यः कश्चन ईश्वरीयो लोकः स ईश्वरीयकथायां मनो निधत्ते यूयम् ईश्वरीयलोका न भवथ तन्निदानात् तत्र न मनांसि निधद्वे।
पश्याहं द्वारि तिष्ठन् तद् आहन्मि यदि कश्चित् मम रवं श्रुत्वा द्वारं मोचयति तर्ह्यहं तस्य सन्निधिं प्रविश्य तेन सार्द्धं भोक्ष्ये सो ऽपि मया सार्द्धं भोक्ष्यते।
अतो हेतोः पवित्रेणात्मना यद्वत् कथितं, तद्वत्, "अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ।
तर्हि पुरा परीक्षाया दिने प्रान्तरमध्यतः। मदाज्ञानिग्रहस्थाने युष्माभिस्तु कृतं यथा। तथा मा कुरुतेदानीं कठिनानि मनांसि वः।
युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।
किन्तु सत्यमय आत्मा यदा समागमिष्यति तदा सर्व्वं सत्यं युष्मान् नेष्यति, स स्वतः किमपि न वदिष्यति किन्तु यच्छ्रोष्यति तदेव कथयित्वा भाविकार्य्यं युष्मान् ज्ञापयिष्यति।
यः कश्चित् ममैताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा ज्ञानिना सह मयोपमीयते।
किन्त्वितः परं पित्रा यः सहायोऽर्थात् पवित्र आत्मा मम नाम्नि प्रेरयिष्यति स सर्व्वं शिक्षयित्वा मयोक्ताः समस्ताः कथा युष्मान् स्मारयिष्यति।
अस्माकं प्रभो र्यीशुख्रीष्टस्य तातो यः प्रभावाकर ईश्वरः स स्वकीयतत्त्वज्ञानाय युष्मभ्यं ज्ञानजनकम् प्रकाशितवाक्यबोधकञ्चात्मानं देयात्।
युष्माकं ज्ञानचक्षूंषि च दीप्तियुक्तानि कृत्वा तस्याह्वानं कीदृश्या प्रत्याशया सम्बलितं पवित्रलोकानां मध्ये तेन दत्तोऽधिकारः कीदृशः प्रभावनिधि र्विश्वासिषु चास्मासु प्रकाशमानस्य
ईश्वरस्य वादोऽमरः प्रभावविशिष्टश्च सर्व्वस्माद् द्विधारखङ्गादपि तीक्ष्णः, अपरं प्राणात्मनो र्ग्रन्थिमज्जयोश्च परिभेदाय विच्छेदकारी मनसश्च सङ्कल्पानाम् अभिप्रेतानाञ्च विचारकः।
अपरमीश्वरः स्वात्मना तदस्माकं साक्षात् प्राकाशयत्; यत आत्मा सर्व्वमेवानुसन्धत्ते तेन चेश्वरस्य मर्म्मतत्त्वमपि बुध्यते।
मनुजस्यान्तःस्थमात्मानं विना केन मनुजेन तस्य मनुजस्य तत्त्वं बुध्यते? तद्वदीश्वरस्यात्मानं विना केनापीश्वरस्य तत्त्वं न बुध्यते।
तत् सर्व्वं शास्त्रम् ईश्वरस्यात्मना दत्तं शिक्षायै दोषबोधाय शोधनाय धर्म्मविनयाय च फलयूक्तं भवति
तेन चेश्वरस्य लोको निपुणः सर्व्वस्मै सत्कर्म्मणे सुसज्जश्च भवति।
यदि मयि प्रीयध्वे तर्हि ममाज्ञाः समाचरत।
ततो मया पितुः समीपे प्रार्थिते पिता निरन्तरं युष्माभिः सार्द्धं स्थातुम् इतरमेकं सहायम् अर्थात् सत्यमयम् आत्मानं युष्माकं निकटं प्रेषयिष्यति।
एतज्जगतो लोकास्तं ग्रहीतुं न शक्नुवन्ति यतस्ते तं नापश्यन् नाजनंश्च किन्तु यूयं जानीथ यतो हेतोः स युष्माकमन्त र्निवसति युष्माकं मध्ये स्थास्यति च।
तस्मात् प्रार्थनाकाले अन्तरागारं प्रविश्य द्वारं रुद्व्वा गुप्तं पश्यतस्तव पितुः समीपे प्रार्थयस्व; तेन तव यः पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यतिl
अतो यूयं केन प्रकारेण शृणुथ तत्र सावधाना भवत, यस्य समीपे बर्द्धते तस्मै पुनर्दास्यते किन्तु यस्याश्रये न बर्द्धते तस्य यद्यदस्ति तदपि तस्मात् नेष्यते।
युष्मानाहं यथार्थतरं वदामि यो जनो मम वाक्यं श्रुत्वा मत्प्रेरके विश्वसिति सोनन्तायुः प्राप्नोति कदापि दण्डबाजनं न भवति निधनादुत्थाय परमायुः प्राप्नोति।
अतो यूयम् ईश्वरस्य बलवत्करस्याधो नम्रीभूय तिष्ठत तेन स उचितसमये युष्मान् उच्चीकरिष्यति।
यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।
यः कश्चिन् मम निकटम् आगत्य मम कथा निशम्य तदनुरूपं कर्म्म करोति स कस्य सदृशो भवति तदहं युष्मान् ज्ञाापयामि।
यो जनो गभीरं खनित्वा पाषाणस्थले भित्तिं निर्म्माय स्वगृहं रचयति तेन सह तस्योपमा भवति; यत आप्लाविजलमेत्य तस्य मूले वेगेन वहदपि तद्गेहं लाडयितुं न शक्नोति यतस्तस्य भित्तिः पाषाणोपरि तिष्ठति।
सर्व्वसमये सर्व्वयाचनेन सर्व्वप्रार्थनेन चात्मना प्रार्थनां कुरुध्वं तदर्थं दृढाकाङ्क्षया जाग्रतः सर्व्वेषां पवित्रलोकानां कृते सदा प्रार्थनां कुरुध्वं।
अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ, तर्ह्याज्ञालङ्घनस्थाने युष्माभिस्तु कृतं यथा, तथा मा कुरुतेदानीं कठिनानि मनांसि व इति तेन यदुक्तं,
वयञ्चेहलोकस्यात्मानं लब्धवन्तस्तन्नहि किन्त्वीश्वरस्यैवात्मानं लब्धवन्तः, ततो हेतोरीश्वरेण स्वप्रसादाद् अस्मभ्यं यद् यद् दत्तं तत्सर्व्वम् अस्माभि र्ज्ञातुं शक्यते।
तच्चास्माभि र्मानुषिकज्ञानस्य वाक्यानि शिक्षित्वा कथ्यत इति नहि किन्त्वात्मतो वाक्यानि शिक्षित्वात्मिकै र्वाक्यैरात्मिकं भावं प्रकाशयद्भिः कथ्यते।
अनन्तरं यीशुरेकदा गिनेषरत्ह्दस्य तीर उत्तिष्ठति, तदा लोका ईश्वरीयकथां श्रोतुं तदुपरि प्रपतिताः।
अपरम् उर्व्वरायां बीजान्युप्तानि तदर्थ एषः; ये तां कथां श्रुत्वा वुध्यन्ते, ते फलिताः सन्तः केचित् शतगुणानि केचित षष्टिगुणानि केचिच्च त्रिंशद्गुणानि फलानि जनयन्ति।
यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।
तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।
कश्चिद् यदि मम सेवको भवितुं वाञ्छति तर्हि स मम पश्चाद्गामी भवतु, तस्माद् अहं यत्र तिष्ठामि मम सेवकेापि तत्र स्थास्यति; यो जनो मां सेवते मम पितापि तं सम्मंस्यते।
ईश्वरस्य समीपवर्त्तिनो भवत तेन स युष्माकं समीपवर्त्ती भविष्यति। हे पापिनः, यूयं स्वकरान् परिष्कुरुध्वं। हे द्विमनोलोकाः, यूयं स्वान्तःकरणानि शुचीनि कुरुध्वं।
किन्तु विश्वासं विना कोऽपीश्वराय रोचितुं न शक्नोति यत ईश्वरोऽस्ति स्वान्वेषिलोकेभ्यः पुरस्कारं ददाति चेतिकथायाम् ईश्वरशरणागतै र्विश्वसितव्यं।
ते यदोपवासं कृत्वेश्वरम् असेवन्त तस्मिन् समये पवित्र आत्मा कथितवान् अहं यस्मिन् कर्म्मणि बर्णब्बाशैलौ नियुक्तवान् तत्कर्म्म कर्त्तुं तौ पृथक् कुरुत।
तैश्च वयं वितर्कान् ईश्वरीयतत्त्वज्ञानस्य प्रतिबन्धिकां सर्व्वां चित्तसमुन्नतिञ्च निपातयामः सर्व्वसङ्कल्पञ्च बन्दिनं कृत्वा ख्रीष्टस्याज्ञाग्राहिणं कुर्म्मः,
अपरं यूयं तस्माद् यम् अभिषेकं प्राप्तवन्तः स युष्मासु तिष्ठति ततः कोऽपि यद् युष्मान् शिक्षयेत् तद् अनावश्यकं, स चाभिषेको युष्मान् सर्व्वाणि शिक्षयति सत्यश्च भवति न चातथ्यः, अतः स युष्मान् यद्वद् अशिक्षयत् तद्वत् तत्र स्थास्यथ।
ततः स प्रत्यब्रवीत्, इत्थं लिखितमास्ते, "मनुजः केवलपूपेन न जीविष्यति, किन्त्वीश्वरस्य वदनाद् यानि यानि वचांसि निःसरन्ति तैरेव जीविष्यति।"
अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।
तथा निजान् मेषान् बहिः कृत्वा स्वयं तेषाम् अग्रे गच्छति, ततो मेषास्तस्य शब्दं बुध्यन्ते, तस्मात् तस्य पश्चाद् व्रजन्ति।
पुन र्यर्द्दन् अद्यास्तटे यत्र पुर्व्वं योहन् अमज्जयत् तत्रागत्य न्यवसत्।
ततो बहवो लोकास्तत्समीपम् आगत्य व्याहरन् योहन् किमप्याश्चर्य्यं कर्म्म नाकरोत् किन्त्वस्मिन् मनुष्ये या यः कथा अकथयत् ताः सर्व्वाः सत्याः;
तत्र च बहवो लोकास्तस्मिन् व्यश्वसन्।
किन्तु परस्य शब्दं न बुध्यन्ते तस्मात् तस्य पश्चाद् व्रजिष्यन्ति वरं तस्य समीपात् पलायिष्यन्ते।
तस्यान्तिके ऽस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो ऽस्माकं वाक्यं शृणोति।
स चास्माकं यत् किञ्चन याचनं शृणोतीति यदि जानीमस्तर्हि तस्माद् याचिता वरा अस्माभिः प्राप्यन्ते तदपि जानीमः।
किन्तु सदसद्विचारे येषां चेतांसि व्यवहारेण शिक्षितानि तादृशानां सिद्धलोकानां कठोरद्रव्येषु प्रयोजनमस्ति।
अतएव हे मम प्रियभ्रातरः, युष्माकम् एकैको जनः श्रवणे त्वरितः कथने धीरः क्रोधेऽपि धीरो भवतु।
किन्तु युष्माकं नयनानि धन्यानि, यस्मात् तानि वीक्षन्ते; धन्याश्च युष्माकं शब्दग्रहाः, यस्मात् तैराकर्ण्यते।
अतो वयं यद् भ्रमस्रोतसा नापनीयामहे तदर्थमस्माभि र्यद्यद् अश्रावि तस्मिन् मनांसि निधातव्यानि।
अपरञ्च वयं यत् सहिष्णुतासान्त्वनयो र्जनकेन शास्त्रेण प्रत्याशां लभेमहि तन्निमित्तं पूर्व्वकाले लिखितानि सर्व्ववचनान्यस्माकम् उपदेशार्थमेव लिलिखिरे।
अहमेव सत्यो मेषपालकः, पिता मां यथा जानाति, अहञ्च यथा पितरं जानामि,
तथा निजान् मेषानपि जानामि, मेषाश्च मां जानान्ति, अहञ्च मेषार्थं प्राणत्यागं करोमि।
अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।
प्रणयबन्धनेन चात्मन एैक्यं रक्षितुं यतध्वं।
अपरञ्च यूयं मुक्तिदिनपर्य्यन्तम् ईश्वरस्य येन पवित्रेणात्मना मुद्रयाङ्किता अभवत तं शोकान्वितं मा कुरुत।
पूर्व्वे मम नाम्ना किमपि नायाचध्वं, याचध्वं ततः प्राप्स्यथ तस्माद् युष्माकं सम्पूर्णानन्दो जनिष्यते।
हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि।
अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।
एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्।
यतो मम युगम् अनायासं मम भारश्च लघुः।
ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।
अतो हेतोरस्माभिः सरलान्तःकरणै र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज्ञा निश्चला धारयितव्या।
अथ दिनत्रयात् परं पण्डितानां मध्ये तेषां कथाः शृण्वन् तत्त्वं पृच्छंश्च मन्दिरे समुपविष्टः स ताभ्यां दृष्टः।
तदा तस्य बुद्ध्या प्रत्युत्तरैश्च सर्व्वे श्रोतारो विस्मयमापद्यन्ते।
यतो मृतिजनकं पापं पुण्यजनकं निदेशाचरणञ्चैतयोर्द्वयो र्यस्मिन् आज्ञापालनार्थं भृत्यानिव स्वान् समर्पयथ, तस्यैव भृत्या भवथ, एतत् किं यूयं न जानीथ?
यूयं प्रेमाचरणे प्रयतध्वम् आत्मिकान् दायानपि विशेषत ईश्वरीयादेशकथनसामर्थ्यं प्राप्तुं चेष्टध्वं।
किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।
तत आत्मापि स्वयम् अस्माकं दुर्ब्बलतायाः सहायत्वं करोति; यतः किं प्रार्थितव्यं तद् बोद्धुं वयं न शक्नुमः, किन्त्वस्पष्टैरार्त्तरावैरात्मा स्वयम् अस्मन्निमित्तं निवेदयति।
वयञ्च सर्व्वेऽनाच्छादितेनास्येन प्रभोस्तेजसः प्रतिबिम्बं गृह्लन्त आत्मस्वरूपेण प्रभुना रूपान्तरीकृता वर्द्धमानतेजोयुक्तां तामेव प्रतिमूर्त्तिं प्राप्नुमः।
किन्तु ये श्रुत्वा सरलैः शुद्धैश्चान्तःकरणैः कथां गृह्लन्ति धैर्य्यम् अवलम्ब्य फलान्युत्पादयन्ति च त एवोत्तममृत्स्वरूपाः।
ततः स मह्यं कथितवान् यथा त्वम् ईश्वरस्याभिप्रायं वेत्सि तस्य शुद्धसत्त्वजनस्य दर्शनं प्राप्य तस्य श्रीमुखस्य वाक्यं शृणोषि तन्निमित्तम् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरस्त्वां मनोनीतं कृतवानं।