प्रिय, भगवद्गीतायां श्रूयते यत् ईश्वरः प्रेमस्य मूलम् अस्ति, यच्च करोति तत् प्रेम्णा प्रेरितम् (यिर्मयाह ३१:३)। भगवान् पापिनो मृत्युं न इच्छति इति अपि श्रूयते।
यहेज्केल ३३:११ इति वचने उक्तम्, "मम जीवनेन शपथं करोमि, सर्वशक्तिमान् प्रभुः वदति, यत् दुष्टस्य मरणं मम न रोचते। किन्तु तस्य आचरणपरिवर्तनं जीवनं च मम रोचते। हे निष्पापाः, दुष्कृत्यं त्यजत! हे इज़रायेल-प्रजाः, कुतः मरणम् इच्छथ?"
किन्तु जागरूकाः भूत्वा प्रार्थनां कुर्मः येन पवित्रात्मा नः पवित्रान् करोति नरकमृत्योश्च मुक्तिं ददाति। मत्ती १०:२८ इति वचने स्मारितम् अस्ति, "ये शरीरस्य प्राणान् हरन्ति, तान् मा भैष्ट। ये तु आत्मनः शरीरस्य च प्राणान् नरके नाशयितुं शक्नुवन्ति, तान् भैष्ट।"
तस्मात् तव दक्षिणं नेत्रं यदि त्वां बाधते, तर्हि तन्नेत्रम् उत्पाट्य दूरे निक्षिप, यस्मात् तव सर्व्ववपुषो नरके निक्षेपात् तवैकाङ्गस्य नाशो वरं।
ये कायं हन्तुं शक्नुवन्ति नात्मानं, तेभ्यो मा भैष्ट; यः कायात्मानौ निरये नाशयितुं, शक्नोति, ततो बिभीत।
ईश्वरः कृतपापान् दूतान् न क्षमित्वा तिमिरशृङ्खलैः पाताले रुद्ध्वा विचारार्थं समर्पितवान्।
कश्चिद् यदि सर्व्वं जगत् प्राप्नोति किन्तु स्वप्राणान् हारयति स्वयं विनश्यति च तर्हि तस्य को लाभः?
रसनापि भवेद् वह्निरधर्म्मरूपपिष्टपे। अस्मदङ्गेषु रसना तादृशं सन्तिष्ठति सा कृत्स्नं देहं कलङ्कयति सृष्टिरथस्य चक्रं प्रज्वलयति नरकानलेन ज्वलति च।
परलोके यतो हेतोस्त्वं मां नैव हि त्यक्ष्यसि। स्वकीयं पुण्यवन्तं त्वं क्षयितुं नैव दास्यसि। एवं जीवनमार्गं त्वं मामेव दर्शयिष्यसि।
यस्य कस्यचित् नाम जीवनपुस्तके लिखितं नाविद्यत स एव तस्मिन् वह्निह्रदे न्यक्षिप्यत।
अतोऽहं त्वां वदामि, त्वं पितरः (प्रस्तरः) अहञ्च तस्य प्रस्तरस्योपरि स्वमण्डलीं निर्म्मास्यामि, तेन निरयो बलात् तां पराजेतुं न शक्ष्यति।
तेषां भ्रमयिता च शयतानो वह्निगन्धकयो र्ह्रदे ऽर्थतः पशु र्मिथ्याभविष्यद्वादी च यत्र तिष्ठतस्तत्रैव निक्षिप्तः, तत्रानन्तकालं यावत् ते दिवानिशं यातनां भोक्ष्यन्ते।
पश्चात् स वामस्थितान् जनान् वदिष्यति, रे शापग्रस्ताः सर्व्वे, शैताने तस्य दूतेभ्यश्च योऽनन्तवह्निरासादित आस्ते, यूयं मदन्तिकात् तमग्निं गच्छत।
यः कश्चिन् मयि न तिष्ठति स शुष्कशाखेव बहि र्निक्षिप्यते लोकाश्च ता आहृत्य वह्नौ निक्षिप्य दाहयन्ति।
ततः स पशु र्धृतो यश्च मिथ्याभविष्यद्वक्ता तस्यान्तिके चित्रकर्म्माणि कुर्व्वन् तैरेव पश्वङ्कधारिणस्तत्प्रतिमापूजकांश्च भ्रमितवान् सो ऽपि तेन सार्द्धं धृतः। तौ च वह्निगन्धकज्वलितह्रदे जीवन्तौ निक्षिप्तौ।
पश्चात् स वामस्थितान् जनान् वदिष्यति, रे शापग्रस्ताः सर्व्वे, शैताने तस्य दूतेभ्यश्च योऽनन्तवह्निरासादित आस्ते, यूयं मदन्तिकात् तमग्निं गच्छत। यतो क्षुधिताय मह्यमाहारं नादत्त, पिपासिताय मह्यं पेयं नादत्त,
अर्थात् मनुजसुतः स्वांयदूतान् प्रेषयिष्यति, तेन ते च तस्य राज्यात् सर्व्वान् विघ्नकारिणोऽधार्म्मिकलोकांश्च संगृह्य यत्र रोदनं दन्तघर्षणञ्च भवति, तत्राग्निकुण्डे निक्षेप्स्यन्ति।
पश्चात् स धनवानपि ममार, तं श्मशाने स्थापयामासुश्च; किन्तु परलोके स वेदनाकुलः सन् ऊर्द्ध्वां निरीक्ष्य बहुदूराद् इब्राहीमं तत्क्रोड इलियासरञ्च विलोक्य रुवन्नुवाच;
पश्चात् स धनवानपि ममार, तं श्मशाने स्थापयामासुश्च; किन्तु परलोके स वेदनाकुलः सन् ऊर्द्ध्वां निरीक्ष्य बहुदूराद् इब्राहीमं तत्क्रोड इलियासरञ्च विलोक्य रुवन्नुवाच; हे पितर् इब्राहीम् अनुगृह्य अङ्गुल्यग्रभागं जले मज्जयित्वा मम जिह्वां शीतलां कर्त्तुम् इलियासरं प्रेरय, यतो वह्निशिखातोहं व्यथितोस्मि।
किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।
अतः स्वकरो यदि त्वां बाधते तर्हि तं छिन्धि; यस्मात् यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, तस्मिन् अनिर्व्वाणानलनरके करद्वयवस्तव गमनात् करहीनस्य स्वर्गप्रवेशस्तव क्षेमं। यदि तव पादो विघ्नं जनयति तर्हि तं छिन्धि, यतो यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, तस्मिन् ऽनिर्व्वाणवह्नौ नरके द्विपादवतस्तव निक्षेपात् पादहीनस्य स्वर्गप्रवेशस्तव क्षेमं। स्वनेत्रं यदि त्वां बाधते तर्हि तदप्युत्पाटय, यतो यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, तस्मिन ऽनिर्व्वाणवह्नौ नरके द्विनेत्रस्य तव निक्षेपाद् एकनेत्रवत ईश्वरराज्ये प्रवेशस्तव क्षेमं।
तेषां यातनाया धूमो ऽनन्तकालं यावद् उद्गमिष्यति ये च पशुं तस्य प्रतिमाञ्च पूजयन्ति तस्य नाम्नो ऽङ्कं वा गृह्लन्ति ते दिवानिशं कञ्चन विरामं न प्राप्स्यन्ति।
हे पितर् इब्राहीम् अनुगृह्य अङ्गुल्यग्रभागं जले मज्जयित्वा मम जिह्वां शीतलां कर्त्तुम् इलियासरं प्रेरय, यतो वह्निशिखातोहं व्यथितोस्मि।
अपरं सिदोमम् अमोरा तन्निकटस्थनगराणि चैतेषां निवासिनस्तत्समरूपं व्यभिचारं कृतवन्तो विषममैथुनस्य चेष्टया विपथं गतवन्तश्च तस्मात् तान्यपि दृष्टान्तस्वरूपाणि भूत्वा सदातनवह्निना दण्डं भुञ्जते।
किन्तु स एकैकमनुजाय तत्कर्म्मानुसारेण प्रतिफलं दास्यति; वस्तुतस्तु ये जना धैर्य्यं धृत्वा सत्कर्म्म कुर्व्वन्तो महिमा सत्कारोऽमरत्वञ्चैतानि मृगयन्ते तेभ्योऽनन्तायु र्दास्यति। अपरं ये जनाः सत्यधर्म्मम् अगृहीत्वा विपरीतधर्म्मम् गृह्लन्ति तादृशा विरोधिजनाः कोपं क्रोधञ्च भोक्ष्यन्ते।
तस्मात् तव दक्षिणं नेत्रं यदि त्वां बाधते, तर्हि तन्नेत्रम् उत्पाट्य दूरे निक्षिप, यस्मात् तव सर्व्ववपुषो नरके निक्षेपात् तवैकाङ्गस्य नाशो वरं। अभिमानहीना जना धन्याः, यतस्ते स्वर्गीयराज्यम् अधिकरिष्यन्ति। यद्वा तव दक्षिणः करो यदि त्वां बाधते, तर्हि तं करं छित्त्वा दूरे निक्षिप, यतः सर्व्ववपुषो नरके निक्षेपात् एकाङ्गस्य नाशो वरं।
किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो भविष्यति।
तर्हि कस्माद् भेतव्यम् इत्यहं वदामि, यः शरीरं नाशयित्वा नरकं निक्षेप्तुं शक्नोति तस्मादेव भयं कुरुत, पुनरपि वदामि तस्मादेव भयं कुरुत।
सङ्कीर्णद्वारेण प्रविशत; यतो नरकगमनाय यद् द्वारं तद् विस्तीर्णं यच्च वर्त्म तद् बृहत् तेन बहवः प्रविशन्ति। अपरं स्वर्गगमनाय यद् द्वारं तत् कीदृक् संकीर्णं। यच्च वर्त्म तत् कीदृग् दुर्गमम्। तदुद्देष्टारः कियन्तोऽल्पाः।
अपरं ये जनाः सत्यधर्म्मम् अगृहीत्वा विपरीतधर्म्मम् गृह्लन्ति तादृशा विरोधिजनाः कोपं क्रोधञ्च भोक्ष्यन्ते। आ यिहूदिनोऽन्यदेशिनः पर्य्यन्तं यावन्तः कुकर्म्मकारिणः प्राणिनः सन्ति ते सर्व्वे दुःखं यातनाञ्च गमिष्यन्ति;
अपरं तव नेत्रं यदि त्वां बाधते, तर्हि तदप्युत्पाव्य निक्षिप, द्विनेत्रस्य नरकाग्नौ निक्षेपात् काणस्य तव जीवने प्रवेशो वरं।
किन्तु यत्र स्थाने रोदनदन्तघर्षणे भवतस्तस्मिन् बहिर्भूततमिस्रे राज्यस्य सन्ताना निक्षेस्यन्ते।
यतः पापस्य वेतनं मरणं किन्त्वस्माकं प्रभुणा यीशुख्रीष्टेनानन्तजीवनम् ईश्वरदत्तं पारितोषिकम् आस्ते।
तदा राजा निजानुचरान् अवदत्, एतस्य करचरणान् बद्धा यत्र रोदनं दन्तैर्दन्तघर्षणञ्च भवति, तत्र वहिर्भूततमिस्रे तं निक्षिपत।
सो ऽपीश्वरस्य क्रोधपात्रे स्थितम् अमिश्रितं मदत् अर्थत ईश्वरस्य क्रोधमदं पास्यति पवित्रदूतानां मेषशावकस्य च साक्षाद् वह्निगन्धकयो र्यातनां लप्स्यते च। तेषां यातनाया धूमो ऽनन्तकालं यावद् उद्गमिष्यति ये च पशुं तस्य प्रतिमाञ्च पूजयन्ति तस्य नाम्नो ऽङ्कं वा गृह्लन्ति ते दिवानिशं कञ्चन विरामं न प्राप्स्यन्ति।
तदा तं दण्डयित्वा यत्र स्थाने रोदनं दन्तघर्षणञ्चासाते, तत्र कपटिभिः साकं तद्दशां निरूपयिष्यति।
तत्सम्बन्धे च स यात्रां विधाय काराबद्धानाम् आत्मनां समीपे वाक्यं घोषितवान्। ते विनावाक्यं योषिताम् आचारेणार्थतस्तेषां प्रत्यक्षेण युष्माकं सभयसतीत्वाचारेणाक्रष्टुं शक्ष्यन्ते। पुरा नोहस्य समये यावत् पोतो निरमीयत तावद् ईश्वरस्य दीर्घसहिष्णुता यदा व्यलम्बत तदा तेऽनाज्ञाग्राहिणोऽभवन्। तेन पोतोनाल्पेऽर्थाद् अष्टावेव प्राणिनस्तोयम् उत्तीर्णाः।
अपरमपि युष्माकम् अस्माकञ्च स्थानयो र्मध्ये महद्विच्छेदोऽस्ति तत एतत्स्थानस्य लोकास्तत् स्थानं यातुं यद्वा तत्स्थानस्य लोका एतत् स्थानमायातुं न शक्नुवन्ति।
अपरं मृत्युपरलोकौ वह्निह्रदे निक्षिप्तौ, एष एव द्वितीयो मृत्युः। यस्य कस्यचित् नाम जीवनपुस्तके लिखितं नाविद्यत स एव तस्मिन् वह्निह्रदे न्यक्षिप्यत।
पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।
अपरञ्च तस्य हस्ते शूर्प आस्ते स स्वशस्यानि शुद्धरूपं प्रस्फोट्य गोधूमान् सर्व्वान् भाण्डागारे संग्रहीष्यति किन्तु बूषाणि सर्व्वाण्यनिर्व्वाणवह्निना दाहयिष्यति।
सो ऽपीश्वरस्य क्रोधपात्रे स्थितम् अमिश्रितं मदत् अर्थत ईश्वरस्य क्रोधमदं पास्यति पवित्रदूतानां मेषशावकस्य च साक्षाद् वह्निगन्धकयो र्यातनां लप्स्यते च।
सङ्कीर्णद्वारेण प्रविशत; यतो नरकगमनाय यद् द्वारं तद् विस्तीर्णं यच्च वर्त्म तद् बृहत् तेन बहवः प्रविशन्ति।
अर्थात् मनुजसुतः स्वांयदूतान् प्रेषयिष्यति, तेन ते च तस्य राज्यात् सर्व्वान् विघ्नकारिणोऽधार्म्मिकलोकांश्च संगृह्य
तस्मिन ऽनिर्व्वाणवह्नौ नरके द्विनेत्रस्य तव निक्षेपाद् एकनेत्रवत ईश्वरराज्ये प्रवेशस्तव क्षेमं।
स्वशरीरार्थं येन बीजम् उप्यते तेन शरीराद् विनाशरूपं शस्यं लप्स्यते किन्त्वात्मनः कृते येन बीजम् उप्यते तेनात्मतोऽनन्तजीवितरूपं शस्यं लप्स्यते।
परन्त्वपवित्रं घृण्यकृद् अनृतकृद् वा किमपि तन्मध्यं न प्रवेक्ष्यति मेषशावकस्य जीवनपुस्तके येषां नामानि लिखितानि केवलं त एव प्रवेक्ष्यन्ति।