फलतस्तस्यानन्तशक्तीश्वरत्वादीन्यदृश्यान्यपि सृष्टिकालम् आरभ्य कर्म्मसु प्रकाशमानानि दृश्यन्ते तस्मात् तेषां दोषप्रक्षालनस्य पन्था नास्ति।
यतः सर्व्वमेव तेन ससृजे सिंहासनराजत्वपराक्रमादीनि स्वर्गमर्त्त्यस्थितानि दृश्यादृश्यानि वस्तूनि सर्व्वाणि तेनैव तस्मै च ससृजिरे।
जगतो जगत्स्थानां सर्व्ववस्तूनाञ्च स्रष्टा य ईश्वरः स स्वर्गपृथिव्योरेकाधिपतिः सन् करनिर्म्मितमन्दिरेषु न निवसति; स एव सर्व्वेभ्यो जीवनं प्राणान् सर्व्वसामग्रीश्च प्रददाति; अतएव स कस्याश्चित् सामग्य्रा अभावहेतो र्मनुष्याणां हस्तैः सेवितो भवतीति न।
हे प्रभो ईश्वरास्माकं प्रभावं गौरवं बलं। त्वमेवार्हसि सम्प्राप्तुं यत् सर्व्वं ससृजे त्वया। तवाभिलाषतश्चैव सर्व्वं सम्भूय निर्म्ममे॥
अपरं वसनाय कुतश्चिन्तयत? क्षेत्रोत्पन्नानि पुष्पाणि कथं वर्द्धन्ते तदालोचयत। तानि तन्तून् नोत्पादयन्ति किमपि कार्य्यं न कुर्व्वन्ति; तथाप्यहं युष्मान् वदामि, सुलेमान् तादृग् ऐश्वर्य्यवानपि तत्पुष्पमिव विभूषितो नासीत्।
अपरम् ईश्वरस्य वाक्येन जगन्त्यसृज्यन्त, दृष्टवस्तूनि च प्रत्यक्षवस्तुभ्यो नोदपद्यन्तैतद् वयं विश्वासेन बुध्यामहे।
तथापि आकाशात् तोयवर्षणेन नानाप्रकारशस्योत्पत्या च युष्माकं हितैषी सन् भक्ष्यैराननदेन च युष्माकम् अन्तःकरणानि तर्पयन् तानि दानानि निजसाक्षिस्वरूपाणि स्थपितवान्।
तत्र यः सतामसताञ्चोपरि प्रभाकरम् उदाययति, तथा धार्म्मिकानामधार्म्मिकानाञ्चोपरि नीरं वर्षयति तादृशो यो युष्माकं स्वर्गस्थः पिता, यूयं तस्यैव सन्ताना भविष्यथ।
तच्छ्रुत्वा सर्व्व एकचित्तीभूय ईश्वरमुद्दिश्य प्रोच्चैरेतत् प्रार्थयन्त, हे प्रभो गगणपृथिवीपयोधीनां तेषु च यद्यद् आस्ते तेषां स्रष्टेश्वरस्त्वं।
यतः प्राणिगण ईश्वरस्य सन्तानानां विभवप्राप्तिम् आकाङ्क्षन् नितान्तम् अपेक्षते। जीवनदायकस्यात्मनो व्यवस्था ख्रीष्टयीशुना पापमरणयो र्व्यवस्थातो माममोचयत्। अपरञ्च प्राणिगणः स्वैरम् अलीकताया वशीकृतो नाभवत् किन्तु प्राणिगणोऽपि नश्वरताधीनत्वात् मुक्तः सन् ईश्वरस्य सन्तानानां परममुक्तिं प्राप्स्यतीत्यभिप्रायेण वशीकर्त्रा वशीचक्रे।
अनन्तरं नवीनम् आकाशमण्डलं नवीना पृथिवी च मया दृष्टे यतः प्रथमम् आकाशमण्डलं प्रथमा पृथिवी च लोपं गते समुद्रो ऽपि ततः परं न विद्यते। ततः स आत्माविष्टं माम् अत्युच्चं महापर्व्वतमेंक नीत्वेश्वरस्य सन्निधितः स्वर्गाद् अवरोहन्तीं यिरूशालमाख्यां पवित्रां नगरीं दर्शितवान्। सा ईश्वरीयप्रतापविशिष्टा तस्यास्तेजो महार्घरत्नवद् अर्थतः सूर्य्यकान्तमणितेजस्तुल्यं। तस्याः प्राचीरं बृहद् उच्चञ्च तत्र द्वादश गोपुराणि सन्ति तद्गोपुरोपरि द्वादश स्वर्गदूता विद्यन्ते तत्र च द्वादश नामान्यर्थत इस्रायेलीयानां द्वादशवंशानां नामानि लिखितानि। पूर्व्वदिशि त्रीणि गोपुराणि उत्तरदिशि त्रीणि गोपुराणि दक्षिणदिषि त्रीणि गोपुराणि पश्चीमदिशि च त्रीणि गोपुराणि सन्ति। नगर्य्याः प्राचीरस्य द्वादश मूलानि सन्ति तत्र मेषाशावाकस्य द्वादशप्रेरितानां द्वादश नामानि लिखितानि। अनरं नगर्य्यास्तदीयगोपुराणां तत्प्राचीरस्य च मापनार्थं मया सम्भाषमाणस्य दूतस्य करे स्वर्णमय एकः परिमाणदण्ड आसीत्। नगर्य्या आकृतिश्चतुरस्रा तस्या दैर्घ्यप्रस्थे समे। ततः परं स तेग परिमाणदण्डेन तां नगरीं परिमितवान् तस्याः परिमाणं द्वादशसहस्रनल्वाः। तस्या दैर्घ्यं प्रस्थम् उच्चत्वञ्च समानानि। अपरं स तस्याः प्राचीरं परिमितवान् तस्य मानवास्यार्थतो दूतस्य परिमाणानुसारतस्तत् चतुश्चत्वारिंशदधिकाशतहस्तपरिमितं । तस्य प्राचीरस्य निर्म्मितिः सूर्य्यकान्तमणिभि र्नगरी च निर्म्मलकाचतुल्येन शुद्धसुवर्णेन निर्म्मिता। नगर्य्याः प्राचीरस्य मूलानि च सर्व्वविधमहार्घमणिभि र्भूषितानि। तेषां प्रथमं भित्तिमूलं सूर्य्यकान्तस्य, द्वितीयं नीलस्य, तृतीयं ताम्रमणेः, चतुर्थं मरकतस्य, अपरं स्वर्गाद् अवरोहन्ती पवित्रा नगरी, अर्थतो नवीना यिरूशालमपुरी मया दृष्टा, सा वराय विभूषिता कन्येव सुसज्जितासीत्।
सर्षपबीजं सर्व्वस्माद् बीजात् क्षुद्रमपि सदङ्कुरितं सर्व्वस्मात् शाकात् बृहद् भवति; स तादृशस्तरु र्भवति, यस्य शाखासु नभसः खगा आगत्य निवसन्ति; स्वर्गीयराज्यं तादृशस्य सर्षपैकस्य समम्।
इति हेतोरीश्वरस्तान् कुक्रियायां समर्प्य निजनिजकुचिन्ताभिलाषाभ्यां स्वं स्वं शरीरं परस्परम् अपमानितं कर्त्तुम् अददात्।
पूर्व्वम् ईश्वरस्य वाक्येनाकाशमण्डलं जलाद् उत्पन्ना जले सन्तिष्ठमाना च पृथिव्यविद्यतैतद् अनिच्छुकतातस्ते न जानान्ति,
यत ईश्वरेण यद्यत् सृष्टं तत् सर्व्वम् उत्तमं यदि च धन्यवादेन भुज्यते तर्हि तस्य किमपि नाग्राह्यं भवति, यत ईश्वरस्य वाक्येन प्रार्थनया च तत् पवित्रीभवति।
अनन्तरं स स्फटिकवत् निर्म्मलम् अमृततोयस्य स्रोतो माम् अउर्शयत् तद् ईश्वरस्य मेषशावकस्य च सिंहासनात् निर्गच्छति। स पुन र्माम् अवदत्, एतद्ग्रन्थस्थभविष्यद्वाक्यानि त्वया न मुद्राङ्कयितव्यानि यतः समयो निकटवर्त्ती। अधर्म्माचार इतः परमप्यधर्म्मम् आचरतु, अमेध्याचार इतः परमप्यमेध्यम् आचरतु धर्म्माचार इतः परमपि धर्म्मम् आचरतु पवित्राचारश्चेतः परमपि पवित्रम् आचरतु। पश्याहं तूर्णम् आगच्छामि, एकैकस्मै स्वक्रियानुयायिफलदानार्थं मद्दातव्यफलं मम समवर्त्ति। अहं कः क्षश्च प्रथमः शेषश्चादिरन्तश्च। अमुतवृक्षस्याधिकारप्राप्त्यर्थं द्वारै र्नगरप्रवेशार्थञ्च ये तस्याज्ञाः पालयन्ति त एव धन्याः। कुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं। मण्डलीषु युष्मभ्यमेतेषां साक्ष्यदानार्थं यीशुरहं स्वदूतं प्रेषितवान्, अहमेव दायूदो मूलं वंशश्च, अहं तेजोमयप्रभातीयतारास्वरूपः। आत्मा कन्या च कथयतः, त्वयागम्यतां। श्रोतापि वदतु, आगम्यतामिति। यश्च तृषार्त्तः स आगच्छतु यश्चेच्छति स विना मूल्यं जीवनदायि जलं गृह्लातु। यः कश्चिद् एतद्ग्रन्थस्थभविष्यद्वाक्यानि शृणोति तस्मा अहं साक्ष्यमिदं ददामि, कश्चिद् यद्यपरं किमप्येतेषु योजयति तर्हीश्वरोग्रन्थेऽस्मिन् लिखितान् दण्डान् तस्मिन्नेव योजयिष्यति। यदि च कश्चिद् एतद्ग्रन्थस्थभविष्यद्वाक्येभ्यः किमप्यपहरति तर्हीश्वरो ग्रन्थे ऽस्मिन् लिखितात् जीवनवृक्षात् पवित्रनगराच्च तस्यांशमपहरिष्यति। नगर्य्या मार्गमध्ये तस्या नद्याः पार्श्वयोरमृतवृक्षा विद्यन्ते तेषां द्वादशफलानि भवन्ति, एकैको वृक्षः प्रतिमासं स्वफलं फलति तद्वृक्षपत्राणि चान्यजातीयानाम् आरोग्यजनकानि।
किन्त्वस्मासु यो भावीविभवः प्रकाशिष्यते तस्य समीपे वर्त्तमानकालीनं दुःखमहं तृणाय मन्ये। यतः प्राणिगण ईश्वरस्य सन्तानानां विभवप्राप्तिम् आकाङ्क्षन् नितान्तम् अपेक्षते।
पुनश्च, यथा, "हे प्रभो पृथिवीमूलम् आदौ संस्थापितं त्वया। तथा त्वदीयहस्तेन कृतं गगनमण्डलं।
अपरं स्वर्गाद् यस्य रवो मयाश्रावि स पुन र्मां सम्भाव्यावदत् त्वं गत्वा समुद्रमेदिन्योस्तिष्ठतो दूतस्य करात् तं विस्तीर्ण क्षुद्रग्रन्थं गृहाण, तेन मया दूतसमीपं गत्वा कथितं ग्रन्थो ऽसौ दीयतां।
द्वौ चटकौ किमेकताम्रमुद्रया न विक्रीयेते? तथापि युष्मत्तातानुमतिं विना तेषामेकोपि भुवि न पतति। तस्य सहजो योहन्; फिलिप् बर्थलमय् थोमाः करसंग्राही मथिः, आल्फेयपुत्रो याकूब्, युष्मच्छिरसां सर्व्वकचा गणितांः सन्ति। अतो मा बिभीत, यूयं बहुचटकेभ्यो बहुमूल्याः।