स्वप्नानि मानव-अनुभवस्य अभिन्नम् अङ्गम्। पवित्रग्रन्थे, बहूनि स्वप्न-सन्दर्भाणि तेषां च भविष्यसूचक-अर्थानि च प्राप्नुमः। पुराणनियमे योसेफ्-स्वप्नेभ्यः आरभ्य नवीननियमे प्रेरितानां दृष्टिभ्यः यावत्, ईश्वरस्य वचनम् अस्मान् बोधयति यत् स्वप्नानि उपकरणानि भवितुम् अर्हन्ति येषां माध्यमेन ईश्वरः स्वजनैः सह सम्भाषते।
स्वप्नानि प्रायः अस्मान् गभीरतर-चेतना-स्तरे प्रति नयन्ति। तेषां माध्यमेन, ईश्वरः स्वस्य इच्छां प्रकाशयितुम्, मार्गदर्शनं दातुम्, चेतावनीः च प्रेषयितुम् अर्हति। महत्त्वपूर्णं विद्यते यत् स्वप्नानि ईश्वरस्य सम्भाषण-माध्यमम् भवितुम् अर्हन्ति चेत् अपि, अस्माभिः तेषां सन्देशः सम्यक् विवेचनीयः। पवित्रग्रन्थः अस्मान् प्रज्ञावतः भवितुं पवित्रात्मनो मार्गदर्शनं च प्राप्तुं शिक्षयति येन स्वप्नानां सम्यक् व्याख्या भवेत्।
अतः, स्मर यत् स्वप्नानाम् अस्माकं अस्तित्वे ईश्वरेण सह अस्माकं यात्रायां च महत्त्वपूर्णं स्थानम् अस्ति। विश्वासिनः इति, अस्माभिः तस्याः सम्भावनायाः प्रति उन्मुक्ताः भवितव्यम् यत् ईश्वरः स्वप्नैः माध्यमेन सम्भाषितुम् अर्हति। यथा योसेफ् प्रेरिताः च, तथा अस्माभिः स्वप्नेषु प्राप्त-सन्देशानां सम्यक् व्याख्यायै प्रज्ञा याचितव्या। सर्वोपरि, पवित्रात्मनो मार्गदर्शने विश्वासः कर्तव्यः।
इदं ज्ञानम् अस्मान् ईश्वर-अन्वेषणाय, तेन सह घनिष्ठतायै, तस्य इच्छायाः अनुपालने च प्रेरयतु।
स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषीः।
ईश्वरः कथयामास युगान्तसमये त्वहम्। वर्षिष्यामि स्वमात्मानं सर्व्वप्राण्युपरि ध्रुवम्। भाविवाक्यं वदिष्यन्ति कन्याः पुत्राश्च वस्तुतः। प्रत्यादेशञ्च प्राप्स्यन्ति युष्माकं युवमानवाः। तथा प्राचीनलोकास्तु स्वप्नान् द्रक्ष्यन्ति निश्चितं।
वर्षिष्यामि तदात्मानं दासदासीजनोपिरि। तेनैव भाविवाक्यं ते वदिष्यन्ति हि सर्व्वशः।
अपरं देशस्य विपक्षो देशो राज्यस्य विपक्षो राज्यं भविष्यति, स्थाने स्थाने च दुर्भिक्षं महामारी भूकम्पश्च भविष्यन्ति,
एकदा तृतीयप्रहरवेलायां स दृष्टवान् ईश्वरस्यैको दूतः सप्रकाशं तत्समीपम् आगत्य कथितवान्, हे कर्णीलिय।
यत् प्रकाशितं वाक्यम् ईश्वरः स्वदासानां निकटं शीघ्रमुपस्थास्यन्तीनां घटनानां दर्शनार्थं यीशुख्रीष्टे समर्पितवान् तत् स स्वीयदूतं प्रेष्य निजसेवकं योहनं ज्ञापितवान्।
अनन्तरं स माम् अवदत्, वाक्यानीमानि विश्वास्यानि सत्यानि च, अचिराद् यै र्भवितव्यं तानि स्वदासान् ज्ञापयितुं पवित्रभविष्यद्वादिनां प्रभुः परमेश्वरः स्वदूतं प्रेषितवान्।
पश्चाद् हेरोद् राजस्य समीपं पुनरपि गन्तुं स्वप्न ईश्वरेण निषिद्धाः सन्तो ऽन्येन पथा ते निजदेशं प्रति प्रतस्थिरे।
अनन्तरं तेषु गतवत्मु परमेश्वरस्य दूतो यूषफे स्वप्ने दर्शनं दत्वा जगाद, त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं पलायस्व, अपरं यावदहं तुभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशुं नाशयितुं मृगयिष्यते।
अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।
तदनन्तरं प्रभुस्तद्दम्मेषक्नगरवासिन एकस्मै शिष्याय दर्शनं दत्वा आहूतवान् हे अननिय। ततः स प्रत्यवादीत्, हे प्रभो पश्य शृणोमि।
तदा प्रभुस्तमाज्ञापयत् त्वमुत्थाय सरलनामानं मार्गं गत्वा यिहूदानिवेशने तार्षनगरीयं शौलनामानं जनं गवेषयन् पृच्छ;
पश्य स प्रार्थयते, तथा अननियनामक एको जनस्तस्य समीपम् आगत्य तस्य गात्रे हस्तार्पणं कृत्वा दृष्टिं ददातीत्थं स्वप्ने दृष्टवान्।
तदानीम् आकाशमध्ये मनुजसुतस्य लक्ष्म दर्शिष्यते, ततो निजपराक्रमेण महातेजसा च मेघारूढं मनुजसुतं नभसागच्छन्तं विलोक्य पृथिव्याः सर्व्ववंशीया विलपिष्यन्ति।
ततः परमहं सागरीयसिकतायां तिष्ठन् सागराद् उद्गच्छन्तम् एकं पशुं दृष्टवान् तस्य दश शृङ्गाणि सप्त शिरांसि च दश शृङ्गेषु दश किरीटानि शिरःसु चेश्वरनिन्दासूचकानि नामानि विद्यन्ते।
ततः परं मया दृष्टिपातं कृत्वा स्वर्गे मुक्तं द्वारम् एकं दृष्टं मया सहभाषमाणस्य च यस्य तूरीवाद्यतुल्यो रवः पूर्व्वं श्रुतः स माम् अवोचत् स्थानमेतद् आरोहय, इतः परं येन येन भवितव्यं तदहं त्वां दर्शयिष्ये।
ते चतुर्विंशतिप्राचीना अपि तस्य सिंहासनोपविष्टस्यान्तिके प्रणिनत्य तम् अनन्तजीविनं प्रणमन्ति स्वीयकिरीटांश्च सिंहासनस्यान्तिके निक्षिप्य वदन्ति,
हे प्रभो ईश्वरास्माकं प्रभावं गौरवं बलं। त्वमेवार्हसि सम्प्राप्तुं यत् सर्व्वं ससृजे त्वया। तवाभिलाषतश्चैव सर्व्वं सम्भूय निर्म्ममे॥
तेनाहं तत्क्षणाद् आत्माविष्टो भूत्वा ऽपश्यं स्वर्गे सिंहासनमेकं स्थापितं तत्र सिंहासने एको जन उपविष्टो ऽस्ति।
आत्मश्लाघा ममानुपयुक्ता किन्त्वहं प्रभो र्दर्शनादेशानाम् आख्यानं कथयितुं प्रवर्त्ते।
तस्मात् ख्रीष्टहेतो र्दौर्ब्बल्यनिन्दादरिद्रताविपक्षताकष्टादिषु सन्तुष्याम्यहं। यदाहं दुर्ब्बलोऽस्मि तदैव सबलो भवामि।
एतेनात्मश्लाघनेनाहं निर्ब्बोध इवाभवं किन्तु यूयं तस्य कारणं यतो मम प्रशंसा युष्माभिरेव कर्त्तव्यासीत्। यद्यप्यम् अगण्यो भवेयं तथापि मुख्यतमेभ्यः प्रेरितेभ्यः केनापि प्रकारेण नाहं न्यूनोऽस्मि।
सर्व्वथाद्भुतक्रियाशक्तिलक्षणैः प्रेरितस्य चिह्नानि युष्माकं मध्ये सधैर्य्यं मया प्रकाशितानि।
मम पालनार्थं यूयं मया भाराक्रान्ता नाभवतैतद् एकं न्यूनत्वं विनापराभ्यः समितिभ्यो युष्माकं किं न्यूनत्वं जातं? अनेन मम दोषं क्षमध्वं।
पश्यत तृतीयवारं युुष्मत्समीपं गन्तुमुद्यतोऽस्मि तत्राप्यहं युष्मान् भाराक्रान्तान् न करिष्यामि। युष्माकं सम्पत्तिमहं न मृगये किन्तु युष्मानेव, यतः पित्रोः कृते सन्तानानां धनसञ्चयोऽनुपयुक्तः किन्तु सन्तानानां कृते पित्रो र्धनसञ्चय उपयुक्तः।
अपरञ्च युष्मासु बहु प्रीयमाणोऽप्यहं यदि युष्मत्तोऽल्पं प्रम लभे तथापि युष्माकं प्राणरक्षार्थं सानन्दं बहु व्ययं सर्व्वव्ययञ्च करिष्यामि।
यूयं मया किञ्चिदपि न भाराक्रान्ता इति सत्यं, किन्त्वहं धूर्त्तः सन् छलेन युष्मान् वञ्चितवान् एतत् किं केनचिद् वक्तव्यं?
युष्मत्समीपं मया ये लोकाः प्रहितास्तेषामेकेन किं मम कोऽप्यर्थलाभो जातः?
अहं तीतं विनीय तेन सार्द्धं भ्रातरमेकं प्रेषितवान् युष्मत्तस्तीतेन किम् अर्थो लब्धः? एकस्मिन् भाव एकस्य पदचिह्नेषु चावां किं न चरितवन्तौ?
युष्माकं समीपे वयं पुन र्दोषक्षालनकथां कथयाम इति किं बुध्यध्वे? हे प्रियतमाः, युष्माकं निष्ठार्थं वयमीश्वरस्य समक्षं ख्रीष्टेन सर्व्वाण्येतानि कथयामः।
इतश्चतुर्दशवत्सरेभ्यः पूर्व्वं मया परिचित एको जनस्तृतीयं स्वर्गमनीयत, स सशरीरेण निःशरीरेण वा तत् स्थानमनीयत तदहं न जानामि किन्त्वीश्वरो जानाति।
अहं यदागमिष्यामि, तदा युष्मान् यादृशान् द्रष्टुं नेच्छामि तादृशान् द्रक्ष्यामि, यूयमपि मां यादृशं द्रष्टुं नेच्छथ तादृशं द्रक्ष्यथ, युष्मन्मध्ये विवाद ईर्ष्या क्रोधो विपक्षता परापवादः कर्णेजपनं दर्पः कलहश्चैते भविष्यन्ति;
तेनाहं युष्मत्समीपं पुनरागत्य मदीयेश्वरेण नमयिष्ये, पूर्व्वं कृतपापान् लोकान् स्वीयाशुचितावेश्यागमनलम्पटताचरणाद् अनुतापम् अकृतवन्तो दृष्ट्वा च तानधि मम शोको जनिष्यत इति बिभेमि।
स मानवः स्वर्गं नीतः सन् अकथ्यानि मर्त्त्यवागतीतानि च वाक्यानि श्रुतवान्।
किन्तु तदानीं स सशरीरो निःशरीरो वासीत् तन्मया न ज्ञायते तद् ईश्वरेणैव ज्ञायते।
सति सिखरियो यस्यां वेद्यां धूपं ज्वालयति तद्दक्षिणपार्श्वे परमेश्वरस्य दूत एक उपस्थितो दर्शनं ददौ।
ततः परं स्वर्गे महाचित्रं दृष्टं योषिदेकासीत् सा परिहितसूर्य्या चन्द्रश्च तस्याश्चरणयोरधो द्वादशताराणां किरीटञ्च शिरस्यासीत्।
किन्तु स्तिफानः पवित्रेणात्मना पूर्णो भूत्वा गगणं प्रति स्थिरदृष्टिं कृत्वा ईश्वरस्य दक्षिणे दण्डायमानं यीशुञ्च विलोक्य कथितवान्;
पश्य,मेघद्वारं मुक्तम् ईश्वरस्य दक्षिणे स्थितं मानवसुतञ्च पश्यामि।
प्रथमं युष्माभिरिदं ज्ञायतां यत् शेषे काले स्वेच्छाचारिणो निन्दका उपस्थाय
वदिष्यन्ति प्रभोरागमनस्य प्रतिज्ञा कुत्र? यतः पितृलोकानां महानिद्रागमनात् परं सर्व्वाणि सृष्टेरारम्भकाले यथा तथैवावतिष्ठन्ते।
अनन्तरं मयि निरीक्षमाणे मेषशावकेन तासां सप्तमुद्राणाम् एका मुद्रा मुक्ता ततस्तेषां चतुर्णाम् एकस्य प्राणिन आगत्य पश्येतिवाचको मेघगर्जनतुल्यो रवो मया श्रुतः।
त उच्चैरिदं गदन्ति, हे पवित्र सत्यमय प्रभो अस्माकं रक्तपाते पृथिवीनिवासिभि र्विवदितुं तस्य फल दातुञ्च कति कालं विलम्बसे?
ततस्तेषाम् एकैकस्मै शुभ्रः परिच्छदो ऽदायि वागियञ्चाकथ्यत यूयमल्पकालम् अर्थतो युष्माकं ये सहादासा भ्रातरो यूयमिव घानिष्यन्ते तेषां संख्या यावत् सम्पूर्णतां न गच्छति तावद् विरमत।
अनन्तरं यदा स षष्ठमुद्राममोचयत् तदा मयि निरीक्षमाणे महान् भूकम्पो ऽभवत् सूर्य्यश्च उष्ट्रलोमजवस्त्रवत् कृष्णवर्णश्चन्द्रमाश्च रक्तसङ्काशो ऽभवत्
गगनस्थताराश्च प्रबलवायुना चालिताद् उडुम्बरवृक्षात् निपातितान्यपक्कफलानीव भूतले न्यपतन्।
आकाशमण्डलञ्च सङ्कुच्यमानग्रन्थइवान्तर्धानम् अगमत् गिरय उपद्वीपाश्च सर्व्वे स्थानान्तरं चालिताः
पृथिवीस्था भूपाला महाल्लोकाः सहस्त्रपतयो धनिनः पराक्रमिणश्च लोका दासा मुक्ताश्च सर्व्वे ऽपि गुहासु गिरिस्थशैलेषु च स्वान् प्राच्छादयन्।
ते च गिरीन् शैलांश्च वदन्ति यूयम् अस्मदुपरि पतित्वा सिंहासनोपविष्टजनस्य दृष्टितो मेषशावकस्य कोपाच्चास्मान् गोपायत;
यतस्तस्य क्रोधस्य महादिनम् उपस्थितं कः स्थातुं शक्नोति?
ततः परम् एकः शुक्लाश्चो दृष्टः, तदारूढो जनो धनु र्धारयति तस्मै च किरीटमेकम् अदायि ततः स प्रभवन् प्रभविष्यंश्च निर्गतवान्।
अपरं तृतीयदूतेन तूर्य्यां वादितायां दीप इव ज्वलन्ती एका महती तारा गगणात् निपत्य नदीनां जलप्रस्रवणानाञ्चोपर्य्यावतीर्णा।
या दश कन्याः प्रदीपान् गृह्लत्यो वरं साक्षात् कर्त्तुं बहिरिताः, ताभिस्तदा स्वर्गीयराज्यस्य सादृश्यं भविष्यति।
तदा तासु क्रेतुं गतासु वर आजगाम, ततो याः सज्जिता आसन्, तास्तेन साकं विवाहीयं वेश्म प्रविविशुः।
अनन्तरं द्वारे रुद्धे अपराः कन्या आगत्य जगदुः, हे प्रभो, हे प्रभो, अस्मान् प्रति द्वारं मोचय।
किन्तु स उक्तवान्, तथ्यं वदामि, युष्मानहं न वेद्मि।
अतो जाग्रतः सन्तस्तिष्ठत, मनुजसुतः कस्मिन् दिने कस्मिन् दण्डे वागमिष्यति, तद् युष्माभि र्न ज्ञायते।
ततो ऽहम् आत्मनाविष्टस्तेन दूतेन प्रान्तरं नीतस्तत्र निन्दानामभिः परिपूर्णं सप्तशिरोभि र्दशशृङ्गैश्च विशिष्टं सिन्दूरवर्णं पशुमुपविष्टा योषिदेका मया दृष्टा।
तदनन्तरं निरीक्षमाणेन मया श्वेतवर्ण एको मेघो दृष्टस्तन्मेघारूढो जनो मानवपुत्राकृतिरस्ति तस्य शिरसि सुवर्णकिरीटं करे च तीक्ष्णं दात्रं तिष्ठति।
ततः परम् अन्य एको दूतो मन्दिरात् निर्गत्योच्चैःस्वरेण तं मेघारूढं सम्भाष्यावदत् त्वया दात्रं प्रसार्य्य शस्यच्छेदनं क्रियतां शस्यच्छेदनस्य समय उपस्थितो यतो मेदिन्याः शस्यानि परिपक्कानि।
ततस्तेन मेघारूढेन पृथिव्यां दात्रं प्रसार्य्य पृथिव्याः शस्यच्छेदनं कृतं।
ततः परं स्वर्गाद् अवरोहन् एको दूतो मया दृष्टस्तस्य करे रमातलस्य कुञ्जिका महाशृङ्खलञ्चैकं तिष्ठतः।
तेषां भ्रमयिता च शयतानो वह्निगन्धकयो र्ह्रदे ऽर्थतः पशु र्मिथ्याभविष्यद्वादी च यत्र तिष्ठतस्तत्रैव निक्षिप्तः, तत्रानन्तकालं यावत् ते दिवानिशं यातनां भोक्ष्यन्ते।
ततः शुक्लम् एकं महासिंहासनं मया दृष्टं तदुपविष्टो ऽपि दृष्टस्तस्य वदनान्तिकाद् भूनभोमण्डले पलायेतां पुनस्ताभ्यां स्थानं न लब्धं।
अपरं क्षुद्रा महान्तश्च सर्व्वे मृता मया दृष्टाः, ते सिंहासनस्यान्तिके ऽतिष्ठन् ग्रन्थाश्च व्यस्तीर्य्यन्त जीवनपुस्तकाख्यम् अपरम् एकं पुस्तकमपि विस्तीर्णं। तत्र ग्रन्थेषु यद्यत् लिखितं तस्मात् मृतानाम् एकैकस्य स्वक्रियानुयायी विचारः कृतः।
तदानीं समुद्रेण स्वान्तरस्था मृतजनाः समर्पिताः, मृत्युपरलोकाभ्यामपि स्वान्तरस्था मृतजनाः सर्मिपताः, तेषाञ्चैकैकस्य स्वक्रियानुयायी विचारः कृतः।
अपरं मृत्युपरलोकौ वह्निह्रदे निक्षिप्तौ, एष एव द्वितीयो मृत्युः।
यस्य कस्यचित् नाम जीवनपुस्तके लिखितं नाविद्यत स एव तस्मिन् वह्निह्रदे न्यक्षिप्यत।
अपरं नागो ऽर्थतः यो वृद्धः सर्पो ऽपवादकः शयतानश्चास्ति तमेव धृत्वा वर्षसहस्रं यावद् बद्धवान्।
अपरं रसातले तं निक्षिप्य तदुपरि द्वारं रुद्ध्वा मुद्राङ्कितवान् यस्मात् तद् वर्षसहस्रं यावत् सम्पूर्णं न भवेत् तावद् भिन्नजातीयास्तेन पुन र्न भ्रमितव्याः। ततः परम् अल्पकालार्थं तस्य मोचनेन भवितव्यं।
तेषां पतङ्गानाम् आकारो युद्धार्थं सुसज्जितानाम् अश्वानाम् आकारस्य तुल्यः, तेषां शिरःसु सुवर्णकिरीटानीव किरीटानि विद्यन्ते, मुखमण्डलानि च मानुषिकमुखतुल्यानि,
केशाश्च योषितां केशानां सदृशाः, दन्ताश्च सिंहदन्ततुल्याः,
अपरं सर्व्वदेशीयलोकान् प्रतिमाक्षी भवितुं राजस्य शुभसमाचारः सर्व्वजगति प्रचारिष्यते, एतादृशि सति युगान्त उपस्थास्यति।
तदनन्तरं स्वर्गाद् अवरोहन् अपर एको दूतो मया दृष्टः स महापराक्रमविशिष्टस्तस्य तेजसा च पृथिवी दीप्ता।
तस्यास्तै र्यातनाभीते र्दूरे स्थित्वेदमुच्यते, हा हा बाबिल् महास्थान हा प्रभावान्विते पुरि, एकस्मिन् आगता दण्डे विचाराज्ञा त्वदीयका।
मेदिन्या वणिजश्च तस्याः कृते रुदन्ति शोचन्ति च यतस्तेषां पण्यद्रव्याणि केनापि न क्रीयन्ते।
फलतः सुवर्णरौप्यमणिमुक्ताः सूक्ष्मवस्त्राणि कृष्णलोहितवासांसि पट्टवस्त्राणि सिन्दूरवर्णवासांसि चन्दनादिकाष्ठानि गजदन्तेन महार्घकाष्ठेन पित्तललौहाभ्यां मर्म्मरप्रस्तरेण वा निर्म्मितानि सर्व्वविधपात्राणि
त्वगेला धूपः सुगन्धिद्रव्यं गन्धरसो द्राक्षारसस्तैलं शस्यचूर्णं गोधूमो गावो मेषा अश्वा रथा दासेया मनुष्यप्राणाश्चैतानि पण्यद्रव्याणि केनापि न क्रीयन्ते।
तव मनोऽभिलाषस्य फलानां समयो गतः, त्वत्तो दूरीकृतं यद्यत् शोभनं भूषणं तव, कदाचन तदुद्देशो न पुन र्लप्स्यते त्वया।
तद्विक्रेतारो ये वणिजस्तया धनिनो जातास्ते तस्या यातनाया भयाद् दूरे तिष्ठनतो रोदिष्यन्ति शोचन्तश्चेदं गदिष्यन्ति
हा हा महापुरि, त्वं सूक्ष्मवस्त्रैः कृष्णलोहितवस्त्रैः सिन्दूरवर्णवासोभिश्चाच्छादिता स्वर्णमणिमुक्ताभिरलङ्कृता चासीः,
किन्त्वेकस्मिन् दण्डे सा महासम्पद् लुप्ता। अपरं पोतानां कर्णधाराः समूूहलोका नाविकाः समुद्रव्यवसायिनश्च सर्व्वे
दूरे तिष्ठन्तस्तस्या दाहस्य धूमं निरीक्षमाणा उच्चैःस्वरेण वदन्ति तस्या महानगर्य्याः किं तुल्यं?
अपरं स्वशिरःसु मृत्तिकां निक्षिप्य ते रुदन्तः शोचन्तश्चोच्चैःस्वरेणेदं वदन्ति हा हा यस्या महापुर्य्या बाहुल्यधनकारणात्, सम्पत्तिः सञ्चिता सर्व्वैः सामुद्रपोतनायकैः, एकस्मिन्नेव दण्डे सा सम्पूर्णोच्छिन्नतां गता।
स बलवता स्वरेण वाचमिमाम् अघोषयत् पतिता पतिता महाबाबिल्, सा भूतानां वसतिः सर्व्वेषाम् अशुच्यात्मनां कारा सर्व्वेषाम् अशुचीनां घृण्यानाञ्च पक्षिणां पिञ्जरश्चाभवत्।
अपरं निरीक्षमाणेन मया सिंहासनस्य प्राणिचतुष्टयस्य प्राचीनवर्गस्य च परितो बहूनां दूतानां रवः श्रुतः, तेषां संख्या अयुतायुतानि सहस्रसहस्त्राणि च।
अनन्तरं मया मुक्तः स्वर्गो दृष्टः, एकः श्वेतवर्णो ऽश्वो ऽपि दृष्टस्तदारूढो जनो विश्वास्यः सत्यमयश्चेति नाम्ना ख्यातः स याथार्थ्येन विचारं युद्धञ्च करोति।
तस्य नेत्रे ऽग्निशिखातुल्ये शिरसि च बहुकिरीटानि विद्यन्ते तत्र तस्य नाम लिखितमस्ति तमेव विना नापरः को ऽपि तन्नाम जानाति।
स रुधिरमग्नेन परिच्छदेनाच्छादित ईश्वरवाद इति नाम्नाभिधीयते च।
अपरं स्वर्गस्थसैन्यानि श्वेताश्वारूढानि परिहितनिर्म्मलश्वेतसूक्ष्मवस्त्राणि च भूत्वा तमनुगच्छन्ति।
चरमदिनेषु क्लेशजनकाः समया उपस्थास्यन्तीति जानीहि।
ममोपदेशः शिष्टताभिप्रायो विश्वासो र्धर्य्यं प्रेम सहिष्णुतोपद्रवः क्लेशा
आन्तियखियायाम् इकनिये लूस्त्रायाञ्च मां प्रति यद्यद् अघटत यांश्चोपद्रवान् अहम् असहे सर्व्वमेतत् त्वम् अवगतोऽसि किन्तु तत्सर्व्वतः प्रभु र्माम् उद्धृतवान्।
परन्तु यावन्तो लोकाः ख्रीष्टेन यीशुनेश्वरभक्तिम् आचरितुम् इच्छन्ति तेषां सर्व्वेषाम् उपद्रवो भविष्यति।
अपरं पापिष्ठाः खलाश्च लोका भ्राम्यन्तो भ्रमयन्तश्चोत्तरोत्तरं दुष्टत्वेन वर्द्धिष्यन्ते।
किन्तु त्वं यद् यद् अशिक्षथाः, यच्च त्वयि समर्पितम् अभूत् तस्मिन् अवतिष्ठ, यतः कस्मात् शिक्षां प्राप्तोऽसि तद् वेत्सि;
यानि च धर्म्मशास्त्राणि ख्रीष्टे यीशौ विश्वासेन परित्राणप्राप्तये त्वां ज्ञानिनं कर्त्तुं शक्नुवन्ति तानि त्वं शैशवकालाद् अवगतोऽसि।
तत् सर्व्वं शास्त्रम् ईश्वरस्यात्मना दत्तं शिक्षायै दोषबोधाय शोधनाय धर्म्मविनयाय च फलयूक्तं भवति
तेन चेश्वरस्य लोको निपुणः सर्व्वस्मै सत्कर्म्मणे सुसज्जश्च भवति।
यतस्तात्कालिका लोका आत्मप्रेमिणो ऽर्थप्रेमिण आत्मश्लाघिनो ऽभिमानिनो निन्दकाः पित्रोरनाज्ञाग्राहिणः कृतघ्ना अपवित्राः
युष्माकं प्रभुः कस्मिन् दण्ड आगमिष्यति, तद् युष्माभि र्नावगम्यते, तस्मात् जाग्रतः सन्तस्तिष्ठत।
अनन्तरं स्वर्गाद् अवरोहन् अपर एको महाबलो दूतो मया दृष्टः, स परिहितमेघस्तस्य शिरश्च मेघधनुषा भूषितं मुखमण्डलञ्च सूर्य्यतुल्यं चरणौ च वह्निस्तम्भसमौ।
तेन मया दूतस्य कराद् ग्रन्थो गृहीतो गिलितश्च। स तु मम मुखे मधुवत् स्वादुरासीत् किन्त्वदनात् परं ममोदरस्तिक्ततां गतः।
ततः स माम् अवदत् बहून् जातिवंशभाषावदिराजान् अधि त्वया पुन र्भविष्यद्वाक्यं वक्तव्यं।
स स्वकरेण विस्तीर्णमेकं क्षूद्रग्रन्थं धारयति, दक्षिणचरणेन समुद्रे वामचरणेन च स्थले तिष्ठति।
यतो रात्रौ यादृक् तस्करस्तादृक् प्रभो र्दिनम् उपस्थास्यतीति यूयं स्वयमेव सम्यग् जानीथ।
ईश्वरीयादेशं नावजानीत।
सर्व्वाणि परीक्ष्य यद् भद्रं तदेव धारयत।
यत् किमपि पापरूपं भवति तस्माद् दूरं तिष्ठत।
शान्तिदायक ईश्वरः स्वयं युष्मान् सम्पूर्णत्वेन पवित्रान् करोतु, अपरम् अस्मत्प्रभो र्यीशुख्रीष्टस्यागमनं यावद् युष्माकम् आत्मानः प्राणाः शरीराणि च निखिलानि निर्द्दोषत्वेन रक्ष्यन्तां।
यो युष्मान् आह्वयति स विश्वसनीयोऽतः स तत् साधयिष्यति।
हे भ्रातरः, अस्माकं कृते प्रार्थनां कुरुध्वं।
पवित्रचुम्बनेन सर्व्वान् भ्रातृन् प्रति सत्कुरुध्वं।
पत्रमिदं सर्व्वेषां पवित्राणां भ्रातृणां श्रुतिगोचरे युष्माभिः पठ्यतामिति प्रभो र्नाम्ना युष्मान् शपयामि।
अस्माकं प्रभो र्यीशुख्रीष्टस्यानुग्रते युष्मासु भूयात्। आमेन्।
शान्ति र्निर्व्विन्घत्वञ्च विद्यत इति यदा मानवा वदिष्यन्ति तदा प्रसववेदना यद्वद् गर्ब्भिनीम् उपतिष्ठति तद्वद् अकस्माद् विनाशस्तान् उपस्थास्यति तैरुद्धारो न लप्स्यते।
किन्तु हे भ्रातरः, यूयम् अन्धकारेणावृता न भवथ तस्मात् तद्दिनं तस्कर इव युष्मान् न प्राप्स्यति।
अनन्तरं यदा स षष्ठमुद्राममोचयत् तदा मयि निरीक्षमाणे महान् भूकम्पो ऽभवत् सूर्य्यश्च उष्ट्रलोमजवस्त्रवत् कृष्णवर्णश्चन्द्रमाश्च रक्तसङ्काशो ऽभवत्
गगनस्थताराश्च प्रबलवायुना चालिताद् उडुम्बरवृक्षात् निपातितान्यपक्कफलानीव भूतले न्यपतन्।
हे प्रियतमाः, यूयं सर्व्वेष्वात्मसु न विश्वसित किन्तु ते ईश्वरात् जाता न वेत्यात्मनः परीक्षध्वं यतो बहवो मृषाभविष्यद्वादिनो जगन्मध्यम् आगतवन्तः।
अनन्तरं सप्तदूतेन तूर्य्यां वादितायां स्वर्ग उच्चैः स्वरैर्वागियं कीर्त्तिता, राजत्वं जगतो यद्यद् राज्यं तदधुनाभवत्। अस्मत्प्रभोस्तदीयाभिषिक्तस्य तारकस्य च। तेन चानन्तकालीयं राजत्वं प्रकरिष्यते॥
अनन्तरं तस्मिन् जैतुनपर्व्वतोपरि समुपविष्टे शिष्यास्तस्य समीपमागत्य गुप्तं पप्रच्छुः, एता घटनाः कदा भविष्यन्ति? भवत आगमनस्य युगान्तस्य च किं लक्ष्म? तदस्मान् वदतु।
पश्यत स मेघैरागच्छति तेनैकैकस्य चक्षुस्तं द्रक्ष्यति ये च तं विद्धवन्तस्ते ऽपि तं विलोकिष्यन्ते तस्य कृते पृथिवीस्थाः सर्व्वे वंशा विलपिष्यन्ति। सत्यम् आमेन्।
यूयञ्च संग्रामस्य रणस्य चाडम्बरं श्रोष्यथ, अवधद्व्वं तेन चञ्चला मा भवत, एतान्यवश्यं घटिष्यन्ते, किन्तु तदा युगान्तो नहि।
शयतानस्य शक्तिप्रकाशनाद् विनाश्यमानानां मध्ये सर्व्वविधाः पराक्रमा भ्रमिका आश्चर्य्यक्रिया लक्षणान्यधर्म्मजाता सर्व्वविधप्रतारणा च तस्योपस्थितेः फलं भविष्यति;