अन्यस्मै दुःसाध्यसाधनशक्तिरन्यस्मै चेश्वरीयादेशः, अन्यस्मै चातिमानुषिकस्यादेशस्य विचारसामर्थ्यम्, अन्यस्मै परभाषाभाषणशक्तिरन्यस्मै च भाषार्थभाषणसामर्यं दीयते।
हे प्रियतमाः, यूयं सर्व्वेष्वात्मसु न विश्वसित किन्तु ते ईश्वरात् जाता न वेत्यात्मनः परीक्षध्वं यतो बहवो मृषाभविष्यद्वादिनो जगन्मध्यम् आगतवन्तः।
किन्तु सदसद्विचारे येषां चेतांसि व्यवहारेण शिक्षितानि तादृशानां सिद्धलोकानां कठोरद्रव्येषु प्रयोजनमस्ति।
प्राणी मनुष्य ईश्वरीयात्मनः शिक्षां न गृह्लाति यत आत्मिकविचारेण सा विचार्य्येति हेतोः स तां प्रलापमिव मन्यते बोद्धुञ्च न शक्नोति।
ईश्वरस्य वादोऽमरः प्रभावविशिष्टश्च सर्व्वस्माद् द्विधारखङ्गादपि तीक्ष्णः, अपरं प्राणात्मनो र्ग्रन्थिमज्जयोश्च परिभेदाय विच्छेदकारी मनसश्च सङ्कल्पानाम् अभिप्रेतानाञ्च विचारकः।
अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ। मनुजाः किं कण्टकिनो वृक्षाद् द्राक्षाफलानि शृगालकोलितश्च उडुम्बरफलानि शातयन्ति?
हे भ्रातरः, यूयं यद् आत्मिकान् दायान् अनवगतास्तिष्ठथ तदहं नाभिलषामि। अन्यस्मै दुःसाध्यसाधनशक्तिरन्यस्मै चेश्वरीयादेशः, अन्यस्मै चातिमानुषिकस्यादेशस्य विचारसामर्थ्यम्, अन्यस्मै परभाषाभाषणशक्तिरन्यस्मै च भाषार्थभाषणसामर्यं दीयते। एकेनाद्वितीयेनात्मना यथाभिलाषम् एकैकस्मै जनायैकैकं दानं वितरता तानि सर्व्वाणि साध्यन्ते।
तादृशा भाक्तप्रेरिताः प्रवञ्चकाः कारवो भूत्वा ख्रीष्टस्य प्रेरितानां वेशं धारयन्ति। तच्चाश्चर्य्यं नहि; यतः स्वयं शयतानपि तेजस्विदूतस्य वेशं धारयति, ततस्तस्य परिचारका अपि धर्म्मपरिचारकाणां वेशं धारयन्तीत्यद्भुतं नहि; किन्तु तेषां कर्म्माणि यादृशानि फलान्यपि तादृशानि भविष्यन्ति।
अनर्थकवाक्येन कोऽपि युष्मान् न वञ्चयतु यतस्तादृगाचारहेतोरनाज्ञाग्राहिषु लोकेष्वीश्वरस्य कोपो वर्त्तते।
यतः केवलं रक्तमांसाभ्याम् इति नहि किन्तु कर्तृत्वपराक्रमयुक्तैस्तिमिरराज्यस्येहलोकस्याधिपतिभिः स्वर्गोद्भवै र्दुष्टात्मभिरेव सार्द्धम् अस्माभि र्युद्धं क्रियते।
यस्या गणनया तदधिपतीनां बहुधनोपार्जनं जातं तादृशी गणकभूतग्रस्ता काचन दासी प्रार्थनास्थानगमनकाल आगत्यास्मान् साक्षात् कृतवती। सास्माकं पौलस्य च पश्चाद् एत्य प्रोच्चैः कथामिमां कथितवती, मनुष्या एते सर्व्वोपरिस्थस्येश्वरस्य सेवकाः सन्तोऽस्मान् प्रति परित्राणस्य मार्गं प्रकाशयन्ति। सा कन्या बहुदिनानि तादृशम् अकरोत् तस्मात् पौलो दुःखितः सन् मुखं परावर्त्य तं भूतमवदद्, अहं यीशुख्रीष्टस्य नाम्ना त्वामाज्ञापयामि त्वमस्या बहिर्गच्छ; तेनैव तत्क्षणात् स भूतस्तस्या बहिर्गतः।
तव क्रियाः श्रमः सहिष्णुता च मम गोचराः, त्वं दुष्टान् सोढुं न शक्नोषि ये च प्रेरिता न सन्तः स्वान् प्रेरितान् वदन्ति त्वं तान् परीक्ष्य मृषाभाषिणो विज्ञातवान्,
अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।
सावधाना भवत मानुषिकशिक्षात इहलोकस्य वर्णमालातश्चोत्पन्ना ख्रीष्टस्य विपक्षा या दर्शनविद्या मिथ्याप्रतारणा च तया कोऽपि युष्माकं क्षतिं न जनयतु।
तत् सर्व्वं शास्त्रम् ईश्वरस्यात्मना दत्तं शिक्षायै दोषबोधाय शोधनाय धर्म्मविनयाय च फलयूक्तं भवति तेन चेश्वरस्य लोको निपुणः सर्व्वस्मै सत्कर्म्मणे सुसज्जश्च भवति।
अपरं द्वौ त्रयो वेश्वरीयादेशवक्तारः स्वं स्वमादेशं कथयन्तु तदन्ये च तं विचारयन्तु।
अपरं पूर्व्वकाले यथा लोकानां मध्ये मिथ्याभविष्यद्वादिन उपातिष्ठन् तथा युष्माकं मध्येऽपि मिथ्याशिक्षका उपस्थास्यन्ति, ते स्वेषां क्रेतारं प्रभुम् अनङ्गीकृत्य सत्वरं विनाशं स्वेषु वर्त्तयन्ति विनाशकवैधर्म्म्यं गुप्तं युष्मन्मध्यम् आनेष्यन्ति।
प्रातःकाले च नभसो रक्तत्वात् मलिनत्वाञ्च वदथ, झञ्भ्शद्य भविष्यति। हे कपटिनो यदि यूयम् अन्तरीक्षस्य लक्ष्म बोद्धुं शक्नुथ, तर्हि कालस्यैतस्य लक्ष्म कथं बोद्धुं न शक्नुथ?
किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।
तस्मात् पितरोकथयत् हे अनानिय भूमे र्मूल्यं किञ्चित् सङ्गोप्य स्थापयितुं पवित्रस्यात्मनः सन्निधौ मृषावाक्यं कथयितुञ्च शैतान् कुतस्तवान्तःकरणे प्रवृत्तिमजनयत्?
युष्माकं सन्निधौ यः सुसंवादोऽस्माभि र्घोषितस्तस्माद् अन्यः सुसंवादोऽस्माकं स्वर्गीयदूतानां वा मध्ये केनचिद् यदि घोष्यते तर्हि स शप्तो भवतु।
हे भ्रातरो युष्मान् विनयेऽहं युष्माभि र्या शिक्षा लब्धा ताम् अतिक्रम्य ये विच्छेदान् विघ्नांश्च कुर्व्वन्ति तान् निश्चिनुत तेषां सङ्गं वर्जयत च। यतस्तादृशा लोका अस्माकं प्रभो र्यीशुख्रीष्टस्य दासा इति नहि किन्तु स्वोदरस्यैव दासाः; अपरं प्रणयवचनै र्मधुरवाक्यैश्च सरललोकानां मनांसि मोहयन्ति।
ये जना युष्मान् भ्रामयन्ति तानध्यहम् इदं लिखितवान्। अपरं यूयं तस्माद् यम् अभिषेकं प्राप्तवन्तः स युष्मासु तिष्ठति ततः कोऽपि यद् युष्मान् शिक्षयेत् तद् अनावश्यकं, स चाभिषेको युष्मान् सर्व्वाणि शिक्षयति सत्यश्च भवति न चातथ्यः, अतः स युष्मान् यद्वद् अशिक्षयत् तद्वत् तत्र स्थास्यथ।
यतो भाक्तख्रीष्टा भाक्तभविष्यद्वादिनश्च उपस्थाय यानि महन्ति लक्ष्माणि चित्रकर्म्माणि च प्रकाशयिष्यन्ति, तै र्यदि सम्भवेत् तर्हि मनोनीतमानवा अपि भ्रामिष्यन्ते।
यदा लोका युष्मान् भजनगेहं विचारकर्तृराज्यकर्तृणां सम्मुखञ्च नेष्यन्ति तदा केन प्रकारेण किमुत्तरं वदिष्यथ किं कथयिष्यथ चेत्यत्र मा चिन्तयत; यतो युष्माभिर्यद् यद् वक्तव्यं तत् तस्मिन् समयएव पवित्र आत्मा युष्मान् शिक्षयिष्यति।
किन्तु सत्यमय आत्मा यदा समागमिष्यति तदा सर्व्वं सत्यं युष्मान् नेष्यति, स स्वतः किमपि न वदिष्यति किन्तु यच्छ्रोष्यति तदेव कथयित्वा भाविकार्य्यं युष्मान् ज्ञापयिष्यति।
किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।
युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।
अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन् तस्मात् मम यादृशं युद्धं युष्माभिरदर्शि साम्प्रतं श्रूयते च तादृशं युद्धं युष्माकम् अपि भवति। यति वारान् युष्माकं स्मरामि तति वारान् आ प्रथमाद् अद्य यावद् युष्माकं सुसंवादभागित्वकारणाद् ईश्वरं धन्यं वदामि।
अपरं यूयं तस्माद् यम् अभिषेकं प्राप्तवन्तः स युष्मासु तिष्ठति ततः कोऽपि यद् युष्मान् शिक्षयेत् तद् अनावश्यकं, स चाभिषेको युष्मान् सर्व्वाणि शिक्षयति सत्यश्च भवति न चातथ्यः, अतः स युष्मान् यद्वद् अशिक्षयत् तद्वत् तत्र स्थास्यथ।
तर्ह्येकैकस्य कर्म्म प्रकाशिष्यते यतः स दिवसस्तत् प्रकाशयिष्यति। यतो हतोस्तन दिवसेन वह्निमयेनोदेतव्यं तत एकैकस्य कर्म्म कीदृशमेतस्य परीक्षा बह्निना भविष्यति। यस्य निचयनरूपं कर्म्म स्थास्नु भविष्यति स वेतनं लप्स्यते। यस्य च कर्म्म धक्ष्यते तस्य क्षति र्भविष्यति किन्तु वह्ने र्निर्गतजन इव स स्वयं परित्राणं प्राप्स्यति।
अतएव मानुषाणां चातुरीतो भ्रमकधूर्त्ततायाश्छलाच्च जातेन सर्व्वेण शिक्षावायुना वयं यद् बालका इव दोलायमाना न भ्राम्याम इत्यस्माभि र्यतितव्यं,
तत्रस्था लोकाः थिषलनीकीस्थलोकेभ्यो महात्मान आसन् यत इत्थं भवति न वेति ज्ञातुं दिने दिने धर्म्मग्रन्थस्यालोचनां कृत्वा स्वैरं कथाम् अगृह्लन्।
पश्यत, वृकयूथमध्ये मेषः यथाविस्तथा युष्मान प्रहिणोमि, तस्माद् यूयम् अहिरिव सतर्काः कपोताइवाहिंसका भवत।
यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते,
हे भ्रातरो युष्मान् विनयेऽहं युष्माभि र्या शिक्षा लब्धा ताम् अतिक्रम्य ये विच्छेदान् विघ्नांश्च कुर्व्वन्ति तान् निश्चिनुत तेषां सङ्गं वर्जयत च।
युष्माकं मध्ये ज्ञानी सुबोधश्च क आस्ते? तस्य कर्म्माणि ज्ञानमूलकमृदुतायुक्तानीति सदाचारात् स प्रमाणयतु।
अस्माकं प्रभो र्यीशुख्रीष्टस्य तातो यः प्रभावाकर ईश्वरः स स्वकीयतत्त्वज्ञानाय युष्मभ्यं ज्ञानजनकम् प्रकाशितवाक्यबोधकञ्चात्मानं देयात्। युष्माकं ज्ञानचक्षूंषि च दीप्तियुक्तानि कृत्वा तस्याह्वानं कीदृश्या प्रत्याशया सम्बलितं पवित्रलोकानां मध्ये तेन दत्तोऽधिकारः कीदृशः प्रभावनिधि र्विश्वासिषु चास्मासु प्रकाशमानस्य
अतो यूयं विश्वासयुक्ता आध्वे न वेति ज्ञातुमात्मपरीक्षां कुरुध्वं स्वानेवानुसन्धत्त। यीशुः ख्रीष्टो युष्मन्मध्ये विद्यते स्वानधि तत् किं न प्रतिजानीथ? तस्मिन् अविद्यमाने यूयं निष्प्रमाणा भवथ।
तदा स जगाद, सावधाना भवत यथा युष्माकं भ्रमं कोपि न जनयति, खीष्टोहमित्युक्त्वा मम नाम्रा बहव उपस्थास्यन्ति स कालः प्रायेणोपस्थितः, तेषां पश्चान्मा गच्छत।
वयं मृतिजनककर्म्मभ्यो मनःपरावर्त्तनम् ईश्वरे विश्वासो मज्जनशिक्षणं हस्तार्पणं मृतलोकानाम् उत्थानम्
अपरञ्च युष्माकं प्रेम कापट्यवर्जितं भवतु यद् अभद्रं तद् ऋतीयध्वं यच्च भद्रं तस्मिन् अनुरज्यध्वम्।
अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।