प्रथम तीमोथियस्य ५.२२ इति वचने भगवद्वाणी अस्मान् बोधयति यत् हस्तप्रक्षेपणं न कर्तव्यम् आत्मवेगेन। नान्येषां पापेषु भागी भवितव्यम्। पवित्रं जीवनं यापय।
हस्तप्रक्षेपणविषयः न भावुकतायाः विषयः, न च साधारणः कश्चन कर्मकाण्डः। परमेश्वरस्य पवित्रात्मनः पूर्णमार्गदर्शनम् एतस्य आधारः भवेत्। अतः परमं दायित्वं स्वीकृत्य एव हस्तप्रक्षेपणं कर्तव्यम् येन जनस्य जीवनं धन्यं भवेत्।
आशीर्वादप्रदानार्थम्, आध्यात्मिकशक्त्यर्थम्, आरोग्यप्राप्त्यर्थम् च हस्तप्रक्षेपणं क्रियते। ख्रीष्टधर्मानुसारम् इदं प्रतीकात्मकं कर्म यत् पवित्रात्मनः प्रसारणं दर्शयति, ईश्वरेण सह आध्यात्मिकसम्बन्धं च सूचयति।
पुराणनियमे अपि हस्तप्रक्षेपणस्य उल्लेखः दृश्यते। यथा मोशेः हस्तप्रक्षेपणं येशोः उपरि यदा सः इस्राएलीयानां नेतृत्वं कर्तुं गतः आसीत् प्रतिज्ञातभूमिप्राप्त्यर्थम्। नवीननियमे अपि येशुः रोगिणाम् उपरि हस्तप्रक्षेपणं कृतवान् तेषां स्वास्थ्यलाभाय, भूतप्रेतानां निष्कासनाय च।
वास्तविकी शक्तिः परमेश्वरे एव निहिता अस्ति इति सर्वदा स्मर्तव्यम्। हस्तप्रक्षेपणं केवलं माध्यमम् अस्ति येन वयं परमेश्वरस्य उपस्थितेः माध्यमं भवामः अन्येषां जीवने। अतः येन हस्तप्रक्षेपणं क्रियते तेन स्वयं परमेश्वरस्य सम्मुखे स्वीकार्यबलिः भूत्वा उपस्थितव्यम् येन परमेश्वरः तं स्वहस्तेषु माननीययन्त्रत्वेन उपयोगं कर्तुं शक्नोति।
प्राचीनगणहस्तार्पणसहितेन भविष्यद्वाक्येन यद्दानं तुभ्यं विश्राणितं तवान्तःस्थे तस्मिन् दाने शिथिलमना मा भव।
कस्यापि मूर्द्धि हस्तापर्णं त्वरया माकार्षीः। परपापानाञ्चांशी मा भव। स्वं शुचिं रक्ष।
ततः पौलेन तेषां गात्रेषु करेऽर्पिते तेषामुपरि पवित्र आत्मावरूढवान्, तस्मात् ते नानादेशीया भाषा भविष्यत्कथाश्च कथितवन्तः।
अथ सूर्य्यास्तकाले स्वेषां ये ये जना नानारोगैः पीडिता आसन् लोकास्तान् यीशोः समीपम् आनिन्युः, तदा स एकैकस्य गात्रे करमर्पयित्वा तानरोगान् चकार।
किन्तु प्रेरिताभ्यां तेषां गात्रेषु करेष्वर्पितेषु सत्सु ते पवित्रम् आत्मानम् प्राप्नुवन्।
तं दृष्ट्वाहं मृतकल्पस्तच्चरणे पतितस्ततः स्वदक्षिणकरं मयि निधाय तेनोक्तम् मा भैषीः; अहम् आदिरन्तश्च।
अनन्तकालस्थायिविचाराज्ञा चैतैः पुनर्भित्तिमूलं न स्थापयन्तः ख्रीष्टविषयकं प्रथमोपदेशं पश्चात्कृत्य सिद्धिं यावद् अग्रसरा भवाम।
अपरम् यथा स शिशूनां गात्रेषु हस्तं दत्वा प्रार्थयते, तदर्थं तत्समींपं शिशव आनीयन्त, तत आनयितृन् शिष्यास्तिरस्कृतवन्तः।
किन्तु यीशुरुवाच, शिशवो मदन्तिकम् आगच्छन्तु, तान् मा वारयत, एतादृशां शिशूनामेव स्वर्गराज्यं।
ततः स तेषां गात्रेषु हस्तं दत्वा तस्मात् स्थानात् प्रतस्थे।
अतो हेतो र्मम हस्तार्पणेन लब्धो य ईश्वरस्य वरस्त्वयि विद्यते तम् उज्ज्वालयितुं त्वां स्मारयामि।
तदा तस्य पुब्लियस्य पिता ज्वरातिसारेण पीड्यमानः सन् शय्यायाम् आसीत्; ततः पौलस्तस्य समीपं गत्वा प्रार्थनां कृत्वा तस्य गात्रे हस्तं समर्प्य तं स्वस्थं कृतवान्।
अपरञ्च तेषामप्रत्ययात् स विस्मितः कियतां रोगिणां वपुःषु हस्तम् अर्पयित्वा केवलं तेषामारोग्यकरणाद् अन्यत् किमपि चित्रकार्य्यं कर्त्तां न शक्तः।
अपरं तैः सर्पेषु धृतेषु प्राणनाशकवस्तुनि पीते च तेषां कापि क्षति र्न भविष्यति; रोगिणां गात्रेषु करार्पिते तेऽरोगा भविष्यन्ति च।
ततो ऽननियो गत्वा गृहं प्रविश्य तस्य गात्रे हस्तार्प्रणं कृत्वा कथितवान्, हे भ्रातः शौल त्वं यथा दृष्टिं प्राप्नोषि पवित्रेणात्मना परिपूर्णो भवसि च, तदर्थं तवागमनकाले यः प्रभुयीशुस्तुभ्यं दर्शनम् अददात् स मां प्रेषितवान्।
अपरं तेनैतत्कथाकथनकाले एकोऽधिपतिस्तं प्रणम्य बभाषे, मम दुहिता प्रायेणैतावत्काले मृता, तस्माद् भवानागत्य तस्या गात्रे हस्तमर्पयतु, तेन सा जीविष्यति।
अतः स्वानुग्रहकथायाः प्रमाणं दत्वा तयो र्हस्तै र्बहुलक्षणम् अद्भुतकर्म्म च प्राकाशयद् यः प्रभुस्तस्य कथा अक्षोभेन प्रचार्य्य तौ तत्र बहुदिनानि समवातिष्ठेतां।
मम कन्या मृतप्रायाभूद् अतो भवानेत्य तदारोग्याय तस्या गात्रे हस्तम् अर्पयतु तेनैव सा जीविष्यति।
ततो यीशुः करं प्रसार्य्य तस्याङ्गं स्पृशन् व्याजहार, सम्मन्येऽहं त्वं निरामयो भव; तेन स तत्क्षणात् कुष्ठेनामोचि।
तदा तस्यान्धस्य करौ गृहीत्वा नगराद् बहिर्देशं तं नीतवान्; तन्नेत्रे निष्ठीवं दत्त्वा तद्गात्रे हस्तावर्पयित्वा तं पप्रच्छ, किमपि पश्यसि?
स नेत्रे उन्मील्य जगाद, वृक्षवत् मनुजान् गच्छतो निरीक्षे।
ततो यीशुः पुनस्तस्य नयनयो र्हस्तावर्पयित्वा तस्य नेत्रे उन्मीलयामास; तस्मात् स स्वस्थो भूत्वा स्पष्टरूपं सर्व्वलोकान् ददर्श।
तदा लोकैरेकं बधिरं कद्वदञ्च नरं तन्निकटमानीय तस्य गात्रे हस्तमर्पयितुं विनयः कृतः।
ततो यीशु र्लोकारण्यात् तं निर्जनमानीय तस्य कर्णयोङ्गुली र्ददौ निष्ठीवं दत्त्वा च तज्जिह्वां पस्पर्श।
अनन्तरं स्वर्गं निरीक्ष्य दीर्घं निश्वस्य तमवदत् इतफतः अर्थान् मुक्तो भूयात्।
ततस्तत्क्षणं तस्य कर्णौ मुक्तौ जिह्वायाश्च जाड्यापगमात् स सुस्पष्टवाक्यमकथयत्।
इत्थं लोकानां गात्रेषु प्रेरितयोः करार्पणेन तान् पवित्रम् आत्मानं प्राप्तान् दृष्ट्वा स शिमोन् तयोः समीपे मुद्रा आनीय कथितवान्;
अहं यस्य गात्रे हस्तम् अर्पयिष्यामि तस्यापि यथेत्थं पवित्रात्मप्राप्ति र्भवति तादृशीं शक्तिं मह्यं दत्तं।
अनन्तरं यीशु र्द्वादशशिष्यान् आहूयामेध्यभूतान् त्याजयितुं सर्व्वप्रकाररोगान् पीडाश्च शमयितुं तेभ्यः सामर्थ्यमदात्।
ततः परं स द्वादशशिष्यानाहूय भूतान् त्याजयितुं रोगान् प्रतिकर्त्तुञ्च तेभ्यः शक्तिमाधिपत्यञ्च ददौ।
ततः पितरः प्रत्यवदद् यूयं सर्व्वे स्वं स्वं मनः परिवर्त्तयध्वं तथा पापमोचनार्थं यीशुख्रीष्टस्य नाम्ना मज्जिताश्च भवत, तस्माद् दानरूपं परित्रम् आत्मानं लप्स्यथ।
तथा स्वास्थ्यकरणकर्म्मणा तव बाहुबलप्रकाशपूर्व्वकं तव सेवकान् निर्भयेन तव वाक्यं प्रचारयितुं तव पवित्रपुत्रस्य यीशो र्नाम्ना आश्चर्य्याण्यसम्भवानि च कर्म्माणि कर्त्तुञ्चाज्ञापय।
ततः परं प्रेरितानां हस्तै र्लोकानां मध्ये बह्वाश्चर्य्याण्यद्भुतानि कर्म्माण्यक्रियन्त; तदा शिष्याः सर्व्व एकचित्तीभूय सुलेमानो ऽलिन्दे सम्भूयासन्।
स्तिफानोे विश्वासेन पराक्रमेण च परिपूर्णः सन् लोकानां मध्ये बहुविधम् अद्भुतम् आश्चर्य्यं कर्म्माकरोत्।
तदानीं यीशु र्बहिरागत्य महान्तं जननिवहं निरीक्ष्य तेषु कारुणिकः मन् तेषां पीडितजनान् निरामयान् चकार।
तदानीं यीशुस्तौ प्रति प्रमन्नः सन् तयो र्नेत्राणि पस्पर्श, तेनैव तौ सुवीक्षाञ्चक्राते तत्पश्चात् जग्मुतुश्च।
तदानीं स पाणिं प्रसार्य्य तदङ्गं स्पृशन् बभाषे त्वं परिष्क्रियस्वेति ममेच्छास्ति ततस्तत्क्षणं स कुष्ठात् मुक्तः।
इत्युक्त्ता भूमौ निष्ठीवं निक्षिप्य तेन पङ्कं कृतवान्
पश्चात् तत्पङ्केन तस्यान्धस्य नेत्रे प्रलिप्य तमित्यादिशत् गत्वा शिलोहे ऽर्थात् प्रेरितनाम्नि सरसि स्नाहि। ततोन्धो गत्वा तत्रास्नात् ततः प्रन्नचक्षु र्भूत्वा व्याघुट्यागात्।
ततः परं स तस्य दक्षिणकरं धृत्वा तम् उदतोलयत्; तेन तत्क्षणात् तस्य जनस्य पादगुल्फयोः सबलत्वात् स उल्लम्फ्य प्रोत्थाय गमनागमने ऽकरोत्।
पितरस्य गमनागमनाभ्यां केनापि प्रकारेण तस्य छाया कस्मिंश्चिज्जने लगिष्यतीत्याशया लोका रोगिणः शिविकया खट्वया चानीय पथि पथि स्थापितवन्तः।
चतुर्दिक्स्थनगरेभ्यो बहवो लोकाः सम्भूय रोगिणोऽपवित्रभुतग्रस्तांश्च यिरूशालमम् आनयन् ततः सर्व्वे स्वस्था अक्रियन्त।
फलत ईश्वरेण पवित्रेणात्मना शक्त्या चाभिषिक्तो नासरतीययीशुः स्थाने स्थाने भ्रमन् सुक्रियां कुर्व्वन् शैताना क्लिष्टान् सर्व्वलोकान् स्वस्थान् अकरोत्, यत ईश्वरस्तस्य सहाय आसीत्;
तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
पश्चात् जननिवहो बहून् खञ्चान्धमूकशुष्ककरमानुषान् आदाय यीशोः समीपमागत्य तच्चरणान्तिके स्थापयामासुः, ततः सा तान् निरामयान् अकरोत्।
इत्थं मूका वाक्यं वदन्ति, शुष्ककराः स्वास्थ्यमायान्ति, पङ्गवो गच्छन्ति, अन्धा वीक्षन्ते, इति विलोक्य लोका विस्मयं मन्यमाना इस्रायेल ईश्वरं धन्यं बभाषिरे।
तस्मिन् दण्डे यीशूरोगिणो महाव्याधिमतो दुष्टभूतग्रस्तांश्च बहून् स्वस्थान् कृत्वा, अनेकान्धेभ्यश्चक्षुंषि दत्त्वा प्रत्युवाच,
युवां व्रजतम् अन्धा नेत्राणि खञ्जाश्चरणानि च प्राप्नुवन्ति, कुष्ठिनः परिष्क्रियन्ते, बधिराः श्रवणानि मृताश्च जीवनानि प्राप्नुवन्ति, दरिद्राणां समीपेषु सुसंवादः प्रचार्य्यते, यं प्रति विघ्नस्वरूपोहं न भवामि स धन्यः,
अथ ते प्रस्थाय सर्व्वत्र सुसंवादं प्रचारयितुं पीडितान् स्वस्थान् कर्त्तुञ्च ग्रामेषु भ्रमितुं प्रारेभिरे।
तन्नगरस्थान् रोगिणः स्वस्थान् करिष्यथ, ईश्वरीयं राज्यं युष्माकम् अन्तिकम् आगमत् कथामेताञ्च प्रचारयिष्यथ।
अहं युष्मानतियथार्थं वदामि, यो जनो मयि विश्वसिति सोहमिव कर्म्माणि करिष्यति वरं ततोपि महाकर्म्माणि करिष्यति यतो हेतोरहं पितुः समीपं गच्छामि।
किन्तु युष्मासु पवित्रस्यात्मन आविर्भावे सति यूयं शक्तिं प्राप्य यिरूशालमि समस्तयिहूदाशोमिरोणदेशयोः पृथिव्याः सीमां यावद् यावन्तो देशास्तेषु यर्व्वेषु च मयि साक्ष्यं दास्यथ।
तस्मात् सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त आत्मा यथा वाचितवान् तदनुसारेणान्यदेशीयानां भाषा उक्तवन्तः।
पश्य स प्रार्थयते, तथा अननियनामक एको जनस्तस्य समीपम् आगत्य तस्य गात्रे हस्तार्पणं कृत्वा दृष्टिं ददातीत्थं स्वप्ने दृष्टवान्।
यत् परिधेये गात्रमार्जनवस्त्रे वा तस्य देहात् पीडितलोकानाम् समीपम् आनीते ते निरामया जाता अपवित्रा भूताश्च तेभ्यो बहिर्गतवन्तः।
केवलं तान्येव विनान्यस्य कस्यचित् कर्म्मणो वर्णनां कर्त्तुं प्रगल्भो न भवामि। तस्मात् आ यिरूशालम इल्लूरिकं यावत् सर्व्वत्र ख्रीष्टस्य सुसंवादं प्राचारयं।
सर्व्वथाद्भुतक्रियाशक्तिलक्षणैः प्रेरितस्य चिह्नानि युष्माकं मध्ये सधैर्य्यं मया प्रकाशितानि।
यो युष्मभ्यम् आत्मानं दत्तवान् युष्मन्मध्य आश्चर्य्याणि कर्म्माणि च साधितवान् स किं व्यवस्थापालनेन विश्वासवाक्यस्य श्रवणेन वा तत् कृतवान्?
अस्माकं प्रभो र्यीशुख्रीष्टस्य तातो यः प्रभावाकर ईश्वरः स स्वकीयतत्त्वज्ञानाय युष्मभ्यं ज्ञानजनकम् प्रकाशितवाक्यबोधकञ्चात्मानं देयात्।
युष्माकं ज्ञानचक्षूंषि च दीप्तियुक्तानि कृत्वा तस्याह्वानं कीदृश्या प्रत्याशया सम्बलितं पवित्रलोकानां मध्ये तेन दत्तोऽधिकारः कीदृशः प्रभावनिधि र्विश्वासिषु चास्मासु प्रकाशमानस्य
तदीयमहापराक्रमस्य महत्वं कीदृग् अनुपमं तत् सर्व्वं युष्मान् ज्ञापयतु।
अस्माकम् अन्तरे या शक्तिः प्रकाशते तया सर्व्वातिरिक्तं कर्म्म कुर्व्वन् अस्माकं प्रार्थनां कल्पनाञ्चातिक्रमितुं यः शक्नोति
यतोऽस्माकं सुसंवादः केवलशब्देन युष्मान् न प्रविश्य शक्त्या पवित्रेणात्मना महोत्साहेन च युष्मान् प्राविशत्। वयन्तु युष्माकं कृते युष्मन्मध्ये कीदृशा अभवाम तद् युष्माभि र्ज्ञायते।
यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।
अपरं लक्षणैरद्भुतकर्म्मभि र्विविधशक्तिप्रकाशेन निजेच्छातः पवित्रस्यात्मनो विभागेन च यद् ईश्वरेण प्रमाणीकृतम् अभूत्।
वयं यत् पापेभ्यो निवृत्य धर्म्मार्थं जीवामस्तदर्थं स स्वशरीरेणास्माकं पापानि क्रुश ऊढवान् तस्य प्रहारै र्यूयं स्वस्था अभवत।
याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।
तस्मादेव यूयमभद्रा अपि यदि स्वस्वबालकेभ्य उत्तमानि द्रव्याणि दातुं जानीथ तर्ह्यस्माकं स्वर्गस्थः पिता निजयाचकेभ्यः किं पवित्रम् आत्मानं न दास्यति?
यथा पुत्रेण पितु र्महिमा प्रकाशते तदर्थं मम नाम प्रोच्य यत् प्रार्थयिष्यध्वे तत् सफलं करिष्यामि।
यदि मम नाम्ना यत् किञ्चिद् याचध्वे तर्हि तदहं साधयिष्यामि।
तदा पितरो गदितवान् मम निकटे स्वर्णरूप्यादि किमपि नास्ति किन्तु यदास्ते तद् ददामि नासरतीयस्य यीशुख्रीष्टस्य नाम्ना त्वमुत्थाय गमनागमने कुरु।
चतुर्दिक्स्थनगरेभ्यो बहवो लोकाः सम्भूय रोगिणोऽपवित्रभुतग्रस्तांश्च यिरूशालमम् आनयन् ततः सर्व्वे स्वस्था अक्रियन्त।
किन्तु पितरस्ताः सर्व्वा बहिः कृत्वा जानुनी पातयित्वा प्रार्थितवान्; पश्चात् शवं प्रति दृष्टिं कृत्वा कथितवान्, हे टाबीथे त्वमुत्तिष्ठ, इति वाक्य उक्ते सा स्त्री चक्षुषी प्रोन्मील्य पितरम् अवलोक्योत्थायोपाविशत्।
ततः पितरस्तस्याः करौ धृत्वा उत्तोल्य पवित्रलोकान् विधवाश्चाहूय तेषां निकटे सजीवां तां समार्पयत्।
अपरं युष्माकं विश्वासो यत् मानुषिकज्ञानस्य फलं न भवेत् किन्त्वीश्वरीयशक्तेः फलं भवेत्,
तदर्थं मम वक्तृता मदीयप्रचारश्च मानुषिकज्ञानस्य मधुरवाक्यसम्बलितौ नास्तां किन्त्वात्मनः शक्तेश्च प्रमाणयुक्तावास्तां।
युष्मान् अस्मांश्चाभिषिच्य यः ख्रीष्टे स्थास्नून् करोति स ईश्वर एव।
स चास्मान् मुद्राङ्कितान् अकार्षीत् सत्याङ्कारस्य पणखरूपम् आत्मानं अस्माकम् अन्तःकरणेषु निरक्षिपच्च।
किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा
परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।
हे प्रभोः प्रिया भ्रातरः, युष्माकं कृत ईश्वरस्य धन्यवादोऽस्माभिः सर्व्वदा कर्त्तव्यो यत ईश्वर आ प्रथमाद् आत्मनः पावनेन सत्यधर्म्मे विश्वासेन च परित्राणार्थं युष्मान् वरीतवान्
विश्वासरूपम् उत्तमयुद्धं कुरु, अनन्तजीवनम् आलम्बस्व यतस्तदर्थं त्वम् आहूतो ऽभवः, बहुसाक्षिणां समक्षञ्चोत्तमां प्रतिज्ञां स्वीकृतवान्।
किन्तु त्वं सर्व्वविषये प्रबुद्धो भव दुःखभोगं स्वीकुरु सुसंवादप्रचारकस्य कर्म्म साधय निजपरिचर्य्यां पूर्णत्वेन कुरु च।
त्वं यद् असम्पूर्णकार्य्याणि सम्पूरये र्मदीयादेशाच्च प्रतिनगरं प्राचीनगणान् नियोजयेस्तदर्थमहं त्वां क्रीत्युपद्वीपे स्थापयित्वा गतवान्।
अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं।
अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।
युष्माकं कश्चित् पीडितो ऽस्ति? स समितेः प्राचीनान् आह्वातु ते च पभो र्नाम्ना तं तैलेनाभिषिच्य तस्य कृते प्रार्थनां कुर्व्वन्तु।
तस्माद् विश्वासजातप्रार्थनया स रोगी रक्षां यास्यति प्रभुश्च तम् उत्थापयिष्यति यदि च कृतपापो भवेत् तर्हि स तं क्षमिष्यते।
येन यो वरो लब्धस्तेनैव स परम् उपकरोतृ, इत्थं यूयम् ईश्वरस्य बहुविधप्रसादस्योत्तमा भाण्डागाराधिपा भवत।
यो वाक्यं कथयति स ईश्वरस्य वाक्यमिव कथयतु यश्च परम् उपकरोति स ईश्वरदत्तसामर्थ्यादिवोपकरोतु। सर्व्वविषये यीशुख्रीष्टेनेश्वरस्य गौरवं प्रकाश्यतां तस्यैव गौरवं पराक्रमश्च सर्व्वदा भूयात्। आमेन।
यच्च प्रार्थयामहे तत् तस्मात् प्राप्नुमः, यतो वयं तस्याज्ञाः पालयामस्तस्य साक्षात् तुष्टिजनकम् आचारं कुर्म्मश्च।