ्रष्टान् कर्त्तुम् ईश्वरो जगतोऽपकृष्टान् हेयान् अवर्त्तमानांश्चाभिरोचितवान्। तत ईश्वरस्य साक्षात् केनाप्यात्मश्लाघा न कर्त्तव्या।
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।
येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।
अतो हे प्रियतमाः, युष्माभि र्यद्वत् सर्व्वदा क्रियते तद्वत् केवले ममोपस्थितिकाले तन्नहि किन्त्विदानीम् अनुपस्थितेऽपि मयि बहुतरयत्नेनाज्ञां गृहीत्वा भयकम्पाभ्यां स्वस्वपरित्राणं साध्यतां। यत ईश्वर एव स्वकीयानुरोधाद् युष्मन्मध्ये मनस्कामनां कर्म्मसिद्धिञ्च विदधाति।
मर्त्यस्वर्गीयाणां भाषा भाषमाणोऽहं यदि प्रेमहीनो भवेयं तर्हि वादकतालस्वरूपो निनादकारिभेरीस्वरूपश्च भवामि। किन्त्वस्मासु सिद्धतां गतेषु तानि खण्डमात्राणि लोपं यास्यन्ते। बाल्यकालेऽहं बाल इवाभाषे बाल इवाचिन्तयञ्च किन्तु यौवने जाते तत्सर्व्वं बाल्याचरणं परित्यक्तवान्। इदानीम् अभ्रमध्येनास्पष्टं दर्शनम् अस्माभि र्लभ्यते किन्तु तदा साक्षात् दर्शनं लप्स्यते। अधुना मम ज्ञानम् अल्पिष्ठं किन्तु तदाहं यथावगम्यस्तथैवावगतो भविष्यामि। इदानीं प्रत्ययः प्रत्याशा प्रेम च त्रीण्येतानि तिष्ठन्ति तेषां मध्ये च प्रेम श्रेष्ठं। अपरञ्च यद्यहम् ईश्वरीयादेशाढ्यः स्यां सर्व्वाणि गुप्तवाक्यानि सर्व्वविद्याञ्च जानीयां पूर्णविश्वासः सन् शैलान् स्थानान्तरीकर्त्तुं शक्नुयाञ्च किन्तु यदि प्रेमहीनो भवेयं तर्ह्यगणनीय एव भवामि। अपरं यद्यहम् अन्नदानेन सर्व्वस्वं त्यजेयं दाहनाय स्वशरीरं समर्पयेयञ्च किन्तु यदि प्रेमहीनो भवेयं तर्हि तत्सर्व्वं मदर्थं निष्फलं भवति।
यदि वा प्रेरिता न भवन्ति तदा कथं प्रचारयिष्यन्ति? यादृशं लिखितम् आस्ते, यथा, माङ्गलिकं सुसंवादं ददत्यानीय ये नराः। प्रचारयन्ति शान्तेश्च सुसंवादं जनास्तु ये। तेषां चरणपद्मानि कीदृक् शोभान्वितानि हि।