मोरियागिरौ यदा पितृपुरुषः अब्राहमः इसहाकेन सह पूजां कर्तुम् उद्यतः आसीत्, तदा सः भविष्यवाणीम् अकरोत्। यदा पुत्रः होमार्थं मेषं पृष्टवान्, तदा अब्राहमः अवदत्, "ईश्वरः स्वयं होमार्थं मेषं प्रदास्यति पुत्र।" (उत्पत्तिः २२:८) पश्चात् यदा सः पुत्रं बलिं दातुम् उद्यतः आसीत्, तदा प्रभुः अब्राहमम् अवदत् मेषं च बलिदानार्थं प्रददौ। तदा अब्राहमः दृष्टिम् उत्थाप्य झाड्यां श्रृङ्गैः बद्धं मेषं दृष्ट्वा तम् गृहीत्वा पुत्रस्य स्थाने होमम् अकरोत्। (उत्पत्तिः २२:१३) यद्यपि अब्राहमः मेषस्य आगमनं प्रोक्तवान्, तथापि मेषः एव प्राप्तः। अब्राहमः यस्य मेषस्य प्रतीक्षां कृतवान्, सः तस्मात् दृश्यात् द्विसहस्रवर्षाणि पश्चात् यर्दननद्यां योहनेन दर्शितः। ख्रीष्टः अस्माकं पास्कलमेषः, अस्माकं नित्यमेषः।
यूहन्ना प्रेषितः अनन्ततायाः आयामे प्रविश्य प्रकाशनाख्ये ग्रन्थे वर्णिते दर्शने (प्रकाशनाख्यः ५:१२) अवदत् यत् सः दूतान्, प्राणिनः, वृद्धान्, कोटिशः जनान् च दृष्टवान् ये उच्चैः अवदन्, "यः मेषः बलिदानं कृतः, सः शक्तिं, धनं, प्रज्ञां, बलं, मानं, गौरवं, स्तुतिं च ग्रहीतुम् अर्हः।" (प्रकाशनाख्यः ५:१२) स्वर्गेऽपि अस्माकं ख्रीष्टः मेषरूपेण प्रतिपाद्यते। तस्य रक्तं शक्तिशालि, तस्मिन् विश्वासं कुरु, तस्य रक्तस्य आश्रयेण वयं सुरक्षिताः स्मः। यद्यपि भूमाव् भयंकरघटनाः भवन्ति, तथापि मिस्रदेशस्य मेषाणां रक्तात् श्रेष्ठेन रक्तेन ताः घटनाः त्वां न स्पृक्ष्यन्ति। येशुः अस्माकं पास्का।
अनन्तरं निस्तारोत्सवस्य भोज्यसमये यिरूशालम् नगरे तत्क्रुताश्चर्य्यकर्म्माणि विलोक्य बहुभिस्तस्य नामनि विश्वसितं।
तस्य पिता माता च प्रतिवर्षं निस्तारोत्सवसमये यिरूशालमम् अगच्छताम्। अपरञ्च यीशौ द्वादशवर्षवयस्के सति तौ पर्व्वसमयस्य रीत्यनुसारेण यिरूशालमं गत्वा
तदा निस्तारोत्सवकिण्वहीनपूपोत्सवयोरारम्भस्य दिनद्वये ऽवशिष्टे प्रधानयाजका अध्यापकाश्च केनापि छलेन यीशुं धर्त्तां हन्तुञ्च मृगयाञ्चक्रिरे; ततः परं द्वादशानां शिष्याणामेक ईष्करियोतीययिहूदाख्यो यीशुं परकरेषु समर्पयितुं प्रधानयाजकानां समीपमियाय। ते तस्य वाक्यं समाकर्ण्य सन्तुष्टाः सन्तस्तस्मै मुद्रा दातुं प्रत्यजानत; तस्मात् स तं तेषां करेषु समर्पणायोपायं मृगयामास। अनन्तरं किण्वशून्यपूपोत्सवस्य प्रथमेऽहनि निस्तारोत्मवार्थं मेषमारणासमये शिष्यास्तं पप्रच्छः कुत्र गत्वा वयं निस्तारोत्सवस्य भोज्यमासादयिष्यामः? किमिच्छति भवान्? तदानीं स तेषां द्वयं प्रेरयन् बभाषे युवयोः पुरमध्यं गतयोः सतो र्यो जनः सजलकुम्भं वहन् युवां साक्षात् करिष्यति तस्यैव पश्चाद् यातं; स यत् सदनं प्रवेक्ष्यति तद्भवनपतिं वदतं, गुरुराह यत्र सशिष्योहं निस्तारोत्सवीयं भोजनं करिष्यामि, सा भोजनशाला कुत्रास्ति? ततः स परिष्कृतां सुसज्जितां बृहतीचञ्च यां शालां दर्शयिष्यति तस्यामस्मदर्थं भोज्यद्रव्याण्यासादयतं। ततः शिष्यौ प्रस्थाय पुरं प्रविश्य स यथोक्तवान् तथैव प्राप्य निस्तारोत्सवस्य भोज्यद्रव्याणि समासादयेताम्। अनन्तरं यीशुः सायंकाले द्वादशभिः शिष्यैः सार्द्धं जगाम; सर्व्वेषु भोजनाय प्रोपविष्टेषु स तानुदितवान् युष्मानहं यथार्थं व्याहरामि, अत्र युष्माकमेको जनो यो मया सह भुंक्ते मां परकेरेषु समर्पयिष्यते। तदानीं ते दुःखिताः सन्त एकैकशस्तं प्रष्टुमारब्धवन्तः स किमहं? पश्चाद् अन्य एकोभिदधे स किमहं? किन्तु लोकानां कलहभयादूचिरे, नचोत्सवकाल उचितमेतदिति।
अनन्तरं यिहूदीयानां निस्तारोत्सवे निकटवर्त्तिनि सति तदुत्सवात् पूर्व्वं स्वान् शुचीन् कर्त्तुं बहवो जना ग्रामेभ्यो यिरूशालम् नगरम् आगच्छन्,
यीशुरेतान् प्रस्तावान् समाप्य शिष्यानूचे, यीशुना तदवगत्य ते समुदिताः, योषामेनां कुतो दुःखिनीं कुरुथ, सा मां प्रति साधु कर्म्माकार्षीत्। युष्माकमं समीपे दरिद्राः सततमेवासते, किन्तु युष्माकमन्तिकेहं नासे सततं। सा मम कायोपरि सुगन्धितैलं सिक्त्वा मम श्मशानदानकर्म्माकार्षीत्। अतोहं युष्मान् तथ्यं वदामि सर्व्वस्मिन् जगति यत्र यत्रैष सुसमाचारः प्रचारिष्यते, तत्र तत्रैतस्या नार्य्याः स्मरणार्थम् कर्म्मेदं प्रचारिष्यते। ततो द्वादशशिष्याणाम् ईष्करियोतीययिहूदानामक एकः शिष्यः प्रधानयाजकानामन्तिकं गत्वा कथितवान्, यदि युष्माकं करेषु यीशुं समर्पयामि, तर्हि किं दास्यथ? तदानीं ते तस्मै त्रिंशन्मुद्रा दातुं स्थिरीकृतवन्तः। स तदारभ्य तं परकरेषु समर्पयितुं सुयोगं चेष्टितवान्। अनन्तरं किण्वशून्यपूपपर्व्वणः प्रथमेह्नि शिष्या यीशुम् उपगत्य पप्रच्छुः भवत्कृते कुत्र वयं निस्तारमहभोज्यम् आयोजयिष्यामः? भवतः केच्छा? तदा स गदितवान्, मध्येनगरममुकपुंसः समीपं व्रजित्वा वदत, गुरु र्गदितवान्, मत्कालः सविधः, सह शिष्यैस्त्वदालये निस्तारमहभोज्यं भोक्ष्ये। तदा शिष्या यीशोस्तादृशनिदेशानुरूपकर्म्म विधाय तत्र निस्तारमहभोज्यमासादयामासुः। युष्माभि र्ज्ञातं दिनद्वयात् परं निस्तारमह उपस्थास्यति, तत्र मनुजसुतः क्रुशेन हन्तुं परकरेषु समर्पिष्यते।
अनन्तरं किण्वशून्यपूपपर्व्वणः प्रथमेह्नि शिष्या यीशुम् उपगत्य पप्रच्छुः भवत्कृते कुत्र वयं निस्तारमहभोज्यम् आयोजयिष्यामः? भवतः केच्छा? तदा स गदितवान्, मध्येनगरममुकपुंसः समीपं व्रजित्वा वदत, गुरु र्गदितवान्, मत्कालः सविधः, सह शिष्यैस्त्वदालये निस्तारमहभोज्यं भोक्ष्ये। तदा शिष्या यीशोस्तादृशनिदेशानुरूपकर्म्म विधाय तत्र निस्तारमहभोज्यमासादयामासुः।
अनन्तरं किण्वशून्यपूपोत्सवस्य प्रथमेऽहनि निस्तारोत्मवार्थं मेषमारणासमये शिष्यास्तं पप्रच्छः कुत्र गत्वा वयं निस्तारोत्सवस्य भोज्यमासादयिष्यामः? किमिच्छति भवान्? तदानीं स तेषां द्वयं प्रेरयन् बभाषे युवयोः पुरमध्यं गतयोः सतो र्यो जनः सजलकुम्भं वहन् युवां साक्षात् करिष्यति तस्यैव पश्चाद् यातं; स यत् सदनं प्रवेक्ष्यति तद्भवनपतिं वदतं, गुरुराह यत्र सशिष्योहं निस्तारोत्सवीयं भोजनं करिष्यामि, सा भोजनशाला कुत्रास्ति? ततः स परिष्कृतां सुसज्जितां बृहतीचञ्च यां शालां दर्शयिष्यति तस्यामस्मदर्थं भोज्यद्रव्याण्यासादयतं। ततः शिष्यौ प्रस्थाय पुरं प्रविश्य स यथोक्तवान् तथैव प्राप्य निस्तारोत्सवस्य भोज्यद्रव्याणि समासादयेताम्।
तदनन्तरं यिहूदियानां निस्तारोत्सवे निकटमागते यीशु र्यिरूशालम् नगरम् आगच्छत्। ततो मन्दिरस्य मध्ये गोमेषपारावतविक्रयिणो वाणिजक्ष्चोपविष्टान् विलोक्य
निस्तारोत्सवात् पूर्व्वं दिनषट्के स्थिते यीशु र्यं प्रमीतम् इलियासरं श्मशानाद् उदस्थापरत् तस्य निवासस्थानं बैथनियाग्रामम् आगच्छत्।
यूयं यत् नवीनशक्तुस्वरूपा भवेत तदर्थं पुरातनं किण्वम् अवमार्ज्जत यतो युष्माभिः किण्वशून्यै र्भवितव्यं। अपरम् अस्माकं निस्तारोत्सवीयमेषशावको यः ख्रीष्टः सोऽस्मदर्थं बलीकृतो ऽभवत्।
अनन्तरं समये सम्पूर्णतां गतवति व्यवस्थाधीनानां मोचनार्थम् अस्माकं पुत्रत्वप्राप्त्यर्थञ्चेश्वरः स्त्रिया जातं व्यवस्थाया अधिनीभूतञ्च स्वपुत्रं प्रेषितवान्।
अपरं प्रथमजातानां हन्ता यत् स्वीयलोकान् न स्पृशेत् तदर्थं स विश्वासेन निस्तारपर्व्वीयबलिच्छेदनं रुधिरसेचनञ्चानुष्ठितावान्।
अनन्तरं तेषामशनकाले यीशुः पूपमादायेश्वरीयगुणाननूद्य भंक्त्वा शिष्येभ्यः प्रदाय जगाद, मद्वपुःस्वरूपमिमं गृहीत्वा खादत। पश्चात् स कंसं गृह्लन् ईश्वरीयगुणाननूद्य तेभ्यः प्रदाय कथितवान्, सर्व्वै र्युष्माभिरनेन पातव्यं, यस्मादनेकेषां पापमर्षणाय पातितं यन्मन्नूत्ननियमरूपशोणितं तदेतत्।
अपरञ्च तेषां भोजनसमये यीशुः पूपं गृहीत्वेश्वरगुणान् अनुकीर्त्य भङ्क्त्वा तेभ्यो दत्त्वा बभाषे, एतद् गृहीत्वा भुञ्जीध्वम् एतन्मम विग्रहरूपं। अनन्तरं स कंसं गृहीत्वेश्वरस्य गुणान् कीर्त्तयित्वा तेभ्यो ददौ, ततस्ते सर्व्वे पपुः। अपरं स तानवादीद् बहूनां निमित्तं पातितं मम नवीननियमरूपं शोणितमेतत्।
ततः पूपं गृहीत्वा ईश्वरगुणान् कीर्त्तयित्वा भङ्क्ता तेभ्यो दत्वावदत्, युष्मदर्थं समर्पितं यन्मम वपुस्तदिदं, एतत् कर्म्म मम स्मरणार्थं कुरुध्वं। प्रधानयाजका अध्यायकाश्च यथा तं हन्तुं शक्नुवन्ति तथोपायाम् अचेष्टन्त किन्तु लोकेभ्यो बिभ्युः। अथ भोजनान्ते तादृशं पात्रं गृहीत्वावदत्, युष्मत्कृते पातितं यन्मम रक्तं तेन निर्णीतनवनियमरूपं पानपात्रमिदं।
परेऽहनि योहन् स्वनिकटमागच्छन्तं यिशुं विलोक्य प्रावोचत् जगतः पापमोचकम् ईश्वरस्य मेषशावकं पश्यत।
यूयं निरर्थकात् पैतृकाचारात् क्षयणीयै रूप्यसुवर्णादिभि र्मुक्तिं न प्राप्य निष्कलङ्कनिर्म्मलमेषशावकस्येव ख्रीष्टस्य बहुमूल्येन रुधिरेण मुक्तिं प्राप्तवन्त इति जानीथ।
छागानां गोवत्सानां वा रुधिरम् अनादाय स्वीयरुधिरम् आदायैककृत्व एव महापवित्रस्थानं प्रविश्यानन्तकालिकां मुक्तिं प्राप्तवान्।
अतो हे भ्रातरः, यीशो रुधिरेण पवित्रस्थानप्रवेशायास्माकम् उत्साहो भवति, यद्यशक्ष्यत् तर्हि तेषां बलीनां दानं किं न न्यवर्त्तिष्यत? यतः सेवाकारिष्वेककृत्वः पवित्रीभूतेषु तेषां कोऽपि पापबोधः पुन र्नाभविष्यत्। यतः सोऽस्मदर्थं तिरस्करिण्यार्थतः स्वशरीरेण नवीनं जीवनयुक्तञ्चैकं पन्थानं निर्म्मितवान्,
अपरञ्च निस्तारोत्सवात् परं पञ्चाशत्तमे दिने समुपस्थिते सति ते सर्व्वे एकाचित्तीभूय स्थान एकस्मिन् मिलिता आसन्।
ख्रीष्टोऽस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतोऽस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सोऽभिशप्त इति।"
यतः पापस्य वेतनं मरणं किन्त्वस्माकं प्रभुणा यीशुख्रीष्टेनानन्तजीवनम् ईश्वरदत्तं पारितोषिकम् आस्ते।
ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।
किन्त्वस्मासु पापिषु सत्स्वपि निमित्तमस्माकं ख्रीष्टः स्वप्राणान् त्यक्तवान्, तत ईश्वरोस्मान् प्रति निजं परमप्रेमाणं दर्शितवान्।
प्रभुतो य उपदेशो मया लब्धो युष्मासु समर्पितश्च स एषः। परकरसमर्पणक्षपायां प्रभु र्यीशुः पूपमादायेश्वरं धन्यं व्याहृत्य तं भङ्क्त्वा भाषितवान् युष्माभिरेतद् गृह्यतां भुज्यताञ्च तद् युष्मत्कृते भग्नं मम शरीरं; मम स्मरणार्थं युष्माभिरेतत् क्रियतां। पुनश्च भेजनात् परं तथैव कंसम् आदाय तेनोक्तं कंसोऽयं मम शोणितेन स्थापितो नूतननियमः; यतिवारं युष्माभिरेतत् पीयते ततिवारं मम स्मरणार्थं पीयतां। यतिवारं युष्माभिरेष पूपो भुज्यते भाजनेनानेन पीयते च ततिवारं प्रभोरागमनं यावत् तस्य मृत्युः प्रकाश्यते।
क्रुशे पातितेन तस्य रक्तेन सन्धिं विधाय तेनैव स्वर्गमर्त्त्यस्थितानि सर्व्वाणि स्वेन सह सन्धापयितुञ्चेश्वरेणाभिलेषे।
इत्यत्र वयं किं ब्रूमः? ईश्वरो यद्यस्माकं सपक्षो भवति तर्हि को विपक्षोऽस्माकं? आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?
तदा स पानपात्रमादाय ईश्वरस्य गुणान् कीर्त्तयित्वा तेभ्यो दत्वावदत्, इदं गृह्लीत यूयं विभज्य पिवत। युष्मान् वदामि यावत्कालम् ईश्वरराजत्वस्य संस्थापनं न भवति तावद् द्राक्षाफलरसं न पास्यामि।
अहं व्यवस्थां भविष्यद्वाक्यञ्च लोप्तुम् आगतवान्, इत्थं मानुभवत, ते द्वे लोप्तुं नागतवान्, किन्तु सफले कर्त्तुम् आगतोस्मि। अपरं युष्मान् अहं तथ्यं वदामि यावत् व्योममेदिन्यो र्ध्वंसो न भविष्यति, तावत् सर्व्वस्मिन् सफले न जाते व्यवस्थाया एका मात्रा बिन्दुरेकोपि वा न लोप्स्यते।
यस्मात् स्वशोणितेन विश्वासात् पापनाशको बली भवितुं स एव पूर्व्वम् ईश्वरेण निश्चितः, इत्थम् ईश्वरीयसहिष्णुत्वात् पुराकृतपापानां मार्ज्जनकरणे स्वीययाथार्थ्यं तेन प्रकाश्यते,
तस्मिन् यीशौ ईश्वरस्य पूर्व्वनिश्चितमन्त्रणानिरूपणानुसारेण मृत्यौ समर्पिते सति यूयं तं धृत्वा दुष्टलोकानां हस्तैः क्रुशे विधित्वाहत।
वयं यत् पापेभ्यो निवृत्य धर्म्मार्थं जीवामस्तदर्थं स स्वशरीरेणास्माकं पापानि क्रुश ऊढवान् तस्य प्रहारै र्यूयं स्वस्था अभवत।
यतः ख्रीष्टस्य सुसंवादो मम लज्जास्पदं नहि स ईश्वरस्य शक्तिस्वरूपः सन् आ यिहूदीयेभ्यो ऽन्यजातीयान् यावत् सर्व्वजातीयानां मध्ये यः कश्चिद् तत्र विश्वसिति तस्यैव त्राणं जनयति।
यद् धन्यवादपात्रम् अस्माभि र्धन्यं गद्यते तत् किं ख्रीष्टस्य शोणितस्य सहभागित्वं नहि? यश्च पूपोऽस्माभि र्भज्यते स किं ख्रीष्टस्य वपुषः सहभागित्वं नहि? वयं बहवः सन्तोऽप्येकपूपस्वरूपा एकवपुःस्वरूपाश्च भवामः, यतो वयं सर्व्व एकपूपस्य सहभागिनः।
अपरं जैतुनाद्रेरुपत्यकाम् इत्वा शिष्यसंघः पूर्व्वदृष्टानि महाकर्म्माणि स्मृत्वा, यो राजा प्रभो र्नाम्नायाति स धन्यः स्वर्गे कुशलं सर्व्वोच्चे जयध्वनि र्भवतु, कथामेतां कथयित्वा सानन्दम् उचैरीश्वरं धन्यं वक्तुमारेभे।
यज्जीवनभक्ष्यं स्वर्गादागच्छत् सोहमेव इदं भक्ष्यं यो जनो भुङ्क्त्ते स नित्यजीवी भविष्यति। पुनश्च जगतो जीवनार्थमहं यत् स्वकीयपिशितं दास्यामि तदेव मया वितरितं भक्ष्यम्।
ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।
ततो मन्दिरस्य विच्छेदवसनम् ऊर्द्व्वादधो यावत् छिद्यमानं द्विधाभवत्, भूमिश्चकम्पे भूधरोव्यदीर्य्यत च। श्मशाने मुक्ते भूरिपुण्यवतां सुप्तदेहा उदतिष्ठन्, श्मशानाद् वहिर्भूय तदुत्थानात् परं पुण्यपुरं गत्वा बहुजनान् दर्शयामासुः।
अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।
युष्मानाहं यथार्थतरं वदामि यो जनो मम वाक्यं श्रुत्वा मत्प्रेरके विश्वसिति सोनन्तायुः प्राप्नोति कदापि दण्डबाजनं न भवति निधनादुत्थाय परमायुः प्राप्नोति।
ततो यथा पितुः पराक्रमेण श्मशानात् ख्रीष्ट उत्थापितस्तथा वयमपि यत् नूतनजीविन इवाचरामस्तदर्थं मज्जनेन तेन सार्द्धं मृत्युरूपे श्मशाने संस्थापिताः।
ततः परं विश्रामवारस्य शेषे सप्ताहप्रथमदिनस्य प्रभोते जाते मग्दलीनी मरियम् अन्यमरियम् च श्मशानं द्रष्टुमागता। यीशुस्ता अवादीत्, मा बिभीत, यूयं गत्वा मम भ्रातृन् गालीलं यातुं वदत, तत्र ते मां द्रक्ष्यन्ति।